महाभारतम्-04-विराटपर्व-067

विकिस्रोतः तः
← विराटपर्व-066 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-067
वेदव्यासः
विराटपर्व-068 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

सोपहासमर्जुनसमाहूतेन दुर्योधनेन पुनः परावृत्याभियानम् ।। 1 ।। भीष्मादिभिस्तद्रक्षणाय परितोऽवस्थानम् ।। 2 ।। अर्जुनेन तैः सह चिरं प्रयुध्य पश्चात्संमोहनास्त्रप्रयोगः ।। 3 ।। उत्तरेणार्जुनचोदनयाऽस्त्रमोहितानां द्रोणादीनां वस्त्रापहरणम् ।। 4 ।। अर्जुनेन बाणैर्भीष्माद्यभिवादनम् ।। 5 ।।





वैशंपायन उवाच ।

4-67-1x

आहूयमानस्तु स तेन सङ्ख्ये महात्मना वै धृ
निवर्तितश्चापि गिराङ्कुशेन गजो मदोन्मत्त इवाङ्कुशेन ।।

4-67-1a
4-67-1b

सोमृष्यमाणो वचसाऽभिमृष्टो महारथेनातिरथस्तरस्वी ।
ततः स पर्याववृते रथेन भोगी यथा पादतलाभिमृष्टः ।।

4-67-2a
4-67-2b

ततो दुर्योधनः क्रुद्धो विक्षिपन्धनुरुत्तमम्।
धृतिं कृत्वा सुविपुलां प्रत्युवाच पऩञ्जयम् ।।

4-67-3a
4-67-3b

सोहमिन्द्रादभिक्रुद्धान्न बिभेमीह भारत ।
भुक्त्वा सुविपुलं राज्यं वित्तानि च सुखानि च।
किमर्थं युद्धसमये पलापिष्ये नरोत्तम ।।

4-67-4a
4-67-4b
4-67-4c

एवमुक्त्वा महाराजः प्रत्ययुध्यत भारत।
संन्यवर्तत शीघ्राश्वस्तोत्रार्दित इव द्विपः ।।

4-67-5a
4-67-5b

आक्रान्तभोगस्तेजस्वी धनुर्वक्र इवोरगः ।
रथं रथेन संगम्य योधयामास पाण्डवम् ।।

4-67-6a
4-67-6b

तं प्रेक्ष्य कर्णः परिवर्तमानं निवृत्य संस्तम्भितसर्वगात्रम् ।
दुर्योधनं दक्षिणतोऽन्वरक्षत्पार्थान्महाबाहुरधिज्यधन्वा ।।

4-67-7a
4-67-7b

गान्धारराजः शकुनिर्निवृत्य द्रौणिश्च सर्वास्त्रविदां वरिष्ठः ।
ररक्षतुः कौरवमभ्युपेत्य पार्थान्नृवीरौ युधि सव्यतश्च ।।

4-67-8a
4-67-8b

भीष्मस्ततः शान्तनवो विवृत्य हिरण्यकक्ष्यांस्त्वरया तुरंगान्।
दुर्योधनं पश्चिमतो ररक्ष पार्थान्महाबाहुरधिज्यधन्वा ।।

4-67-9a
4-67-9b

द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव निवृत्य शीघ्रम्।
सर्वे पुरस्तात्प्रणिधाय बाणान्दुर्योधनार्थं त्वरिताऽभ्युपेयुः ।।

4-67-10a
4-67-10b

सर्वाण्यनीकानि निवर्तितानि संप्रेक्ष्य पूर्णौघनिभानि पार्थः ।
हंसो महामेघमिवापतन्तं धनञ्जयः प्रत्यपतत्तरस्वी ।।

4-67-11a
4-67-11b

ते सर्वतः संपरिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः ।
ववर्षुरभ्येत्य शरैः समग्रैर्मेघा यथा भूधरमम्बुवेगैः ।।

4-67-12a
4-67-12b

ततोऽस्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुङ्गवानाम्।
संमोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रमवारणीयम् ।।

4-67-13a
4-67-13b

ततो दिशश्चानुदिशो निवार्य शरैः सुघोरैर्निशितैः सुपुङ्खैः।
गाण्डीवशब्देन मनांसि तेषां महाबलं प्रवथयांचकार ।।

4-67-14a
4-67-14b

ततः पुनर्भीमरवं निगृह्य दोर्भ्यां महाशङ्खमुदारघोषम्।
व्यनादयन्संप्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता ।।

4-67-15a
4-67-15b

संमोहनास्त्रप्रभवैः शरौघैर्विनष्टदेहाश्च निपत्य योधाः ।
निःसत्ववेगाः कुरुराजसैन्याः कुडयोपमास्तस्थुरनीहमानाः ।।

