सामग्री पर जाएँ

यज्ञाधिकारः/द्वादशोऽध्यायः

विकिस्रोतः तः
← एकादशोऽध्यायः यज्ञाधिकारः
द्वादशोऽध्यायः
[[लेखकः :|]]
त्रयोदशोऽध्यायः →


अथ द्वादशोऽध्यायः
----------------------
दारुसङ्ग्रहणम्
अत ऊर्ध्वं प्रवक्ष्यामि दारुसङ्ग्रहण क्रमम्
खदिरश्चासनश्चैव चन्धनश्चम्पक स्तथा। 1
मधूको जातिवृक्षश्च स्निग्धाश्चान्ये शुभाः स्मृताः
पद्मोत्पलतटाकादि शुद्ध स्थानानितो हरेत्। 2
अग्निदग्धाः स्वयं जीर्णाः कृमिकोटर संयुताः
भिन्नाश्चयेऽन्यदोषैश्च संयुक्ता स्तान्विवर्जयेत्। 3
पुं स्त्रीनपुंसकाश्चेति त्रिधा स्युस्तरवो बुधाः
पुंवृक्षेण तथाऽन्यानि तत्तल्लिङ्गेन कारयेत्। 4
अनेकशाखा संयुक्तं सुवृत्तं त्वार्जवान्वितम्
पुंवृक्षं तं विजानीयात् स्थूलमूलं कृशाग्रकम्, 5
स्त्रीवृक्षं कृशमूलं यन्न पुंशक मुदाहृतम् ?
हरेत्क र्त्रनुकूलर्क्षे यजमानश्चसाधनैः 6
सम्भृत्य होमसम्भारां त्सर्ववाद्य समायुतम्
वनं कच्छेन्निमित्तानि संलक्ष्यैव च शिल्पिना। 7
आसाद्य वृक्षं परितस्तृणुगुल्मलताः शुभम्
संशोद्य 'यस्मिन् देशे ' ति चोद्वास्यात्र स्थवासकान्। 8
उत्तरे भूमियज्ञ ञ्च कृत्वा संशोद्य गोमयैः
पुण्याहं वाचयित्त्वैव शुद्धान्नेन बलिं ददेत्। 9
'वनराजाय' इत्युक्त्वा वृक्षमूले बलिं ददेत्।
प्रागादिदिक्षु वृक्षस्य 'वनस्पत ' इति ब्रुवन्। 10
'वनदेवताभ्यो' 'भूतेभ्यो' टयक्षेभ्यो' नाग एव च
'पिशाचविद्यधरेभ्य' श्च *' अष्टदशगणाय च'। 11
तत्तन्नाम्ना नमोन्त ञ्च बलिं दत्वाक्रमेण तु
अस्तु तृप्ति रिति स्तुत्वा तनुद्वास्य प्रणम्य च 12
'इदं विष्णुर्विचक्रे' ति वृक्षं तमभिमृश्य च
कुठारमादाय हस्ताभ्यां विष्णुकायत्रिया बुधः। 13
'सोमं राजान ' मित्युक्त्वा *भित्वा प्रागादि चक्रमात्
तत स्तक्षकमाहूय छेदयेत् नियोजयेत्। 14
प्राग्दिक्षु पतितं भित्वा मुखभागं विभज्य च
यथोचितं भेदयित्वा दक्षिणां सन्धदेद्गुरोः। 15
शकटे तं समारोप्य धाम तत्संप्रविश्य च
शोषितेऽचिरकालेन प्रितमां कारमेद्बुधः। 16
शूल ञ्च विधिनाऽऽहृत्य देव्यावपि तथा पुनः
कारयेद्विधिना विद्वान्(यावतः।ख।) यावता शुभद्रशनम्। 17
------------------
वक्ष्यामि देव्योर्मानं तत्कर्णान्तं न्सिकान्तकम्
हन्वन्तं बाहुसीमान्तं नाभ्यन्तं वाऽथ कारयेत्। 18
