मालविकाग्निमित्रम्/तृतीयोऽङ्कः

विकिस्रोतः तः
← द्वितीयोऽङ्कः मालविकाग्निमित्रम्
तृतीयोऽङ्कः
कालिदासः
चतुर्थोऽङ्कः →

।तत: प्रविशति परिव्राजिकाया: परिचारिका ।

परिचारिका । आणत्तम्हि भअवदीए । जहा समाधिमदिए
देवस्स सभाअणथ्थं बीजपूरअं गेण्हिअ आ अछ्छेत्ति ।
ता जाव प्पमदवणपालिअं महुअरिअं अण्णेस्सामि ।
परिक्रम्यावलोक्य च । एसा तवणीआसोअं ओलोअन्ति महुअरिआ चिठ्ठइ । जाव णं संभावेमि ।

। ततः प्रविशत्युद्यानपालिका ।

प्रथमा । उपसृत्य। 2महुअरिए अवि सुहो देउज्जाणव्वणव्वावारो ।
द्वितीया । 3अम्हो समाहिमदिआ । सहि साअदं दे ।

10

समाधिमतिका । 4हला भअवदि आणवेदि । अरित्तपाणिणा
अम्हारिसजणेण अथ्थपइ दख्खिदव्वो । ता बीजपूरएण
सुस्सूसिदुं इछ्छामित्ति ।

१. आज्ञप्तास्ति भगवत्या । यथा समाधिमतिके देवस्य सभाजनार्थं बीजपूरकं गृहीत्वागच्छेति । तत्तावत्प्रमदवनपालिकां मधुकरिकामन्वेष्यामि । एषा तपनीयाशोकमालोकयन्ती मधुकरिका तिष्ठति । तावदिमां संभावयामि ।
२. मधुकरिके अपि सुखस्त उद्यानवनव्यापारः ।
३. अहो समाधिमतिका । सखि स्वागतं ते ।
४ हला भगवत्याज्ञापयति । अरिक्तपाणिनास्मादृशजनेनार्थपतिर्द्रष्टव्यः । तद्बीजपूरकेण ::शुश्रूषितुमिच्छमीति ।

2.B अणत्तंम्हि, A C D E वणत्तम्हि-
F om.'जहा समाधिमदिए'
4. महुआरिआ A B C D E अण्णे-
सामि
5. A मधुवरिआ; B महुआरिआ
6.A चिट्ठई B संभवेमि
8.F सुविहिदो(=सुविहित:) for"सुहो."
-B व्वणवाव्वारो - F om ०व्वण०
9.F समाहुदिआ(समाभृतिका)
here and everywhere else
throughout the work.
10. A वाणव्वेदि
11.B वम्मोरिस०- B अथ्थपई- E
दख्खि०
मधुकरिका । णं[१] संणिहिदं बीजपूरअं । कहेहि दुवेणं
संगीदओवदेसणिमित्तं अण्णोण्णसंघरिसिदाणं णट्ठाअ-
रिआणं उवदेसं देख्खिअ कदरो भअवदीए पसंसिदोत्ति ।
समाधि० । दु[२]वेवि किल आअमिणा पओअणिउणा अ ।
किं दु सिस्सागुणविसेसेण गणदासो उण्णमिदोवदेसो । 5
मधु° ।[३]ह मालविआगअं कोलीणं किंति सुणीअदि ।
समाधि० ।[४]लियं खु साहिलासो तस्सिं भट्टा । केवलं देवीए
धारिणीए चित्तं रख्खिदुं अहिलासदंसणे पहुत्तणं ण दंसेदि ।

1. B C मधुकारिका.
2 A संपरिसिन्दाणं
3. F णट्टाचारिआणं—D Eदेख्खिय.-
A वसंसिदोत्ति
4. F पओग.
5. F गणदासे उण्णमिदो सवदेसो.
6 A B C D E किंपि.- for “किंति”
A B C D E read thus:-
"मधु० । अह मालविभागअं कोलीणं
किंपि सुणीअदि । मालविआए
किल साहिलासो भट्टा केवलं
देवीए धारिणीए चित्तं रख्खि-
दुं अहिलासदंसणे पहुनणं ण
दंसेदि ।"

समाधि० । बलियं ख्खु साहिलासो त-

स्सिं भट्टा । ……… मं ।

7. A C देविए.
8. B धारणीए-F अहिलासं ण दंसेदि.


मालविआवि इमेसु दिअहेसु अणुभूदमुत्ता विअ मालदीमाला मिलायमाणा लख्खीअदि। अदो वरं ण आणे ।
विसज्जेहि मं ।
मधु° । 1एअं साहावलम्बिणं बीजपूरुषं गेण्ह ।
समाधि० । नाट्येन गृहीत्वा । 2हला तुमंवि इदो विपुलदरं साहु
जणसुस्सूसाए फलं लहेहि ।
मधु° । प्रस्थिता । 3'सहि समं जेव्व गछ्छामो । अहंवि इमस्स
चिराअमाणकुसुमुग्गमस्स तवणीआसोअस्स दोहलणिमित्तं देवीए विण्णवेमि ।
समाघि० । 4'जुज्जइ । अहिआरो ख्खु तुह ।
[ इति निष्क्रान्ते ।

। प्रवेशकः।


मालविकाप्येतेषु दिवसेष्वनुभूतमुक्तेव मालतीमाला म्लायमाना लक्ष्यते । अतः परं::
न जाने । विसर्जय माम् ।
१. एतच्छाखावलम्बि गोजपूरकं गृहाण ।
२. हला स्वमपीतो विपुलतरं साधुजनशुश्रूषायाः फलं लभस्व ।
३. सखि सममेव गच्छावः । अहमप्येतस्य चिरायमाणकुसुमोद्गमस्य तपनीयाशोकस्य
दोहदनिमित्तं देव्यै विज्ञापयामि ।
४. युज्यते । अधिकारः खलु तव ।

2. A B C D E जाणे for “ आणे. ”
3. B मां.
4. A E साहावलम्बिदं.
5. F om. इदो, and reads पेसलतरं
for “ विपुलदरं."
6, A C सुस्सुसार.
7. A B C ज्जेव, F' एव्व
8. D तवणो आहोअस्स.
9. A c देविए विणवेमि. E also reads

विणवेमि.

10. B तुइ for “ तुह.”- - om ख्खु.

। ततः प्रविशति कामयमानावस्थो राजा विदूषकश्च ।

राजा । आत्मानं विलोक्य ।
शरीरं क्षामं स्यादसति दयितालिङ्गनसुखे
भवेत्सालं चक्षुः क्षणमपि न सा दृश्यत इति ।
तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं
प्रसक्ते निर्वाणे हृदय परितापं वहसि किम् ॥ १ ॥
विदूषकः । 1अलं भवदो धीरदं उज्झिअ परिदेविएण ।
दिठ्ठा ख्खु मए तत्तहोदीए मालविआए प्पिअसही बउलावलिआ । सुणाविदा अ तं अथ्थं भवदा जो संदिठ्ठो ।
राजा । ततः किमुक्तवती ।
विदूषक। 2विण्णवेहि भठ्ठारं । अणुगहीदाम्हि इमिणा णिओएण । किं दु सा तवास्सिणी देवीए अहिअदरं रख्खिअमाणा णाअरख्खिदो मणी विअ ण सुहं
समासादइदव्वा । तहवि घडइस्संति ।

१. अलं भवतो भरतामुज्झाित्वा परिदेवितेन । दृष्टा खलु मया तत्रभवत्या मालविकायाः
प्रियसखी बकुलाबलिका । श्राविता च तमर्थं भवता यः संदिष्टः ।
२. विज्ञापय भर्तारम् । अनुगृहीतास्म्यनेन नियोगेन । किं तु सा तपस्विनी देव्याधिकतरं रक्ष्यमाणा नागरक्षितो मणिरिव न सुखं समासादयितव्य । तथापि
घटिष्य इति ।

7. B उझ्झीअ.
8. AC D पिअ.
11. A विणवेहि.-A B C D E अणुगे
ण्हिदम्हि

12: F' सादर for "अहिअदरं."

