महाभारतम्-18-स्वर्गारोहणपर्व-005

विकिस्रोतः तः
Jump to navigation Jump to search
← स्वर्गारोहणपर्व-004 महाभारतम्
अष्टादशपर्व
महाभारतम्-18-स्वर्गारोहणपर्व-005
वेदव्यासः
स्वर्गारोहणपर्व-006 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006

वैशंपायनेन जनमेजयंप्रति भीष्मद्रोणादीनां स्वस्वसुकृतफलत्वेन स्वर्गभोगानन्तरं स्वैस्स्वैरंशिभिः सहैक्यप्राप्तिकथनम्।। 1 ।।
जनमेजयेन यज्ञान्ते सबहुमानमास्तिकादिप्रेषणपूर्वकं तक्षशिलातो हास्तिनमेत्य प्रजापालनपूर्वकं सुखनिवासः।। 2 ।।
सौतिना शौनकादीन्प्रति जनमेयाय वैशम्पायनोक्तभारतकथनसमापनपूर्वकं भारतमहिमप्रशंसनम्।। 3 ।।

जनमेजय उवाच। 18-5-1x
भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः।
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा।।
18-5-1a
18-5-1b
धृष्टकेजुर्जयत्सेनो राजा चैव स सत्यजित्।
दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः।।
18-5-2a
18-5-2b
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः।
घटोत्कवादयश्चैव ये चान्ये नानुकीर्तिताः।।
18-5-3a
18-5-3b
ये चान्ये कीर्तिता वीरा राजानो दीप्तमूर्तयः।
स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे।।
18-5-4a
18-5-4b
आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम।
अन्ते वा कर्मणां कां ते गतिं प्राप्ता नरर्षभाः।।
18-5-5a
18-5-5b
एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं द्विजोत्तम।
तपसा हि प्रदीप्तेन सर्वं त्वमनुपश्यति।।
18-5-6a
18-5-6b
सौतिरुवाच। 18-5-7x
इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना।
व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे।
18-5-7a
18-5-7b
वैशम्पायन उवाच। 18-5-8x
गन्तव्यं कर्मणामन्ते सर्वेषां मनुजाधिप।
शृणु गुह्यमिदं राजन्देवानां भरतर्षभ।
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान्।।
18-5-8a
18-5-8b
18-5-8c
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः।
अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम्।।
18-5-9a
18-5-9b
तेनोक्तं कर्मणामन्ते प्रविशन्ति स्विकां तनुम्।। 18-5-10a
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः।
अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ।।
18-5-11a
18-5-11b
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम्।
कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणान्।।
18-5-12a
18-5-12b
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम्।
धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान्।।
18-5-13a
18-5-13b
धृतराष्ट्रो सहिता गन्धारी च यशस्विनी।
पत्नीभ्यां सहितः पाण्डुमहेन्द्रसदनं ययौ।।
18-5-14a
18-5-14b
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः।
निशठाक्रूरसाम्बाश्च भानुः कण्वो विदूरथः।।
18-5-15a
18-5-15b
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः।