(सर्वेषां पर्षदां तुल्यं मुनयो रादिकं क्रमात् ?)सर्वेषां परिवाराणां मानं देवीसमं भवेत्
तथा(देवेसमानं स्यादर्धं वा कौरायेत्क्रमात्।) चोद्देशमानं स्यादर्धं वा कारयेत्तयोः। 19
ध्रुवबेरसमं वाऽथ अष्टोंसोनमथापि वा
ब्रह्मणं शङ्करं चैव(कुर्यादाभसम्।) कुड्ये चाऽभा समाचरेत्। 20
पूजकौ च तथा कुड्ये चित्राऽभासौ प्रकल्पयेत्
ब्रह्मेशयो(तत्।) स्तु पूर्वस्यामुक्तव(वर्गैस्तलाकृतिम्।) र्णेषु ? कल्पयेत्, 21
कुड्यकौतुकयोर्मध्ये षड्भागं तं विभज्य च
कुड्यादेकांशकं नीत्वा द्वितीये दक्षिणोत्तरे। 22
स्थापयेच्च मुनिं तत्र सकलं (वेत्तिपृष्ठते।ख।) चेत्तिर्यग्गतम्
तद्ब्रह्मसूत्राद्विधिवत्प श्चिमे तत्र वा बुधः। 23
यद्द्रव्यं देवतारूपं देव्यादि परिषद्गाणान्
कारयेत्तैन द्रव्येण तत्तत्ताल क्रमेण वै। 24
वक्ष्यामि पदविन्यासं गर्भागारे विशेषतः
प्रागग्रानुत्तराग्रांश्च सूत्रां त्सप्तदशार्पयेत्
यट्पञ्चाशद्द्विशतभागं कृत्वा मध्ये तु षोडश 25
तद्‌ब्राह्मं परितः पश्चा(देवमानुषयोर्मध्ये ?) त्पादाः षोडशकं पदम्
दैविकं तस्य परितः भागः षण्नवतिस्तथा। 26
मानुषं बाह्यतः षष्टिः पैशाचं स्यात्तथा क्रमात्
ब्राह्मे तत्कौतुकं स्थानं त्रिधाकृत्य च दैविकम्। 27
तस्यैव पश्चिमे भागे मध्ये वा स्थानकाय च
दैवमानु,योर्मध्ये चा सीनं पीठमाचरेत्। 28
मानुषे सयनं पीठं स्तापयेच्छास्त्रवित्तमः
गर्भागारे ध्रुवार्चां चेन्नागसूत्रां त्समर्प्य च 29
(देवमानु,योर्मध्ये ?)पदमेकोनपञ्चाशद्भवती? मध्यमेऽम्बरम्
ब्राह्मं तस्यैव परितो नागभाग ञ्च दैविकम् 30
बाह्ये षोडसभाग न्तुमुनुषं चावशेषितम्
पैशाचनं स्यात्क्रमेणैव शान्तिपुष्टिक दैविकम्। 31
स्थापयेद्योगवीरौ च ब्रह्म स्थाने विशेषतः
दैवमानुषयोर्मध्ये भोगमेव द्रुवार्चनम्। 32
पैशाचे (चैकहम्।ख।) दिवहं ? बेरं स्थापयेत्क्रमशः सुधीः
शिलास्थापनविधिः
शिलास्थापनमार्ग ञ्च वक्ष्यामि च तपोधनाः। 33
मार्गशीर्षश्च माघश्च विविर्ज्यै चोत्तरायणे
दक्षिणे वा विशेषेण कर्तुश्चाप्यनु कूलके। 34
शुभोदये स्थिरे धीमान् स्थापयेद्विधि पूर्वकम्
तद्दिनात्पूर्ववच्चोक्ते दिने कृत्वाऽङ्गु रार्पणम्। 35
अप्सुवास ञ्च कृत्वा ऽऽदौ नद्यादाववटेऽथ वा
आलयाद्दक्षिणे वाथ पूर्वे वा यागमण्डपम्। 36


