यज्ञाधिकारः/त्रिंशोऽध्यायः

विकिस्रोतः तः
← एकोनत्रिंशोऽध्यायः यज्ञाधिकारः
त्रिंशोऽध्यायः
[[लेखकः :|]]
एकत्रिंशोऽध्यायः →



श्री वैखानस भगवच्छास्त्रो, भार्गवे
अथ त्रिंशोऽध्यायः
-----------------------------------------------
श्री भूम्योः प्रतिष्ठा

( तथा।ख।) अथ देव्योः श्रियो भूम्योः स्थापना विधिमुत्तमम्
पृथक् पृथक् प्रवक्ष्यामि पूर्वं देवे प्रतिष्ठिते 1
देवीयाक्तमयुक्त वा कौतुकं स्थापयेद्बुधः
औत्सव ञ्च विशेषेण देवीभ्यां स्थापयेत्सह 2
तद्ग्रामस्याभिवृद्ध्यर्थ मुत्सवार्थं विशेषतः
यद्द्रव्येण कृतो देवो देव्यौ तेनैव कारयेत् 3
स्थानके स्थानके देव्यौ चासने वाऽथ केचन
ध्रुवं तदासनं स्याच्चोदौत्सवं स्थानकं तथा 4
कुर्यादत्र च देव्यौस्तु ध्रुवोक्तं चासनं भवेत्
पूर्वोक्तेनैव मार्गेण कारयेद्विधि वत्सुधीः 5
अङ्कुरानर्पयुत्त्वैव प्रमुखे दक्षिणेऽथ वा
यागशाला ञ्च सङ्कल्प्य भूषेयेत्स मलङ्कृतम् 6
सभ्यं तन्मध्यपङ्कौ तु कृत्वा श्रामण काग्निवत्
दक्षिणे धर्मपङ्क्तौ तु बिम्बाध्यर्ध प्रमाणमतः 7
वेदिं कृत्वाऽथ तत्प्रच्यां कुण्डमौपासनं ( तथा।ख।) क्रमात्
कृत्वा श्वभ्र ञ्च तत्प्राच्यां पूर्वोक्तेन प्रमाणतः 8
सोमपक्तौ तु भूम्यार्थं कारयेच्छयनं बुधः
प्राच्यामौपासनं तद्वत्प्राच्यां तच्छ्व भ्रमाचरेत् 9
अधिवासगते देव्यौ समादाय च पूर्ववत्
पश्चिमे यागशालायां ( प्रमुखे।ख।) प्राङ्मुखे स्थापयेत्क्रमात् 10
वास्तुहोम ञ्च पूर्वोक्तं कृत्वा शुद्धि ञ्च पूर्ववत्
समभ्युक्ष्य च सर्वेषु अग्निं संसाधयेत्क्रमात् 11
सङ्गृह्य पूर्ववत्कुम्भे संसाद्य च पृथक् पृधक्
सप्तभिः कलशैर्धीमान् संस्नाप्यैव च पूर्ववत् 12
शयनानि तथाऽऽस्तीर्य शय्यावेद्यां पृथक् पृथक्
तयोः संस्नाप्य पूर्वोक्तं देव्यौ कुम्भं समायुतम् 13
प्रतिसरं बन्धयित्वाऽन्ते प्राक्चिरश्‌शाय येत्क्रमात्
उत्तराच्छादनं कृत्वा परितः प्रावरणं चरेत्। 14
वेद्यामुपरि सम्पूज्य जयादीः क्रमशसस्सुधीः
हौत्रं प्रशंस्य पूर्वोक्तं तत्तदौपासनद्वये। 15
देव्यो स्तन्मूर्तिमन्त्रेण जयादीश्चा वाहयेत्क्रमात्
क्रमेणैवे च निर्वाप्य स्वाहकार ञ्च कारयेत्। 16


