महाभारतम्-04-विराटपर्व-033

विकिस्रोतः तः
← विराटपर्व-032 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-033
वेदव्यासः
विराटपर्व-034 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

गोपैर्दुतॄतरमाद्रुत्य विराटंप्रति सुशर्मणा गोगहणनिवेदनम् ।। 1 ।।
विराटादिभिर्युद्धाय निर्गमोद्यमः ।। 2 ।।
युधिष्ठिरेण विराटंप्रति स्वेषां युद्धकौशलनिवेदनेन भ्रातृभिः सह समराभियानम् ।। 3 ।।








वैशंपायन उवाच।

4-33-1x

ततस्तेषां महाराज तत्रैवामिततेजसाम्।
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ।। 1 ।।

4-33-1a
4-33-1b

व्यतीतः समयः सम्यग्विराटनगरे सताम्।
कुर्वतां तस्य कर्माणि वीराटस्य महीपतेः ।। 2 ।।

4-33-2a
4-33-2b

कीचके तु हते राजा विराटः परवीरहा।
परां संभावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे ।। 3 ।।

4-33-3a
4-33-3b

ततस्त्रयोदशस्वान्ते तस्य वर्षस्य भारत।
शुशर्मणा गृहीतं तु गोधनं तरसा बहु ।। 4 ।।

4-33-4a
4-33-4b

ततः शब्दो महानासीद्रेणुश्च दिवमस्पृशत्।
शङ्खदुन्दुभिघोषश्च भेरीणां च महास्वनः।
गवाश्वरथनागानां निश्वनश्च पदातिनाम् ।। 5 ।।

4-33-5a
4-33-5b
4-33-5c

एवं तैस्त्वभिनिर्याय मत्स्यराजस्य गोधने।
त्रिगर्तैर्गृह्यमाणे तु गोपालाः प्रत्यषेधयन् ।। 6 ।।

4-33-6a
4-33-6b

अथ त्रिगर्ता बहवः परिगृह्य धनं बहु ।
परिक्षिप्य हयैः शीघ्रै रथव्रातैश्च भारत।
गोपालान्प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् ।। 7 ।।

4-33-7a
4-33-7b
4-33-7c

ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः ।
गोपाला गोकुले भक्ता वारयामासुरोजसा ।। 8 ।।

4-33-8a
4-33-8b

परश्वथैश्च मुसलैर्भिण्डिपालैश्च मुद्गरैः।
गोपालाः कर्षणैश्चित्रैर्जघ्नुरश्वान्समन्ततः ।। 9 ।।

4-33-9a
4-33-9b

ते हन्यमानाः संक्रुद्धास्त्रिगर्ता रथयोधिनः ।
विसृज्य शरवर्षणि गोपानद्रावयन्बलात् ।। 10 ।।

4-33-10a
4-33-10b

हन्यमानेषु गोपेषु विमुखेषु विशांपते।
ततो युवानः संभीताः श्वसन्तो रेणुगुण्ठिताः ।। 11 ।।

4-33-11a
4-33-11b

जवेन महता चैव गोपालाः पुरमाव्रजन्।
विराटनगरं प्राप्य नरा राजानमब्रुवन् ।। 12 ।।

4-33-12a
4-33-12b

सभायां राजशार्दूलमासीनं पाण्डवैः सह।
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ।। 13 ।।

4-33-13a
4-33-13b

सद्भिश्च पण्डितैः सार्धं मन्त्रिभिश्चापि संवृतम् ।
दृष्ट्वा शीघ्रं तु गोपाला विराटमिदमब्रवन् ।। 14 ।।

4-33-14a
4-33-14b

अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान्।
षष्टिं गवां सहस्राणि त्रिगर्ताः कालयन्ति ।
ता निवर्तय राजेन्द्र मा नेशुः पशवस्तव ।। 15 ।।

4-33-15a
4-33-15b
4-33-15c

वैशंपायन उवाच।

4-33-16x

श्रुत्वा तु वचनं तेषां गोपालानामरिंदमः।
स राजा महतीं सेनां मात्स्यानां समवाहयत्।
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ।। 16 ।।

4-33-16a
4-33-16b
4-33-16c

राजानो राजपुत्राश्च तनुत्राण्यथ भेजिरे।
भानुमन्ति विवातानि सूपसेव्यानि भागशः ।। 17 ।।

4-33-17a
4-33-17b

पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ।
उत्कृष्य पाशान्मौर्वीणां शूराश्चापेष्वयोजयन् ।। 18 ।।

4-33-18a
4-33-18b

दृढमायसगर्भं तु कवचं तप्तकाञ्चनम् ।
विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ।। 19 ।।

4-33-19a
4-33-19b

सर्वभारसहं वर्म कल्याणपटलं दृढम्।
शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ।। 20 ।।

4-33-20a
4-33-20b

उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च।
मृष्टहाटकपर्यन्तं सूर्यदत्तोऽभ्यहारयत् ।। 21 ।।

4-33-21a
4-33-21b

दृढमायसगर्भं च श्वेतं रुक्मपरिष्कृतम्।
विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ।। 22 ।।

4-33-22a
4-33-22b

शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत्।
अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ।। 23 ।।

4-33-23a
4-33-23b

ततो नानातनुत्राणि स्वानिस्वानि महाबलाः।
युयुत्सवोऽभ्यनह्यन्त देवकल्पाः प्रहारिणः ।। 24 ।।

4-33-24a
4-33-24b

सोपस्करेषु शुभ्रेषु महत्सु च महारथाः ।
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ।। 25 ।।

