यज्ञाधिकारः/एकोनत्रिंशोऽध्यायः

विकिस्रोतः तः
← अष्टाविंशोऽध्यायः यज्ञाधिकारः
एकोनत्रिंशोऽध्यायः
[[लेखकः :|]]
त्रिंशोऽध्यायः →

अथै एकोनत्रिंशोऽध्यायः
रत्नन्यासः

अतः प्रभाते धर्मात्मे स्नात्वा स्नान विधानतः
एकाद्यैश्च सूत्कोक्तसन्ध्यो पासनतर्पणम् 1
ब्रह्मयज्ञ ञ्च कृत्तैव यज्ञशालां प्रविश्य च
प्रणम्य देवदेवेशं प्रणवेन प्रभोधयेत्। 2
विष्णुसूक्तं समुच्चार्य क्रमादुद्धापयेद्धरिम्
विमोच्य वस्त्रमाल्यादीन् वस्त्राद्यैश्च विभूषयेत् 3
पश्चाद्रत्नानि चादाय गर्भगेहं प्रविश्य च
(सप्तविंशोऽध्यायः।ग।)वेदात्तदवटे धीमान् खिलोक्तं सन्न्यसेत्सुधीः 4
समस्थल ञ्च कृत्वाऽत्र धान्यन्यास्तीर्य मन्त्रतः
उदगन्तं नवं वस्त्रं तस्मिन्नुपरि चास्तरेत्। 5
यागशालां प्रविश्याथ देवदेवस्य सन्निधौ
यजमान ऋत्विजा ञ्चैव यथोक्तम दक्षिणां ददेत्। 6
कटकाङ्गुलीयकाद्यैश्च वस्त्रैश्च विविधैरपि
आचार्यं पूजयित्वैव यजमानोऽथ दैववत् 7
दशनिष्क ञ्च वा दद्यात्सोदकं देवसन्निधौ
देवपादस्पृशो भूत्वा जपेयुर्ध्यानतत्पराः 8
श्री सूक्त ञ्च जपेत्पश्चात्त त्पादावनु स्पृशन्
देवस्य दक्षिणे पार्श्वे चोदङ्मुखमतः परम् 9
अल्पदक्षइणयागस्त द्यजमानस्य नाशनम्
तस्माद्यथोक्तं दद्यात्तं पूजयेद्विधिचोदितम् 10
दैवज्ञान् वैष्णवानन्यान् वेदाध्यन पण्डितान्
सर्वानन्यान् विशेषेण पूजयेत्स्वबलार्हकम् 11
पश्चन्मुहुर्ते धर्मात्मा यजमान समन्वितः
मन्त्रिभिः स्थापकैः सार्धं 'भूः प्रप' द्येति मन्त्रतः 12
'न्यानातिरिक्तं यत्सर्वं गृहण परिपूर्णकम्
क्षण' स्वेति प्रणम्यैन कुसुमाञ्जलि मुत्सृजेत् 13
वदैश्च विविधैः सर्वैर्ध्वजपिञ्छादिभिः सह
आयुधैर्मङ्गलैश्चान्यै र्धूपदीप समायुतम्। 14
ब्रह्मघोष समायुक्तं शकुन सूक्त समायुतम्
कुम्भं सङ्गृह्य शिरसा धारयन्नग्रतो व्रजेत्। 15
कौतुकादीं त्समादाय कुम्भस्यानु नयेत्क्रमात्
कृत्वा प्रदक्षिणं धाम प्रविशेदालयं पुनः 16
ब्रह्मस्थाने प्रतिष्ठाप्य कौतुकं वैष्णवेन तु
पार्श्वयोरुभयोर्धेव्यौ स्नापनं दक्षिणे ततः 17
उत्सवं बलिबेर ञ्च स्थापयेच्चोत्तरे तथा


कौतुकप्रमुखे कुम्भं धान्योपरि स लक्षणम्। 18
सन्न्यस्य दक्षिणे पार्श्वे चोत्तराभिमुखो बुधः
