मालविकाग्निमित्रम्/द्वितीयोऽङ्कः

विकिस्रोतः तः
← प्रथमोऽङ्कः मालविकाग्निमित्रम्
द्वितीयोऽङ्कः
कालिदासः
तृतीयोऽङ्कः →

। ततः प्रविशति संगोतरचनायां कृतायामासनस्थः समयस्य राजा परिव्राजिका धारिणी बिभवतश्च परिवारः । राजा । भगवति अत्रभवतोराचार्ययोः कतरस्य प्रथममुप देशं द्रक्ष्यामः। 5 परि° । ननु समानेपि ज्ञानवृद्धभावे वयोधिकत्वाङ्गणदासः पुरस्कारमर्हति । राजा । तेन हि मौद्गल्य एवमेवात्रभवतोरावेद्य स्वनियोग. मशून्यं कुरु । कञ्चुकी । यदाज्ञापयति देवः । [इति निष्कान्तः । गण° ।प्रविश्य । देव शर्मिष्ठायाः कृतिर्लयमध्या चतुष्पदा । ? तस्याश्चतुर्थवस्तुकप्रयोगमेकमनाः श्रोतुमर्हति देवः। राजा । आचार्य बहुमानादवहितोस्मि । [निष्यन्तो गणदासः । 15 राजा । जनान्तिकम् । वयस्य नेपथ्यपरिगतायाश्चक्षुर्दर्शनसमुत्सुकं तस्याः । संहर्तुमधीरतया व्यवसितमिव मे तिरस्करिणीम् ॥१॥ विदूषकः । अपवार्य 1हो उवष्ठिअं णअणमहु। संणिहिदं मख्खिअं च । ता अप्पमत्तो दाणिं पेख्ख । । ततः प्रविशत्याचार्यप्रत्यवेक्ष्यमाणाङ्गसौष्टवा मालविका 20 १ भो उपस्थितं नयनमधु । संनिहिता मक्षिका च । तदप्रमत्त इदानीं पश्य । . D परीवार: 18A c होउ and B D छ झ for 16. P परिणतायाः : : , "हो".-B णव्रशमं E F नयणम् 20 ̟--- 20 A BGi ciभूभाग

विदूषकः । जनान्तिकम्-। 1पेख्खदु भवं। ण हु से डिछ्छन्दादो
परिहीअदिं मंडुरंदा ।
राजा । जनान्तिकम् । वयस्य
चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् ।
संप्रति शिथिलसमाधिं मन्ये येनेयमालिखिता। ॥ २ ॥
गण° । वत्से मुक्तसाध्वसा सत्त्वस्था भव ।
राजा । आत्मगतम् । अहो सर्वास्ववस्थास्वनवद्यता रूपस्य ।
दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः
संक्षिप्तं निबिडोन्नतस्तनमुरः पाश्र्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं मदावरालाङ्गुली 10
छन्दो नर्तयितुर्यथैव मनसः श्लिष्टं तथास्या वपुः ॥ ३ ॥
मालविका । उपवहनं कृत्वा चतुष्पदं वस्तु गायति ।
1दुल्लहो पिओ तस्सिं भव हिअअ णिरासं ।
अम्हो अपङ्गओ मे पफ़्फ़ुरइ किंपि वामो ॥ ४ ॥

१. पश्यतु भवान् । न खल्वस्याः प्रातिच्छन्दात्परिहीयते मधुरता ।
२. दुर्लभः प्रियस्तस्मिन्भव हदय निराशम्। अम्ब हे अपाङ्गको मे प्रस्फुरति किमपि वामः ।

2. A B C DE पडिहीअदि.
6. B C D E मुग्धसाध्वसा.
7. A B C D E सर्वावस्थासु.
11. A C D मनसश्चष्टें (मनसैः शिष्टं?);
B मनसः शिष्ट, corrected from
मनसद्धि ; B मनसां शिष्टं also
corrected from मनसश्लिष्टं
12. F कपोतकं कृत्वा
18. D E पियो.-B D E हियय
14. B DE अपङ्गयो.-क्विविं.
वामओ.
1एसो सो चिरदिठ्ठो कहं उवणइदव्वो
णाह मं पराहीणं तुइ गण अ सतिण्हं ॥ ५ ॥

