सामग्री पर जाएँ

यज्ञाधिकारः/त्रयोविंशोऽध्यायः

विकिस्रोतः तः
← द्वाविंशोऽध्यायः यज्ञाधिकारः
त्रयोविंशोऽध्यायः
[[लेखकः :|]]
चतुर्विंशोऽध्यायः →


अथ त्रयोविंशोऽध्यायः
---------------------
भगवत्प्रष्ठाविधिः।

(वक्ष्‌यामि देवदेवस्य।ग।) अथ वक्ष्यामि दवस्य स्थापनावधिमुत्तमम्
अयने चोत्तरे प्रोक्तमथवा दक्षिणे चरेत्। 1
मार्गशीर्षमथा षाडं माघप्रोष्ठपदौ विना
मासेषु पाल्गुनं श्रेष्ठं (चैत्रवैशाखयोरपि।) चैत्रो वैशाख ए वा 2
अधमं कृत्तिकामासं शेषमासाश्च मध्यमम्
(अथ वा पित्र ?।)निन्दि तेष्वपि मासेषु प्रायश्चित्तादिकं चरेत्। 3
श्रवणं वारुणं हस्तं रेवती च पुनर्वसू
स्वात्यमाराधकश्चैव तिष्य (पितृ।) श्चित्राश्वयुक्तथा। 4
उत्तरात्रयरोहिण्यो ग्राह्यः सम्यग्विशेषतः
शुक्लपक्षे विशेषेण (कृष्णे।) काले वा पञ्चमीगतम्। 5
षष्ठी च पञ्चमी ग्राह्या विष्टिभाग विवर्जिता
स्थिरराशिः सुसङ्ग्राह्यः न ग्राह्यं चरराशिकम्। 6
केचनोभयराशौ वा त्वरिते तु शुभेदये
गुरुशुक्रबुधेन्दूनां शुभवारं समाहरेत्। 7
(पुब्बा।ग।)पूर्ववत्रयमथा र्द्रा ञ्च मघां मूल ञ्च कृत्तिकाम्
(ज्येष्ठा ञ्चैव) ज्येष्ठाऽश्रेषौ विवर्ज्यैव (मन्दाङ्गारौ।)मन्दाऽरौ च विवर्जितौ 8
चतुर्थीं चाष्टमी ञ्चैव नवमी ञ्च चतुर्दशीम्
अमावास्यां पौर्णमासीं सायं चैवापराह्णकम्। 9
विवर्ज्यैव च रात्रि न्तु पूर्वाह्णे सम्यगाचरेत्
उल्कापाते व्यतीपाते भूकम्पेऽशनिपातके। 10
अन्यदोषेण संयुक्तं दिनं संवर्जयेत्सुधीः
आचार्यवरणम्।
वैखानसेन सूत्रेण श्रौतस्मार्तक्रियान्वितान्। 11
विप्रान् वेदविधः शुद्धान् वैष्णवान् ज्ञानतत्परान्
पारंपर्यागतान् शिष्टान् नित्यहोम परायणान्। 12
कल्पमन्त्रप्रयोगज्ञान् दोषैरन्यैर्वि वर्जितान्
सुमनस्कान् समाहूय सर्वकार्यं (नियोजयेत्) निवेदयेत् 13
तथैव गुणसम्पन्नान् वरयेदृत्विजोऽर्चकान्
तेषां ज्ञानोत्कटं दक्षं सर्वेषामपि सम्मतम्। 14
सर्वलक्षण सम्पन्नमेकं वै वरयेद्गुरुम्।
(गुरुर्गोप्ता गुरुर्भर्ता गुरुर्माता गुरुः पिता। 15
गुरुर्नारायणो देवस्तस्य यद्वरणं गरु) :
बधिरान् कुनखानन्धान् कुष्ठोन्मत्तादिरोगिणः। 16


