महाभारतम्-04-विराटपर्व-066

विकिस्रोतः तः
← विराटपर्व-065 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-066
वेदव्यासः
विराटपर्व-067 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनेन भीतमुत्तरंप्रति समाश्वासनपूर्वकं दुर्योधनंप्रति रथयापनचोदना ।। 1।। तथा स्वबाणाभिघातासहनेन पलायमानं तंप्रति सोपहासमाह्वानम् ।।2 ।।





अर्जुन उवाच।

4-66-1x

दक्षिणामेव तु दिशं हयानुत्तर वाहय।
पुरा सार्थी भवत्येषामयं शब्दोऽत्र तिष्ठताम् ।।

4-66-1a
4-66-1b

अश्चत्थाम्नः प्रतिरथं प्राचीमुद्याहि सारथे ।
अचिराद्द्रष्टुमिच्छामि गुरुपुत्रं यशस्विनम् ।।

4-66-2a
4-66-2b

वैशंपायन उवाच।

4-66-3x

मोहयित्वा तु तान्सर्वान्धनुर्घोषेण पाण्डवः।
प्रसव्यं चैवमावृत्य क्रोशार्धं प्राद्रवत्तदा ।।

4-66-3a
4-66-3b

यथा सततगो वायुः सुपर्णश्चापि शीघ्रगः ।
तथा पार्थरथः शीघ्रमाकाशे पर्यवर्तत ।।

4-66-4a
4-66-4b

मुहूर्तोपरते शब्दे प्रतियाते धनञ्जये ।
हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः ।।

4-66-5a
4-66-5b

द्रोणभीष्ममुखाः सर्वे सैन्यानां जघने ययुः।
यत्ताः पार्थमपश्यन्तः सहिताः शरविक्षताः ।।

4-66-6a
4-66-6b

सैनिका ऊचुः ।

4-66-7x

दिष्ट्या दुर्योधनो मुक्तः सैन्यं भूयिष्ठमागतम्।
क्रोशमात्रमतिक्रम्य बलमन्वानयामहे।
यात यत्र वनं गुल्मं नदीमन्वश्मकां प्रति ।।

4-66-7a
4-66-7b
4-66-7c

वैशंपायन उवाच।

4-66-8x

अथ दुर्योधनो दृष्ट्वा भग्नं स्वं बलमाहवे।
अमृष्यमाणः क्रोधेन प्रतिमार्गन्धनञ्जयम्।।

4-66-8a
4-66-8b

न्यवर्तत कुरुश्रेष्ठ स्वेनानीकेन संवृतः ।
वार्यमाणो दुराधर्षैर्भीष्मद्रोणकृपैर्भृशम् ।।

4-66-9a
4-66-9b

ततोऽर्जुनश्चित्रमुदारवेगं समीक्ष्य गाण्डीवमुवाच वाक्यम्।
भोगीन्द्रकल्पं भुवनेषु रूढमभेद्यमच्छेद्यमदाह्यमाजौ ।।

4-66-10a
4-66-10b

इदं त्विदानीमनयं कुरूणां शिवं धनुः शत्रुनिबर्हणं च।
अत्याशुगं वेगवदाशुकर्तृ अवारणीयं महते रणाय।।

4-66-11a
4-66-11b

प्रदारणं शत्रुवरूथिनीनामनीकजित्संयति वज्रकल्पम्।
वैधव्यदं शत्रुनितम्बिनीनां मुखप्रदं कौरववंशजानाम् ।।

4-66-12a
4-66-12b

प्रयाहि यत्रैष सुयोधनो हि तं पातयिष्यामि शरैः सुतीक्ष्णैः ।
आचार्यपुत्रं च सुयोधनं च पितामहं सूतसुतं च सङ्ख्ये ।
द्रोणं कृपं चैव निवार्य सर्वाञ्शिरो हरिष्यामि सुयोधनस्य ।।

4-66-13a
4-66-13b
4-66-13c

वैशंपायन उवाच।

4-66-14x

तदुत्तरश्चित्रमुदारवेगं धनुश्च दृष्ट्वा निशिताञ्शरांश्च।
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ।।

4-66-14a
4-66-14b

तमब्रवीन्मात्स्यसुतं प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता ।
मया सहायेन कुतो भयं ते प्रेह्युत्तराश्वानुपमन्त्रयस्व ।।

4-66-15a
4-66-15b

आश्वासितस्तेन धनञ्जयेन वैराटिरश्वानतुदञ्जवेन।
विष्फारयंस्तद्धनुरुग्रवेगं युयुत्समानः पुनरेव जिष्णुः ।।