13. A C D णाअरखिओ.-A B C D
वीअ।--A B C D E read
वीअ मणो, and add अहं ण्णिहं
रण्णा (=अहर्निशम्,राज्ञा)
14. D समासदयिदव्वा.--B घटईस्सं
राजा । भगवन्संकल्पयोने प्रतिबन्धवत्स्वापि विषयेष्वभिनिवेश्य तथा प्रहरसि यथा जनोयं कालान्तरक्षमो
न भवति । सविस्मयम् ।
क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम्।
मृदुतीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि॥2॥
विदूषकः । 1णं भणामि तस्सिं साहणिज्जे कज्जे किदो उवाओवख्खेवोति । ता पज्जव्वथ्थावेदु अत्ताणं तत्रभवं ।
राजा । अथेमं दिवसशेषमुचितव्यापारपराङ्मुखेन चेतसा
क्व नु खलु यापयामि ।
विदूषकः ।2 णं भवं अज्ज एव्व वसन्दपुढमावदारसूअआणि
रत्तकुरबआणि उवाअणं पेसिअ णववसन्तावदारावदेसेण इरावदीए णिअणिआमुहेण पथ्थिदो । इछ्छामि
अज्जउत्तेण सह डोलाहिरोहणं अणुहोदुंति । भवदावि से पडिण्णादं । ता पमदवणं जेव्व गछ्छेम्ह ।

१. ननु भणाभि तस्मिन्साधनीये कार्ये कृत उपायोपक्षेप इति । तत्पर्यवस्थापयत्वात्मानं
तत्रभवान् ।
२. ननु भवानद्यैव वसन्तप्रथमावतारसूचकानि रक्तकुरबकाण्युपायनं प्रेष्य नववसन्तावतारापदेशेनेराबत्या निपुणिकामुखेन प्रार्थितः । इच्छाम्यार्यपुत्रेण सह दोलाधिरोहणमनुभवितुमिति । भवताप्यस्यै प्रतिज्ञातम् । तत्प्रमदवनमेव गच्छावः ।

1. A B C D E प्रतिबन्धबस्तुष्वपि.
6. D उवाआवख्खेबो corrected from
उवाचोवख्खेदो.
9. F om नु.
10. B D° सअआणि.
11. A B C D°कुरवयाणि.-B पेसोअ.
12. A CD णिउणोआ ’—Our MSS
इछ्छेअं. We with G.
13. D E F अ-अ°–-A B C D
भवदापि.
14. A पडिणादं–A B C ज्येव----
B D E F गछुम्ह.
राजा । न क्षमामिदं ।
विदूषका । 1कहं विअ ।
राजा । वयस्य निसर्गनिपुणाः स्त्रियः। कथं मामन्यसंक्रान्तहृदयमुपलायन्तमापि ते सखी न लक्षयिष्यति । अतः पश्यामि
उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः।
उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिकोपि भावशून्यः ॥
॥३॥
विदूषकः । 2णारुहदि भवं अन्तेउरपडिठ्ठिदं दख्खिण्णं एक्कपदे पिठ्ठदो कादुं ।
राजा । विचिन्त्य । तेन हि प्रमदवनमार्गमादेशय ।
विदूषकः । 3इदो इदो भवं ।

। उभौ परिक्रामतः ।

विदूषकः। 4वसन्दो किल एदाहिं पवणचलिदाहिं पल्लवङ्गुलीहिं
तुवरेदि विअ भवन्तं एदं पमदवणं पविसेत्ति

१. कथमिव।
२. नार्हति भवानन्तःपुरप्रतिष्ठतं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ।
३.इत इतो भवान् ।
४.वसन्तः किलैताभिः पवनचलिताभिः पल्लवाङ्गुलीभिस्त्वरयतीव भवन्तमेतत्प्रमदवनं
प्रविशेति ।

7. A B C E ननु for नतु.
9. A D नारुहदि -E० प्पडिठ्ठिदं.--
A B C D E add जणं after
दख्खिणं which they read for
दख्खिण्णं.
15. A B C D E तुवरावेदि -B प्प-
विसेति.
राजा । स्पर्शं निरूप्य ।अभिजातः किल वसन्तः ।
सखे पश्य
आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां
सानुक्रोशं मनसिजरूजः सह्यतां पृच्छतेव ।
अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारूतो मे
सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥४॥
विदूषकः । 1पविस णिवुदिलाहाअ ।
।उभौ प्रविशतः।
विदूषकः ।2भो वअस्स अवधाणेण दाव दिठ्ठिं देहि ।एदं स्वु भवन्तं विलोहइदुकामाए पमदवणलछ्छीए जुवईवेसलज्जाइत्त्तअं वसन्तकुसुमणेवथ्थअं गहिअं ।
राजा । ननु विस्मयादवलोकयामि ।
रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः
प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् ।
आक्रान्ता तिलकक्रियापि तिलकैर्लीनद्विरेफाञ्जनैः
सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥५॥

१. प्रविश निर्वृतिलाभाय ।
२. भो वयस्य अवधानेन तावद्दृष्टिं देहि । एतत्खलु भवन्तं विलोभयितुकामया प्रमदवनलक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकुसुमनेपथ्यं गृहीतम् ।

1. F reads रूपयित्वा, and never
puts नि before रूपम् used in
stage-directions occurring
subsequently.
4. B सह्यते.
7. AC णिउ०.
9. A E वयस्य. —B.अवहाणेण.
10. A B C D E भवन्ते विअ लोह-
इदुकामाए.
11. A B C D E °लज्जावइत्तअं.---
A B C D E गाहिअं.

