यज्ञाधिकारः/एकादशोऽध्यायः
← दशमोऽध्यायः | यज्ञाधिकारः एकादशोऽध्यायः [[लेखकः :|]] |
द्वादशोऽध्यायः → |
अथैकादशोऽध्यायः।
शिलासङ्ग्रहणम्।
अथ ऊर्ध्वं प्रवक्ष्यामि शिलासङ्ग्रहण क्रमम्
गिरिचा भूमिजा चेति वारिजा(च त्रिभिर्विधा।ग।) चेति वर्गधा। 1
गिरजं चोर्ध्ववक्त्र ञ्च भूमिजं चेदवाङ्मुखम्
जलस्याभिमुकं प्रोक्तं जलजस्याश्मन स्तथा। 2
पुं स्त्रीनपुंशकाश्चेति मूलाग्रसमा शिला
एववर्णा घना स्निग्धा घण्टानादरवा पुमान्। 3
अग्रस्थूला भवेन्नारी मूलस्थूला न पुंसकम्
कुर्यात् स्त्रीशिलया सम्यग्देवेशं केन वा चरेत्। 4
कारयेच्छेलया तत्त द्देवताना ञ्च कारयेत्
-------------------
मण्डलं दृश्यते यत्र यदि सम्भेदने बुधः
शिलागर्भमिति ज्ञात्वा वर्जयेत्तां प्रयत्सनतः। 5
अथ कर्त्र नु कूरर्क्षे कुरुस्तच्छिल्पिना सह
सादनैर्होम सम्भारैः सार्थं कत्वा वने बुधः 6
तां परीक्ष्य तृणां त्सर्वान् शोधयित्वा विचक्षणः
पर्यग्नि पञ्चगव्याभ्यां पुण्याह ञ्चात्र कारयेत्। 7
तच्छिलादक्षिणे पार्श्वे वनराजं समर्चयेत्
तस्य देवाधिप वामे दिक्पालान् दिक्षु चार्चयेत्। 8
(सर्पेभ्यो देवयक्षेभ्यःग।) 'सर्वाभ्यो देवताभ्य' श्च तथा 'विध्याधराय ' च
'यक्षेभ्यश्च' 'पिशाचेभ्यो' 'नागगन्धर्व' इत्यपि। 9
'अष्टादशगणेभ्य' श्च नाम्ना बल्यन्त मर्चयेत्
व्रजेति शीघ्रं तत्र स्थानु क्त्वा सम्यक् प्रणम्य च 10
दृढकरीं वैष्णवेनै व हुळिकां गायत्र्या सह
सङ्गृह्य विष्णुगायत्र्या भेदयेत्तां शिलां बुधः 11
देव्योर्मुन्योश्च सर्वेषां त्त न्मन्त्रे ण चाहरेत्
आचार्यदक्षिणां दत्वा शिल्पिन ञ्च प्रपूजयेत्। 12
शकटे तां समारोप्य अप्रमादेन चालयम्
सम्प्रवेश्य च सन्न्यस्य प्रतिमां कारयेद्बुधः 13
स्थानकादिषु भेदेषु मानोन्मान प्रमाणतः
सङ्गोपङ्ग ञ्च चित्र ञ्च चित्रार्धं वाऽथ कारयेत्। 14
(चित्रे तु यव।ग।)स्रवं तद्यवमात्र ञ्च कुर्याद्धीनं ध्रुवे बुधः
(सम्पूर्णंतद्ध्रुवार्चा चेत्सुव्यक्तं समनोहरम्।)ध्रुवार्चनं चेत्सुव्यक्तं कारयत्सु मनोहरम्। 15
दारव ञ्चेत्तथाऽऽहृत्य(कारयेत्तद्यथा बुधः।ग।) कारयेत यथा शिला
ध्रवेषु दारवं श्रेष्टं दारवान्मृण्मयं तथा 16
मृण्मयाच्छोलजं श्रेष्टं शैलजात्ताम्रजं वरम्
(ध्रुवार्छां ताम्रजम्।)ध्रवार्चा चेद्ध्रुवं शैलं कुर्यादन्यं विवर्जयेत्। 17