इति यथारसमभिनयति ।

विदूषक: । जनान्तिकम् । 2भो चऊप्पदंवथ्थुअं दुवारं कदुअ तुइ
उवख्खित्तो विअ अप्पा तत्तहोदीए ।
राजा । सखे एवमावयोर्ह्रदयम् । अनया खलु
जनमिममनुरक्तं विद्धि नाथेति गेये
वचनमभिनयन्त्या स्वाङ्गनिर्देशपूर्वम ।
प्रणयगतिमदष्ट्वा धारिणीसंनिकर्षाद
अहमिव सुकुमारप्रार्थनाव्याजमुक्त: ॥ ६ ॥
मालविका । गातान्ते गन्तुमिच्छति ।
विदूषक:। ३होदि चिठ्ठ । किंवि विसुमारिदं कमभेदेण । तं पुच्छिस्सं दाव ।
गणं । वत्से स्थीयताम् । उपदेशाविशुद्धौ यास्यसि ।
मालविका । निवृत्य स्थिता ।

१. एषोसौ चिरदुष्ट: कथमुपनेतव्यः । नाथ मां पराधीनां त्वयि गणय सत्रुष्णाम्।
२. भो चतुष्पदं वस्तुकं द्वारं क्रुत्वा त्वय्युपक्षिप्त इवात्मा तत्रभवत्या ।
३. भवति तिष्ठस्व। किमपि विस्मृतं क्रमभेदेन तत्प्रक्ष्यामि तावत् ।

3. A omits the whole of "इति
यथारसमभिनयति."
5. D E उवख्खित्तो.
6. A om. "सखे"
12. B D किमपि. A C E किंपि.-
C D भेदेन.-A omits "तं"
before "पुछ्छिस्सं".-B D E कम-
भेदेण (=क्रमभेदेन.)
14. A विशुद्धा,F शुद्धौ.
15. B निर्वृत्य.
राजा । आत्मगतम् । अहो सर्वास्ववस्थासु चारुता शोभां पुष्यति ।
तथा हि
वामं संधिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटपसदृशं लस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं
नृतादस्याः स्थितमतितरां कान्तमृज्वायतार्धम् ॥७॥
देवी । 1'णं गोदमवअणंपि अज्जो हिअए करेदि ।
गण० । देवि मैवम् । देवप्रत्ययात्संभाव्यते सूक्ष्मदर्शिता गौतमस्य । पश्य ।
मन्दोप्यमन्दतामेति संसर्गेण विपश्चितः।
पङ्कच्छिदः फलस्येव निकषेणाविलं पयः ॥ ८ ॥
विदूषकं विलोक्य । शृणुमो विवक्षितमार्यस्य ।
विदूषकः। गणदासं विलोक्य । 2सख्खिणीं दाव पुछु ।पछ्छा जो मये कमभेदो लख्खिदो तं भणिस्सं ।
गण° । भगवति यथादृष्टमभिधीयतां दोषो वा गुणो वा ।

१. ननु गौतमवचनमप्यार्यो हदये करोति ।
२. साक्षिणीं तावत्पृच्छ । पश्चाद्यो मया क्रमभेदो लक्षितस्तं भणिष्यामि ।

1. A B C D E सर्वावस्थासु. - F
शोभान्तरम्.
11. A B C D E निकर्षेण.
13. A B C D E भिख्खुणीं for “ स-
ख्खिणीं
14. D E तं.
16. A B C D E यथादर्शनम् for
यथादृष्टम्"
परि० । यथाशास्त्रं सर्वमनवद्यम् । कुतः ।
अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः
पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु ।
शाखायोनिर्मृदुराभिनयस्तद्विकल्पानुवृत्तौ
भावो भावं नुदति विषयाद्रागबन्धः स एव ॥ ९ ॥
गण । देवः कथं मन्यते ।
राजा। गणदास वयं स्वपक्षशिथिलाभिमानाः संवृत्ताः ।
गण । अथ नर्तयितास्मि ।
उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः ।
श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ।। १० ॥
देवी । १दिठ्ठिआ परीखकाराहणेण अज्जो वढ्ढइ ।
गण ० । देवीपरिग्रहश्च मे वृद्धिहेतुः । विदूषकं विलोक्य । गौतम वदेदानीं यत्ते मनसि वर्तते ।
विदूषकः । २पुढमोवदेसदंसणे पुढमं बम्हणस्स पूआ इछ्छिदव्वा । सा उण वो विसुमरिदा ।