पूर्ववत्कारयित्तैव तोरणाद्वैर्वि भूषयेत्
शय्यावेदि ञ्च तन्मध्ये भित्तिविस्तारमायतम्। 37
बिम्बस्याध्यर्धमानं वा तुर्यांशोत्सेधमेव वा
सभ्याग्निकुण्डं तत्प्राच्यां पद्माग्निं सह वा विना। 38
उत्तरे स्नानवेदि ञ्च कृत्वा तद्भूमिसोधनम्
भूमियज्ञ ञ्च कृत्वा तु पर्यग्निं कारयेत्क्रमात्। 39
गन्याद्यैः प्रोक्ष्य पुण्याहं पश्चादा घारमाचरेत्
पञ्चभिः कलशैर्वेद्यां विधिना स्थापयेद्धरिम्। 40
यथोक्त शयनाद्वेद्यामास्तीर्योपरि सन्न्यसेत्
आच्छाद्य नववस्त्रेण कौतुकं बन्धये त्तथा। 41
यद्धिग्द्वारं तद्दिङ्मौलिं शाययेत्क्रमशो हरिम्
बेरे महति शुद्ध्यर्थं तन्त्रीकृत्य क्रियां बुधः 42
प्रोक्षयेत्पवमानाद्यैः शेषमन्यत्समं भवेत्
हौत्रं प्रशंस्य सभ्याग्नौ मूर्तिं ? गङ्गाधरान्तकम्। 43
आवाह्य जुष्टाकार ञ्च स्वाहाकार ञ्च कारयेत्
वैष्णवं पौरुषं सूक्तं विष्णुसूक्तमतःपरम्। 44
एकाक्षरादिसूक्त ञ्च श्रीबूसूक्तमतः परम्
ब्राह्मं रौद्र ञ्च हुत्वाऽन्ते निशाशेषं नयेत्क्रमात्। 45
स्नात्वा प्रभादे त्वाचार्यः शय्यास्थानं प्रविश्य च
देवमुद्थाप्य चाभ्यर्च्य गर्भागारं प्रवेशयेत्। 46
(गर्भागारम्।ग।) गर्भाद्वारं ततो धीमां(त्रिसप्तांशम्।) त्सप्तांशं संविभज्य च
तन्मध्यमं रसांशे तु तद्विभज्या(अन्तरजं विधे) न्तरं विधेः 47
सूत्रं स्याद्वामजं विष्णोस्तस्मात्तस्मिन् हरेर्बुधः ?
परसूत्रं लम्बतव्यं स्थापयेद्वहिते पदे। 48
सन्न्यस्य पीठं तन्मध्ये रत्नादीं(विन्यसेत् ।ख।) त्सन्न्य सेत्क्रमात्‍
सार्धं तच्छिल्पिना (सार्धं बेरं यन्त्रेण सन्नयेत्।)ऽऽचार्यो बेरं यन्त्रेण सन्न्यसेत्। 49
'प्रतद्विष्णु स्त' वेत्युक्त्वा बेरं संस्थापये(बुधः।ख।)) द्दृढम्
तत्तन्मन्त्रेण देव्यादीं त्संस्थाप्यैव विशेषतः 50
संयोज्य चाष्टबन्ध ञ्च कारयेद्विधि पूर्वकम्
शिलालये शिलाबेरं ताम्रजं (शैलजं तथा।) चिति केचन। 51
ऐष्टिके दारुजं शैलं (शैलं वा मृण्मयं तथा।) मृण्मय ञ्च न कारयेत्
(गौरवे।ख।)दारवे तलभेदे तु लघुद्रव्यो परिन्यसेत्। 52
आदौ तु शैलजं प्रोक्तं द्वितीये (तारुकस्तु) दारवन् तु(हि।क।) वा
तृतीये शूलज वाऽथ(कारयेत्) चतुर्थे लोहज न्तु वा 53
अथ वा मृण्मयं वाऽथ सर्वतः शूलमेव वा
संस्थाप्य विधिना मन्त्री शर्करां लेपयेत्क्रमात्। 54
विसृज्य पावकं पश्चाद्यजमानो गुरु तथा
सम्पूज्य दक्षिणां दत्वा वैष्णवांश्च सु पूजयेत्। 55


इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
(दारुसङ्ग्रहविधिर्नाम।ग।)द्वादशोऽध्यायः।