4-66-16a
4-66-16b

गाण्डीवशब्देन तु तत्रतत्र भूमौ निषेदुर्बहवोऽतिवेलम्।
शङ्खस्य शब्देन तु वानरस्य शब्देन ते योधवराः समन्तात् ।।

4-66-17a
4-66-17b

अर्जुन उवाच।

4-66-18x

एषोऽतिमानी धृतराष्ट्रपुत्रः सेनामुखे सर्वसमृद्धतेजाः।
पराजयं नित्यममृष्यमाणो निवर्तते युद्धमनाः पुरस्तात्।।

4-66-18a
4-66-18b

तमेव याहि प्रसमीक्ष्य युक्तः सुयोधनं तत्र सहानुजं च ।।

4-66-19a

वैशंपायन उवाच।

4-66-20x

तमापतन्तं प्रसमीक्ष्य सर्वे कुरुप्रवीराः सहसाऽभ्यगच्छन्।
प्रहस्य वीरः स तु तानतीत्य दुर्योधने द्वौ निचखान बाणौ ।।

4-66-20a
4-66-20b

तेनार्दितो नाग इव प्रभिन्नः पार्थेन विद्धो धृतराष्ट्रपुत्रः ।
युयुत्समानोऽतिरथेन सङ्ख्ये स्वयं विगृह्यार्जुनमाससाद ।।

4-66-21a
4-66-21b

स भीमधन्वानमुदग्रवेगो धनञ्जयं शत्रुशतैरजेयम्।
आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये ।।

4-66-22a
4-66-22b

स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंहितेन ।
रराज पार्थो रुधिरं क्षरन्वै यथैकरश्मिर्भगवान्दिवार्कः ।।

4-66-23a
4-66-23b

अथास्य बाणेन विदारितस्य प्रादुर्वभूवास्रमजस्रमुष्णम्।
सा तस्य जाम्बूनदपुष्पचित्रा मालेव धाराऽभिविराजते स्म ।।

4-66-24a
4-66-24b

स तेन बाणाभिहतस्तरस्वी दुयोधनेनोद्धतमन्युवेगः ।
शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्वः ।।

4-66-25a
4-66-25b

दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः ।
अन्योन्यमाजौ पुरुषप्रवीरौ सम समाजघ्नतुराजमीढौ ।।

4-66-26a
4-66-26b

ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः ।
रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं पाण्डवमभ्यधावत् ।।

4-66-27a
4-66-27b

तमापतन्तं त्वरितं गजेन्द्रं धनञ्जयः कुम्भललाटमध्ये।
आकर्णपूर्णेन दृढायसेन बाणेन विव्याध भृशं तु वीरः ।।

4-66-28a
4-66-28b

पार्थेन सृष्टः स तु गृध्रपत्रो ह्यापुङ्खदेशं प्रविवेश नागम्।
विदार्य शैलप्रवरप्रकाशं यथाऽशनिः पर्वतमिन्द्रसृष्टः ।।

4-66-29a
4-66-29b

शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा।
संसीदमानो निपपात भूमौ वज्राहतं शृङ्गमिवाचलस्य ।।

4-66-30a
4-66-30b

निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसाऽवतीर्य ।
तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह ।।

4-66-31a
4-66-31b

निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवरप्रकाशम्।
तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद ।।

4-66-32a
4-66-32b

हते गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे ।
गाण्डीवमुक्तैर्विशिखैः प्रभिन्नास्ते योधमुख्याः सहसा प्रजग्मुः ।।

4-66-33a
4-66-33b

दृष्ट्वैव बाणेन हतं च नागं योधांश्च सर्वान्नृपतिर्निरीक्ष्य।
रथं समावृत्य कुरग्नवीरो रणात्प्रदुद्राव यतो न पार्थः ।।

4-66-34a
4-66-34b

तं भीतरूपं त्वरितं व्रजन्तं दुर्योधनं शत्रुगणावमर्दी ।
अन्वाह्वयद्योद्धुमनाः किरीटी बाणाभिविद्धं रुधिरं वमन्तम् ।।

4-66-35a
4-66-35b

तस्मिन्महेष्वासवरेऽतिविद्धे धनञ्जयेनाप्रतिमेन युद्धे।
सर्वाणि सैन्यानि भयार्दितानि त्रासं ययुः पार्थमुदीक्ष्य तानि ।।