कंशश्चैवोग्रसेनश्च वसुदेवस्तथैव च।।
18-5-16a
18-5-16b
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः।
विश्वेषां देवतानां ते विविशुर्नरसत्तमाः।।
18-5-17a
18-5-17b
[वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान्।
सोभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत्।।
18-5-18a
18-5-18b
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित्।]
विवेश सोमं धर्मात्मा कर्मणोन्ते मरारथः।।
18-5-19a
18-5-19b
आविवेश रविं कर्णो निहतः पुरुषर्षभ।
द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम्।।
18-5-20a
18-5-20b
धृतराष्ट्रात्मजाः सर्वे यातुधानान्प्रपेदिरे।
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः।।
18-5-21a
18-5-21b
अनन्तो भगवान्देवः प्रविवेश रसातलम्।
पितामहनियोगाद्वै यो योगाद्गामधारयत्।।
18-5-22a
18-5-22b
यः स नारायणो नाम देवदेवः सनातनः।
तस्यांशो वासुदेवस्तु कर्मणोन्ते विवेश ह।।
18-5-23a
18-5-23b
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहाः।
अमज्जंस्ताः सरस्वत्यां कालेन जनमेजय।।
18-5-24a
18-5-24b
तत्र त्यक्त्वा शरीराणि दिवमारुरुहुः पुनः।
ताश्चैवाप्सरसो भूत्वा वासुदेवमुपाविशन्।।
18-5-25a
18-5-25b
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः।
घटोत्कचादयश्चैव देवान्यक्षांश्च भेजिरे।।
18-5-26a
18-5-26b
दुर्योधनसहायाश्च राक्षसा येऽनुकीर्तिताः।
प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान्।।
18-5-27a
18-5-27b
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः।
वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः।।
18-5-28a
18-5-28b
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते।
कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत।।
18-5-29a
18-5-29b
सौतिरुवाच। 18-5-30x
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः।
विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ।।
18-5-30a
18-5-30b
ततः समापयामासुः कर्म तत्तस्य याजकाः।
आस्तिकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान्।।
18-5-31a
18-5-31b
ततो द्विजातीन्सर्वास्तान्दक्षिणाभिरतोषयत्।
पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम्।।
18-5-32a
18-5-32b
विसर्जयित्वा विप्रांस्तान्राजाऽपि जनमेजयः।
हृष्टस्तक्षशिलायाः स पुनरायाद्गचाह्वयम्।।
18-5-33a
18-5-33b
एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम्।
व्यासाज्ञया समाज्ञातं सर्पसत्रे नृपस्य हि।।
18-5-34a
18-5-34b
पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम्।
कृष्णेन मुनिना विप्र निर्मितं सत्यवादिना।।
18-5-35a
18-5-35b
सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता।
अतीन्द्रियेण शुचिना तपसा भावितात्मना।।
18-5-36a
18-5-36b
ऐश्वर्ये वर्तता चैव साङ्ख्ययोगवता तथा।
नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा।।