। उभावुद्यानशोभां निर्वर्णयतः ।

। ततः प्रविशति पर्युत्सुका मालविका ।

मालविका । 1अणभिण्णादहिअअं भट्टारं अभिलसन्दी अप्पणोवि दाव लज्जेमि । कुदो विहवो सिणिध्धअणस्स
वुत्तन्तं आचख्खिदुं । ण आणे अप्पडिआरगुरुअं - 5
वेअणं केत्तिअं कालं मअणो मं णइस्सदित्ति ।कतिचित्पदानि गत्वा । कहिं णु पथ्थिदम्हि । विचिन्त्य । आम संदिठ्ठम्हि देवीए । गोदमचावलादो डोलापरिभट्टा ण सक्कुणोमि अहं चलणे चालइदुं । तुमं दाव तवणीआसोअस्स
दोहलं णिव्वत्तेहि । जादि स पञ्चरत्नभ्भन्तरे कुसुमं 10
दंसेइ तदोहं- । अन्तरा निःश्वस्य । आहिलासपूरइत्तअं पसादं
दाइस्संति । दाव णिओअभूमिं पुढमं गदा होमि ।
जाव अणुपदं मह चलणालंकारहथ्थाए बउलावलिआए
आअन्तव्वं परिदेविस्सं दाव विस्सध्धं मुहुत्तअं ।

१. अनभिज्ञानहृदयं भर्तारमभिलषन्त्यात्मनोपि तावल्लज्जे । कुतो विभवः स्निग्धजनस्य वृत्तान्तमाख्यातुम् । न जानेपरिहारगुर्वी वेदनां कियन्तं काले मदनो
मां नेष्यतीति । क्व नु प्रस्थितास्मि । आम् संदिष्टास्मि देव्या । गौतमचापलाद्दोलापरिभ्रष्टा न शक्नोम्यहं चरणौ चालयितुम् । त्वं तावत्तपनीयाशोकस्य दोहदं
निर्वर्तय । यदि स पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति तदाहम्-अभिलाषपूरकं
प्रसादं दास्यामीति । तावन्नियोगभूमिं प्रथमं गता भवामि । यावदनुपदं मम
चरणालंकारहस्तया बकुलावलिकयागन्तव्यं परिदेविष्ये तावद्विश्रब्धं मुहर्तकम् ।

1. A C वर्णयतः
3. F अणहिण्णादं०.-B भट्टारअं.--
A B °लसन्ति
4. A B C D E add सह between
सिणिध्ध” and "अणस्स."
5. B D E आआख्खिदुं.—-D अपडि-
यार°; E अपडिहार.°
10. A C D णिवतेहि ; B णिवट्टेहि.
11. F' पदं पसादे for पसादं.
14. B इयन्तव्वं ; C D इअन्तव्वै-
A B C परिदेव्विसं. – A B C
D वोसध्धं.
परिक्रामति ।
विदूषक।1 ही ही इअं सीधुपाणुव्वेजिअस्स मछ्छण्डिआ
उवणदा ।
राजा। अयि किमेतत् ।
विदूषकः । एसा ख्खु णादिपज्जत्तवेसा उस्सुअवण्णा विअ
एआइणी मालविआ अदूरे वट्टइ ।
राजासहर्षम् । कथं मालविका ।
विदूषकः । 2अह इं ।
राजा । शक्यमिदानीं जीवितमवलम्बितुम् ।
त्वदुपलभ्य समीपगतां प्रियां
हृदयमुच्छ्वसितं मम विक्लवम् ।
तरुवृतां पथिकस्य जलार्थिनः
सरितमारासितादिव सारसात् ॥ ६ ॥
अथ क्व तत्रभवती ।
विदूषकः ।3 एसा णं तरुराइमझ्झदो णिक्कन्दा इदो ज्जेव्व
आअछ्छदि ।
राजा। वयस्य पश्याम्येनाम् ।

१. ही ही इयं सोधुपानोद्वेजितस्य मत्स्यण्डिकोपनता ।
२. एषा खलु नातिपर्याप्तवेषोत्सुकवर्णेवैकाकिनी मालविकादूरे तिष्ठति ।
३. अथ किम् ।
४. एषा ननु तरुराजिमध्यान्निष्कान्तेत एवागच्छति ।

2. A C D मत्सण्डिआ.
15. F' णिग्गदा– D जेव्व.
16. D E F आअछ्छइ-
1. A om. "वयस्य."
विपुलं नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः ।
अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥
सखे पूर्वस्मादवस्थान्तरमारूढा तत्रभवती । तथा हि ।
शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा ।
माधवपरिणतपला कतिपयकुसुमेव कुन्दलता ॥ ८ ॥
विदूषकः[५]एसावि भवं विअ मअणवाहिणा परिमिठ्ठा भविस्सदि ।
राजा । सौहार्दमेवं पश्यति ।
मालविका[६]अअं सो ललिअदोहलापेख्खी अगहीदकुसुमणेवथ्थो
उक्कण्ठिदं मं अणुकरेइ असोओ । जाव से
पछ्छाअसीअले सिलापट्टे णिसण्णा भविअ अत्ताणं
विणोदेमि ।
विदूषकः[७]सुदं भवदा उक्कण्ठिदम्हित्ति तत्तहोदीए मन्तिदं,
राजा । नैतावता भवन्तं प्रसन्नतर्कं मन्ये । कुतः
वोढा कुरबकरजसां किसलयपुटभेदसीकरानुगतः ।
अनिमित्तोत्कण्ठामपि जनयति मनसो मलयवातः ॥ ९ ॥
मालविका । उपविष्टा ।

9. A C D दोहलापेखो.-B अग्गहीद-
- A C D E णेवछ्छो.
10. B करेदि.
11. F पछ्छाय
13. A. तत्तहोदिए.[मन्ये.
14. F नैतावता [ भवतः ? ] प्रसन्नतर्कतां

राजा । वयस्य इतस्तावदावां लतान्तरितौ भवावः।
विदुषकः। १इरावदीं विअ दूरे समथ्थेमि।
राजा। न हि कमलिनीं दृष्ट्वा ग्राहमवेक्षते मतंगजः । विलोकयन्स्थितः।
मालविका । २हिअअ णिफ़्फ़लादो मणोरहादो विरम। किं मं
आआसअसि ।
विदूषकः। राजानमवेक्षते।
राजा । प्रिये पश्य वामतां स्नेहस्य।
औत्सुक्यहेतुं विवृणोषि न त्वं
तत्त्वावबोधैकरसो न तर्कः।
तथापि रम्भोरु करोमि लक्ष्यम्
आत्मानंमेषां परिदेवितानाम्॥१०॥
विदूषक्ः। ३संपदं भअदो णिस्संसओ भविस्सदि। एसा
अप्पिअमअणसंदेसा विवित्ते णं बउलावलिआ उवठ्ठिदा।
राजा। अपि स्मरेदस्मदभ्यर्थनाम्।

१.इरावतीमिव दूरे समर्थयामि।
२.हृदय निष्फलान्मनोरथाद्विरय। किं मामायासयसिः।
३.सांप्रतं भवतो निःसंशवो भविष्यति। एषामिंतमदनसंदेशा विविक्तें ननु
बकुलावलिकोपस्थिता।

2. B समथ्थेम्हि ।
5. F णिरवलम्बादो for "णिफ्फलादो"--
A C अआसअसि
8. A B C D E read आत्ममतम् be-
fore "प्रिये पश्य" &c.
13. E F भवदो‌-E णिःसंसयो; F
णिःसंसअं- A C add त्ति
after "भविस्सदि" [उपठ्ठिआ
14. F एआ(=एका)for"णं"-E
16. A C अयि for"अपि"
विदूषक । १कं दाणिं एसा दासीए सुदा दाव तुह गुरुअं
संदेसं विसुमरेदि । अहंवि दाणिं एदं ण विसुमरेमि ।
। प्रविश्य चरणालंकारहस्ता बकुलावलिका ।
बकुलावलिका। २अवि सुहे सहीए ।
मालविका। 3अम्हो बउलावालिआ उवठ्ठिआ । सहि सागदं :
दे । उवविस ।
बकुलावलिका । ४हला तुमं दाणिं दोहलकरणंजोग्गदाए
णिउत्ता । ता एक्कं दे चलणं उवणेहि जाव णं सालत्तअं
सणेउरं करोमि ।
मालविका । आत्मगतम् । ५हिअअ अलं सुहिददाए अअं विहवो
उवठ्ठिदोत्ति । कहं दाणिं अत्ताणं मोएअं । अह वा एदं
एव्व मह मिच्चुमण्डणं भविस्सदि ।