१. दिष्ट्या परीक्षकाराधनेनार्यो वर्धते ।
२. प्रथमोपदेशादर्शने प्रथमं ब्राह्मणस्य पूजेष्टव्या । तस्याः पुनर्यूयं विस्मृतवन्तः ।

8. F' अद्य for +अथ."
11. A B परिख्खराहणेण - D E F
अ-आ-A B C D E परि-
ख्ख०.
14. A पदमो°-B D E पूया.
15. Our MSS. सा ण वोपलख्खिदा
( = सा न व उपलक्षिता). We
according to G.
परि० । अहो प्रयोगाभ्यन्तरः प्राश्निकः।
सर्वे । प्रहसिताः ।

। मालविका च स्मितं करोति ।

राजा । आत्मगतम् । आत्तसारश्चक्षुषा स्वविषयः । यदनेन
स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम् । 5
असमग्रलक्ष्यकेसरमुच्छसदिव पङ्कजं दृष्टम् ॥ ११ ॥
गण० । महाब्राह्मण न खलु नेपथ्यसंगीतकमिदम् । अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः ।
विदूषक । १मए णाम मुध्धचादएण विअ सुख्खघणगज्जिदे अन्तरिख्खे जलपाणं इछ्छिदं ।
परि० । एवमेव ।
विदूषकः । २तेण हि पण्डिदपरिदोसपच्चआ मूढ़ाजादी । जइ
तत्तहोदीए सोभणं गण्हिदं तदो इमं पारितोसिअं
पअछ्छामि । इति राज्ञो हस्तात्कटकमाकर्षति

१. मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेन्तरिक्षे जलपानमिष्टम्।
२. तेन हि पण्डितपरितोषप्रत्यया मूढजातिः । यद्यत्रभवत्या शोभनं गृहीतं तदिदं पारि-
तोषिकं प्रयच्छामि ।

1. F' प्रयोगाभ्यन्तरप्रा°.
7. B F' नैपथ्य°.
8. F दक्षणीयं for अर्चनीयंः
9. B°चादयेण--E सुक्कघण.
12. F' पण्डिअ.- E परितोस.
13. F' भणिदं→ for ‘गण्हिदं:”-–E F'
अत्तदोदीए-B तदा for "तदो".
14. B F om. इति,’ C E om. the
whole stage-direction be-
ginning from “ इति .”
देवा । १चिठ्ठ । गुणन्तरं अआणन्तो किंति तुमं आहरणं देसि ।
विदूषकः । २परकीअंति करिअ ।
वेदी । आचार्यं विलोक्य । ३अज्ज गणदास णं दंसिदोवदेसा वो सिस्सा ।
गण० । वत्से प्रतिष्ठस्वेदानीम् ।
मालविंका सहाचार्येण निष्कान्ता ।
विदूषकः । जनान्तिकम् । राजानं विलोक्य । ४एत्तिओ मे विहवो भव‌न्तं सेविदुं ।
राजा । जनान्तिकम् । अलमलं परिच्छेदेन । अद्य हि
भाग्यास्तमयमिवाक्ष्णोर्हृदयस्य महोत्सवावसानमिव ।
द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करिणीम् ॥११॥
विदूषकः । ५साहु तुमं दरिद्दादुरो विअ वेज्जेण उवणीअमाणं ।
ओसहं इछ्छसि ।
हरदत्तः । प्रविश्य । देव मदीयमिदानीमवलोकयितुं प्रयोगं ।

क्रियतां प्रसादः ।


१. तिष्ठ । गुणान्तरमजानान्किमिति त्वमाभरणं ददासि ।
२. परकीयमिति कृत्वा
३. आर्य गणदास ननु दर्शितोपदेशा व: शिष्या ।
४. एतावान्मे विभवो भवन्तं सेवितम् ।
५. साधु त्वं दारिद्रातुर इव वैद्येनोपनीयमानमौषधमिच्छसि ।

1. C अअणन्तो–A B C D E अ-
हिणन्देसि for ‘‘आहरणं देसि.”
2. A परकरयंति; B परे केरयंति; E
corrects its परकेरयंति into
पख्खोयंति; C D परकेरयंति
3 . D E F अ-अ -A B C D E
om. णं.
7. cअत्तिओ; D यत्तिओ, B येत्तिओ.
ll. F तिरस्करणम्
15. F add इति after “"क्रियताम्"
राजा । आत्मगतम् । अवसितो दर्शनार्थः। प्रकाशम् । दाक्षिण्यमवलम्य
हरदत्त पर्युत्सुका एव वयम् ।
हर० । अनुगृहीतोस्मि ।