18-5-37a
18-5-37b
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्।।
18-5-38a
18-5-38b
`क्रीडां च वासुदेवस्य देवदेवस्य शाङ्गिणः।
विश्वेषां देवभागानां जन्मसायुज्यमेव च।।
18-5-39a
18-5-39b
य इदं शृणुयाद्विद्वान्पर्वसु द्विजसत्तमः।
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति।।
18-5-40a
18-5-40b
कार्ष्णं वेदमिमं सर्वं शृणुयाद्यः समाहितः।
ब्रह्महत्याकृतं पापं तत्क्षणादेव नश्यति।।
18-5-41a
18-5-41b
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः।
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतदिष्ठते।।
18-5-42a
18-5-42b
अह्ना यदेनः कुरुते इन्द्रियैर्मनसाऽपि वा।
महाभारतमाख्याय सर्पपापैः प्रमुच्यते।।
18-5-43a
18-5-43b
[यद्रात्रौ कुरुते पापं ब्राह्मणः स्त्रीगणैर्वृतः।
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते।।
18-5-44a
18-5-44b
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते।।
18-5-45a
18-5-45b
अष्टादशपुराणानि धर्मशास्त्राणि सर्वशः।
वेदाः साङ्गास्तथैकत्र भारतं चैकतः स्थितम्।।
18-5-46a
18-5-46b
श्रूयतां सिंहनादोऽयमृषेस्तस्य महात्मनः।
अष्टादशपुराणानां कर्तुर्वेदमहोदधेः।।
18-5-47a
18-5-47b
त्रिभिर्वर्षैर्महत्पुण्यं कृष्णद्वैपायनः प्रभुः।
अखिलं भारतं चेदं चकार भगवान्मुनिः।।
18-5-48a
18-5-48b
[आकर्ण्य भक्त्या सततं जयाख्यं भारतं महत्।
श्रीश्च कीर्तिस्तथा विद्या भवन्ति सहिताः सदा।।]
18-5-49a
18-5-49b
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रिचित्।।
18-5-50a
18-5-50b
"वाच्यते यत्र सततं जयाख्यं भारतं महत्।
श्रीश्व कीर्तिश्च विद्या च भवन्ति मुदिताः सदा।।
18-5-51a
18-5-51b
भारतस्य तु वक्तारं ब्रह्मर्षि च महागुरुम्।।
वैशंपायनमारोप्य स्वर्णभद्रासनं तदा।।
18-5-52a
18-5-52b
जनमेजयादिराजान आस्तिकाद्या द्विजातयः।
धर्मदत्तादिवैश्याश्च सोम्यवंश्यादिशूद्रकाः।।
18-5-53a
18-5-53b
प्रयुतं चायुतं चेति सहस्रं शतमित्यपि।
दशकं चेति निष्काणामानर्चुस्तं महागुरुम्।।
18-5-54a
18-5-54b
निष्काणां दशकं दत्त्वा मृतपुत्रोऽमृतप्रजः।
ऊष्मादिव्याधियुक्तश्च शतं दत्त्वा निरामयः।।
18-5-55a
18-5-55b
सहस्रदानात्संतानहीनः संतानपुत्रवान्।
आयुरारोग्यमैश्वर्यं भेजुस्तेऽन्नं च पुत्रकान्।।
18-5-56a
18-5-56b
सुवर्णं रजतं रत्नं सर्वाण्याभरणानि च।
सर्वोपकरणैर्युक्तं निधिनिक्षेपसंयुतम्।।
18-5-57a
18-5-57b
इष्टकाभित्तिसंयुक्तमग्निबाधादिवर्जितम्।
देवपूजाग्निहोत्रादिपाठार्थगृहसंयुतम्।
सान्तर्बहिस्संवरणं सप्रासादं सगोगृहम्।।
18-5-58a
18-5-58b
18-5-58c
व्यष्ट्या समष्ट्या वा दद्यात्स्वर्गारोहणपर्वणि।
निवृत्तिकामो दद्याच्चेत्पुनर्जन्म न विद्यते।।
18-5-59a
18-5-59b
सकामश्चेद्ब्रह्मकल्पं सुकं ब्रह्मगृहे वसेत्।। 18-5-60a
पुराणमुखतो यस्माद्वेदान्तज्ञानमाप्यते।
स तेन गुरुराख्यातस्तत्पूजा हीशपूजनम्।।
18-5-61a
18-5-61b
भारतस्य तु वक्तारं श्रोतारं लेखकांस्तदा।
