महाभारतम्-04-विराटपर्व-077

विकिस्रोतः तः
← विराटपर्व-076 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-077
वेदव्यासः
विराटपर्व-078 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

विराटेनार्जुनंप्रति स्वकुमार्या उत्तराया भार्यात्वेन प्रतिग्रहणप्रार्थने तंप्रत्यर्जुनेन सहेतुकथनं स्नुपात्वेन परिग्रहाङ्गीकरणम् ।। 1 ।। दुर्योधनेन युधिष्ठिरंप्रति दूतमुखेन त्रयोदशवत्सरस्यासंपूर्तावेवार्जुनेनात्मप्रकाशनात्पुनर्वनवासविधेयतानिवेदनम् ।। 2 ।। युधिष्ठिरेण तंप्रति तेनैव दूतेन भीष्ममुखात्संदेहस्य परिहरणीयताप्रतिवेदनम् ।। 3 ।। भीष्मेण विचार्य निर्धारणपूर्वकं संकेतकालस्य पूर्णत्वोक्तिः ।। 4 ।।













विराट उवाच।

4-77-1x

यच्च वक्ष्याम्यहं तेऽद्य मा शङ्केथा युधिष्ठिर।
इदं सनगरं राष्ट्रं सजनं सवधूजनम्।
युष्यभ्यं संप्रदास्यामि भोक्ष्याम्युच्छिष्टमेव च ।।

4-77-1a
4-77-1b
4-77-1c

अहं वद्धश्चिरं राजन्भुक्तभोगश्चिरं सुखम्।
राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम् ।।

4-77-2a
4-77-2b

उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः ।
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ।।

4-77-3a
4-77-3b

वैशंपायन उवाच।

4-77-4x

एवमुक्तो धर्मराजः पार्थपैक्षद्वनंजयम्।
ईक्षितं चार्जुनो ज्ञात्वा मात्स्यं वचनमब्रवीत् ।।

4-77-4a
4-77-4b

वयं वनान्तरात्प्राप्ता न ते राज्यं गृहामहे।
किंतु दुर्योधनादीनां राज्ञां राज्यं गृहामहे ।।

4-77-5a
4-77-5b

प्रतिगृह्णाम्यहं राजन्स्रुषं दुहितरं तव।
युक्तो ह्यावां हि संबन्धो मात्स्यभारतवंशयोः ।।

4-77-6a
4-77-6b

विराट उवाच।

4-77-7x

किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम।
प्रतिग्रहीतुं नेमां त्वं मया दत्तमिहेच्छसि ।।

4-77-7a
4-77-7b

अर्जुन उवाच।

4-77-8x

अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव।
सहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ।।

4-77-8a
4-77-8b

प्रियो बहुमतश्चाहं नर्तने गीतवादिते।
आचार्यवच्च मां नित्यं मन्यते दुहिता तव ।।

4-77-9a
4-77-9b

वयस्यया तया राजन्सह संवत्सरोषितः ।
अतिशङ्का ततोऽस्थाने तव लोकस्य च प्रभो ।।

4-77-10a
4-77-10b

तस्मादामन्त्रये त्वाऽद्य पुत्रार्थं मे विशांपते।
सुद्धं जितेन्द्रियं मन्ये तस्याः शुद्धिः कृता मया ।।

4-77-11a
4-77-11b

स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः ।
अतिशङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ।।

4-77-12a
4-77-12b

अभिषङ्गादहं भीतो मिथ्याचारात्परंतप ।
स्रुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ।।

4-77-13a
4-77-13b

स्वस्त्रीयो वासुदेवस्य साक्षाद्देवसुतो यथा।
दयितश्चक्रहस्तस्य बलवानस्त्रकोविदः ।।

4-77-14a
4-77-14b

अभिमन्युर्गहाबाहुः पुत्रो मम विशांपते ।
जामाता तव युक्तो वै भर्ता च दुहितुस्तव ।।

4-77-15a
4-77-15b

विराट उवाच।

4-77-16x

उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये।
सदैव धर्मनित्यश्च ज्ञातज्ञानश्च पाण्डवः ।।

4-77-16a
4-77-16b

यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम्।
सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः ।।

4-77-17a
4-77-17b

वैशंपायन उवाच।

4-77-18x

एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः।
अन्वजानत संबन्धं समये कृष्णमात्स्ययोः ।।

4-77-18a
4-77-18b

दूतान्सर्वेषु मित्रेषु वासुदेवे च भारत।
प्रेषयामास कौन्तेयो विराटश्च महीपतिः ।

4-77-19a
4-77-19b

प्रतिगृह्य स्नुषार्थं वै दर्शयन्व्रतमात्मनः ।
शीलशौचसमाचारं लोकस्यावेद्य फल्गुनः ।।

4-77-20a
4-77-20b

लोके विख्याप्य माहात्म्यं यशश्च स परंतपः ।
कृतार्थः शुचिरव्यग्रस्तुष्टिमानभवत्तदा ।।