चित्रं वा अर्धचित्रं वा कारयेत्तद्ध्रुवार्चनम्
--------------
अथो मानानि वक्ष्यामि ध्रुवास्यापि च लक्षणम्
विमानविस्तृतार्धं यदुत्तमं तदुदाहृतम्
मध्यमं तद्गुणांश ञ्च शरांशांशं क नीयसम्।(विपुलं बाह्यतःकुर्याद्द्विधाकृत्य ततःपरम्। षड्विंशति ञ्च भाग ञ्च कृत्वा पूर्वार्धया सह। एकेनसह वा युक्त्या कारयेत्तारकोयम्।ग। अधिकः। पाठः।) 19
द्विधाकृत्य बहिः (कुर्याःख।) कुड्यविस्तारं चैकमंशकम्
षड्विंशत्यंशकं कृत्वा क्रमादन्यांशकोपरि। 20
एकैकांश प्रवृद्ध्या तु सप्तविंशति धोदयम्
अभ्यन्तरं द्विधाकृत्य (अन्ये।ख।)अन्यं षड्विंशदंशकम्। 21
कृत्वैक्तेन सुसंयोज्यार्धंशं स्यादुदयं बुधः
पादोदय प्रमाणं स्याद्द्वारोदय मथापि वा। 22
तत्तत्पादाधिकं वाऽथ पादहीनमथापि वा
तदर्धं वानवांसोनं द्वारपादतलेन तु 23
मसूरंशे पादमर्धं त्रिपादं वाऽधिकं चरेत्
हस्तमेकं समारभ्य षट् षड़ङ्गुल वार्धनात्। 24
नवधाऽप्युदयं प्रोक्तं त्रिहस्तान्तं यथाक्रमम्
तालमेकं समारभ्य एकतालेन वर्धनात्। 25
नवतालान्तमानानि नवधा तालमानतः (कम्)
यजमानोदयं पश्चान्नाग सप्तरसांशकम्(गुलम्।) 26
कृत्वा भागादिकं प्रोक्तं यावत्तच्छुभ दर्शनम्
नेत्रास्यहमनुसीमानं हृदयान्तं स्तनान्तकम् 27
नाभ्यन्तं तत्प्रमाणानि कर्तुस्तुङ्गानि सप्तधा
मानाङ्गुलेन धात्वादिद्विद्व्यङ्गुल विवर्धनात्। 28
स्पतविंशतितुङ्गानि पञ्चाशत्सन वाङ्गुलम्
मात्राङ्गुलेन वन्दादि गोलकाङ्गुल वर्धनात्। 29
एकषष्ट्यस्तमानानि चोदयात् सप्तविंशतिः
एवं मानानि निशित्य पादाद्युष्टीष कान्ककम्। 30
ध्रवबेरं कुर्याद्धीमान् ? क्रतुरिच्छावशाद्बुधः
अथ पीठोदयं पश्चात् स्थानकस्य विशेषतः। 31
भुवङ्गस्य समं वाऽथ अध्यर्धं द्विगुण न्तु वा
परितः पादयो स्तस्य नीत्वा वै भागमङ्गुलम् 32
चतुरश्रं सुवृत्तं वा दलैष्टोडश भिर्युतम्
कौतुकस्य तु (वेशाद्वा।ख। पीठाद्यभित्तिस्तत्सकलम्।ग।) पीठाद्वा भित्त्यन्तं सङ्कलं समम्। 33
पीठोत्तुङ्ग प्रमाणेन स्थालं कृत्वा दृढं पुनः
तृतीयंशै कांशकं वाऽथ चतुर्थां शै कांशक न्तु वा
(ध्रुवार्चायाः।अ।)र्द्रुवार्चायां विशेषेण अश्रं वा वृत्तमेव वा 344
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
(शिलासङ्गहण विधिर्नाम।ग।)एकादशोऽध्यायः