दक्षिणे चाग्निकुण्डे तु श्री सूक्तं ( वैष्णर्युतम्।क।) वैष्णवं यजेत्।
जयादिमूर्तिमन्त्रैश्च हुत्वा सम्यक्सु रक्षयेत् 17
उत्तरे चाग्निकुण्डे तु महीसूक्त ञ्च वैष्णवम्
जयादिमूर्तिमन्त्रैश्च हुत्वा व्याहृतिभिः सह। 18
सभ्याग्नौ सर्वदैत्यं शान्तिं हृत्वा च पूर्ववत्
संरक्षेत्सुर्ववत्सभ्यं निशाशेषं नयेत्क्रमात्। 19
स्नात्वा प्रभाते पूर्वोक्तं यागशालां प्रविश्य च
उद्थाप्य चान्यवस्त्रै स्तैरलङ्कृत्यैव पूर्ववत्। 20
गुरुं सम्पूज्य पूर्वोक्तं विसृज्याग्निं तथैव च
तावग्नी सम्यगादाय सभ्याग्नौ योजयेत्क्रमात्। 21
अन्तहोम ञ्च हुत्वाऽन्ते अग्निं सम्यक्प्रगृह्य च
औपाननाग्नौ संयोज्य शान्तिश्चा त्र सुहूयते। 22
मूहूर्ते शुभोदये प्रास्ते कुम्भं सङ्गृह्य पूर्ववत्
देव्योश्चनुगते पश्चाद्गर्भगेहं प्रविश्य च 23
कौतुकाभिमुखे कुम्भे सन्न्यस्य स्थण्डिलोपरि
तत्तन्मन्त्रेण देव्यौ च पार्श्वयोर्दक्षवामयोः 24
कौतुकस्य तु पूर्वोक्तं तत्तत्सूक्तं जपेद्गुरुः
अक्षरान् पूर्ववन्न्यस्य देव्योश्चैवाचले तथा। 25
पूर्वं सम्यक्समावाह्य दीपाद्धीपमिव क्रमात्
आवाहयेत्क्रमादेवं पुण्याहमपि वाचयेत् 26
अर्चनोक्तक्रमेणैव देवीभ्यां सह चाव्ययम्
समभ्यर्च्य च पूर्वोक्तं हविः सम्यङ्नि वेदयेत् 27
सहितं रहितं वाऽथ देवीभ्यां सह चाव्ययम्
स्नापनं बलिबेर ञ्च कारयेत्कर्तुरिच्छया 28
सम्भवेद्यदि जीर्णादिदोषे बिम्बे तु कौतुके
विनैव देव्यै तं त्यक्त्वा शक्तिमुद्वास्य पूर्ववत्। 29
गुरलाघव ( आलोड्य।ख।) मालोक्य दोषाणां शास्त्रवित्तमः
यदि दोषो गुरुर्थीमान् सन्त्यजेत्प्रतिमां तथा 30
सन्धानयोग्यप्रतिमां न त्य जेन्मतिमां स्तथा
(यदि ) त्यजेच्चेत्प्रतिमां मोहात्पापीयान् भवति ध्रुवम्। 31
कृत्वा बेरं ततः पश्चात् ध्रुवादिषु तथैव च
यद्द्रव्येण कृतं पूर्वं तद्द्रव्येण च कारयेत्। 32
अक्ष्युन्मेषणमारभ्य देवीभ्यां सह मन्त्रवित्
न विवाहक्रमश्चात्र स्थापयेत्पूर्व वत्सूधीः। 33
बहुबेरेषु सर्वेषु तत्त्यजेद्दोषज न्तु यत्
कृत्वा बेरं पुनस्तस्माच्छिष्टैस्सार्ध न्तु पूजयेत् 34
चोरैरपहृतं बेरं सम्भवेद्यदि तत्स्वयम्
न त्यजेत्पूर्ववद्धीमान् पश्चादन्ये प्रतिष्ठि ते। 35