4-67-16a
4-67-16b

ते शङ्खनादेन कुरुप्रवीराः संमोहिताः पार्थसमीरितेन ।
उत्सृज्य चापानि दुरासदानि सर्वे तदा मोहपरा बभूवुः ।।

4-67-17a
4-67-17b

ततो विसंज्ञानि परेषु पार्थः संस्मृत्य संदेशमथोत्तरायाः ।
निर्याहि वाहादिति मात्स्यपुत्रमुवाच यावत्कुरवो विसंज्ञाः ।।

4-67-18a
4-67-18b

आचार्यशारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम्।
द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर ।।

4-67-19a
4-67-19b

भीष्मस्य संज्ञां तु तथैव मन्ये जानाति मेऽस्त्रप्रतिघातमेषः।
एतस्य वाहान्कुरु सव्यतस्त्वमेवं प्रयातव्यममूढसंज्ञैः ।।

4-67-20a
4-67-20b

रश्मीन्समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः ।
वस्त्राण्युपादाय महारथानां नानाविधान्यद्भुतवर्णकानि ।।

4-67-21a
4-67-21b

महान्ति चीनांशुदुकूलकानि पट्टांशुकानि विविधानि मनोज्ञकानि ।
हारांश्च राज्ञां मणिभूषणानि सुवर्णनिष्काभरणानि मारिष ।।

4-67-22a
4-67-22b

माणिक्यबाह्वङ्गदकङ्कणानि अन्यानि राज्ञां मणिभूषणानि।
वस्त्राण्युपादाय महारथानां तूर्णं पुनः खं रथमारुरोह ।।

4-67-23a
4-67-23b

राज्ञश्च सर्वान्कृतसंनिकाशान्संमोहनास्त्रेण विसंज्ञकल्पान् ।
नासाग्रविन्यस्तकराङ्गुलीकः पार्थो जहास स्मयमानचेताः ।।

4-67-24a
4-67-24b

ततोऽन्वशात्तांश्चतुरः सदश्वान्पुत्रो विराटस्य हिरण्यकक्ष्यान् ।
ते तद्व्यतीयुर्द्विषतामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात् ।।

4-67-25a
4-67-25b

तथा प्रयान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत्तरस्वी।
स चापि भीष्मस्य हयान्निहत्य विव्याध भीष्मं दशभिः पृषत्कैः ।।

4-67-26a
4-67-26b

ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वाऽस्य यन्तारमरिष्टधन्वा।
तस्थौ विमुक्तो रथवृन्दमध्याद्राहुं विदार्येव सहस्ररश्मिः ।।

4-67-27a
4-67-27b

लब्ध्वा तु संज्ञां पुरुषप्रवीरः पार्थं निरीक्ष्याथ महेन्द्रकल्पम् ।
रणात्प्रमुक्तं पुरुषप्रवीरं स धार्तराष्ट्रस्त्वरितो बभाषे ।।

4-67-28a
4-67-28b

अयं कथंचिद्भवतो विमुक्तस्तं वै प्रबध्नीत यथा न मुच्येत्।
तमब्रवीच्छान्तनवः प्रहस्य क्व ते गता बुद्धिरभूत्क्क वीर्यम् ।।

4-67-29a
4-67-29b

शान्तिं परां प्राप्य यथा स्थितस्त्वमुत्सृज्य बाणांश्च धनुश्च चित्रम् ।
न त्वेव बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो निविष्टम् ।।

4-67-30a
4-67-30b

जह्यान्न धर्मं त्रिदिवस्य हेतोः सर्वे तु तस्मान्न हता रणेऽस्मिन्।
क्षिप्रं कुरून्याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः ।।

4-67-31a
4-67-31b

संमोहनास्त्रप्रतिमोहिताः स्थ यूयं न जानीथ धनापहारम्।
पश्यामि वस्त्राभरणानि राजन्विराटपुत्रेण समाहृतानि ।।

4-67-32a
4-67-32b

नृपेषु सर्वेषु च मोहितेषु हन्तुं यदीच्छेत्स हनिष्यतीति।
तदा तु धर्मात्मतया नृवीरो न चाहनद्वो बलभित्तनूजः ।।

4-67-33a
4-67-33b

भाग्येन युष्मानवधीन्न पार्थः संधिं कुरूणामनुमन्यमानः ।
तद्यात यूयं सहसैनिकैस्तैर्हतावशिष्टैर्गजसाह्वयं पुरुम् ।।

4-67-34a
4-67-34b

वैशंपायन उवाच।

4-67-35x

दुर्योधनस्तस्य निशम्य वाक्यं पितामहस्यात्महितं प्रशस्य।
अतीतकामो युधि सोऽत्यमर्षी राजा विनिश्वस्य बभूव तूष्णीम् ।।

