महाभारतम्-04-विराटपर्व-043

विकिस्रोतः तः
← विराटपर्व-042 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-043
वेदव्यासः
विराटपर्व-044 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनेनोत्तरंप्रति स्वस्यार्जुनत्वकथनपूर्वकं कङ्कादीनां युधिष्ठिरादित्वकथनम् ।। 1 ।। तत्प्रत्ययार्थं स्वनामदशककथनपूर्वकं तन्निर्वचनम् ।। 2 ।।













वैशंपायन उवाच।

4-43-1x

एतस्मिन्नन्तरे पार्थं न मूढात्मा व्यजानत।
विराटपुत्रः प्रभुखे पप्रच्छ पुनरेव तम् ।।

4-43-1a
4-43-1b

सुवर्णरुचिराण्येषामायुधानि महात्मनाम् ।
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ।।

4-43-2a
4-43-2b

क्वनु ते पाण्डवाः शूराः संग्रामेष्वपराजिताः।
येषामिमानि दीप्तानि श्रिया दीप्यन्ति भान्ति च।

4-43-3a
4-43-3b

कस्मिन्वसन्ति देशे च धर्मज्ञा बन्धुवत्सलाः।
क्व धर्मराजः कौन्तेयो धर्मपुत्रो युधिष्ठिरः।।

4-43-4a
4-43-4b

धर्मशीलश्च धर्मात्मा धर्मवान्धर्मवित्सुधीः ।
धर्माध्यक्षो धर्मपुत्रो धर्मज्ञो धर्ममूर्तिमान् ।।

4-43-5a
4-43-5b

धर्मनिष्ठो धर्मकर्ता धर्मगोप्ता सुधर्मकृत्।
सत्यार्जवक्षमाधारो घृणी धर्मपरायणः।।

4-43-6a
4-43-6b

भीमसेनार्जुनौ चापि सर्वे ते मातुला मम।
नकुलः सहदेवो वा सर्वास्त्रकुशलौ रणे।।

4-43-7a
4-43-7b

सर्व एव महात्मानः सर्वामित्रविनाशनाः।
राज्यमक्षैः पराजित्य नः श्रूयन्ते वनं गताः ।।

4-43-8a
4-43-8b

द्रौपदी चापि पाञ्चाली स्त्रीरत्नमिति मे श्रुता।
जिता चाक्षैस्तदा कृष्णा तानेवान्वगमद्वने ।।

4-43-9a
4-43-9b

उत्सृज्य राज्यं धर्म्यं ते नः श्रूयन्ते वनं गताः ।।

4-43-10a

पाण्डवान्यदि जानीषे क्वनु ते धर्मचारिणः ।
क्वनु वा निवसन्तीति सत्यं ब्रूहि बृहन्नले ।।

4-43-11a
4-43-11b

किमर्थमागतान्यत्र शस्त्रास्त्राणि महात्मनाम्।
कथं ज्ञातानि भवता तथा मे ब्रूहि शोभने ।।

4-43-12a
4-43-12b

वैशंपायन उवाच।

4-43-13x

ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः।
उवाच राजपुत्रं तमुत्तरं शृणु मे वचः ।।

4-43-13a
4-43-13b

मा भैस्त्वं राजशार्दूल सर्वं ते वर्णयाम्यहम् ।
नात्र भेतव्यमद्यापि राजपुत्र यथातथा ।।

4-43-14a
4-43-14b

वयं ते पाण्डवा नाम वनवासस्य पारगाः।
अतीते द्वादशे वर्षे च्छन्नवासमिहोषिताः।
तस्मादशङ्कितमनाः शृणुष्वावहितोत्तर ।।

4-43-15a
4-43-15b
4-43-15c

अहमस्म्यर्जुनो नाम कङ्को नाम युधिष्ठिरः।
भीमसेनस्तु वललः पितुस्ते रसपाचकः।
अश्वबन्धस्तु नकुलः सहदेवस्तु गोपतिः ।।

4-43-16a
4-43-16b
4-43-16c

सैरन्ध्रीं द्रौपदीं विद्धि यदर्थे कीचको हतः।
भीमसेनेन दुर्वृत्तः सहभ्रातृभिराहवे ।।

