महाभारतम्-04-विराटपर्व-044

विकिस्रोतः तः
← विराटपर्व-043 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-044
वेदव्यासः
विराटपर्व-045 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

उत्तरेण बृहन्नलाया अर्जुनत्वविज्ञानेन तंप्रत्यज्ञानमूलकभूतपूर्वस्वापराधक्षमापनम् ।। 1 ।। अर्जुनेनोत्तरंप्रति स्वस्य क्लैब्यप्राप्तिहेतुकथनम् ।। 2 ।। तथोत्तरस्य सारथीकरणापूर्वकं रथारोहणेन रणायाभियानम् ।। 3 ।।






वैशंपायन उवाच।

4-44-1x

ततः पार्थं स वैराटिः प्राञ्जलिस्त्वभ्यवादयत्।
अहं भूमिंजयो नाम प्रणतोस्मि धनंजय ।।

4-44-1a
4-44-1b

दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय ।
लोहिताक्ष महाबाहो नागराजवरोपम ।।

4-44-2a
4-44-2b

यदज्ञानादवोचं त्वां प्रमादेन नरोत्तम।
अकृत्वा हृदये सर्वं क्षन्तुमर्हसि तन्मम ।।

4-44-3a
4-44-3b

यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम्।
अतो भयं व्यपेतं मे प्रीतिश्च परमा त्वयि ।।

4-44-4a
4-44-4b

दासोऽहं ते भविष्यामि पश्य मामनुकम्पया ।।

4-44-5a

या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात्।
सेयं प्रतिज्ञा पूर्णा मे हर्षश्चार्जुन जायते ।।

4-44-6a
4-44-6b

देवेन्द्रतनयस्येह सारथिः स्यां महामृधे ।
इति पूर्वं कृताऽस्माभिः प्रतिज्ञा युद्धदुर्मद ।।

4-44-7a
4-44-7b

प्रतिज्ञा मम संपूर्णा तव सारथ्यकारणात् ।
मनस्स्वास्थ्यं च मे जातं जातं भाग्यं च मे महत् ।।

4-44-8a
4-44-8b

आस्थाय विपुलं वीर रथं सारथिना मया।
दुर्योधनं च जित्वाऽऽजौ निवर्तय पशून्मम ।।

4-44-9a
4-44-9b

अर्जुन उवाच।

4-44-10x

प्रीतोस्मि राजपुत्राद्य न भयं विद्यते तव।
सर्वान्नुदामि ते शत्रून्रणे रणविशारद ।।

4-44-10a
4-44-10b

स्वस्थो भव महान्युद्धे पश्य मां शत्रुभिः सह ।
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं रवम् ।।

4-44-11a
4-44-11b

गाण्डीवं देवदत्तं च शरान्कनकभूषणान्।
एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे ।
एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ।।

4-44-12a
4-44-12b
4-44-12c

अहं वै कुरुभिर्योत्स्ये मोक्षयिष्यामि ते पशून् ।
तोषयिष्यामि राजानं प्रवेक्ष्यामि पुरं पुनः ।।

4-44-13a
4-44-13b

संकल्पागाधपरिधं बाहुप्राकारतोरणम्।
त्रिदण्डतूणसंबाधं नैकध्वजसमाकुलम् ।।

4-44-14a
4-44-14b

ज्याक्षेपनिनदारावं नेमीनिनददुन्दुभिः ।
शरजालवितानाढ्यमाक्ष्वेडितमहास्वनम् ।
नगरं ते मया गुप्तं रथोपस्थं भविष्यति ।।

4-44-15a
4-44-15b
4-44-15c

अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्विना ।
अजय्यः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ।।

4-44-16a
4-44-16b

उत्तर उवाच।

4-44-17x

बहुना किं प्रलापेन शृणु मे परमं वचः।
नाहं बिभेमि कौन्तेय साक्षादपि शतक्रतोः ।।

4-44-17a
4-44-17b

यमवायुकुबेरेभ्यो द्रोणभीष्मशतादपि ।
बिभेमि नाहमेतेभ्यो जानामि त्वां स्थिरं युधि ।
केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम् ।।

