यज्ञाधिकारः/द्वाविंशोऽध्यायः
← एकविंशोऽध्यायः | यज्ञाधिकारः द्वाविंशोऽध्यायः [[लेखकः :|]] |
त्रयोविंशोऽध्यायः → |
श्री वैखानसभगवच्छास्त्रे, भार्गवे
अथद्वाविंशोऽध्यायः
------------------------
भगवत्प्रतिष्ठा ------- अङ्कुरार्पणम्
अथातो देवदेवस्य भूपरीक्षादिकर्मणि
अङ्कुरार्पणमार्ग ञ्च प्रवक्ष्यामि तपोधनाः। 1
पूर्वमेव (चतं पक्षण्।ग।) तदृक्षाद्यैर्नवमे वाऽथ सप्तमे
पञ्चमे वा तृतीये वा कारयेदङ्कुरार्पणम्। 2
वितस्त्या पालिकोत्सेधं तदर्धं विपुलं मुखम्
अधोऽपि विपुलं नाहं मध्यनाहं दशाङ्गुलम्। 3
कुम्भोदय न्तु तत्तुल्यं रसमात्रं मुखायतम्
कम्भोष्ठमिव वक्त्रं स्यात्कुम्भकुक्षिर्दशाङ्गुलम्। 4
आश्रमद्वारसंयुक्तं शेषं तत्पालिकासमम्
तालोत्सेधं शरावं स्यान्मुखाद्याः पालिकासमाः। 5
कुर्याद्धेमाभिर्वाऽथ मृदा वाऽपि च केचन
मृदा चेत्पक्वं सङ्ग्राह्यं दोषैरन्यैर्वि वर्जितम्। 6
शालिव्रीहिप्रियङ्गूंश्च मूद्गनिष्पावसर्षपान्
चणकं तिलतिल्वौ च कुलुद्धांश्चापि चाहरेत्। 7
(सर्वालाभे।) यथालाभे च मुद्गं वा सम्भारै: सार्धमाहरेत्
तानि तोये सुनिक्षिप्य पूर्वाह्णे तु विशेषतः.. 8
अङ्कुरं दृश्यते यावत्तावद्गुप्ते विनिक्षिपेत्
आलयाभिमुखे वाऽथ चैशान्ये चोत्तरेऽथ वा 9
स्वपनालये वा शान्तस्य उत्तरे वा समाचरेत्
वितानाद्यैरलङ्कृत्य कोमयेनौपलिप्य च 10
पञ्चवर्णैरलङ्कृत्य यावन्नेत्रमनः प्रियम्
नवहस्तं सप्तहस्तं पञ्चहस्तमथापिवा 11
विस्तारायामवत्तुल्यं चतुरश्रं प्रकल्प्य च
प्रागुदन्त रसैः सूत्रैः पञ्चविंशत्पदं तथा। 12
कृत्वाऽत्र मध्यमे पीठं पदेनैकेन वेधसः
सङ्कल्प्य परितश्चाष्टौ (संचारार्धम्।ग।)चारणार्थाय तान् पदान्। 13
त्यजेद्दिशासु चतुरो निर्गमाया विचक्षणः
शेषितार्कपदे धीमान् पालिकानां पृथक् पृथक् 14
स्थणिडिलं कारयित्वाऽत्र तत्पदायाम विस्तृतम्
(विपुला चार्धमात्राः स्युर्युगमात्राः पृथक् पृथक्।)विपुलार्थोच्चमानाः स्युर्युगस्याग्राः पृथक् पृथक्। 15
पालिकापीठमेवं स्याद्धान्यैर्वा तण्डुलैन वा
ऋत्विग्विपुलमायामं वसुमात्रोदयं क्रमात्। 16
पीठं तद्वज्जयादीनां शेषादीनां क्रमात्तथा
आढक वा तदर्धं वा पादं वा व्रीहिभिः क्रमात् 17
चतुरश्रं सुवृत्त ञ्च त्रिकोणं धनुराकृति
दण्डाकार ञ्च पद्माङ्कं वह्न्यश्रं समवृत्तकम्। 18
जयादीनां क्रमात्पीठं (शाङ्गन् दण्डोत्तरं समम्)शार्जदण्डौ ततःपरम्
अङ्गुलेनै वा चैतेषां द्वाराणां दक्षिणे चरेत्। 19
शेषादीना (तुरभ्रांश्च कृत्वा चऽग्रासनं तथा।)च शम्भोश्च कृत्वा शान्तासनान् सदा?
