मन्दारमरन्दचम्पूः/बन्धबिन्दुः

विकिस्रोतः तः
               




   

बन्धबिन्दुः

अथाधुना बन्धबिन्दौ बन्धलक्ष्माणि कानिचित् ।
ब्रूमहे बुधमोदाय गर्भितोदाहृतिक्रमम् ॥
यद्यप्यनेके बन्धास्तु कविप्रौढिमगुम्फिताः ।
तथापि ब्रूमहे कांश्चिन्नागपद्मगजादिकान् ॥
द्वितीयान्त्यौ तथा तुर्यत्रिंशतौ षष्टषष्ठिकौ ।
अष्टमाष्टत्रिंशतौ च दिक्चतुःषष्ठिकावपि ॥
द्वादशेन्द्रौ नाट्यचेष्टाद्विचत्वारिंशतौ तथा ।
पीठाष्टषष्ठिकौ च षट्चत्वारिंशविंशती ॥
द्वाविंशत्षट्सप्ततिकौ पञ्चाशत्केशवावपि ॥
अशीतिषड्विंशती चत्वारिंशत्षष्ठषष्ठिकौ ॥
साष्टपञ्चाशविंशौ च तौ षट्त्रिंशद्द्विषष्टिकौ ।
त्रिंशतौ द्विचतुः पूर्वौ तथैव द्विचतुः परौ ॥
पञ्चाशतौ चतुश्चत्वारिंशत्सप्ततिकौ तथा ।
अष्टाभिरधिकौ चत्वारिंशत्सप्ततिकौ तथा ॥


 अथ कविर्बन्धबिन्दुमुपक्रमन् प्रतिजानीते-- अथेति । प्रयोजनमाह-- बुधमोदायेति । तत्र निमित्तमाह-- गर्भितोदाहृतिक्रममिति । क्रियाविशेषणमिदम् । यद्यपीति । सन्तीति शेषः । प्रौढिमेति । प्रौढतेत्यर्थ । प्रौढशब्दाद्भावे इमनिच्प्रत्ययः । कांश्चिदिति । ननु पूर्वपदे कानिचिदित्यनेनैव निर्वाहे अत्र काश्चिदित्यस्य वैयर्थ्यमिति चेदुच्यते । पूर्वेत्र कानिचित्पद लक्षणान्वयि अत्र काश्चित्पद बन्धान्वयीति विशेषः । अत एव छत्रचामरबन्धादीनां लक्षणं सुगमत्वान्नोक्तम्, नागबन्धादीनां लक्षणमुक्तम् । हंसमयूरक्षीरहारमच्छा(?)दिबन्धा नोक्ता इति ध्येयम् । तत्रादौ नागबन्धलक्षणमाह-- द्वितीयन्यान्त्यावित्यादिना । द्वितीयाक्षरान्त्याक्षरे इत्यर्थः । एवमग्रेऽपि । तुर्यत्रिंशतौ चतुर्थत्रिंशवर्णौ । 'चतुरश्छयतावाद्यक्षरलोपश्च' इति चतुःशब्दाद्यत्प्रत्ययः । अष्टमाष्टमाष्टमश्चाष्टत्रिंशच्चाष्टमाष्टत्रिंशतौ । अष्टन्शब्दात् 'तस्य पूरणे डट्' इत्यनेन जातस्य डटः 'नान्तादसख्यादेर्मट्' इति मडागमः । दिक् दशमो वर्णः । इन्द्रश्चतुर्दश । नाट्यचेष्टा षोडश । पीठमष्टादश । षट्चत्वारिंशविंशतीति । 'विंशत्यादिभ्यस्तमडन्यतरस्याम्' इति तमडागमस्य वैकल्पिकत्वाच्चत्वारिंशच्छब्दाड्डट् । साष्टपञ्चाशविंशौ चेति । अष्टपञ्चाशदष्टाविंशा

षट्पञ्चाशद्द्व्यशीती च सप्तती द्विचतुःपरे ।
इमावुभावुभौ वर्णावेकत्वं भजतो यदि ॥
तदेकनागबन्धस्तु स्रग्धरायां भवेद्ध्रुवम् ।
विदग्धहृदयानन्दश्चतुष्कोणाकृतिर्वरः ॥

 यथा--

श्रीरामो हर्म्यधामा स ततसुमहिमश्रीनतो ज्ञप्रभूतः
सुग्रीवप्रीतये तत्सहजमयममुं भालसत्सायकेन ।
पायान्मां भूभृदीशो वनमिह मिहिरव्रातबाधाद्यभावे
तस्यायन्नाज्ञयायाममशमधिसुखोऽदीनितस्यारिधारा ॥ १ ॥