हीनाङ्गानतिरिक्ताङ्गान् शिपिविष्टाद्य लक्षणान् ?
पत्न्यपत्याग्नि रहितानतिवृद्धाति बलकान्। 17
विरूपानन्यदीक्षांश्च वर्जयेत्प्रथमे सुधीः
(अथा ऽचार्यः प्रसन्नात्या गौरवेण नियन्त्रितः) 18
सविधिं मनसा ज्ञात्वा शिष्टानुग्रहतत्परः
स्नात्वा निर्वन्त्य नित्यानि सम्भारानपि सम्भरेत् 19
क्रियासरली
वक्ष्यामि नवबिम्बानां नयनोन्मीलनं क्रमात्।
प्रतिष्ठादिवसात्पूर्वं नवमे वाऽथ सप्तमे 20
पञ्चमे वा तृतीये वा द्वितीये वाऽप्यमन्त्रकम्
शिल्पिना कारयित्वा तु शुद्धि ञ्चैवात्र कारयेत् 21
(अर्कश्च) अर्कारराहुसौराणामुदयं हित्वाद्विलोचने
शुभर्क्षे मन्त्रवद्विद्वान् कारये दक्षिणोचनम् 22
कौतुकादिषु बेरेषु (उत्सवादि।) लोहितेषु ततो बुधः।
पूर्वेद्युस्तद्दिने वाऽथ पीठसङ्घात माचरेत् 23
आलयाभिमुखे वाऽथ यजमानगृहेऽथ वा
कर्ममण्डपमध्ये वाऽप्यन्य देवालयेऽथ वा 24
गोमयेनोपलिप्यैव पञ्चवर्णै रलङ्कृतम्।
धान्येन स्थण्डिलं कृत्वा पीठं मध्ये सुसन्न्यसेत् 25
(धात्रादीशान।) धात्रादिभूतपर्यन्तमवटं कारयेद्बुधः।
पीठस्य दक्षिणे भागेऽप्याचार्मश्चोत्तरामुखः 26
तस्य पश्चिमभागे तु किञ्चद्दूरं समाशिरतः।
धृतोर्ध्वपुण्ड्रोपवीतः स्थपतिः प्राङ्मुखःस्थितः 27
पवित्रं मनसा ध्यात्वा देवेश ञ्च पुनर्गरुः
(एकजामसमासीनःध्यात्वा प्राङ्मुखमासयेत्।ग।)एकजानुसमासीनः ध्यात्वा प्राङ्मुख मासयेत् 28
(पञ्च।) फश्चाद्रत्नां त्समादाय (तस्मिन्निधिमुपस्मरेत्।)अधिपास्तेषु संस्मरेत्।
पीठोपरि च दिक्पालान् (तत्तन्नाम्ना समर्चयेत्।)धातारं चार्चयेत्क्रमात् 29
ब्रह्मस्थाने ब्रह्ममणिमैन्द्रे वज्रमणिं न्यसेत्।
आग्नेय्यां मौक्तिकं याम्ये वैडूर्यं नैर् ऋते बुधः 30
शङ्खजं वारुणे मन्त्री स्फाटिकं पुष्यकान्तकम्।
वायव्ये जन्द्रकान्त ञ्च सौम्ये (तं नीलजं न्यसेत्।) नीलं ततोपरि ? 31
(तत्तत्।)तद्दिग्दैवत्य (मन्त्रान्तम्।ख।) मन्त्रांश्च जप्त्वोपांशु न्य सेद्गुरुः
रत्नालाभे यथालाभं सौवर्णं वाऽथ निक्षिपेत् 32
पश्चाद्देवं समभ्यर्च्य 'भूरसीति' जपन् गुरुः।
प्रतिष्टाप्य समस्कृत्य आहूय स्थपतिं पुनः 33
पीठस्योपरि देवेशं स्थपतिश्चार्च येत्पुनः।
सूत्रान् प्रसार्य स्वस्थाने स्थापयेत्प्रतिमाः पुनः 34
गुरुः परीक्ष्य सुदृढं कृत्वा यन्त्रेण बुद्धिमान्।