4-77-21a
4-77-21b

युधिष्ठिर उवाच।

4-77-22x

राजन्प्रीतोस्मि भद्रं ते सखा मेऽसि परन्तप।
सुखमध्युषिताः सर्वे अज्ञातास्त्वयि पार्थिव ।।

4-77-22a
4-77-22b

वैशंपायन उवाच।

4-77-23x

विराटनगरे राजा धर्मात्मा संशितव्रतः ।
पूजितश्चाभिषिक्तश्च रत्नैश्च शतशोर्चितः ।।

4-77-23a
4-77-23b

तथा ब्रुवन्तं प्रसमीक्ष्य राजा
परं प्रहृष्टः स्वजनेन तेन।
स्नेहात्परिष्वज्य नृपो भुजाभ्यां
ददौ महार्थं कुरुपाण्डवानाम् ।।

4-77-24a
4-77-24b
4-77-24c
4-77-24d

समादिशन्दूतमथो समग्राः ।।

4-77-25f

युधिष्ठिरश्चापि सुसंग्रहृष्टो
दुर्योधनाद्दूतमपश्यदागतम्।
स चाब्रवीद्धर्मराजं समेत्य
युधिष्ठिरं पाण्डवमुग्रवीर्यम् ।।

4-77-26a
4-77-26b
4-77-26c
4-77-26d

धनञ्जयेनासि पुनर्वनाय
प्रव्राजितः समये तिष्ठ पार्थः।
त्रयोदशे ह्येव किरीटमाली
संवत्सरे पाण्डवेयोऽद्य दृष्टः ।।

4-77-27a
4-77-27b
4-77-27c
4-77-27d

वैशंपायन उवाच।

4-77-28x

ततोऽब्रवीद्धर्मसुतः प्रहस्य
क्षिप्रं गत्वा ब्रूहि सुयोधनं तम्।
पितामहः शान्तनवो ब्रवीतु
पूर्णो न पूर्णोऽद्य त्रयोदशो नः ।।

4-77-28a
4-77-28b
4-77-28c
4-77-28d

संवत्सरात्ते तु धनञ्जयेन
विष्फारितं गाण्डिवमाजिमध्ये।
पूर्णो न पूर्णो न इति ब्रवीतु
यदस्य सत्यं मम तत्प्रमाणम् ।।

4-77-29a
4-77-29b
4-77-29c
4-77-29d

तेनैवमुक्तः स निवृत्य दूतो
दुर्योधनं प्राप्य शशंस तत्त्वम्।।

4-77-30a
4-77-30b

समेत्य दूतेन स राजपुत्रो
दुर्योधनो मन्त्रयामास तत्र।
भीष्मेण कर्णेन कृपेण चैव
द्रोणेन भूरिश्रवसा च सार्धम् ।।

4-77-31a
4-77-31b
4-77-31c
4-77-31d

संमन्त्र्य रात्रौ बहुभिः सुहृद्भि-
र्भीष्मोऽब्रवीद्धार्तराष्ट्रं महात्मा ।
तीर्णप्रतिज्ञेन धनंजयेन
विष्फारितं गाण्डिवमाजिमध्ये ।।

4-77-32a
4-77-32b
4-77-32c
4-77-32d

वैशंपायन उवाच।

4-77-33x

नेच्छन्त्यसत्येन सुरेन्द्रलोकं
पाण्डोः सुता ब्रह्मणश्चापि लोकम्।
तथ्यं च ते पथ्यमहं ब्रवीमि
स्वर्ग्यं यशस्यं परलोकपथ्यम् ।।

4-77-33a
4-77-33b
4-77-33c
4-77-33d

कुन्तीसुतैस्त्वं समुपैहि सन्धिं
भुङ्क्ष्व स्वराज्यं सह पाण्डवेयैः।
युध्यस्व नोचेत्स्थिरबुद्धिराजौ
कुन्तीसुतैर्यद्यपि राज्यमिच्छेः ।।

4-77-34a
4-77-34b
4-77-34c
4-77-34d

आन्तं न शक्यं कपटेन भोक्तुं
राज्यं परेषां महतां बलीनाम्।
जित्वा शत्रून्भुङ्क्ष्व राज्यं समग्रं
हतो भवान्भोक्ष्यति वज्रिलोकम् ।।

4-77-35a
4-77-35b
4-77-35c
4-77-35d

वैशंपायन उवाच।

4-77-36x

हतोस्मि तैर्वा सुरलोकमेमि ।।

4-77-36f

ते धार्तराष्ट्राः समयं निशम्य
तीर्णप्रतिज्ञस्य धनंजयस्य
संचिन्त्य सर्वे सहिताः सुहृद्भिः
सपार्थिवाः स्वानि गृहाणि जग्मुः ।।

4-77-37a
4-77-37b
4-77-37c
4-77-37d

।। इति श्रीमन्महाभारते विराटपर्वणि
वैवाहिकपर्वणि सप्तसप्ततितमोऽध्यायः ।।

[सम्पाद्यताम्]

4-77-6 आवां आवयोः ।। 6 ।।

विराटपर्व-076 पुटाग्रे अल्लिखितम्। विराटपर्व-078