महाभारतम्-04-विराटपर्व-030

विकिस्रोतः तः
← विराटपर्व-029 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-030
वेदव्यासः
विराटपर्व-031 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

दुर्योधनादिभिः पाण्डवान्वेषणाय समालोचनम् ।। 1 ।।

वैशंपायन उवाच।

4-30-1x

ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा।
चिरमन्तर्मना भूत्वा इदमाह सभासदः ।। 1 ।।

4-30-1a
4-30-1b

अशक्यं खलु कार्यस्य गतिं ज्ञातुं हि तत्वतः ।
तस्मात्सर्वे परीक्षध्वं क्वनु स्युः पाण्डवा गताः ।। 2 ।।

4-30-2a
4-30-2b

अल्पावशिष्टः कालस्तु गतो भूयिष्ठ एव च।
तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ।। 3 ।।

4-30-3a
4-30-3b

अपि वर्षस्य शेषं ते ह्यतीयुरिह पाण्डवाः।
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ।। 4 ।।

4-30-4a
4-30-4b

क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः ।
दुःखाद्भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ।। 5 ।।

4-30-5a
4-30-5b

विज्ञातव्या मनुष्येन्द्रास्तर्कया सुप्रणीतया।
निपुणैश्चारपुरुषैः प्राज्ञैर्दक्षैः सुसंवृतैः ।। 6 ।।

4-30-6a
4-30-6b

अज्ञातसमये ज्ञाताः कृच्छ्ररूपसमाश्रिताः।
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ।। 7 ।।

4-30-7a
4-30-7b

तस्मात्क्षिप्रं विचिन्वध्वं यथा चात्यन्तमव्ययम्।
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ।। 8 ।।

4-30-8a
4-30-8b

दुर्योधनेनैवमुक्ते वचनेऽतीव दुःखिना।
ततः कर्णोऽब्रवीद्वाक्यं सत्यधर्मार्थसंयुतम् ।। 9 ।।

4-30-9a
4-30-9b

एते पुनर्न गच्छन्तु अन्ये गच्छन्तु भारत ।
शीघ्रवृत्ता नरा योग्या निपुणाश्छन्नचारिणः ।। 10 ।।

4-30-10a
4-30-10b

चरन्तु देशान्विविधान्स्फीताञ्जनपदाकुलान् ।
तत्र गोष्ठीषु रम्यासु सिद्धा ब्राह्मणरूपिणः ।। 11 ।।

4-30-11a
4-30-11b

परिवाहेषु तीर्थेषु विविधेष्वाकरेषु च।
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ।। 12 ।।

4-30-12a
4-30-12b

नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च।
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ।। 13 ।।

4-30-13a
4-30-13b

विज्ञातव्या मनुष्येन्द्र तर्कया सुविनूतया ।
विविधैस्तत्परैः सम्यङ्विपुणैस्तज्ज्ञसंमतैः ।। 14 ।।

4-30-14a
4-30-14b

अथाग्रजानन्तरजो भ्रातुः प्रियहिते रतः।
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ।। 15 ।।

4-30-15a
4-30-15b

येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप।
ते यान्तु दत्तदेया वै भूयस्तान्परिमार्गितुम् ।। 16 ।।

4-30-16a
4-30-16b

यदाह कर्णो राजेन्द्र सर्वमेतदवेक्ष्यताम् ।
यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः ।। 17 ।।

4-30-17a
4-30-17b

घ्राणैः पश्यन्ति पशवो वेदैरेव द्विजोत्तमाः।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ।। 18 ।।

4-30-18a
4-30-18b

यथोक्ताश्चारपुरुषा मृगयन्तु पुनःपुनः ।
एते चान्ये च बहवो देशांश्च नगराणि च ।। 19 ।।

4-30-19a
4-30-19b

न हि तेषां गतिर्वासः प्रवृत्तिर्वोपलभ्यते।
अत्यन्तं वा निगूढास्ते पारं वोर्मिमतो गताः ।। 20 ।।

4-30-20a
4-30-20b

व्यालैर्वाऽपि महारण्ये भक्षिताः शूरमानिनः।
द्वीपं वा परमं प्राप्ता गिरिदुर्गवनेष्वपि ।। 21 ।।

4-30-21a
4-30-21b

हीनदर्पा निराशास्ते भक्षिता वाऽपि राक्षसैः ।
अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ।। 22 ।।

4-30-22a
4-30-22b

तस्मान्मानसमव्यग्रं कृत्वाऽऽत्मानं नियम्य च।
कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप ।। 23 ।।

4-30-23a
4-30-23b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि त्रिंशोऽध्यायः ।। 30 ।।

विराटपर्व-029 पुटाग्रे अल्लिखितम्। विराटपर्व-031