स्थानादन्यत्र संस्थाप्य यथालाभं समर्चयेत्
देव्यौ तत्कौतुकं नैव यदि। 36
कारयित्वा न पूर्वोक्तं देव्यौ तु स्थापयेद्बुधः
एवं प्रतिष्ठिते देव्यौ सम्भवेता ञ्च ते यदि 37
दोषहीने यदि तथा ताभ्यां सार्ध ञ्च पूजयेत्
सर्वत्र तुल्यं प्राधान्यं तदेकैकतया तयोः 38
ताभ्यां तत्पूर्वदेवीभ्यां पूजयेत्सह कौतुकम्
प्राणिग्रहणमार्ग ञ्च प्रवक्ष्यामि हरेर्बुधाः 39
सायमर्चावसाने तु देव्यौ सम्यक् प्रणम्य च
विप्रश्चेद्यजमानस्तद्देव्यौ चात्मगृहे तथा।। 40
समानीय सुसंस्थाप्य पूजयेतद्गुरुणाऽत्र वै
पृथक् पृथक् गृहे वाऽथ चालये वा मनोरमे। 41
पूर्ववद्यागशाला ञ्च समलङ्कृत्य मङ्गलम्
निर्गमद्वारपार्श्वे तद्वीथीश्चापि विशोध्य च 42
क्रमुके र्ना?Rळिकेरै र्वा याज्ञिकैर्वा मनोरमैः
अध्यर्धदण्डमानेन डोलाया उदयं चरेत् 43
डोलाय दक्षिणे स्थाप्य श्री देव्यर्थं विशेषतः
मह्यार्थं वामतः स्ताप्य चाग्रान् सु बन्धयेत् 44
आवसत्थ्योपमं  ? चाग्रं समाबद्ध्य च रज्जुवा
कुशपाशेन वा धीमान् ना?Rळिकेरोद्भवेन वा 45
तस्मिन् शेषं समभ्यर्च्य युक्त्या लम्ब समायुतम्
'श्रिये जा' तेति च तौ तु बन्धयेत्सुदृडं नयेत् 46
शेषं तदासने पूज्यं भूषयेत्तमलं कृतम्
स्तम्भेषु दर्भमाला ञ्च वेष्टयेत्तत्प्र दक्षिणम् 47
चम्पकोत्पलमालां चरज्ज्वा तां वेष्टयेत्क्रमात्
गोमयेनोपलिप्यैव पञ्चवर्णैर लङ्कृतम् 48
कृत्वा तयोश्च परितो जयादीरर्चयेत्क्रमात्
शुभे मुहूर्ते सम्प्राप्ते देवदेवं प्रणम्य च 49
गन्धोदकेः सुसंस्नाप्य भूषयेत्सम लङ्कृतम्
अभ्यर्च्य कौतुकं बद्ध्वा देवदेवं प्रणम्य च 50
रथे वा शिबिकायां वा अश्वे वा डोलकेऽथ वा
आरोप्य पूर्ववद्धीमान्‌ सर्वालङ्कार संयुतम् 51
शङ्खकाह?Rळ संयुक्तं नृत्तगैय समायुतम्
स्तोत्रध्वनि समायुक्तं स्वस्तिघोष समयुतम् 52
सम्भारैः सकलैः सार्धं पुष्पवृष्टि समायुतम्
तुरुगैश्च गजैश्चान्यैः सार्धं दीपैस्समावृतम् 53
राजवद्देवमानीय डोलायं सम्प्रवेशयेत्
(पश्चाद्देव्यौ समादाय तत्द्व्यक्त ञ्च डोलयोः आरोप्य तत्तत्सूक्तेन राजकं नैव भायन्‌, सन्निधौ देवदेवस्य


