यज्ञाधिकारः/अष्टाविंशोऽध्यायः

विकिस्रोतः तः
← सप्तविंशोऽध्यायः यज्ञाधिकारः
अष्टाविंशोऽध्यायः
[[लेखकः :|]]
एकोनत्रिंशोऽध्यायः →


अथाष्टाविंशोऽध्यायः।
सर्वदेवतार्चनम्।

अथा तः परिवाराणां सर्वेषामपि च क्रमात्
(खिलोक्त।) यथोक्तविधिना विद्वान् होमाद्य ञ्च तथा चरेत्। 1
महावेद्युपरिष्टात्तु शिवानर्चयेद्बुधः
ब्रह्मणं दक्षिणे धीमानुत्तरे शङ्खरं तथा। 2
मार्कण्डेयं (चमाम्।र।ग।) भृगु ञ्चैव दक्षिणोत्तरयोरपि
( भूम्या ञ्च पूजयेत्।) पूजयेद्विधिना विद्वान् ध्यत्वा पूर्वोक्तमार्गतः। 3
द्वारे द्वारे च षड्देवान् प्रागाद्यमभिपूज्य च
मणिक ञ्च तथा सन्ध्यां प्राग्द्वारे सम्यगर्चयेत्। 4
ईशं बलीशं वाग्देवीमर्कं शक्रं श्रियं तथा
आग्नेये पावकं प्राच्यामीशाद्यान् पश्चिमामुखान्। 5
बौमं जगत्भुवं दुर्गां (यमम्।) धर्मं मन्द ञ्च रोहिणीम्
मातॄश्च दक्षिणे पार्श्वे पूजयेदुत्तरामुखान्, 6
(निर् ऋति ञ्च।) नील ञ्चैव महाका?Rळिं पुरुषं वरुणं क्रमात्
बुधं ज्येष्ठा ञ्च पुल्ल ञ्च वायुं वै प्राङ्मुखांस्तथा 7
शुक्रं मुनींश्च भृग्वादीन् गङ्गां धन्यं निशापतिम्
पञ्चभूतानि ( प्रागन्तं दक्षिणाभिमुखान् क्रमात्।) शान्त ञ्च प्रागन्तं दक्षिणामुखान् 8
समभ्यर्च्य च न्यक्षादीन् प्रागाद्यं चोत्तरान्तकम्
विकटं नागराज ञ्च प्राग्द्वारे क्रमशोऽर्चयेत् 9
द्वारस्याभिमुखे बाह्ये अनपायिगणान् क्रमात्
ध्यात्वैव पूर्ववन्तन्त्री पूजयेदष्टविग्रहैः 10
यस्यां दिशि विमानं स्याद्ध्वारं तत्र प्रकल्पितम्
( तद्दिग्द्वारम्।) तत्तद्दिश्यवसानं स्यात् स्थानं तदनपायिनाम् 11
भूतादि पूजयेत्तत्र तत्तद्ध्यान समायुतः
तत्तद्दि ( द्वारस्थानं ।ग।सूत्रोक्तम्।) गवसान ञ्च नाम्ना वै अनपायिनाम् 12
पश्चाद्धोतारमाहूय वस्त्राद्यैरभिपूज्य च
अध्यर्युश्च तथा सभ्ये पूर्ववत्परिषेचनम्‌ 13
हुत्वैव वैष्णवं पश्चाद्धोतरेहि वदने पुनः
पश्चिमाभिमुखस्तिष्ठन् होता सभ्यस्य पूर्वतः 14
'अध्वर्वो देव' तेत्युक्त्वा पुनराचम्य पूर्ववत्
'नमः प्रवक्त्र' इत्यादि ( प्रबोद्य।ख।) पूर्वोक्तं सम्प्रशंसयेत् 15
'ब्राह्मण भार' तेत्यन्तमुक्त्वैवाग्निं प्र ( प्रबोद्य)तोष्य च
ब्राह्मणो यजमानश्चेत्प्रवरं तस्य शंसयेत् 16
क्षत्रियश्चेत्क्रमेणैवे पुरोहित प्रवरं वदेत्
पुरोहित प्रवरं वाऽथ गुरोः प्रवरमेव वा 17