१. किमिदानीमेषा दास्याः सुना सावन्नव गुरुं सदेशं विस्मरति । अहमपोद्रानीमेतं
न विस्मरामि ।
२. अपि सुखं सख्याः ।
३. अहो बकुलावलिकोपस्थिता । सखि स्वागतं ते । उपविश ।
४. हला त्वमिदानीं दोहदकरणयोग्यतया नियुक्ता । तदेकं ते चरणमुपनय । तावदेत
सालक्तकं सनूपुरं करोमि ।
५. हृदय अलं सुखिततयायं विभव उपस्थित इति । कथमिदानीमात्मानं मोचयेयम् ।
अथ वैतदेव मम मृत्युमण्डनं भविष्यति ।

1. A c दाणीं–F om. “ तुह."
2. F om. एदं.
4. A C D सहिए.
5. AC B उपठ्ठिआ; B उवठ्ठिदा--
B स्सागदं
6. A C D E उपविस.
7. B दाणीं–F दोहलकरणे जोग्गदाए.
8. F' सालत्तभणेउरं.
बकुलावलिका। १किं विआरेसि । उस्सुआ ख्खु इमस्स तवणीआसोअस्स
कुसुमसमुग्गमे देवी ।
राजा । कथमशोकदोहदनिमित्तोयमारम्भः ।
विदूषकः। २किं खु ण जाणासि अकालणादो देवी इमं ।
अन्तेउरणेवथ्थेण ण संजोअइसदित्ति ।
मालविका । पादमुपहरति । ३हला मरिसेहि दाणिं ।
बकुलावलिका । ४अयि सरीरंसि मे । नाट्येन चरणसंस्कारमारभते ।
राजा
चरणान्तनिवेशितां प्रियायाः
सरसां पश्य वयस्य रागरेखाम् ।
प्रथमामिव पल्लवप्रसूतिं
हरदग्धस्य मनोभवद्रुमस्य ॥ ११ ॥
विदूषकः । ६चलणाणुरूवो ख्खु तत्तहोदीए अहिआरो
उवख्खित्तो ।
राजा । सम्यगभिहितं भवता ।

१. किं विचारयसि । उत्सुका खल्वस्य तपनीयाशोकस्य कुसुमसमुद्रमे देवी ।
२. किं खलु न जानास्यकारणादेवीमामन्तःपुरनेपथ्येन न संयोजयिष्यतीति ।
३. हला मर्षयेदानीम् ।
४. अयि शरीरमसि मे ।
५. चरणानुरूप: खलु तत्रभवत्यां अधिकांर उपक्षिप्रः ।

1. D E विचिआरेसि.-DF अस्सिआ.
2. A c कुसुमग्गमे.
4. A B C D E insert णु after" किं "
and before & ख्खु."
5. B D E संजोअइसिदिति.
6. A B C D E दाणीं .
7. Our MSS चरणमलंकरोति. We
according to G.
8. A चलणाणुरूपो--A Cअधिहारो.
नवकिसलयरागेणाग्रपादेन बाला
स्फुरितनखरुचा द्वौ हन्तुमर्हत्यनेन ।
अकुसुमितमशोकं दोहलपेक्षया वा
प्रणिहितशिरसं वा कान्तमार्द्रापराधम् ॥१२॥
विदूषकः । १पारइस्ससि अत्तहोदीए अवरध्धुम् ।
राजा । परिगृहीतं वचः सिद्विदर्शिनो ब्राह्मणस्य ।
। ततः प्रविशत्युन्मत्तवेषेरावती चेटी च ।
इरावतो । २हज्जे णिउणिए सुणामि बहुसो मदो किल
इथ्थिआजण्स्स विसेसमण्डणंति । अवि सच्चो लोअवादो ।
निपुणिका । पुढमं लोअवादो एव्व । अज्ज सच्चो संवुत्तो ।
इरावती । ४अलं सिणेहभणिदेण । कुदो दाणिं अवगदं
डोलाघरअं पुढमं गदो भट्टेत्ति ।
निपुणिका । ५भट्टिणीए अखण्डिदादो पणआदो ।
इरावती । ६अलं सेवाए । मझ्झथ्थदं गेण्हिअ भणाहि ।

१. पारथिष्यस्यत्रभवत्या अपराद्धुम् ।
२. हञ्जे निपुणिके शृणोमि बहुशो मदः किल स्त्रीजनस्यविशेषमण्डनमिति । अपि सत्यो
लोकवादः ।
३. प्रथमं लोकवाद एव । अद्य सत्यः संवृत्तः ।
४. अलं स्नेहभणितेन । कुत इदानीमवगतं दोलागृहं प्रथमं गतो भर्तेति ।
५. भट्टिन्या अखण्डितात्प्रणयात् ।
६. अलं सेवया । मध्यस्थतां गृहीत्वा मण ।

8. A हञ्ज.
9.F अअं for " अवि."
11. D संउत्तो.
12. B दाणीं.-- A B C D E
वुत्तन्तो आगमिदो for " अवगदं ".
14. B पणयादो ; E पणभदो .
निपुणिका । १वसन्दोवाअणलोलुवेण अज्जगोदमेण कहिदं ।
तुवरदु भट्टिणी ।
इरावती । अवस्थासदृशं परिक्रम्य । २हला मदेण मिलाअमाणं
अत्त्ताणं अज्जउत्तदंसणे हिअअं तुवरेदि । चलणा उण
ण मग्गे पसरन्दि ।
निपुणिका । ३णं पत्तम्ह डोलाघरअं ।
इरावती । ४णिउणिए ण उण एथ्थ अज्जउत्तो दीसइ ।
निपुणिका । ५ओलोएदु । भट्टिणीए परिहासणिमित्तं कहिंवि
गुम्मे गूढेण भट्टिणा' होदव्वं । अम्हेवि इमं पिअङ्गुलदापरिख्खिन्तं
असोअसिलापट्ठअं पविस्सम्ह ।

१. वसन्तोपायनलोलुपेनार्यगौतमेन कथितम् । वरती भट्टिनी ।
२. हला मदेन म्लायन्तमात्मानमार्यपुत्रदर्शने हृदयं त्वरते । चरणौ पुनर्न मार्गे
प्रसरतः ।
३. ननु प्राप्ते स्वो दोलागृहकम् ।
४. निपुणिके न पुनरत्रार्यपुत्रो दृश्यते ।
५. अवलोक्यताम् । भट्टिन्याः परिहासनिमित्तं कुत्रापि गुव्मे गूढेन भर्त्रा भवितव्यम् ।
आवामपीमं प्रियंगुलतापरिक्षिप्तमशोकशिलापट्टकं प्रविशावः ।