शेषादीनां जयादीनां पालिकाबाह्यत (अर्चयेत् ।ग।) श्चरेत् 20
शक्तश्चेत्तत्तर्दिक्पालस्थण्डिलान् कारयेद्यथा
बूम्यां वा पूज (कार)येत्तद्वत्पवित्रं तत्तदासनम्। 21
अश्वत्थपल्लवं दुर्वां (कुशेन।) कुशं चाबद्ध्य मध्यमे
पालिकादीन् क्रमेणैव मृदा वै पूरयेच्छिचिः 22
गायत्रीमन्त्रमुच्चार्य प्रणवेनादाय मन्त्रवित्
मेदिनीमन्त्रमुच्चार्य चैशान्यादिषु पालिकाः 23
सन्न्यस्य च ततः कुम्भान् द्वारवामे च सन्न्यसेत्
'राकामहं ' समुच्चार्य द्वारदक्षिणतः पुनः। 24
'सिनीवालि पृथु' ष्टेति शरीवं सन्न्यसेत्क्रमात्
जातिक्रमेण चैकान्तं पालिकानां पदे पदे। 25
ब्रह्मणो दक्षिणे पार्श्वेऽप्याच्यार्यश्चोत्तरामुखः
ब्राह्ममासनमास्थाय देवदेवमनुस्मरन्। 26
ब्रह्मद्यान् हृदयात्पूर्वं प्रणिद्यां सन्निवेशयेत्
स्थण्डिलोपरि कूर्चेषु पात्रादावाहयेत्क्रमात् 27
चतुर्मुखं चतुर्बाहुं सर्वाभरण भूषितम्
अभयं दक्षिणं हस्तं वाममूरु प्रतिष्ठितम्। 28
कुण्डिकामक्षमाला ञ्च (धृतमन्यत्करौ परौ।ग।) करभ्यां दधतं क्रमात्
ब्रह्मसनन्थं हेमभं श्यामवस्त्र ञ्च पद्मजम् 29
प्राग्द्वारे प्राङ्मुख ञ्चैव दक्षिणद्वारकेऽपि वा
प्रत्यग्द्वारविमानेऽपि चोत्तरद्वारके तथा 30
अजं प्राङ्मुखमन्यांश्च यथाविधि च संस्मरेत्
हेमाङ्गं पीतवस्त्र ञ्च द्विभुजं पद्मधारिणम्। 31
(सितम्।ग।)स्थितं करण्डिकामौलिं शेषं तत्पश्चिमामुखम्
प्रवालाभं गजमुखमासीनं चोत्तरामुखम् 32
कदलीचूतपनसधरं पाशाङ्कुशं प्रभुम्
एकदंष्ट्रं चतुर्बाहुं वक्रतुण्डं स्मरेद्बुधः 33
(सिताम्बरम्।अ।) पीताम्बरं तं श्यामाङ्गं खड्गखेटकधारिणम्
द्विभुजं (कुण्डिका।क। ख।) करण्डिकामौळिं पङ्क्तीशं प्राङ्मुखं चरेत्। 34
सितं श्यामाम्बरं सौम्यं द्विबुजं दण्डपाणिनम्
करण्डमकुट संयुक्तं सुस्थितम् दक्षिणामुखम्। 35
रक्ताभं हाटकं पश्चाद्धरितं नीलमेव च
धातकीपत्र सङ्काशं कुमुदं (दाभं)चोत्पल प्रभम्। 36
आकाशाभं क्रमादेता द्विभुजाः पद्मधारिणीः
उपवीताम्बरधराः सुखासीनास्तदाननाः 37
जयाद्याः सर्वभूषाङ्गाः ध्यात्वा मन्त्री दिशि स्वयम्
मेदिनी ञ्चैव राका ञ्च सिनीवालीं स्मरेद्बुधः 38
मेदिनीं पीतवस्त्रीं तां श्यामाङ्गीं द्विभुजां स्थिताम्
हस्तयोः पालिकधारं सुकेशीं तद्दिगाननाम् 39
पूर्णचन्द्रप्रियां देवीं पूर्णचन्द्रनि भाननाम्
हेमाङ्गीं क्तवस्त्रां तां राकां कुम्भधारां स्थिताम् 40
शेषं तद्वच्छिनीवालीं सिताङ्गीं श्यामलाम्बराम्
शरावं दधतीमन्यां मेदिनीसदृशां तथा 41
ध्यात्वा (वीजजनाः पारश्वे शरावेषु समर्चयेत्।ग।)तत्तत्पदे चैव आसीनांश्चाधवाऽर्चयेत्
बीजे सोमं तथा द्यात्वा हस्ताभ्यां बीजधारिणम् 42
स्थानकं वाऽथचासीनं दक्षिणे चोत्तरामुखम्
एवं ध्यात्वा तथा देवानासनादिभिरर्च्य च 43
हविस्सम्यङ्निवेद्यैन स्रवेषा ञ्च हविर्जदेत्
बलिं वा दापयेत्सम्यक् शेषादिभ्यो यथाक्रमम् 44
पानीयां मुखवास ञ्च दद्यान्मन्त्रमनुस्मरन्
पुण्याहं वाचयित्वाऽन्ते (सोमम्।) सोमाद्बीजं समाहरेत्। 45
विष्णुसूक्तं समुच्चार्य ऐशान्याद्य ञ्च वापयेत्
वारुणेन जलं दत्वा यजमानेन वापयेत् 46
शूद्रश्चैन्नैव वस्त्रेण समाच्छाद्य गुरुं पुनः
सम्पूज्य दक्षिणां दत्वा यवा(कालं समापनम्।) सोमाद्बीजं समाहरेत् 47
तावत्र्तिकामभ्यर्च्य पश्चात्तान्विजेत्पुनः
सद्योऽङ्कुरश्चेद्रात्रौ वा दिवा वाऽपि च कारयेत् 48
तथा सर्वक्रियाः कृत्वा पुष्पैर्वा तण्डुलेन वा
वापयेत्कर्मणस्तस्य सद्य एव न्तु कारयेत् 49
पात्रालभे शरावे वा यथालाभ ञ्च वापयेत्
लक्षण ञ्चां कुराणा ञ्च वर्णमुक्तं मया खिले 50
((दक्षिणम्।ग।) लक्षण ञ्च तथा चोक्त तेनैव च गुणागुणम्)
इति श्री वैखानसे भगवच्छास्त्रे ( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे अङ्कुरार्पण विधिर्नाम
(एकविंशोऽध्यायः ।)द्वाविंशोऽध्यायः
----------------------------------