4-66-36a
4-66-36b

ततस्तु ते शान्तिपराश्च सर्वे दृष्ट्वाऽर्जुनं नागमिव प्रभिन्नम्।
उच्चैर्नदन्तं बलमत्तमाजौ मध्ये स्थितं सिंहमिवर्षभाणाम् ।।

4-66-37a
4-66-37b

गाण्डीवशब्देन तु पाण्डवस्य योधा निपेतुः सहसा रथेभ्यः।
भयार्दिताः पार्थशराभितप्ताः सिंहाभिपन्ना इव वारणेन्द्राः ।।

4-66-38a
4-66-38b

संरक्तनेत्रः पुनरिन्द्रकर्मा वैकर्तनं द्वादशभिः पृषत्कैः।
वित्रास्य तेषां द्रवतां समैक्षद्दुःशासनं चैकरथेन पार्थः ।।

4-66-39a
4-66-39b

कर्णोऽब्रवीत्पार्थशराभितप्तो दुर्योधनं दुष्प्रसहं च दृष्ट्वा ।
दृष्टोऽर्जुनोऽयं प्रतियाम शीघ्रं श्रेयो विधास्याम इतो गतेन ।।

4-66-40a
4-66-40b

मन्ये त्वया तात कृतं च कार्यं यदर्जुनोऽस्माभिरिहाद्य दृष्टः ।
भूयो वनं गच्छतु सव्यसाची पश्यामि पूर्णं समयं न तेषाम् ।।

4-66-41a
4-66-41b

वैशंपायन उवाच।

4-66-42x

शरार्दितास्ते युधि पाण्डवेन प्रससुरन्योन्यमथाह्वयन्तः।
कर्णोऽब्रवीदापतत्येष जिष्णुर्दुर्योधनं संपरिवार्य यामः ।।

4-66-42a
4-66-42b

सर्वास्त्रविद्वारणयूथपाभः काले प्रहर्ता युधि शात्रवाणाम्।
अयं च पार्थः पुनरागतो नो मूलं च रक्ष्यं भरतर्षभाणाम् ।।

4-66-43a
4-66-43b

समीक्ष्य पार्थं तरसाऽऽपतन्तं दुर्योधनः कालमिवात्तशस्त्रम् ।
भयार्तरूपः शरणं प्रपेदे द्रोणं च कर्णं च कृपं च भीष्मम् ।।

4-66-44a
4-66-44b

तं भीतरूपं शरणं व्रजन्तं दुर्योधनं शत्रुसहो निषङ्गी।
इत्यब्रवीत्प्रीतमनाः किरीटी बाणाभितप्तं रुधिरं वमन्तम् ।।

4-66-45a
4-66-45b

विहाय कीर्तिं च यशश्च लोके युद्धात्परावृत्य पलायसे किम्।
न नन्दयिष्यन्ति तवाहतानि तूर्याणि युद्धादवरोपितस्य।।

4-66-46a
4-66-46b

न भोक्ष्यसे सोऽद्य महीं समग्रां यानानि वस्त्राण्यथ भोजनानि।
कल्याणगन्धीनि च चन्दनानि युद्धात्परावृत्य तु भोक्ष्यसे किम् ।
सुवर्णमाल्यानि च कुण्डलानि हारांश्च वैडूर्यकृतोपधानान् ।।

4-66-47a
4-66-47b
4-66-47c

च्युतरा युद्धान्न तु शङ्खशब्दास्तथा भविष्यन्ति तवाद्य पाप।
न भोगहेतोर्वरचन्दनं च स्त्रियश्च मुख्या मधुरप्रलापाः ।
युद्धात्प्रयातस्य नरेन्द्रसूनो परे च लोके फलिता न चेह ।।

4-66-48a
4-66-48b
4-66-48c

युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोस्मि।
तदर्थमावृत्य मुखं प्रयच्छनरेन्द्रवृत्तं स्मर धार्तराष्ट्रः ।।

4-66-49a
4-66-49b

मोघं तवैतद्भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात्।
दुर्योधनस्त्वं प्रथितोसि नाम्ना सुयोधनः सन्निकृतिप्रधानः ।

4-66-50a
4-66-50b

न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम्।
परीप्स युद्धेन कुरुप्रवीर प्राणान्मया बाणबलाभितप्तान् ।।

4-66-51a
4-66-51b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि षट्षष्टितमोऽध्यायः ।।

[सम्पाद्यताम्]

4-66-50 सुयोधनस्त्वं निकृतिप्रधान इति खo पाठः ।। 50 ।।

विराटपर्व-065 पुटाग्रे अल्लिखितम्। विराटपर्व-067