।। नेपथ्ये ।।

वैतालिकः। जयतु देवः । उपारूढो मध्यमह्न: सविता ।
तथा हि ।
पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकापद्मिनीनां
सौधान्यत्यर्थतापाद्वलभिपरिचयद्वेषिपारावतानि ।
बिन्दूत्क्षेपात्पिपासुः परिपतति शिखी भ्रान्तिमद्वारियन्त्रं
सर्वैरुलैः समग्रैस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥१३॥ 10
विदूषकः।१अवि हा अविहा । ण्हाणभोअणवेला संवुत्ता अत्तहोदो । उइदवेलादिक्कमे चिइस्सआ दोसं उदाहरन्ति ।
राजा । हरदत्त किं भणसि ।
हर० । नास्त्यवकाशो मद्वचनस्य ।
राजा । हरदत्तं विलोक्य । तेन हि त्वदीयमुपदेशं श्वो वयं द्रक्ष्यामः। 15
विश्राम्यतु भवान् ।
हर० । यदाज्ञापयति देवः ।
[इति निष्कान्तः ।]

१. अपि हा अपि हा । स्नानभोजनवेला संवृत्तात्रभवतः । उचितवेलातिक्रमे चिकित्सकादोषमुदाहरन्ति ।

5. C उपारूढो मध्यः सविता
11. A C do not repeat "अवि हा ."
-E अत्तहोदे
12. B C D E चिइस्सया.

16. B D विश्रम्यतु .

देवी । १णिवृत्तेदु अज्जउत्तो मङ्झणविहिं ।
विदूषकः । २होदि विसेसेण पाणभोअणं तुवरेदु ।
परि० । उत्थाय । स्वस्ति भवते ।
[ सपरिजनया देव्या सह निष्क्रान्ता ।
विदूषकः । ३भो ण केवलं रूवे सिप्पेवि अद्दुदीआ माल-
विआ ।
राजा।
अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता ।
परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः॥१४॥
किं बहुना । चिन्तयितव्योस्मि ।
विदूषकः ।४भवदावि अहं । दिढं विपणिकन्दू विअ मे उदरम्भन्तरं ढज्जइ ।
राजा । एवमेव । भवान्सुहृदर्थे त्वरताम् ।

१. निर्वर्तयत्वार्यपुत्रो मध्याह्नविधिम् ।
२. भवति विशेषेण पानभोजनं त्वर्यताम् ।
३. भो न केवलं रूपे शिल्पेप्यद्वितीया मालविका ।
४. भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते ।

1. A C ण्वुित्तोदु; B D णिवत्तेदु, F
णिव्वदेदु-D E F अ-अ°
6. A C D E F सिप्पे अ for ‘‘सिप्पेवि."
12. B ढढज्जई.
18. A B C D E त्वरते.
विदूषकः । गेहीदख्खणोम्हि । किं दु मेहोवरुध्धजोण्हा विअ पराहीणदंसणा तत्तभोदी । भवंवि सूणोपरिचरो विहंगमो विअ आमिसलोलुवो भीरुओ अ अच्चादुरो भविअ कज्जसिध्धिं पथ्थयन्तो मे रुच्चइ ॥
राजा । सखे कथं नातुरो भविष्यामि । यदा
सर्वान्तपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्य ।
सा वामलोचना मे स्नेहस्यैकायनीभूता ॥ १८ ॥

[ इति निष्क्रान्तौ ।


॥ इति द्वितीयोङ्कः ॥



१.गृहीतक्षणोस्मि । किं तु मेघोपरुद्धज्योत्स्नेव पराधीनदर्शना तत्रभवती । भवानपि शूनोपरिचरो विहंगम इवाभिषलोलुपो भीरूकश्चात्यातुरो भूत्वा कार्यासिद्धिं
प्रार्थयन्मे रोचते ।

1. A B C D E गहिदख्खिणो.-
B°जोन्हा-A B C D Eमेहाव-
रू. .
6. B C व्यापारं
8. B इति निष्कान्ताः सर्वे ; E निष्का-
न्ताः सर्वे.