एवमुत्तरत्रापि नागबन्धभेदेषु यथोचितं लक्षणं परिष्करणीयम् ।

 अष्टदलपद्माकारेणैवनागबन्धो यथा--

मुरस्यारातेरुच्चरणशरजामन्दमधुपं ।
तनो लक्ष्मीवर्यां रचितगुरुपामप्रशमिताम् ।

वित्यर्थः । अत्रोक्तानां संख्येयवाचकत्वमेवेति बोधनायाह-- इमाविति । स्रग्धरायामिति । तन्नामकवृत्त इत्यर्थः । एवमेव नागबन्धमुदाहरति-- श्रीराम इति । स इति तच्छब्दबलाद्य इति लभ्यते । यो रामस्तस्य दशरथस्य आज्ञया इह भूमौ मिहिराणां कर्तृतासबन्धेन सत्कर्मवताम् । सत्कर्मकर्तॄणामिति यावत् । 'मिहिरः पुंसि पूषणि । नित्यसत्कर्मणि धने वृद्धेऽपि' इति वररुचिः । व्रातस्य वृन्दस्य बाधादीनामभावे । विषयसप्तमीयम् । वनमयन् गच्छन् । 'इटकिटकटी गतौ' इत्यत्र गत्यर्थकात्प्रश्लिष्टइधातोः कर्तरि शतृप्रत्ययः । सुग्रीवस्य प्रीतये तत्सहज ते एव सहजो यस्य तममुं बालिनं भया दीप्त्या लसता सायकेन अयाम सयमरहितम् । गमनोन्मुखप्राणमिति यावत् । अत एव अश सुखरहितम् । अकरोदिति शेषः । स तादृशः । हर्म्य धाम यस्य तथोक्तः । तता व्याप्ता सुमहिम्नो माहात्म्यस्य श्रीर्येषां तैर्ब्रह्मादिभिर्नतो नमस्कृतो व इव बुध इव चन्द्र इव वा । 'ज्ञो ब्रह्मबुधचन्द्रेषु' इत्यनेकार्थः । प्रभूत उद्गतः । सौम्य इति यावत् । भूभृतां राज्ञामीशो अधिसुखो अधिकसुखः । अदीनितस्य दीनितो न भवतीत्यदीनितः । 'दीङ् क्षये' इत्यस्मादधिकरणे क्तः । तस्य । मत्तस्येति यावत् । अरिधारा चक्रधारेतिरूपकम् । अयं श्रीरामो मा पायात् । अत्राद्भुतरसस्य रत्यङ्गत्वाद्रसवदलकारः । 'रसो यत्र परस्याङ्ग चेत्तत्र रसवान्मतः' इति लक्षणात् । “म्रम्रैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात्स्रग्धरावृत्तम् । शब्दालंकारस्तु चित्र एव । किं चावाष्टकोणस्थितवर्णैः 'श्रीहयग्रीवेश पाहि' इति प्रतीयते । उत्तरत्रापीति । नागबन्धभेदेष्वित्यर्थः ॥ मुरस्येति । हे तनो देहाभिमा

पदश्रीनिर्धूतद्रुमनवपलाशान्तररमां
महीजातां तां भो धृतनिललधाम व्रज भज ॥ २ ॥

एवं द्वित्रिचतुर्नागबन्धेषु यथासंभवं भेदा ऊहनीयाः ।

ओजयुक्तेष्वाद्यषष्ठतृतीयान्त्यैकता भवेत् ॥
दलैर्द्वादशभिर्युक्तः पद्मबन्धस्त्वनुष्टुभि ॥

 यथा--

दाराणां सुखदातारं दैत्यदामहर मुदा ।
दावाग्निमरिदावस्य भजे दामोदरं सदा ॥ ३ ॥

 द्वादशदलपद्मभेदो यथा--

कमलाचित्तनालीक कलीनाहतकं[१]टक ।
कटकं देहि भालाक कलां भाढ्यललामकम् ॥ ४ ॥


निन् जीव, मुरस्य दैत्यस्यारातेः शत्रोः । विष्णोरित्यर्थः । उत् उत्कृष्टं चरणं एव शरजं जलजं तस्मिन्नमन्द जागरूक मधुपं भ्रमरमिति रूपकम् । लक्ष्मीः कान्ति वृणोति यामिति लक्ष्मीवर्याम् । अधिककान्तिमतीमित्यर्थः । श्रेष्ठलक्ष्मीमिति विशेषणोत्तरपदबहुव्रीहिः । रचितस्य गुरुणो महतः पामस्य(म्नः) पापस्य प्रशमित शमनम् । भावे क्तः । यया ताम् । 'पामा विचर्चिकायां स्त्री न द्वयोः पापपङ्कयोः' इत्यनेकार्थः । पदश्रिया पादकान्त्या निर्धूता तिरस्कृता दुमस्याशोकस्य नवस्य नूतनस्य पलाशस्य पत्रस्यान्तररमा मध्यलक्ष्मीर्यस्यास्ताम् । 'द्रुमो नाशोकवृक्षयोः' इत्यनेकार्थः । महीजाता भूमिजातां तां सीता भज । 'भज सेवायाम्' लोट् । धुतो निरस्तो निललो नितरां लल्यते ईप्स्यते इति निललः ससारो यस्मिंस्तथाविध धाम स्थानम् । मुक्तिमित्यर्थः । व्रज । अत्र 'लक्ष्मीपते पाहि' इति प्रतीयते अष्टकोणस्थितवर्णः ॥ ओजेति । ओजौ प्रथमतृतीयौ च युक्तौ च द्वितीयचतुर्थौ च तेषु । तथा च प्रथमतृतीयपादयोराद्यषष्ठवर्णौ । द्वितीयचतुर्थपादयोस्तृतीयान्त्यवर्णौ यौ तेषामेकरूपत्वमिति भावः । उदाहरणे दा इत्यक्षरं तथाविधं बोध्यम् । दाराणामिति । पत्नीनामित्यर्थः । दैत्यानां दाम मालां हरतीति तथोक्तम् ॥ कमलेति । कमलाया लक्ष्म्याश्चित्तमेव नालीकं पद्मम् । 'नालीक त्वब्जे क्लीब शरे पुमान्' इति रत्नमाला । तस्मिन् भ्रमरेति संबोधनम् । 'कलीनं तु खलीनेलौ' इत्यनेकार्थः । आसमन्ताद्धत कण्टको येन तस्य संबुद्धौ तथोक्तम् । 'रोमाञ्चे क्षुद्रशत्रौ च द्रुमाङ्गे कण्टकोऽस्त्रियाम्' इति त्रिकाण्डशेषः । भालाङ्कः । 'भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते । महालक्षणसंपन्नपुरुषे