प्रपूजयन्ति संहृष्टाः सिद्धाश्च परमर्षयः।।
18-5-62a
18-5-62b
महाभारतवक्तारं नार्चयन्तीह ये नराः।
तेषां सर्वक्रियाहानिर्भवेद्देवाः शपन्ति च।।'
18-5-63a
18-5-63b
जयो नामेतिहासोऽयं श्रोतव्यो जयमिच्छता।
राज्ञा राजसुतैश्चैव गर्भिण्या चैव योषिता।।
18-5-64a
18-5-64b
[स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम्।
गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम्।।
18-5-65a
18-5-65b
अनागतश्च मोक्षश्च कृष्णद्वैपायनः प्रभुः।
संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया।।
18-5-66a
18-5-66b
षष्टिं शतसहस्राणि चकारान्यां स संहिताम्।
त्रिंशच्छतसहस्राणि देवलोके प्रतिष्ठितम्।।
18-5-67a
18-5-67b
पित्र्ये पञ्चदशं ज्ञेयं यक्षलोके चतुर्दश।
एकं शतसहस्रं तु मानुषेषु प्रभाषितम्।।
18-5-68a
18-5-68b
नारदोऽश्रावयद्देवानसितो देवलः पितॄन्।
रक्षोयक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु।।
18-5-69a
18-5-69b
इतिहासमिमं पुण्यं महार्थं वेदसंमितम्।
व्यासोक्तं श्रूयते येन कृत्वा ब्राह्म्णमग्रतः।।
18-5-70a
18-5-70b
स नरः सर्वकामांश्च कीर्तिं प्राप्येह शौनक।
गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः।।
18-5-71a
18-5-71b
भारताध्ययनात्पुण्यादपि पादमधीयतः।
श्रद्धया परया भक्त्या श्राव्यते चापि येन तु।
य इमां संहितां पुण्यां पुत्रमध्यापयच्छुकम्।।
18-5-72a
18-5-72b
18-5-72c
मातापितृसहस्राणि पुत्रदारशतानि च।
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे।।
18-5-73a
18-5-73b
हर्षस्थानसहस्राणि भयस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम्।।
18-5-74a
18-5-74b
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते।।
18-5-75a
18-5-75b
न जातु कामान्न भयान्न लोभा-
द्धर्मं त्यजेज्जीवितस्यापि हेतोः।
नित्यो धर्मः सुखदुःखे त्वनिथ्ये
जीवो नित्यो हेतुरस्य त्वनित्यः।।
18-5-76a
18-5-76b
18-5-76c
18-5-76d
इमां भारतसावित्रीं प्रातरुत्थायः यः पठेत्।
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति।।
18-5-77a
18-5-77b
कयथा समुद्रो भगवान्यथा हि हिमवान्गिरिः।
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते।।
18-5-78a
18-5-78b
कार्ष्णं देवमिमं विद्वाञ्श्रावयित्वाऽर्थमश्नुते।
इदं भारतमाख्यानं यः पठेत्सुसमाहितः।
स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः।।
18-5-79a
18-5-79b
18-5-79c
द्वैपायनोष्ठपुटनिस्सृतमप्रमेयं
पुण्यं पवित्रमथ पापहरं शिवं च।
यो भारतं समधिगच्छति वाच्यमानं
किं तस्य पुष्करजलैरभिषेचनेन।।
18-5-80a
18-5-80b
18-5-80c
18-5-80d
यो गोशतं कनकशृङ्गमयं ददाति
विप्राय वेदविदुषे सुबहुश्रुताय।
पुण्यां च भारतकथां सततं शृणोति
तुल्यं फलं भवति तस्य च तस्य चैव।।]
18-5-81a
18-5-81b
18-5-81c
18-5-81d
"यद्यदिष्टतमं कामं लभते श्रद्धयाऽन्वितः।
शृणुयान्मुदितो भूत्वा आस्तिको बुद्धिसंयुतः।।
18-5-82a
18-5-82b