1. D E F' अ-अं.
2. A तुवराइदु; तुवरइदु corrected
from an original तुवराइ्ह.
4. A आत्ताणं-D LPअ=अं
5. A E have each their original
ओसज्जन्ति corrected into
ओसप्पन्ति; B C Dओसज्जन्ति
(= अवसज्जन्ति).
6. B पतम्ह”
7. A c एभ्यं. -D E F अ-अं
F दिसइ.
8. A c आलोयदु.
9. B गूढे for "गूढेण. ”
10. A B C परिख्खित्ते. – B प .
विसम्ह
इरावती | तथा करोति |
निपुणिका | परिक्रम्य विलोक्य | १ओलोअदु भट्टिणी | चुदङ्कुरं
विचिण्णन्दीणं अम्हाणं पिपीलिआदंसणं |
इरावती | २किं विअ एदं |
निपुणिका | ३ऐसा असोअपाअवछ्छाआअं मालविआए
बउलावलिआ चलणालंकारं णिव्वट्टेइ |
इरावती | शङ्कां रूपयित्वा | ४अभूमि इअं मालविआए | किं
तक्केसि |
निपुणिका | ५तक्केमि डोलापरिभ्भट्टचलणाए देवीए
असोअदोहलाहिआरे मालविआ णिउत्तेत्ति | अण्णहा कहं देवी
सअं धारिदं एदं णेउरजुअलं परिअणस्स
अभ्भणुजाणिस्सदि |
इरावती | ६महदी ख्खु से संभावणा |

१. अवलोकयतु भट्टिनी | चूताङ्कुरं विचिन्वत्योरावयोः पिपीलिकादंशनम् |
२. किमिवैतत् |
३. एषाशोकपादच्छायायां मालविकायाः बकुलाकलिका चरणालंकारं निर्वर्तयति |
४.अभूमिरियं मालविकायाः | किं तर्कयसि |
५. तर्कयामि दोलापरिभ्रष्टचरणया देव्याशोकदोहदाधिकारे मालविका नियुक्तेति |
अन्यथा कथं देवी स्वयं धारितमेतन्नूपुरयुगुलं परिजनस्याभ्यनुज्ञास्यति |
६. महती खल्वस्याः संभावना |

2. B आलोअदु़.
3. A C D विचिण्णन्दाणं ; B
विचिणन्दीणं;F विउण्णन्तीणं - A
पिपीलाआं ; B पिप्पलिआं ; C
पिपालआं ( पिपीलआं ?); F
पिपोलीआं
6. A C णिवट्टइ ; D णिवट्टोइ; E णिवठ्ठेइ ;
8. C तक्कसि.
10. E णिव्वुत्तेति.
11. B D E धारीदं-A अरोअण्णस्स
; B अरीअणस्स -B D अ-
भ्भण्णुं.
13. A C मे for "से."
निपुणिका । १किं ण अण्णेसीअदि भठ्ठा ।
इरावती । २हञ्जे मे चलणा अग्गदो ण पवट्टन्ति । मणो
मह विआरेदि । आसङ्किदस्स दाव अन्तं गमिस्सं ।
मालविकां निर्वर्ण्य । आत्मगतम् । ठाणे ख्खु कादरं मे हिअअं ।
बकुलावलिका । चरणं दर्शयन्ती । ३अवि रोअदि दे अअं
चलणराअरेहाविण्णासो ।
मालविका । ४हला अत्तणो चलणंगदंति लज्जेमि पसंसिदुं ।
कहेहि केण सिप्पसाहणकलाअं अहिविणीदासि ।
बकुलावलिका । ५एथ्थ ख्खु भट्टिणो सिस्सम्हि ।
विदूषकः । ६तुवरेहि दाणिं गुरुदख्खिणाए ।
मालविका । ७दिठ्ठिआ ण गव्विदासि ।

१.किं नान्विष्यते भर्ता ।
२. हञ्जे मे चरणावग्रतो न प्रवर्तेते । मनो मम विक्रियते । आशङ्किनस्य तावदन्तं
गमिष्यामि । स्थाने खलु कातरं मे हृदयम् ।
३. अपि रोचते तेयं चरणरागरेखाविन्यासः।
४. हला आत्मनश्चरणगतमिति लञ्जे प्रशंसिनुम् । कथय केन
शिल्पसाधनकलायामभिविनीतासि ।
५. अत्र खलु भर्तुः शिष्यास्मि ।
६. त्वरखेदानीं गुरुदक्षणायै ।
७. दिष्टया न गर्वितासि ।

1. B अण्णेसिअदिः
3. A C D E F' मम for "मह."
5. A अपि for "अवि.P. —c अअं दे
instead of "दे अअं. ”-A adds
another दे after ‘‘अअं. "
6. A C रहेविणासो.
7. A चलणगदं.
e. A B C D E ०कलां.
9. B एथ्थं-A com. ख्खु.”
10. F' inserts दाव before “दाणिं."
11. A C D गव्विदासी ; B गविदासो
बकुलावलिका। १उवदेसाणुरूवे चलणे लम्भिअ दाणिं
गव्विदा भविस्सं । रागं विलोक्य । आत्मगतम् । सिध्धं मे दौञ्चं । प्रकाशम् ।
सहि एकस्स दे चलणस्स अवसिदो राअणिख्खेवो ।
केवलं मुहमारुदो लम्भइदव्वो । अह वा पवादो एव्व
अअं पएसो।
राजा । सखे पश्य पश्य ।
आर्द्रालक्तकमस्याश्चरणं मुखमारुतेन वीजयितुम् ।
प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ॥ १३ ॥
विदूषकः । २कुदो दे अणुसओ । चिरं भवदा एदं
अणुहोदव्वं अचिरेण ।
बकुलावलिका ।३अरुणसदपन्तं विअ सोहदि दे चलणो।
सव्वहा भाट्टिणो अङ्कपरिवट्टिणी होहि ।
इरावती । निपुणिकामुखमवेक्षते ।
राजा । ममेयमाशीः।
मालविका । ४हला अवचणीअं’ मन्तेसि ।
बकुलावलिका । ५मन्तिदव्वं एव्व मए मन्तिदं ।

१. उपदेशानुरूपौ चरणौ लब्ध्वेदानीं गर्विता भविष्यामि। सिध्दं मे दौत्यम् । सखि
एकस्य ते चरणस्यावसितो रागनिक्षेपः । केवलं मुखमारुतो लम्भयितव्यः । अथ
वा प्रवात एवाथं प्रदेशः ।
२. कुतस्तेनुशयः । चिरं भवतैतदनुभवितव्यमचिरेण ।
३. अरुणशतपन्त्रमिव शोभते ते चरणः । सर्वथा भर्तुरङ्कपरिवर्तिनी भव ।
४. हला अवचनीयं मन्त्रयसि ।
५. मन्त्रयितव्यमेव मया मन्त्रितम् ।

3. A B C एक्कस्स.
5. B पवेसो (पदेसो ?).
7. F वीजयतः
10. Our MSS. कमेण (=क्रमेण) for
अचिरेण.” We according
to G.
"- मालविका १पिआ ख्खु अहं तुह ।