4-43-17a
4-43-17b

श्रुत्वैतद्वचनं जिष्णोर्विस्मयस्फारितेक्षणः ।
पश्यन्ननिमिषः पार्थं शनैर्वाचमुवाच ह ।।

4-43-18a
4-43-18b

उत्तर उवाच।

4-43-19x

दश पार्थस्य नामानि श्रूयन्ते मे कथासु च।
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ।।

4-43-19a
4-43-19b

अर्जुन उवाच।

4-43-20x

अहं तर्हि तवाचक्षे दश नामानि तानि मे।
वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते।
ईशानो विदधे देवस्त्रिदिवस्येश्वरो दिवि ।।

4-43-20a
4-43-20b
4-43-20c

अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः।
बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः।
एतानि मम नामानि स्थापितानि सुरोत्तमैः ।।

4-43-21a
4-43-21b
4-43-21c

उत्तर उवाच।

4-43-22x

गुणतो दश नामानि समवेतानि पाण्डवे।
चरन्ति लोके ख्यातानि विदितानि ममावघ ।।

4-43-22a
4-43-22b

केनासि विजयो नाम केनासि श्वेतवाहनः।
सव्यसाची च केनासि जिष्णुर्बीभत्सुरेव च ।।

4-43-23a
4-43-23b

अर्जुनः फल्गुनः पार्थः किरीटी केन सारथे।
धनञ्जयश्च केनासि शीघ्रं वद बृहन्नले ।।

4-43-24a
4-43-24b

श्रुता मे तस्य वीरस्य केवला नामहेतवः।
इतस्ततश्चलत्येतन्मनो मे चञ्चलं त्वयि।
अर्जुनो वा भवान्नेति वद शीघ्रं बृहन्नले ।।

4-43-25a
4-43-25b
4-43-25c

अर्जुन उवाच।

4-43-26x

सर्वाञ्जित्वा जनपदान्धनं चाच्छिद्य सर्वशः।
मध्ये धनस्य तिष्ठन्तं तन्मामाहुर्धनञ्जयम् ।।

4-43-26a
4-43-26b

अभिप्रयामि संग्रामे यदाऽहं युद्धदुर्मदान्।
अजित्वा न निविर्तेयं तेन वै विजयं विदुः ।।

4-43-27a
4-43-27b

श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः।
शत्रुभिर्युध्यमानस्य तेनाहं श्वेतवाहनः ।।

4-43-28a
4-43-28b

किरीटं सूर्यसंकाशं भ्राजते मे शिरोगतम्।
रणमध्ये रथस्थस्य सूर्यपावकसन्निभम् ।।

4-43-29a
4-43-29b

अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम्।
इन्द्रदत्तमनाहार्यं तेनाहुर्मां किरीटिनम् ।।

4-43-30a
4-43-30b

न कुर्यां कर्म बीभत्सं युध्यमानः कदाचन।
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ।।

4-43-31a
4-43-31b

उभौ मे तुल्यकर्माणौ गाण्डीवस्य विकर्षणे।
भुजौ मे भवतः सङ्ख्ये परसैन्यविनाशिनौ।
तयोः सव्योऽधिकस्तस्मात्सव्यसाचीति मां विदुः ।।

4-43-32a
4-43-32b
4-43-32c

पृथिव्यां सागरान्तायां वर्णो मे दुर्लभः समः।
शुद्धत्वाद्रुपवत्त्वाच्च तेन मामार्जुनं विदुः ।।

4-43-33a
4-43-33b

उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यामहं दिवा ।
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ।।

4-43-34a
4-43-34b

यो ममाङ्गे व्रणं कुर्याद्धातुर्ज्येष्ठस्य पश्यतः।
युधिष्ठिरस्य रुधिरं दर्शयेद्वा कदाचन ।
पराभवमहं तस्य कुले कुर्यां न संशयः ।।

4-43-35a
4-43-35b
4-43-35c

योत्स्यामि तैरहं सर्वैर्न मे तेभ्यः पराभवः।
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः ।।

4-43-36a
4-43-36b

माता मम पृथा नाम तेन मां पार्थमब्रुवन् ।।

4-43-37a

देवदानवगन्धर्वपिशाचोरगराक्षसान् ।
अहं पुरा रणे जित्वा खाण्डवेऽग्निमतर्पयम् ।।

4-43-38a
4-43-38b

हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना ।
[ त्रिविष्टपगतौ* दृष्ट्वा पितामहमहेश्वरौ।।