स्वस्तिकासनमास्थाय प्राणायामं जपेत्पुनः 19
आत्मसूक्तं जपित्वाऽन्ते मातृकां विधिवन्न्यसेत्
धायन्ते विष्णुसूक्त ञ्च नरसूक्तमतः परम् 20
(देवस्यपादं स्पृष्ट्वैव ध्रुवसूक्तं तथैव च।ग।) देवपादस्पृशो भूत्वा जपेयुर्ध्यान संयुताः
श्री सूक्तं ञ्च जपेत्पश्चा त्तत्त त्पादावनुस्पृशन् 21
ध्रुवस्य दक्षिणे पार्श्वे स्थित्वा चोदङ्मुखोगुरुः
ध्रुवस्य पादौ स्पृष्ट्वैव ध्रुवसूक्तं तथैव च 22
नरसूक्तं वैष्णव ञ्च देव्योरपि तथैव च
परिषदां तत्तन्मन्त्र ञ्च ध्यायन्नेव जपेद्गुरुः 23
कुशकूर्चं समादाय चोत्तराभिमुखो बुधः
अकारं पादयोर्मध्ये आकारं गुल्फयोरपि। 24
इकारं जान्वन्तरे प्रोक्तं गुह्ये चान्यमतः परम्
उकारं जठरे पश्चादूकारं हृदयेऽपि च 25
ऋकारं कण्ठमूले तु अन्यं कण्ठाग्र एव च
ऐकारं दक्षिणे बहौ वामे चान्यमतः परम्। 26
एकारमोष्ठयोर्न्यस्य ऐकारं दन्तयोरपि
ओकारं नासिकाग्रे तु औकारं दृष्टिमध्यमे। 27
अङ्कारं मध्यमे न्यस्य ( आविसर्गस्य।ग।) सविसर्ग ञ्च मूर्धनि
नादयुक्तं सुसन्न्यस्य राजमन्त्रेण वेष्टयेत्। 28
आकारं मस्तकेपश्चादाकारं मुखवृत्तके
इकारं दक्षिणे नेत्रे इकारं वामनेत्रके। 29
उकारं दक्षिणे कर्णे वामे चान्यं तथैव च
ऋकारं दक्षिणपुटे नासिकायश्च वामतः 30
अन्यं तद्गण्डयोः पश्चात् कारौ क्रमेण तु
एकारमुदरे न्यस्य ऐकारं मूर्ध्नि एव च 31
दन्तयोरुबयोः पार्श्वे एकारौकारकौ तथा
शिस्यङ्कारमेव स्याज्ञिह्‌वायां सविसर्गकम्। 32
सर्वरान् क्रमेण विन्यस्य पश्चात्त द्दक्षिणे करे
( कवर्गं दक्षिणे हस्ते चवर्गं वाममेव च।) कवर्गमितरे हस्ते चवर्गं सन्धिषु न्यसेत् 33
टवर्गं दक्षिणे पादे वामपादे तवर्गकम्
पार्श्वयोरुभयोः पश्चात्पकारद्वयमेव च 34
पृष्ठे बरारं जठरे भकार ( गुद एव च।ग।) हृदये ततः
मकारं कुक्षिमध्ये तु यकारं बाहुमूलतः 35
रकारं (लकार ञ्च।) तु गले चैव वामबाहौ वकारकम्
( पाणिस्पृशं शकार ञ्च वामभागे षकारकम्, सकार दक्षिणे पादे हकारं वामपादके, ?Rळकारं जठरे न्यस्य
क्षकारं मूर्ध्नि मध्यमे।) पाणिना स्पृशताधश्च शाकरां वग्रदक्षिणे ? 36


वामभागे षकारं स्याद्धृदयाधूर्ध्वतः क्रमात्
परहस्ते विशेषेण सकारं दक्षिणे पुनः 37