बकुलावलिका । २ण. केवलं मह । मालविका । 3कस्स वा अण्णस्स । बकुलावलिका । ४गुणेसु अहिणिवेसिणो भट्टिणोवि । मालविका । ५अलीअं मन्तेसि । एदं एव्व मइ णथ्थि । बकुलावलिका । ६सच्चं तुइ णथ्थि । भट्टिणो किसेसु ईसिपरिपण्डरेसु अङ्गेसु दीसइ । निपुणिका । ७पुढमं भणिदं विअ हदासाए उत्तरं । बकुलावलिका । ८अणुराओ अणुराएण पडिख्खिदव्वोत्ति 10 सुजणचरिदं पमाणीकरेहि । १. प्रिया खल्वहं तव । २. न केवलं मम । ३. कस्य वान्यस्य । ४. गुणेष्वभिनिवेशिनो भर्तुरपि । ५. अलीकं मन्त्रयसि । एतदेव मयि नास्ति । ६. सत्यं त्वयि नास्ति । भर्तुः कृशेश्वीषत्यरिपाण्डुरेष्वङ्गेषु दृश्यते । ७. प्रथमं भणितमिव हताशाया उत्तरम् । ८. अनुरागोनुरागेण परीक्षितव्य इति सुजनचरितं प्रमाणीकुरु । 1. A नुव for *नुह ” 2. A C D E मम for * मह.” 5. E has एदे एवं (एव्व ?) मइ ण होन्दि

for “एदं &C.; A B C also एदे for "एदं" -A C मई. 

6. E ण होन्दि for "णथ्थि.”-B इसिं.-E दीसन्दि. 8. B C D. put the speech “पुढमं” &c. in the mouth of Nipunika; A and. B also originally assigned it to the same character, but they afterwards correct themselves so as to give it to Malavika.- F पुडमभणिदं विअ. 9. F पडिछ्छिदव्वो (= परिच्छेत्तव्यः) 10. A पमाणिं

मालविका[८]किं अप्पणो छन्देण मन्तेसि ।
बकुलावलिका । ण[९] हि । भट्टिणो एदाइं पण अमआइं अख्खराइं बिम्बन्तरिदाइं ।
मालविका[१०]हला देविं विचिन्तिअ ण मे हिअअस्स पहविस्सं ।
बकुलावलिका[११]मुध्धे भमरसंबध्धोत्ति वसन्दावदारसंव्वस्सो 5
ण चूदपल्लवो किं ओदंसइदव्वो ।
मालविका । [१२]तुमं दाव दुज्जादे मे अच्चन्तसाहाइणी होहि ।
बकुलावलिका[१३]विमद्दसुरही बउलावलिआ ख्खु अहं ।
राजा। साधु बकुलावलिके साधु ।
भावज्ञानानन्तरं प्रस्तुतेन
प्रत्याख्याने दत्तयुक्तोत्तरेण ।
वाक्येनेयं स्थापिता स्वे निदेशे
स्थाने प्राणाः कामिनां दूत्यधीनाः ॥ १४ ॥

1. D छन्देन.
2. A B C D एदाई.
4. B विचिन्तीभ; c विचिन्दिभ.
6. Our MSS. भमरसेंपादोत्ति. We
with G.-A C D E सव्वस्सं.
7. A B C D साहाहिणी.
8. A B C D E "सुरहि."

इरावती । १हञ्जे पेख्ख । कारिदं एव्व बउलावलिआए
मालविआए पदं ।
निपुणिका । २भट्टिणी णिव्विआरस्सविं उस्सुअत्तणज्जणओ उवदेसो ।
इरावती । ३ठाणे ख्खु सङ्किदं मे हिअअं । गहीदथ्था अणन्तरं
चिन्तइस्सं ।
बकुलावलिका । ४एसो दे दुदीओवि समत्तपडिकम्मो चलणो।
जाव दुवेवि सणेउरा करेमि । नाट्येन नूपुरयुगुलमामुच्य ।
इला उठ्ठेहि । अणुचितठ्ठ देवीए दाणिं असोअविआसइतअं णिओअं ।
। उभे उत्तिष्ठतः ।
इरावती । सुदो देवीए णिओओत्ति । होदु दाणिं ।
बकुलवालिका । एसो उवारूढराओ उवभोअख्खमो दे पुरदो
वट्टइ ।

१. हञ्जे प्रेक्षस्व । कारितमेव बकुलावलिकया मालविकया पदम् ।
२. भट्टिनि निर्विकारस्याप्यौत्सुक्यजनक उपदेशः ।
३. स्थाने खलु शङ्कितं मे हृदयम् । गृहीतार्थानन्तरं चिन्तयिष्यामि ।
४. एष ते द्वितीयोपि समाप्तप्रतिकर्मा चरणः । तावद्द्वावपि सनूपुरौ करोमि । हला
उत्तिष्ठ । अनुतिष्ठ देव्या इदानीमशोकविकाशयितृकं नियोगम् ।
५. श्रुतो देव्या नियोग इति । भवत्विदानीम् ।
६. एष उपारूढराग उपभोगक्षमस्ते पुरतो वर्तते ।

1. A B C D देख्ख for yपेख्ख.”
4. F भट्टिणि.-A निब्बि°-A B
C D E omit °त्तण°.
5. B ठ्ठाणे.-A C E गहिद°.
7. D E दुदीयो ।
8. E युगल.
9. A C दाणीं; F omit it alto-
gether.
11. B तिष्ठतः
मालविका । सहर्षम् । १किं भट्टा ।
बकुलावलिका । सस्मितम् । २ण दाव भट्टा । एसो असोअसाहावलम्बी पल्लवगुच्छो । ओदंसेहि णं ।
विदूषकः। ३अवि सुदं भवदा ।
राजा । पर्याप्तमेतावता कामिनाम् ।
अनादरोत्कण्ठितयोः प्रसिध्यता
समागमेनापि रतिर्न मां प्रति ।
परस्परप्राप्तिनिराशयोर्वरं
शरीरनाशोपि समानुरागयोः ॥ १८ ॥
मालविका । रचितपल्लवावतंसा सलोलमशोकताडनाय पादं प्रहिणोति ।
राजा । वयस्य पश्य ।
आदाय कर्णकिसलयमस्मादियमत्र चरणमर्पयति ।
उभयोः सदृशविनिमयादात्मानं वञ्चितं मन्ये ॥ । १६॥
बकुलावलिका । ४हला णथ्थि दे दोसो अगुणो अअं असोओ
जइ कुसुमसमुभ्भेदमन्थरो भवे । जो ईरिसं चलणसक्कारं लहेइ ।

१. किं भर्ता ।
२. न तावद्भर्ता । एषोशोकशाखावलम्बी पल्लवगुच्छः। अवतंसयैनम् ।
३. अपि श्रुतं भवता ।
४. हला नास्ति ते दोषः अगुणोयमशोको यदि कुसुमसमुद्भेदमन्थरो भवेत् । य
ईदृशं चरणसत्कारं लभते ।