4-33-25a
4-33-25b

सूर्यचन्द्रप्रतीकाशे मणिहेमविभूषिते।
महाप्रमाणं मत्स्यस्य ध्वजमुच्छ्रियते रथे ।। 26 ।।

4-33-26a
4-33-26b

ध्वजान्बहुविधाकारान्सौवर्णान्हेममालिनः।
यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ।। 27 ।।

4-33-27a
4-33-27b

रथेषु युज्यमानेषु कङ्को राजानमब्रवीत् ।
मया ह्यस्रं चतुर्वर्गमवाप्तमृषिसत्तमात् ।। 28 ।।

4-33-28a
4-33-28b

दंशितो रथमास्थाय पदं निर्याम्यहं गवाम्।
अयं च बलवाञ्छरो वललो दृश्यतेऽनघ ।। 29 ।।

4-33-29a
4-33-29b

गोसङ्ख्यमश्वबन्धं च संयोजय रथेषु वैः।
नैतेन जातु युध्द्येयुर्गवार्थमिति मे मतिः ।। 30 ।।

4-33-30a
4-33-30b

वैशंपायन उवाच।

4-33-31x

अथ मात्स्योऽब्रवीद्राजा शतानीकं जघन्यजम्।
कङ्कश्च वललः सूदो दामग्रन्थिश्च वीर्यवान् ।। 31 ।।

4-33-31a
4-33-31b

तन्त्रिपालश्च गोसङ्ख्यो यथा ते पुरुषर्षभाः ।
शूराः सुवीराः पुरुषा नागराजवरोपमाः ।
युद्ध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ।। 32 ।।

4-33-32a
4-33-32b
4-33-32c

एतेपामपि दीयन्तां रथा ध्वजपताकिनः।
कवचानि विचित्राणि दृढानि च लघूनि च ।। 33 ।।

4-33-33a
4-33-33b

प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ।
नेमे जातु न युद्ध्य्रेयुरिति मे धीयते मतिः ।। 34 ।।

4-33-34a
4-33-34b

वैशंपायन उवाच।

4-33-35x

तच्छ्रुत्वा नृपतेर्वाक्यं शीघ्रं त्वरितमानसः।
शतानीकः स पार्थभ्यो रथान्राजन्समादिशत् ।। 35 ।।

4-33-35a
4-33-35b

सहदेवाय राज्ञे च भीमाय नकुलाय च।
तान्दृष्ट्वा सहसा सूता राजभक्तिपुरस्कृताः ।। 36 ।।

4-33-36a
4-33-36b

निर्दिष्टा नरदेवेन रथाञ्छीघ्रमयोजयन्।
कवचानि विचित्राणि नवानि च दृढानि च।। 37 ।।

4-33-37a
4-33-37b

विराटः प्रददौ यानि तेषामक्लिष्टकर्मणाम्।
तान्यामुच्य शरीरेषु दंशितास्ते महारथाः ।। 38 ।।

4-33-38a
4-33-38b

तरस्विनश्छन्नरूपाः सर्वशस्त्रविशारदाः ।
रथान्हेमपरिष्कारान्समास्थाय महारथाः।
पाण्डवा निर्ययुर्हृष्टा दंशिता राजसत्तम ।। 39 ।।

4-33-39a
4-33-39b
4-33-39c

विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः।
चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ।। 40 ।।

4-33-40a
4-33-40b

दीर्घानां च दृढानां च धनुषां ते यथाबलम्।
उत्कृष्य पाशान्मौर्वीणां वीराश्चापेष्वयोजयन् ।। 41 ।।

4-33-41a
4-33-41b

ततः सुवाससः सर्वे वीराश्चन्दनरूषिताः ।
चोदिता नरदेवेन क्षिप्रमश्वानचोदयन् ।। 42 ।।

4-33-42a
4-33-42b

ते हया हेमसंच्छन्ना बृहन्तः साधुवाहिनः ।
चोदिताः प्रत्यदृश्यन्त पत्रिणामिव पङ्क्तयः ।। 43 ।।

4-33-43a
4-33-43b

भीमरूपाश्च मातङ्गाः प्रभिन्नकरटामुखाः।
स्वारूढा युद्धकुशलैर्महामात्राधिरोहिताः ।। 44 ।।

4-33-44a
4-33-44b

क्षरन्त इव जीमूताः सुदन्ताः षाष्टिहायनाः ।
राजानमन्वयुः पश्चात्क्रामन्त इव पर्वताः ।। 45 ।।

4-33-45a
4-33-45b

दृढायुधजनाकीर्णं रथाश्वगजसंकुलम् ।
तद्बलाग्रं विराटस्य शक्रस्येव तदा बभौ ।। 46 ।।

4-33-46a
4-33-46b

तं प्रयान्तं महाराज निनीषन्तं गवां पदम्।
विशारदानां वैश्यानां प्रकृष्टानां तदा नृप ।। 47 ।।

4-33-47a
4-33-47b

विंशतिस्तु सहस्राणि नराणामनुयायिनाम्।
अष्टौ रथसहस्राणि दश नागशतानि च ।
विंशच्चाश्वसहस्राणि मात्स्यानां त्वरितं ययुः ।। 48 ।।

4-33-48a
4-33-48b
4-33-48c

तदनीकं विराटस्य शुशुभेऽतीव भारत।
वसन्ते बहुपुष्पाढ्यं काननं चित्रितं यथा ।। 49 ।।

4-33-49a
4-33-49b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहाणपर्वणि त्रयस्त्रिंशोऽध्यायः ।। 33 ।।

विराटपर्व-032 पुटाग्रे अल्लिखितम्। विराटपर्व-034