हकारमितरे हस्ते स्पृशता पाणिना बुधः
कूर्चस्याग्रेण पश्चा?Rळ्ळकारं जठरे न्यसेत् 38
क्षकारं मस्तके न्यस्य मूर्थ्नि चान्यं न्यसेत्क्रमात्
वर्णाधिपांस्तान् ध्यत्वैव ( बिन्दुप्रणवसंयुतम्।)सनाद प्रणवैर्युतम्। 39
क्रमेण विन्यसेत्पश्चान्मन्त्रैरङ्गान्त्सु बन्धयेत्
( एकाक्षरदिन्यास ञ्च तत्त्वन्यासमतः परम् ' अष्टाक्षर न्तु विन्यस्य द्वादशं नाम विन्यसेत् पश्चाद्ध्यात्यै व'
अद्यधिकः पाठः ग। आदर्शे।) एकाक्षरं समुच्चार्य मूर्ध्नि मध्ये विशेषतः 40
ललाटे विश्वे निम 'ग्नेति भ्रुवोः प्राण' इति क्रमात्
'वितत्य भाण' मित्युक्त्वा चक्षुषोः श्रोत्रयोरपि। 41
'त्वं वज्रभृद्भू तेत्युक्त्वा 'धाता' नासिकयोरपि
'ऋचो यजूंषि' जिह्वायां 'स ए' षेति च दन्तयोः 42
हन्वोः 'स सर्ववे' त्तेति ओष्ठे सामैश्च सा' मिति
त्व स्त्रीति हृदये नाभ्यां मित्र श्चेति ततः परम् 43
'त्वं विष्णु' रिति गुह्ये च जान्वो 'स्त्वं भूर्भु' वेति च
'य एवं नित्य' मित्युक्त्वा गुल्फयोः पादमध्यमे 44
'बुद्धुमातां परा' ञ्चेति क्रमेणेव ऋचो न्यसेत्
पश्चाद्ध्या त्वैव देवेशं मूर्ध्नि नाभौ च पादयोः 45
'सुवर्भु वर्धु' रित्युक्त्वा क्रमाल्लोकां त्सुसन्न्यसेत्
विश्वरूपं ततो ध्यात्वा वायुबीजेन मन्त्रवित्। 46
क्रमाल्लोकान् त्सुसम्बद्ध्या बीजमाद्यं हृति न्यसेत्
सर्वदेवमयं तत्र हेमाङ्गं सर्वकारणम्। 47
आदिबीजं सुसन्न्यस्य वेष्टयेत्प्रणवेन तम्
पार्श्व योरुभयोर्धेव्यो स्तथा विन्यस्य मातृकाम् 48
तत्तद्बीजं सुसन्न्यस्य हृदये वेष्टयेत्तथा
प्राणायामं ततः कृत्वा देव देवं समीक्ष्य च 49
पुष्पाञ्जलिं विसृज्यैव प्रणम्यै वानुमान्य च
प्रणम्य शक्तिं कुम्भस्था 'मिदं विष्णु' रिति ब्रुवन्। 50
'आयातु भगवा' नित कूर्चेनादाय मस्त्रवित्
कुम्भाच्छक्तिं ध्रुवे पूर्वं 'विष्णुमावाहयामि ' ; 51
( इतमूषज्जलं मूर्ध्नि।ख।) इदं जलं मूर्ध्नि सह स्रावयेन्मतिमान् गुरुः
तस्य पीठस्य परितः प्राच्यां पुरुष ञ्च द्दक्षिणे 52
सत्यं प्रतीच्यां पूर्वोक्तमच्युत ञ्च निरुद्धकम्
उत्तरे सम्यगावाह्य कपिलादीन् यथाक्रमम् 53
पुष्पन्यासोक्तवद्धीमान्मूर्त्या चावाहयेत्क्रमात्
'श्रियमावाहया' मीति पार्श्वे तद्दक्षिणे ततः 54