4-44-18a
4-44-18b
4-44-18c

इदं तु चिन्तयन्नेव परिमुह्यामि केवलम्।
निश्चयं नाधिगच्छामि नावगच्छामि किंचन ।।

4-44-19a
4-44-19b

एवं वराङ्गरूपस्य लक्षणैः सूचितस्य च।
केन कर्मविपाकेन क्लीबत्वं त्वामुपागतम् ।।

4-44-20a
4-44-20b

मन्ये त्वां क्लीबरूपेण चरन्तं शूलपाणिनम्।
गन्धर्वराजप्रतिमं देवं वाऽपि शतक्रतुम् ।।

4-44-21a
4-44-21b

अर्जुन उवाच।

4-44-22x

भ्रातुर्नियोगाञ्ज्येष्ठस्य संवत्सरमिदं व्रतम्।
चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ।।

4-44-22a
4-44-22b

नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः ।
उर्वशीशापसंभूतं क्लैब्यं समुपसंस्थितम् ।।

4-44-23a
4-44-23b

पुराऽहमाज्ञया भ्रातुर्ज्येष्ठस्यास्मि सुरालयम्।
प्राप्तवानुर्वशी दृष्टा सुधर्मायां मया तदा ।।

4-44-24a
4-44-24b

नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसन्निधौ ।
अपश्यं तामनिमिषं कूटस्थामन्वयस्य मे।।

4-44-25a
4-44-25b

रात्रौ समागता मह्यं शयनं रन्तुमिच्छया।
अहं तामभिवाद्यैव मातृसत्कारमाचरम् ।।

4-44-26a
4-44-26b

सा च मामशपत्क्रुद्धा शिखण्डी त्वं भवेति वै।
श्रुत्वा तमिन्द्रो मामाह मा भैस्त्वं पार्थ षण्डता ।।

4-44-27a
4-44-27b

उपकारो भवेत्तुभ्यमज्ञातवसतौ पुरा।
इतीन्द्रो मामनुग्राह्य ततः प्रेषितवान्वृषा ।।

4-44-28a
4-44-28b

तदिदं समनुप्राप्तं व्रतं चीर्णं मयाऽनघ ।
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ।।

4-44-29a
4-44-29b

उत्तर उवाच।

4-44-30x

परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा।
न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तमाः ।।

4-44-30a
4-44-30b

सहायवानस्मि रणे युद्ध्येयममरैरपि ।
साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ।।

4-44-31a
4-44-31b

अहं ते संग्रहीष्यामि हयाञ्शत्रुनिर्बहण।
शिक्षितो ह्यस्मि सारथ्ये निष्ठितः पुरुषर्षभ ।।

4-44-32a
4-44-32b

दारुको वासुदेवस्य यथा शक्रस्य मातलिः।
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ।।

4-44-33a
4-44-33b

अश्वा ह्येते महाबाहो तवैवाहवदुर्जयाः।
योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः ।।

4-44-34a
4-44-34b

यस्य यातेन पश्यन्ति भूमौ क्षिप्तं पदंपदम्।
दक्षिणां यो धुरं वोढा सुग्रीवोण समो हयः ।।

4-44-35a
4-44-35b

योऽयं हयो धुर्यवरो वामां वहति शोभनः।
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ।।

4-44-36a
4-44-36b

योऽयं वहति वै पार्ष्णिं दक्षिणामञ्चितोद्यतः ।
वलाहकादभिमतस्तेजसा वीर्यवत्तरः ।।

4-44-37a
4-44-37b

योऽयं काञ्चनसन्नाहो वामं वहति शोभनः ।
धुर्यं शैब्यस्य तं मन्ये जवेन बलवत्तरम् ।।

4-44-38a
4-44-38b

त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् ।
त्वं चे.. रथमास्थाय योद्धुमर्हो मतो मम।
शर्वशत्रुभिरायातो देवराज इवासुरैः ।।

