महाभारतम्-04-विराटपर्व-017

विकिस्रोतः तः
← विराटपर्व-016 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-017
वेदव्यासः
विराटपर्व-018 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः प्रत्याख्यानम् ।। 1 ।।

वैशंपायन उवाच।

4-17-1x

एवमुक्ताऽनवद्याङ्गी कीचकेन दुरात्मना ।
द्रौपदी तमुवाचेदं सैरन्ध्रीवेषधारिणी ।। 1 ।।

4-17-1a
4-17-1b

अप्रार्थनीयामिहं मां सूतपुत्राभिमन्यसे।
निहीनवर्णां सैरेन्ध्रीं बीभत्सां केशकारिणीम् ।। 2 ।।

4-17-2a
4-17-2b

परदाराऽस्मि भद्रं ते न युक्तं तव सांप्रतम्।
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ।। 3 ।।

4-17-3a
4-17-3b

परदारे न ते बुद्धिर्जातु कार्या कथंचन ।
विवर्जनं ह्यकार्याणामेतत्सुपुरुषव्रतम् ।। 4 ।।

4-17-4a
4-17-4b

मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः ।
अयशः प्राप्नुयाद्धोरं महद्वा प्राप्नुयाद्भयम् ।। 5 ।।

4-17-5a
4-17-5b

वैशंपायन उवाच।

4-17-6x

एवमुक्तस्तु सैरन्ध्र्या कीचकः काममोहितः।
जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने ।। 6 ।।

4-17-6a
4-17-6b

दोषान्बहून्प्राणहरान्सर्वलोकविगर्हितान् ।
प्रोवाचेदं सुदुर्बुद्धिर्द्रौपदीमजितेन्द्रियः ।। 7 ।।

4-17-7a
4-17-7b

नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने ।
मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि ।। 8 ।।

4-17-8a
4-17-8b

प्रत्याख्याय च मां भीरु वशगं प्रियवादिनम् ।
नूनं त्वमसितापाङ्गि पश्चात्तापं करिष्यसि ।। 9 ।।

4-17-9a
4-17-9b

अहं हि सुभ्रु राज्यस्य कृत्स्नस्यास्य सुमध्यमे ।
प्रभुर्वासयिता चैव वीर्ये चाप्रतिमः क्षितौ ।। 10 ।।

4-17-10a
4-17-10b

पृथिव्यां मत्समो नास्ति कश्चिदन्यः पुमानिह ।
रूपयौवनसौभाग्यैर्भोगैश्चानुत्तमैः शुभैः ।। 11 ।।

4-17-11a
4-17-11b

सर्वकामसमृद्धेषु भोगेष्वनुपमेष्विह।
भोक्तव्येषु च कल्याणि कस्माद्दास्ये रता ह्यसि ।। 12 ।।

4-17-12a
4-17-12b

मया दत्तमिदं राज्यं स्वामिन्यसि शुभानने।
भजस्व मां वरारोहे भुङ्क्ष्वं भोगाननुत्तमान् ।। 13 ।।

4-17-13a
4-17-13b

एवमुक्ता तु सा साध्वी कीचकेनाशुभं वचः।
कीचकं प्रत्युवाचेदं गर्हयन्त्यस्य तद्वचः ।। 14 ।।

4-17-14a
4-17-14b

सैरन्ध्र्युवाच।

4-17-15x

मा सूतपुत्र मुह्यस्व माऽद्य त्यक्ष्यस्व जीवितम्।
जानीहि पञ्चभिर्घोरैर्नित्यं मामभिरक्षिताम् ।। 15 ।।

4-17-15a
4-17-15b

न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम।
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ।। 16 ।।

4-17-16a
4-17-16b

अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि ।। 17 ।।

4-17-17a

यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम्।
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ।। 18 ।।

4-17-18a
4-17-18b

अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्र
तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः

4-17-19a
4-17-19b

त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं पार्थयसेऽद्य
किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यस

4-17-20a
4-17-20b

तेषां प्रियां प्रार्थयतो न ते भुवि गत्वा दिवं वा शरणं भ
न वर्तते कीचक ते दृशा शुभं या तेन संजीवनमर्थयेत सा ।। 2

4-17-21a
4-17-21b

।। इति श्रीमन्महाभारते विराटपर्वणि
कीचकवधपर्वणि सप्तदशोऽध्यायः ।। 17 ।।

[सम्पाद्यताम्]

4-17-16 भूतिः ईश्वरी ऐश्वर्याभिमानिनी देवता ।। 16 ।। 4-17-17 अनङ्गाङ्गविहारिणी रतिरित्यर्थः ।। 17 ।। 4-17-18 ईक्षणपक्ष्माणां नेत्रपक्ष्मणां स्मितं ईषदुन्मीलं तदेव ज्योत्स्नोपम मनस आह्लादकरम् ।। 18 ।। 4-17-20 सुजातौ उन्नतौ। निरन्तरौ पृथत्वात्सांश्लिष्टौ ।। 20 ।। 4-17-21 कुड्भलेति मुकुलीभूतपद्माकारौ ।। 21 ।। 4-17-24 अग्निमदनो मदनाग्निः ।। 24 ।। 4-17-28 कामं स्मरम्। प्रकाममतिशयितम् ।। 28 ।।

विराटपर्व-016 पुटाग्रे अल्लिखितम्। विराटपर्व-018