4. E omits भवि."
9. A F समानरागयोः
10. Our MSS अशोकाय we ac-
cording to G.
11. F omits पश्य.
15. A c जई.-F मन्धरो.
16. A B C D E लहेयि.
राजा
अनेन तनुमध्यया मुखरनूपुराराविणा
नवाम्बुरुहकोमलेन चरणेन संभावितः ।
अशोक यदि सद्य एव कुसुमैर्न संपत्स्यसे
वृथा वहसि दोहलं ललितकामिसाधारणम् ॥ १६॥ ।
सखे वचनावसरपूर्वकं प्रवेष्टुमिच्छामि ।
विदूषकः । १एहि णं परिहासइस्सं ।
। उभौ प्रवेशं कुरुतः ।
निपुणिका । २भट्टिणी भट्ठा एथ्थ पविस्सदि ।
इरावती । ३एद मम पुढमं चिन्तिदं हिअएण ।
विदूषकः । उपसृत्य । ४होदि ण जुत्तं णाम अत्तहोदो पिअवअस्सो असोओ वामपादेण ताडेदुं ।
उभेससंभ्रमम् । ५अम्हो भट्टा ।
विदूषकः । ६बउलावलिए तुए गहीदथ्थाए अहोदी ईरिसं
अविणअं करन्ती किस ण वारिदा ।
मालविका । भयं निरूपयति ।

१. एह्येनां परिहासयिष्यामि ।
२. भट्टिनि भर्तात्र प्रविशति ।
३. इदं मम प्रथमं चिन्तितं हृदयेन ।
४. भवति न युक्तं नामात्रभवतः प्रियवयस्योशोको वामपादेन ताडयितुम् ।
५. अहो भर्ता ।
६.बकुलावलिके त्वया गृहीतार्थयात्रभवतीदृशमविनयं कुर्वन्ती कथं न वारिता ।

7. B परिहासईस्सं.
9. F भद्विणि-P अथ for "एथ्थ."
10. Our MSS. इदं मालविभाए for
“ एदं मम" We according
to G, – F पुडमं.
1l. A B C D E insert एदं before
ण जुत्तं.
14. A B C D E गहिद°–-A C इ
रिसं.
16. F किं साfor‘‘ किस
निपुणिका । १भट्टिणी देख्ख किं पवुत्तं अज्जगोदमेण ।
इरावती । २कहं स बम्हबन्धू अण्णहा जीविस्सदि ।
बकुलावलिका । ३अज्ज देवीए एसा णिओअं अणुचिठ्ठइ ।
एदस्सिं अदिक्कमे परवदी इअं । पसीददु भट्टा । आत्मना
सममेनां प्रणिपातयति ।
राजा । यद्येवमनपराधः । भद्रे उत्तिष्ठ । हस्तेन ग्रृहीत्वोत्थापयति ।
विदूषकः । ४जुज्जइ । देवी एथ्थ माणइदव्वा ।
राजा
किसलयमृदोर्विलासिनि कठिने निहितस्य पादपस्कन्धे ।
चरणस्य न ते बाधा संप्रति वामस्य वामोरु ॥ १७ ॥
मालविका । लज्जते ।
इरावती । सासूयम् । ५अम्हो णवणीदकप्पहिअओ अज्जउत्तो ।

१.भट्टिनि पश्य किं प्रवत्तमार्यगौतमेन ।
२.कथं स ब्रह्मबन्धुरन्यथा जीविष्यति ।
३.आर्य देव्या एषा नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परवतीयम् । प्रसीदतु भर्ता ।
४. युज्यते । देव्यत्र मानयितव्या ।
५.अहो नवनीतकल्पहृदय आर्यपुत्रः ।

1. E F भट्टिणि-F दख्ख.-D E
अ-अ.-B पउत्तं-F पजुत्तं,
translated by प्रयुक्तम्.
2. B जीविसदि ; DE जविस्सिदि.
3. D E F अ-अ‌-B अणुचिठ्ठई.
7. F अभ्य for "एभ्य".
10. F वामोरु वामस्य.
11. C लज्जति.
12. Our MSS. omit सासूयम्.We
according to G.-F omits
कप्प.
मालविका । १बउलावलिए एहि । अणुठ्ठिदं अत्तणो णिओअं
देवीए णिवेदेम्ह ।
बकुलावलिका । २तेण विण्ण्वेहि भट्टारं विसज्जेहित्ति ।
राजा । भद्रे यास्यसि । मम तावदुत्पन्नावसरमर्थित्वं श्रूयताम् ।
बकुलावालिका । ३अवहिदा सुणाहि । आणवेदु भट्टा ।
राजा
धृतिपुष्पमयमपि जनो बघ्नाति न तादृशं चिरात्प्रभृति ।
स्पर्शामृतेन पूरय दोहलमस्याप्यनन्यरुचेः ॥ १७ ॥
इरावती। सहसोपसृत्य । ४पुरेहि पुरेहि । णं असोओ कुसुमं
दंसेदि । अअं उण ण केवलं पुफ्फइ फलइ अ ।
। सर्व इरावतीं दृष्ट्वा संभ्रान्ताः ।
राजा । जनान्तिकम् । वयस्य का प्रतिपत्तिरत्र ।
विदूषकः । ६किं अण्णं । जङ्घाबलं एव्व ।

१. बकुलावलिके एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवेदयावः ।
२. तेन विज्ञापय भर्तारं विसृजेति ।
३. अवहिता शृणु । नन्वशोकः कुसुमं दर्शयति ।अयं पुनर्न केवलं पुष्प्यति फलति च ।
५. किमन्यत् । जङ्घाबलमेव ।

2. B C D णिवेदेभ
3. A विणवेहि - E विसब्जहिचि
4. B has भद्रे यास्यसि मा तावत्
9. B ण्णं for "णं"- A B C E do
not repeat "पुरेहि" F पुरेहि
परेहि - F translates णं by
एनम् in it's छाया
10. F दसेइ
12. F omits अत्र
13. A अणं- our MSS जङ्घावल
उवणं we according to G
इरावती । १बेउलावालिए साहु तुए उपक्कन्तं । मालविए
तुमं दाव अज्जउत्तं सफलपथ्थणं करेहि ।
उभे । २पसीददु भट्टिणी । का अम्हे भट्टिणो प्पणअप्पसङ्गस्स।
[ निष्कान्ते ।
ईरावती । ३अहो अविस्ससणीआ पुरुसा । मए ख्खु अत्तणो 5
वञ्चणाव अणं पमाणीकरिअ वाहजणगीदरत्ताए हरिणीए विअ असङ्किताए एदं ण विण्णादं ।
विदूषकः । जनान्तिकम् ४पडिओजेहि किंपि । कम्मगहीदेण कुम्भिलएण संधिच्छेआस्सख्खकोम्हिनत्ति एथ्थ वतव्वं होदि ।
राजा । सुन्दरि मालविकायां न मे कश्चिदर्थः। मया त्वं
चिरायसीति कथंचिदात्मा विनोदितः।

१. बकुलावलिके साधु वयोपक्रान्तम् । मालविके त्वं तावदार्यपुत्रं सफलप्रार्थनं कुरु ।
२. प्रसीदतु भट्टिनी । के आवां भर्तुः प्रणयप्रसङ्गस्य ।
३. अहो अविश्वसनीयाः पुरुषाः। मया खल्वात्मनो वञ्चनावचन प्रमाणीकृत्य व्याधजनगीतरक्तया हरिण्येवाशङ्कितयेदं न विज्ञातम् ।
४. प्रतियोजय किमपि । कर्मगृहीतेन कुम्भिलकेन संधिच्छेदशिक्षकोस्मीत्यत्र वक्तव्यं
भवति।