छन्दसां प्रशंस्य च ? पश्चाद्देव्यौ समादाय पूर्ववस्थाने सुसन्न्यसेत्।ग।)
पश्चाद्देव्यौ समादाय पूर्वस्थाने निवेशयेत् 54
यजमानः पत्नीभिः सार्धं पश्चाद्देवं प्रणम्य च
क्षीरेण पादौ प्रक्षा?Rळ्य कुसुमाञ्जलि मुत्सृजेत् 55
अत्र नीराजनं दत्वा प्रणम्यैवानुमान्य च
भक्तैः सर्वजनैः सार्धं गृहं तत्सं प्रवेशयेत् 56
आघार्य दक्षिणे पार्श्वे विष्टरे समलङ्कृते
संस्थाप्य देवदेवेसं प्राङ्मुखं राजवद्गुरुः 57
यजमानः पत्नीभिः सार्धं प्रणम्यैवानुमान्य च
तद्वैखानससूत्रोक्तं मधुपर्क ञ्च दापयेत् 58
जलप्रदानमारभ्य यावत्तद्ध्रुव दर्शनम्
सूत्रोक्तविधिना तावत्कारयेद्विश्वतः क्रियाः 59
गोत्रं तद्देवदेवस्य गुरुगोत्रेण कल्प्य च
देव्योस्तद्यजमानस्य गोत्रेणैव प्रदापयेत्। 60
राजा चेद्यजमानस्तु स्वामिगोत्रेण मन्त्रवित्
विट्छूद्रौ चेद्यजमानः स्वामिहस्तेन दापयेत्। 61
विशेषोऽयमिति प्रोक्तः शिष्टं सूत्रो क्तमार्गतः
कारयेद्विधिना पश्चाद्गुरुं सम्यक् प्रपूजयेत्। 62
तद्विष्णोः स्थापनाग्नि ञ्च समादाय च मन्त्रतः
द्विधाकृत्य च सर्वाङ्गे श्रियर्थं होममाचरेत्। 63
मह्यार्थं चाहरेद्वामे प्रगृह्यत्र गृहे न्यसेत्
क्रियावसाने पूर्वोक्तमग्नि सम्यत्प्रगृह्य च 64
( पूर्वोक्तम्।ग।) पचनालये च पूर्वोक्ते संस्थाप्याग्निं सुरक्षयेत्
ततः प्रभृति नित्याग्नौ पूर्वोक्तं होममाचरेत्। 65
ध्रुवसन्दर्शनान्ता ञ्च क्रियामत्र समाप्य च
आचार्यदक्षिणां दत्वा पुण्याहमपि वाचयेत्। 66
देवीभ्यां सह देवेशं वैवाहिकगृहे तथा
शुद्धस्नान्योक्तमार्गेण दन्धोदैरभि षेचयेत् 67
अन्या सने समारोप्य वस्त्रादैरभिभूष्य च
अष्टोपचारैरभ्यर्च्य राजवद्विग्रहैरपि। 68
हविः पारोक्तमार्गेण ऋत्विग्भिः पाचितौदनम्
यथाशक्ति नेविद्यात्र षड्द्रोणादधिकं परम्। 69
प्रभूतं वा गृहे चात्र मुखवासं प्रदाय च
श्रीगणैः सार्धमव्यग्रमग्निं सम्यक् प्रहृह्य च 70
सर्वालङ्कार संयुक्तं सर्ववाद्य समायुतम्
ग्रामं प्रदक्षिणं कृत्वा चाऽलयं संप्रवैशयेत्। 71
(अन्यसूत्रि।ग।)देवयाने द्विजैः स्पृष्टे पाणिग्रहणकर्मणि
यदि( तत्रास्ति) तेनास्ति दोषश्च तेनैव च समुद्भवः 71


प्रविश्य मन्दिरं पश्चात्संस्नाप्यैव च पूर्ववत्
जीवस्थाने प्रतिष्टाप्य हविः सम्यङ्नि वेदयेत्। 73
विवाहोत्सवमेवं तत्कृतं येन सलक्षणम्
तस्य जन्मकृतं पापं तत् क्षणादेव नश्यति 74
इति श्री वैखानसे भगवच्छास्त्रे( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञआधिकारे श्री भूमिस्थापन विदिर्नाम
त्रिंशोऽध्यायः