महीं वामे समावाह्य प्रणम्यैवानुमान्य च


मकारं हृदये न्यस्य ब्रह्मणमपि पूर्ववत् 55
शकारं हृदये न्यस्य रुद्रमावाहयेत्क्रमात्
मकार ञ्च ( भ।ग।) भृकार ञ्च हृदि मुन्योर्यधाक्रमम्‌ 56
सन्न्यस्यैव च मूर्त्या वै मूर्ध्नि चावाहयेत्क्रमात्
'संयुक्तमेत' दित्युक्त्वा न्यसेत्सम्बन्धकूर्चकम्। 57
पूर्वोक्ता नक्षरान् न्नस्य टोक्त्वा वै 'भूरती' ति च
कूर्चं प्रागग्रकं न्यस्य ध्रुवकौतुकमध्यमे 58
कौतुकादुत्तराग्र ञ्च दक्षिणे स्नपनान्तरे
उत्तराग्रमुदीच्यन्तं मध्यमे चोत्सवस्य तु 59
एवं गर्भगृहे चोक्त कूर्चं नै वान्ययोस्तयोः
ध्रुवबेरात्तथा शक्तिं दीपाद्धीपमिव क्रमात्। 60
कौतुके सम्यगावाह्य स्नपने चोत्तवे ततः
ध्यायन्नावाहयेद्विद्वान् ध्रुवात्तत्क्रमशः सुधीः 61
यथा वा गार्हपत्वाग्नेरन्वाहार्ये प्रणीयते,
तस्मादाहवनीये तु नित्यमग्निः प्रणीयते 62
तथैव कौतुकादौ तु सम्यगावाहयेद्ध्रुवात्
प्रागादि परितो वेद्यामिन्द्रादीनां स्वनामतः 63
आवाहये त्तथाऽभ्यर्च्य धात्रादीन् पार्षदान् क्रमात्
तत्तद्भीजं सुसन्न्यस्य महाभूतान्तमेव च 64
आवाहयेद्गुरुर्धीमान् बीजं नैव स्थाले यदि
पादौ प्रक्षा?Rळ्य चाचम्य गर्भगेहं प्रविश्य च 65
?Rसमीक्ष्यदेवदेवेशं प्रणामं कारये त्तथा।
?Rपुण्याहं कारयित्वा ऽन्ते पूजचये दर्चनोक्तवत्
?Rवेदां त्सूत्रपुराणाद्यान् क्रमादध्यापयेत्पुनः 66
?Rपायसान्नं निवेद्यैव होमं हुत्वा बलिं ददेत्
?R( ग।आदर्शेऽधिकः पाठः) बलिबिम्बं समभ्यर्च्य आलयं तत्प्र दक्षिणम् 67
?R( कृत्वा।) स्तुत्वा देवं प्रणम्यैव गुरुं पश्चात्सु पूजयेत्
?Rस्नपनोक्तक्रमेणैव तद्रात्रौ स्नपनं चरेत् 68
?Rप्रतिष्ठान्तोत्सवं पश्चात्तद्दिनस्या पराह्णतः
?Rप्रतिष्ठाया ञ्च सम्भारं यत्सर्वं गुरवे ददेत् 69
?Rअन्यथा चेद्विनश्यन्ति निष्फल्यान्न संशयः
?Rअनुपयुक्त द्रव्याणि पिदध्यादवटे सुधीः 70
?Rशक्यं तत्फलं वक्तुं मया चाप्यमरै रपि
?Rवैकुण्ठस्याधिपो भूत्वा सारूप्यं तत्स्वयं लभेत् 71
?Rइति श्री वैखानसे भगवच्छास्त्रे ( उत्तरतन्त्रे) भृगुप्रोक्तायां संहितायां
?Rयज्ञाधिकारे ( महाप्रतिष्ठा विधिर्नाम एकोनत्रिंशोऽध्यायः।) ध्रुवबेरप्रतिष्ठा विधिर्नाम एकोनत्रिंशोऽध्यायः।