4-67-35a
4-67-35b

तद्भीष्मवाक्यं हि निशम्य सर्वे धनञ्जयाग्निं च विवर्धमानम्।
निवर्तनायैव मतिं निदध्युर्दुर्योधनं तं परिरक्षमाणाः ।।

4-67-36a
4-67-36b

तान्प्रस्थितान्प्रीतमनाः समर्थो धनञ्जयः सर्वकुरुप्रवीरः ।
आमन्त्र्य वीरोऽनुययौ मुहूर्तं गाण्डीवघोषेण विनद्य लोकम् ।।

4-67-37a
4-67-37b

तेषामनीकानि निरीक्ष्य पार्थो विकीर्णयानध्वजकार्मुकाणि।
गाण्डीवधन्वा प्रहसन्कुरूणां शङ्ख प्रदध्मौ बलवान्बलेन ।।

4-67-38a
4-67-38b

ते शङ्खशब्दं तुमुलं निशम्य ध्वजस्य शब्दं च ततोऽन्तरिक्षे।
गाण्डीवशब्देन मुहुर्मुहुस्ते भीता ययुः सर्वधनं विहाय ।।

4-67-39a
4-67-39b

तानर्जुनो दूरतरं विभज्य धनं च सर्वं निखिलं निवर्त्य ।
आपृच्छ्य तान्दूरमनुप्रयात्वा धनञ्जयस्तत्र कुरून्महात्मा।
गुरूंश्च सर्वानभिवाद्य बाणैर्न्यवर्ततोदग्रमनाः शरैः सह ।।

4-67-40a
4-67-40b
4-67-40c

पितामहं शान्तनवं महात्मा द्वाभ्यां शराभ्यामभिवाद्य वीरः।
द्रोणं कृपं चैव कुरूंश्च मान्याञ्शरैश्च सर्वानभिवाद्य सङ्ख्ये।
दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मकुटं शरौघैः ।।

4-67-41a
4-67-41b
4-67-41c

अराजवंशस्य किमर्थमेतन्नित्यं न धार्यं मकुटं त्वयेति।
संपातितं भूमितले सरत्नं प्रीतस्तुतो मात्स्यसुतो बभूव ।।

4-67-42a
4-67-42b

धनञ्जयं नागमिव प्रभिन्नं विजित्य शत्रून्परिवर्तमानम्।
गास्ता विजित्याभिमुखं प्रयान्तं न शक्नुवन्तः कुरवः प्रयाताः ।।

4-67-43a
4-67-43b

धनञ्जयं सिंहमिवात्तशस्त्रं गा वै विजित्याभिमुखं प्रयान्तम् ।
उदीक्षितुं पार्थिवास्ते न शेकुर्यथैव मध्याह्नगतं हि सूर्यम् ।।

4-67-44a
4-67-44b

रक्तानि वासांसि च तानि गृह्य रणोत्कटो नाग इव प्रभिन्नः।
जित्वा च वैराटिमुवाच पार्थः प्रहृष्टरूपो रथिनां वरिष्ठः ।।

4-67-45a
4-67-45b

आवर्तयाश्वान्पशवो जितास्ते याताः परे प्रैहि पुरं प्रहृष्टः ।
उद्धुष्यतां ते विजयोऽद्य शीघ्रं गात्रं तु ते सेवतु माल्यगन्धः ।
माता तु ते नन्दतु बान्धवाश्च त्वामद्य दृष्ट्वा समुदीर्णहर्षम् ।।

4-67-46a
4-67-46b
4-67-46c

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि सप्तष्टितमोऽध्यायः ।।

[सम्पाद्यताम्]

4-67-11 पूर्णौघनिभानि पूर्वनदीप्रवाहसदृशानि ।। 11 ।। 4-67-16 अनीहमानाः अचेष्टमानाः ।। 16 ।। 4-67-18 यावद्विसंज्ञास्तावन्निर्याहीत्यध्याहारेण योजना ।। 18 ।। 4-67-19 आदस्त्व गृहाण ।। 19 ।। 4-67-20 अमूढसंज्ञैः अस्माभिरिति शेषः । सव्यतस्त्वमेवं हि धममाहुर्जितस्येति धo पाठः ।। 20 ।। 4-67- 25 संनिकाशान् कृतं कृतकं प्रतिमादि निश्चेष्टतया तत्सदृशानित्यर्थः ।। 25 ।। 4-67-45 हिमत्वा च वैराटिमुवाचेति पाठान्तरम् ।। 45 ।।

विराटपर्व-066 पुटाग्रे अल्लिखितम्। विराटपर्व-068