विट्छूद्रयोः क्रमेणैवं ग्रामश्चेत्कश्यपस्य तु
( प्रवरम्।) हौत्रं प्रशंसयेद्विद्वान् गुरुप्रवरमेव ( च।ख।) वा 18
'इदं विष्णुर्विचक्र' मेति तस्यान्ते पश्चिमामुखः
'आयातु भगवा' निति मूर्तिमन्त्रैरनु क्रमात् 19
'विष्णुमावाहया' मीति भूतपर्यन्तमेव च
आवाहयेत्तथा होता चतुर्भिर्मूर्तिभिः क्रमात् 20
निर्वाप ञ्च तथाऽध्वर्युः स्वोहाकार ञ्च कारयेत्
प्रज्वाल्य वैष्णवं पश्चा द्यजेद्व्याहृतिभिः सह 21
आदौ निश्चित्य पूजायां नवधोक्तं यथाबलम्
तथोक्तपरिषदां केचत्काले ( वाचःग।) वा सम्प्रशंसयेत् 22
परिषिच्य पूर्ववत्सभ्यं पलाशेध्यान् घृताप्लुतान्
'नारायणाय वि' द्मेति वैष्णवं जुहुयात्क्रमात् 23
विष्णोर्नुकाद्यैर्मन्त्रैश्च षड्भिस्तद्वैष्णवैः सह
श्री सूक्त ञ्च महीसूक्तं यजेन्मन्त्रैरनु क्रमात् 24
षड्भिः त' त्स्वस्ति चै' वेति महाव्याहृतिभिः सह
पञ्चवारुणमन्त्रैश्च जुहुयात्तज्जयांस्तथा 25
अभ्यातानांश्च हुत्वाऽन्ते राष्ट्रभृन्मन्त्रमेव च
यद्देवाद्यैश्च कूश्माण्डैस्तत्त द्देवमनुस्मरन् 26
'ब्रह्म बज्ञान ' मित्यादि 'ये भू ' तेत्यवसानकम्
खिलोक्तं जुहुयान्मन्त्रान् सर्वदैवत्यमेव च 27
 अथ वा तद्विमानोक्त नवमार्ग, स्थपार्षदान्
मन्त्रांस्तान् जुहुयान्मन्त्री घृतेन विधिना क्रमात् 28
वैष्णवैर्मूर्तिभिश्चाऽत्र मन्त्रो यस्य न विद्यते
जुहुयात्तस्य तस्यैव नारायण मनुस्मरन् 29
अग्निमाहवनीय ञ्च परिषिच्य च मन्त्रवित्
वैष्णवं ( रात्रि।) नरसूक्त ञ्च जुहुयाद्देवमनुस्मरन् 30
ब्राह्म ञ्च विष्णुसूक्त ञ्च अन्वाहार्यं विशेषतः
मध्ये तु गार्हपत्यस्य ( देवदेवस्य मन्त्रतः) देव्योर्मन्त्र ञ्च वैष्णवम्। 31
रौद्रमन्त्रद्वयेनापि कौबेरं मन्त्रमेव च
जुहुयादावसत्थ्याग्नौ दशकृत्वोऽथ वा पुनः 32
पयोदधिघृतैर्युक्तं सलाजं वैष्णवैरपि
क्रमेण जुहुयाद्विद्वान् सर्वाग्नौ मुष्टिमात्रतः 33
जुहूयात्पौण्डरीकाग्ना वतो देवादि वैष्णवम्
नरसूक्तं विष्णुसूक्तं पारमात्मिकमेव च 34
श्वेतपद्मदलैर्युक्तं घृतमाप्लुत्य मन्त्रवित्।
ध्यात्वैव मनसा देवं जुहुयात्क्रमशःसुधीः। 35
इन्द्रादीना ञ्च होमेषु तत्तन्मन्तैः पृथक् पृथक्
घृतेन जुहूयान्मन्त्री तत्तद्देवमनुस्मरन् 36


सभ्य ञ्च पौण्डरीक ञ्च सर्वाग्निषु विना बुधः
सूत्रोक्तमन्तहोम ञ्च जुहुयात्क्रमशो बुधः 37
अच्छिन्नं रक्षयेदग्निं गेयनृत्तादिभिः क्रमात्
वेदघोष समायुक्तं रात्रिशेषं नयेत्क्रमात्। 38
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहातायां यज्ञाधिकारे
(सप्तविंशोऽध्यायः।ग।) परिवारार्चन विधिर्नामष्टाविंशोऽध्यायः।