4-43-39a
4-43-39b

मूर्च्छया पतितं भूमावागतौ देवसत्तमौ ।
दृष्ट्वा तौ वरदौ देवौ संज्ञां लब्ध्वोत्थितः पुनः ।।

4-43-40a
4-43-40b

मूर्ध्ना हि प्रणतं भूमौ तौ देवौ वरदौ वरौ।
कृष्णेत्येकादशं नाम प्रीत्या मे चक्रतुस्तदा।
तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ ।।

4-43-41a
4-43-41b
4-43-41c

सर्वदेवैः परिवृतौ भूयो मां स्वयमूचतुः।
वरं तात वृणीष्वेति यं प्रार्थयसि पाण्डव ।।

4-43-42a
4-43-42b

ततोऽहमस्त्राण्यलभं दिव्यानि च दृढानि च।
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम् ।
ऐन्द्रं वारुणमाग्नेयं वायव्यमथ वैष्णवम् ।।

4-43-43a
4-43-43b
4-43-43c

ततोऽहमजयं भूयो रथेनैन्द्रेण दुर्जयान्।
मातलिं सारथिं कृत्वा निवातकवचान्रणे ।
अवध्यकवचांन्देवैर्वरदृप्तान्महासुरान् ।।

4-43-44a
4-43-44b
4-43-44c

तिस्रः कोटीर्दानवानां संयुगेष्वनिवर्तिनाम्।
एको निर्जित्य संग्रामे भूयो देवानतोषयम् ।।

4-43-45a
4-43-45b

ततो मे भगवानिन्द्रः किरीटमददात्स्वयम्।
देवाश्च शङ्खमददुः शत्रुसैन्यनिवारणम् ।।

4-43-46a
4-43-46b

अहं पारे समुद्रस्य हिरण्यपुरवासिनाम्।
हत्वा षष्टिं सहस्राणि जयं संप्राप्तवान्रणे ।।

4-43-47a
4-43-47b

असंभ्रान्तो रथे तिष्ठन्सहस्रेषु शतेषु च।
शत्रुमध्ये दुराधर्षो न मुह्यन्ति च मे दिशः ।।

4-43-48a
4-43-48b

अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम्।
भ्रातृभिः सहितं तात गन्धर्वैः समरे जितम्।
चतुर्दश सहस्राणि हत्वा चैनममोचयम् ।।

4-43-49a
4-43-49b
4-43-49c

एतानि मम नामानि योऽहन्यहनि कीर्तयेत्।
तं न पश्यन्ति सत्त्वानि न तं निघ्नन्ति शत्रवः ।।

4-43-50a
4-43-50b

अद्य पश्य महाबाहो मम वीर्यं सुदुःसहम्।
मा भैर्विगतसंत्रासः कुरूनेतान्समागतान् ।।

4-43-51a
4-43-51b

सुयोधनस्य मिषतः कर्णस्य च कृपस्य च।
पितामहस्य भीष्मस्य द्रौणेर्द्रोणस्य च स्वयम्।
सर्वानेव कुरूञ्जित्वा प्रत्यानेष्यामि ते पशून्‍] ।।

4-43-52a
4-43-52b
4-43-52c

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि त्रिचत्वारिंशोऽध्यायः ।। 43 ।।

[सम्पाद्यताम्]

4-43-31 बीभत्सुरिति भदि कल्याणे सुखे चेत्यस्य सनि रूपम् ।। 4-43-32 सव्येन वामेनापि हस्तेन सचितुं ज्याकर्षणादिक्रियायां संबद्धुं शीलमस्येति सव्यसाची ।। 4-43-33 अर्जुन इति ऋज गतिस्थानार्जनोपार्जनेष्वित्यत उनन्प्रत्यये भवति। दीप्तिमत्त्वात्समत्वात् शुद्धकर्मकरत्वाच्चार्जुन इत्यर्थः ।। 4-43-34 उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्यामिति झo पाठः । नक्षत्रान्यां ताराभ्यां तत्र स्थिते चन्द्र इत्यर्थः ।।

       ।। त्रिचत्वारिंशोऽध्यायः ।। 43 ।।
विराटपर्व-042 पुटाग्रे अल्लिखितम्। विराटपर्व-044