शिल्पिन ञ्च प्रपूज्यैव तं विसृज्य पुनर्गुरुः
गव्याद्यैरभिषिञ्च्यैव आहरेत्प्रतिमां पुनः
आलयाभिमुखे पीठे स्थापयेत्प्राङ्मुखं हरिम् 36
आचार्यः सुप्रसन्नात्मा यजमानेन ऋत्विजः।
(स्नात्वा स्नान।ग।) सार्धं स्नात्वा विधानेन ब्रह्मयज्ञ ञ्च कारयेत्
आलयाभिमुखे वाऽथ दक्षिणे वा मनोरमे। 37
प्रपां वा मण्डपं वाऽथ कृत्वाऽलङ्कृत्य पूर्ववत्
औपासनाग्निगुण्ड ञ्च कृत्वा (आघारं विचक्षणः।)मध्ये सलक्षणम्। 38
तस्यैवोत्तरतः पार्श्वे भूमियज्ञं यजेत्क्रमात्
पर्यग्निं कारयित्वा (तु तत्तद्बीजं सुसन्न्यसेत्।) तद्बिम्बस्यातिव पार्श्वतः। 39
हिरण्यपवमानाद्यैः समभ्युक्ष कुशोदकैः
संस्थाप्य समलङ्कृत्य वस्त्रैराद्यैर्नवैस्तथा। 40
औपासनाग्नौ विधिवत्प्रतिष्ठाप्य च पावकम्
आघारं वैष्णवं हुत्वा तस्य पश्चिम पार्श्वतः। 41
स्थण्डिलं कारयित्वा तु नववस्त्रेण चास्तरेत्
आदाय देवं संस्थाप्य स्थण्डिले प्राङ्मुखं प्रभुम्। 42
वैष्णवं विष्णुसूक्त ञ्च ब्राह्मं रौद्रं क्रमाद्बुधः
श्री सूक्त ञ्च हुत्वाऽन्ते मौलिमालादिकं क्रमात्। 43
हुत्वा गुरुस्तन्मान्त्रान्ते तत्तदङ्गं स्पृशेद्बुधः
खरशृङ्गान् त्सुवर्णेन समाबद्द्य सवत्सकाम्। 44
गामेगं वै सुसंस्थाप्य देवस्याभिमुखे शुभाम्
घृतं मधु दधि क्षीरं प्रस्थमात्रादहीनकम्। 45
सौवर्णे राजते ताम्रे कांस्यपात्रे(सहायके।ग।) सहाटके
(समाहृत्य ।ख।)समापूर्व ततो मन्त्री चोत्तरान्तं न्यसेत्क्रमात् 46
समावेदं यजुर्वेदमृ ग्वेदाथर्ववेदकौ।
क्रमात्तेषु समभ्यर्च्य धान्यान्यष्टौ समाहरेत्। 47
शालिव्रीहिप्रियाङ्गूंश्च माषनिष्पावसर्षपान्।
तिलमुग्दौ च धान्यानि प्रत्येकं द्रोणमाहरेत्। 48
अथ वा तत्समं व्रीहीनि गृह्णीयादेकमेव वा
तदर्धं तण्डुलं प्रोक्तं तदर्धं तिलमाहरेत्। 49
वायुं तस्मिं त्समभ्यर्च्य वेदाध्यायनमाचरेत्
शङ्खकाह?Rळ संयुक्तं (वाद्य) वेदघोष समायुतम् 50
(सूक्ष्मेन च नवेनैन प्रच्छन्न पटमुत्तमम्।) नववस्त्रेण देवाग्रे प्रच्छन्न मुदगाननम्
कृत्वा चाभ्यन्तरे धीमानुत्तराभिमुखःस्थितः। 51
प्राणायाम ञ्च कृत्वा तु देवेशं मनसा स्मरन्
(हेमरूपं प्रहरणं रसाङ्गुलादहीनकम्।) हेमरूप्यं प्रहरिणीं दशाङ्गुल समायुतम्। 52
मूलादग्रं कृशं वृत्तमाहरे (तत्प्रहारिणीम्।) त्ताडनीं शुभाम्
भागाङ्गुलायातां सूचीं नवनाह सामायुताम्। 53


तौ समादाय हस्ताभ्यां ' प्रतद्विष्णु' रित ब्रुवन्
विष्णुसूक्तेन सव्य न्तु अपसव्यं यथा तथा 54
नरसूक्तेन नयने मोचयेन्मतिमान् गुरुः
पक्ष्म वर्म च र्क्त ञ्च शुक्लं चामित (मण्डलम्।) तैजसम् 55
(पृथिव्यादिक्रमात्।ग।) पृथिव्यादीन् क्रमात्तस्मिन्नधिपान् मनसा स्मरन्
समीक्ष्य देवदेवेशं प्रणम्यैवानुमान्य च 56
प्रच्छन्न पटमुद्धृत्य गां तत्सूक्तेन दर्शयेत्
'मरुतः परमा' त्मेति (धान्यराशींश्च।) ध्यान ञ्च तिलतण्डुलान् 57
तत्तद्वेदादिमन्त्रेण घृतादीन् दर्शयेद्बुधः
'ब्रह्म जज्ञान' मित्युक्त्वा ब्राह्मणान् दर्शये त्तथा। 58
देवीभ्यां सह चेद्धीमान् तथा सर्व ञ्च कारयेत्
स्नपनोत्सव बेराद्वान् सहचेत्तान् पृथक् पृथक् 59
सम्भृत्य दर्शयेद्विद्वनेक (होमे।) च कारयेत्
तद्विमानं नव ञ्चेत्तु(प्रतिमोक्तस्य तं तथा) प्रोतिप्रोक्त ञ्च कारयेत्। 60
ध्रुवाक्षिमोचने विद्‌वान् तत्तद्वर्णेन हाटके
पात्रेऽभ्यर्च्य महीं देवीं पक्ष्मादीन्मोचयेत्तथा 61
धात्रादिपरिषद्देवां स्तत्तन्मन्त्रेण मोचयेत्
विशेषोऽयं समं चान्यदधिवासं समारभेत् 62
ध्रुवार्चां चेद्विसेषेण कौतुकोक्त (पदं, द्रुवे,ख।) पदे गृहे
पीठसङ्घातवच्चात्र कृत्वारत्नोपरिस्तितम्( स्तरन् ? ) 63
तत्राक्षिमोचनं कृत्वा गर्भगेह विशेषेतः।
अथाधिवासनादींश्च यन्त्रेणै वाऽपि कारयेत्। 64
इति श्री वैखानसे भगवच्छास्त्रे ( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे अक्षिमोचन विधिर्नाम
(द्वाविंसोध्यायः।ग।) त्रयोविंशोऽध्यायः।