1. B तए for “ तुए.
2. D E F' अ-अ°.
3. A D E पण अ°- ' पणभपडिगहस्स
5. E परिसा.
6. A E पमाणी?.--B ०करीभ
7. F omits “असङकिताए."
8. F पडियोजेहि किंबि.-A B C D
E गहिदेण.-f .takes कम्म
with पडियोजेहि किंवि, and
explains its translation कर्म
by “मृषोद्यमित्यर्थः”. But this
is hardly possible. कम्मग
हीदेण = by (a thief) caught
in the act.
12. B कथं कथंचित्.
इरावती । १विस्ससणीओसि । मए ण विण्णादं एतारिसं विणोदवथ्थु अज्जउत्तेण उवलध्धंति । अण्णहा दुख्खतरं एव्वं ण करोमि ।
विदूषकः । २मा दाव अत्तहोदी अत्तहोदी दखिखण्णस्स उवरोहं भणादु । समापत्तिदिठ्ठेण देवीए परिजणेण संकहावि जइ अवराही ठावीअदि एथ्थ तुमं एव्वं प्पमाणं ।
इरावती । ३णं संकहा णाम होदु । केत्तिअं कालं अत्ताण आआसइस्सं । रूष्टा प्रस्थिता ।
राजा । अनुसरन् । प्रसीदतु भवती ।
इरावती । रशनासंदिततचरणा व्रजत्येव ।
राजा । सुन्दरि न शोभते प्रणयिजननिरपेक्षता ।
इरावती । ४सठ अविस्ससणीअहिअओसि ।

१. विश्वसनीयोसि । मया न विज्ञातमेतादृशं विनोदवस्त्वार्यपुत्रेणोपलब्धमिति । अन्यथा दुःखतरमेवं न करोमि ।
२. मा तावदत्रभवत्यत्रभवतो दाक्षिण्यस्योपराधं भणतु । समापत्तिदॄष्टेन देव्याः परिजनेन संकथापि यद्यपराधी स्थाप्यतेत्र त्वमेव प्रमाणम्।
३. ननु संकथा नाम भवतु । कियन्तं कालमात्मानमायासष्यामि ।
४. शठ अविश्वसनीयहृदयोसि ।

1. A विणादं.
2. D E F अ-अं.
3. A B C D E एव्व for "एव्वं".
4. F अवराहं (= अपराधं ) for
"उवरोहं".
5. A B C जई.
6. F अवराहे. -- D E पमाणं.
7. A संकह णाम.
10. F संदानितचरणा.
12. A सट.---- A C अविस्ससणीज्ज;
B has विस्ससणीज्ज correct-
ed from भविस्ससणीज्ज.
राजा
शठ इति मयि तावदस्तु ते
परिचयवत्यवधीरणा प्रिये।
चरणपतितया न चण्डतां
विसृजसि मेखलयापि याचिता ॥ १९ ॥
इरावती । १इअंपि हदासा तुमं एव्व अणुसरदि । रशनामादाय
राजानं ताडयितुमिच्छति ।
राजा । एषा
बाष्पासारा हेमकाञ्चीगुणेन
श्रोणीबिम्बादव्यपेक्षाच्युतेन।
चण्डी चण्डं हन्तुमभ्युद्यता मां
विद्युद्दाम्रा मेघराजीव विन्ध्यम् ॥ २० ॥
इरावती । २किं मं भूओवि अवरध्धं करेसि । इति सरशनहस्तमालम्बते ।
राजा
अपराधिनि मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि।
वर्धयसि विलसितं त्वं दासजनायात्र कुप्यसि च ॥ २१ ॥
आत्मगतम् । नूनमिदानीमनुज्ञातम् । पादयोः पतति ।

१. इयमपि हताशा त्वामेवनुसरति ।
२. किं मां भूयोप्यपराद्धां करोषि ।

6. F इभवि.
10. A B C D E अभ्युपेक्षा०.
11. E अभ्युद्युत.
13. A मां for "मं"- A B C D E
भूयोवि.-F अवरुद्धं, translated in its छाया by अवरोधं.
इरावती । १ण हु इमे मालविआए चलणा जे दे परिसदोहलं पूरइस्सन्दि ।
[ ससखी निष्क्रान्ता ।
विदूषकः । २भो उठ्ठेहि उट्ठेहि । किदप्पसादोसि ।
राजा । उत्थायेरावतीमपश्यन् । कथं गतैव प्रिया ।
विदूषकः । ३दिठ्ठिआ इमस्स अविणअस्स अप्पसादिदा गदा।
ता वअं सिघ्घं अवक्कमाम जाव अङ्गारओ रासिं विअ
सा अणुवक्कं ण करेइ ।
राजा । अहो मनसिजवैषम्यम् ।
मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम् ।
एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥॥
॥ इति परिक्रम्य निष्क्रान्ताः सर्वे ॥
॥ इति तृतीयोङ्क ।

१. न खल्वमौ मालविकायाश्चरणौ यौ ते स्पर्शदोहदं पूरयिष्यतः।
२. भो उत्तिष्ठोत्तिष्ठ ।कृतप्रसादोसि ।
३. दिष्टयैतस्याविनयस्याप्रसादिता गता । तदावां शीघ्रमपक्रमावो यावदङ्गारको राशिमिव सानुवक्रं न करोति ।

1. F हरिसदोहलं.
2. A C E पूरइस्सदि.
4. F omits भो.
6. D E अविणयस्स”–A B C D अपसादिदान.
7. F दाव सिघ्घं for ‘ता वअं सिघ्घं”.
  1. ननु संनिहितं बीजपूरकम् । कथय द्वयोः संगीतकोपदेशनिमित्तमन्योन्यसंघर्षिणोर्नाव्याचार्ययोरुपेदशं दृष्ट्वा कतरो भगवत्या प्रशंसित इति ।
  2. द्वावपि किलागमिनौ प्रयोगनिपुणौ च । किं तु शिष्यागुणविशेषेण गणदास उन्नमितोपदेशः ।
  3. अथ मालविकागतं कौलीनं किमिति श्रूयते ।
  4. बलवत्खलु साभिलाषस्तस्यां भर्ता । केवलं देव्या धारिण्याश्चित्तं रक्षितुमभिलषदर्शने प्रभुतां न दर्शयति ।
  5. एषापि भवानिव मदनव्याधिना परिमृष्टा भविष्यति ।
  6. अयं स ललितदोहदापेक्ष्यगृहीतकुसुमनेपथ्य उत्कण्ठितां मामनुकरोत्यशोकः । तावदस्य प्रच्छायशीतले शिलापट्टे निषण्णा भूत्वात्मानं विनोदयामि ।
  7. श्रुतं भवतोत्कण्ठितास्मीत्यत्रभवत्या मन्त्रितम् ।
  8. किमात्मनश्छन्देन मन्त्रयसि ।
  9. न हि । भर्तुरेतानि प्रणयमयान्यक्षराणि बिम्बान्तरितानि ।
  10. हला देवीं विचिन्त्य न मे हृदयस्य प्रभविष्यामि ।
  11. मुग्धे भ्रमरसंबद्ध इति वसन्तावतारसर्वस्वो न चूतपल्लवः किमवतंसयितव्यः ।
  12. त्वं तावद्दुर्जाते मेत्यन्तसाहाय्यकारिणी भव ।
  13. विमर्दसुरभिर्बकुलावलिका खल्वहम् ।