4-44-39a
4-44-39b
4-44-39c

वैशंपायन उवाच।

4-44-40x

ततो रथादवस्कन्द्य वीर्यवानरिमर्दनः।
प्रणम्य देवान्गाण्डीवमादाय रुरुचे श्रिया ।।

4-44-40a
4-44-40b

ततो विमुच्य बाहुभ्यां सङ्खचूडानि पाण्डवः ।
तौ च दुन्दुभिसन्नादौ प्रतिबद्ध्य तलावुभौ ।।

4-44-41a
4-44-41b

इन्द्रदत्ते च ते दिव्ये उद्धृत्यामुच्य कुण्डले ।
श्लक्ष्णान्केशान्मृदून्स्निग्धाञ्श्वेतेनोद्ग्रथ्य वाससा ।।

4-44-42a
4-44-42b

अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः।
अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे ।।

4-44-43a
4-44-43b

ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम्।
इमानि स्मो महोदार किङ्कराणीन्द्रनन्दन ।।

4-44-44a
4-44-44b

प्रणिपत्य ततः पार्थः समालभ्य च पाणिना।
सर्वाणि मानसानीह भवतेत्यभ्यभाषत।।

4-44-45a
4-44-45b

प्रतिगृह्य ततोऽस्त्राणि प्रह्लष्टवदनोऽभवत् ।
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ।।

4-44-46a
4-44-46b

तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः ।
यथा शैलस्य महतः शैलानाक्षिप्य जघ्रुषः ।।

4-44-47a
4-44-47b

सनिर्घाताऽभवद्भूमिर्दिक्षु वायुर्ववौ भृशम्।
भ्रान्तद्विजं खमभवत्प्राकम्पन्त महाद्रुमाः ।।

4-44-48a
4-44-48b

तं शब्दं कुरवो राजन्विस्फोटमशनेरिव।
तार्क्ष्यं शब्दमिव श्रुत्वा वित्रेसुर्दीनमानसाः ।।

4-44-49a
4-44-49b

यथेन्द्रो व्याक्षिपद्भीमं विस्फोटमशनेर्भुवि ।
तथाऽर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्बली ।।

4-44-50a
4-44-50b

महाशनिमहाशब्दसदृशो ज्यास्वनो महान् ।
शत्रून्वीरांश्च संतर्ज्य निग्रहस्थो रथे स्थितः ।।

4-44-51a
4-44-51b

उत्तर उवाच।

4-44-52x

एकस्त्वं पाण्डवश्रेष्ठ बहूनोतान्महारथान्।
कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान् ।।

4-44-52a
4-44-52b

असहायो।सि कोन्तेय ससहायाश्च कौरवाः ।
अत एव महाबाहो भीतस्तिष्ठामि तेऽग्रतः ।।

4-44-53a
4-44-53b

वैशंपायन उवाच।

4-44-54x

उवाच पार्थो मा भैषीः प्रहस्य स्वनवत्तदा ।।

4-44-54a

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत्सखा मम ।।

4-44-55a
4-44-55b

तथा प्रतिभये तस्मिन्देवदानवसंकुले।
खाण्डवे युध्यमानस्य कस्तदासीत्सखा मम ।।

4-44-56a
4-44-56b

निवातकवचैः सार्धं पौलोमैश्च महाबलैः ।
युध्यतो देवराजार्थे कः सहायस्तदाऽभवत् ।।

4-44-57a
4-44-57b

स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे।
युध्यतो बहुभिस्तात कः सहायस्तदाऽभवत् ।।

4-44-58a
4-44-58b

उपजीव्य गुरुं द्रोणं शुक्रं वैश्रवणं यमम्।
वरुणं पावकं चैव कृपं कृष्णं च माधवम् ।
पिनाकपाणिनं चैव कथमेतान्न योधये ।।

4-44-59a
4-44-59b
4-44-59c

रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः ।।

4-44-60a

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि चतुश्चत्वारिंशोऽध्ययः ।। 44 ।।

विराटपर्व-043 पुटाग्रे अल्लिखितम्। विराटपर्व-045