महाभारतम्-04-विराटपर्व-076

विकिस्रोतः तः
← विराटपर्व-075 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-076
वेदव्यासः
विराटपर्व-077 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

उत्तरेण विराटंप्रति युधिष्ठिरादिकृतोपकारस्मारणपूर्वकमुत्तरायाः प्रदानेन तत्प्रसादनचोदना ।। 1 ।। युधिष्ठिरेणोत्तराया पुरस्कारेण सप्रणामं प्रसादयते विराटायाभयप्रदानम् ।। 2 ।।






वैशंपायन उवाच।

4-76-1x

विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः।
उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ।।

4-76-1a
4-76-1b

प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये।
तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः ।।

4-76-2a
4-76-2b

उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन।
प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे।

4-76-3a
4-76-3b

वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसाद्याभ्युपतिष्ठामो राजन्किं करवागहे ।।

4-76-4a
4-76-4b

राजंस्त्वमसि संग्रामे गृहीतस्तेन मोक्षितः ।
एतेषां बाहुवीर्येण गावश्च विजितास्त्वया ।।

4-76-5a
4-76-5b

कुरवो निर्जिता यस्मात्संग्रामेऽमिततेजसः ।
एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः ।।

4-76-6a
4-76-6b

अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः।
अर्वार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम् ।।

4-76-7a
4-76-7b

पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः।
न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः ।।

4-76-8a
4-76-8b

तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसादयाम्यहं तत्र सह पार्थेर्महात्मभिः ।।

4-76-9a
4-76-9b

उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः ।
जानाम्यहमिदं सर्वमेषां तु बलपौरुषम् ।
कुले च जन्म महति फल्गुनस्य च विक्रमम् ।।

4-76-10a
4-76-10b
4-76-10c

वैशंपायन उवाच।

4-75-11x

उत्तरात्पाण्डवाञ्श्रुत्वा विराटो रिपुसूदनः।
उत्तरं चापि संप्रेक्ष्य प्राप्तकालमचिन्तयत् ।।

4-76-11a
4-76-11b

ततो विराटः सामात्यः सहपुत्रः सबान्धवः।
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः।
भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः ।।

4-76-12a
4-76-12b
4-76-12c

विराट उवाच।

4-76-13x

प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः।
प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः ।।

4-76-13a
4-76-13b

शिरसाऽभिप्रपन्नोस्मि सपुत्रपरिचारकः ।।

4-76-14a

यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः ।
अवमत्य कृतं सर्वमज्ञानात्प्राकृते यथा।
क्षन्तुमर्हसि तत्सर्वं धर्मज्ञो धर्मवत्सल ।।

4-76-15a
4-76-15b
4-76-15c

यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव ।
सदण्डकोशं विसृजे तव वश्योस्मि पार्थिव ।
वयं च सर्वे सामात्या भवन्तं शरणं गताः ।।

4-76-16a
4-76-16b
4-76-16c

वैशंपायन उवाच।

4-76-17x

तं धर्मराजः पतितं महीतले
सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् ।
उवाच वाक्यं परलोकदर्शनः
प्रनष्टमन्युर्गतशोकमत्सरः।।

4-76-17a
4-76-17b
4-76-17c
4-76-17d

समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम ।।

4-76-18f

क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव।
न चैव किंचित्पश्यामि विकृतं ते नराधिप ।।

4-76-19a
4-76-19b

वैशंपायन उवाच।

4-76-20x

ततो विराटः परमामितुष्टः
समेत्य राज्ञा समयं चकार।
राज्यं च सर्वं विससर्ज तस्मै
सदण्डकोशं सपुरं महात्मा ।।

4-76-20a
4-76-20b
4-76-20c
4-76-20d

।। इति श्रीमन्महाभारते विराटपर्वणि
वैवाहिकपर्वणि षट्सप्ततितमोऽध्यायः ।।

[सम्पाद्यताम्]

4-76-1 अभिपन्नोऽपराधं कृतवान् ।। 1 ।। 4-76-3 ततस्तुष्टा भवन्तु ते इति थo पाठः ।। 3 ।।

विराटपर्व-075 पुटाग्रे अल्लिखितम्। विराटपर्व-077