वासुदेवं स्मरन्विद्वान्पुण्डरीकायतेक्षणम्।
इतिहासमिमं पुण्यं महार्थं वेदसंमितम्।।

18-5-83a
18-5-83b

श्रावयेद्यस्तु वर्णादीन्कृत्वा ब्राह्मणमग्रतः।
सर्वपापविशुद्धात्मा शुचिस्तद्गतमानसः।।

18-5-84a
18-5-84b

इह कीर्तिं महत्प्राप्य भोगवान्सुखमश्नुते।
व्यासप्रसादेन पुनः स्वर्गलोकं स गच्छति।।

18-5-85a
18-5-85b

एतद्विदित्वा सर्वं तु सर्ववेदार्थविद्भवेत्।
पूजनीयश्च सततं माननीयो भवेद्द्विजः।।"

18-5-86a
18-5-86b
।। इति श्रीमन्महाभारते शतसाहस्र्यां
संहितायां वैयासिक्यां
स्वर्गारोहणपर्वणि पञ्चमोऽध्यायः।। 5 ।।
।। समाप्तं स्वर्गारोहणपर्व।। 18 ।।
इति श्रीमन्महाभारतं समाप्तम्।।
---------------

[सम्पाद्यताम्]

18-5-8 न शक्यं कर्मिणामन्ते सर्वेण मनुजाधिप। प्रकृतिं किंनु सम्यक्ते पृच्छैषा सम्प्रयोजितेतिय ज्ञ. पाठः।। 18-5-36 विधिज्ञेन दैवज्ञेन। अतीन्द्रियेणेन्द्रियाण्यतिक्रान्तेन।। 18-5-38 सर्वेषां तृतीयान्तानां निर्मितमित्यनेनान्वयः। अन्येषामपि कीर्तिवासुदेवस्य क्रीडां च प्रथयतेति सम्बन्धः।। 18-5-40 यश्चेदं श्रावयेद्विद्वान्सदा पर्वणिपर्वणि। ब्रह्मभूयाय कल्पते। इति झ.पाठः।। 18-5-41 ब्रह्महत्यादिप्पपानां कोटिस्तस्य विनश्यति इति झ.पाठः। 18-5-42 अन्ततो निकटे।। 18-5-43 आख्याय पश्चात्संध्यां प्रमुच्यत इति झ.पाठः। तत्र महाभारतस्याल्पमपि पश्चिमायां संध्यायां पठ्यते चेद्दिनकृतं पापं नश्यति। एवं प्रातः संध्यायां रात्रिकृतमित्यर्थः।। 18-5-45 निरुक्तं नामनिर्वचनं।। 18-5-48 त्रिभिर्वर्षैरिदं पूर्णमिति झ.पाठः।। 18-5-50 चकारचतुष्टयादधर्मादिचतुष्टयमप्यत्रोक्तं हानार्तमिति बोध्यम्।। 18-5-64 श्रोतव्यो मोक्षमिच्छता। ब्राह्मणेन च राज्ञा च गार्भिण्या इति पाठः।। 18-5-66 अनागतोऽनागन्तुको नित्यसिद्ध इतियावत्। एवंविधो यो मोक्षः कैवल्यं तदेव स्वरूपं यस्य स मोक्षः। यद्वा मोक्तुमिच्छन्। मुचोऽकर्मिकस्य गुणो वेति सनि गुणोऽभ्यासलोपश्च। मुमुक्षुरित्यर्थः। लोकहित इति भावः।। 18-5-67 अन्यां वेदचतुष्टयसंहिताभ्यः पृथग्भूतां तदर्थवतीम्।। 18-5-70 श्रूयते येन यः शृणोतीत्यर्थः। उभयत्र विभक्तिव्यत्यय आर्षः।। 18-5-72 भारताध्ययनादिति सार्धश्लोकः। यः व्यासः इमां संहितां शुकं पुत्रं अध्यापयत्। तस्य अधीयतो भारताख्यमितिहासं स्मरतः। स्मृत्वा च ग्रन्थरूपेण प्रणयतः। भक्त्या परया श्रद्धया च व्यास एव पूज्यस्तस्य वाक्यं प्रमाणमेवेत्यास्तिक्यबुद्द्या येन पुंसा इदं श्राव्यते सु पुण्यात् पुण्यकरात् अपि पादं श्लोकपादं ग्रन्थपादं वा भारतस्याध्ययनात्परमिकां सिद्धिं गच्छेदिति पूर्वेणान्वयः। व्यासे श्रद्धां बद्ध्वा भारतमध्येव्यभित्यर्थः।। 18-5-73 संध्यायां भारतं पठनीयमित्युक्तं तत्र पठनायोग्यं भारतसारसंप्रहं चतुः श्लोकीरूपमाह मातेति।।

स्वर्गारोहणपर्व-004 पुटाग्रे अल्लिखितम्। स्वर्गारोहणपर्व-006