षोडशदलपद्मबन्धो यथा--

कृतस्वान्तततध्वान्तधूत भूतहितव्रत ।
दान्तशान्तजितप्रेत श्रौतगीतसुतस्तुत ॥ ५ ॥

अष्टदलपद्यबन्धो यथा--

माता तस्या धरण्याश्चरणभजकवस्वीशयक्षोरधामा
माधारक्षो यशस्वी भवतु मम मुदे भ्राजितस्फारनामा ।
मानारस्फातजिभ्राजितरिपुनिवहध्वंसनव्याससामा
मासासव्या न स ध्वंसितदितिजवरेण्यारधस्याततामा ॥ ६ ॥

एतेषु यथासंभवं लक्षणमूह्यम् । एवमग्रेऽपि ।


कच्छपे हरौ ॥' इति मेदिनीकोशान्महालक्षणसंपन्नेत्यर्थः । भया कान्त्या आढ्य युक्त ललामं भूषणं यस्य तथोक्तम् । 'ललाम पुच्छपुण्ड्राश्वभूषप्राधान्यकेतुषु' इत्यमरः । कला विद्यारूपं कटकं भूषणमिति व्यस्तरूपकम् । देहि । इयं विष्णुं प्रति भक्तस्योक्तिः ॥ कृतेति । कृत स्वान्ते भक्तहृदये ततस्य व्याप्तस्य ध्वान्तस्याज्ञानस्य धूत निरसनम् । भावे क्तः । येन तस्य संबुद्धौ तथोक्तम् । भूतानां प्राणिनां हिते हितकरणे व्रतं दीक्षा यस्य तथोक्तम् । जितः प्रेतः शत्रुर्येन सः । 'प्रेत शत्रौ शवेऽपि च' इत्यनेकार्थः । श्रुतीनां समूहः श्रौतः तस्य गीत यस्य सः । उच्चारणार्थकाद्भाधातोर्भावे क्तः । तथा च दान्तश्चासौ शान्तश्चासौ जितप्रेतश्चासौ श्रौतगीतश्चासौ सुतश्च । ब्रह्मेत्यर्थ । तेन स्तुतेत्यपि संबोधनम् । देहीत पूर्वेणान्वयः ॥ मातेति । माता तस्या धरण्याः चरणभजकवस्वीशयक्षोरधामा माधारक्षः यशस्वी भवतु मम मुदे भ्राजितस्फारनामा मानारस्फातजिभ्राजितरिपुनिवहध्वसनव्याससामा मा आस असव्या न सः ध्वसितदितिजवरेण्यारधस्य अततामा इति पदच्छेदः । स इति तच्छब्दप्रयोगाद्यस्येत्यध्याहर्तव्यम् । ध्वसिता दितिजवरेण्या दैत्यश्रेष्ठा नरकाद्या येन तस्य तथोक्तम् । यस्य कृष्णस्येत्यर्थः । अततोऽसगत आमो रुक् यस्याः सा तथोक्ता । 'तत व्याप्ते विस्तृते सगते त्रिषु । वीणादिवाद्ये क्लीबे स्याद्वायौ पुंसि' इत्यनेकार्थः । 'आमो रुक्तद्भिदोः पुंसि स्यादपक्वेऽन्यलिङ्गक' इति मेदिनिः । मा लक्ष्मीः । असव्या वामभागास्थिता । 'वामं शरीरं सव्य स्यात्' इत्यमरः । नास नाभवत् । तथा च भार्या अभवदिति भावः । स तादृशः कृष्णो मम मुदे भवत्वित्यन्वयः । अन्यत्सर्वमस्य विशेषणम् । तस्या धरण्या भूमेर्माता मानकर्ता वसवश्च ईशश्चासौ पक्षश्चेशपक्षः । यक्षराज इत्यर्थ । उः शिवः । रोऽग्निः । एतेषां द्वन्द्वः । तथा च चरणभजकानां स्वपादसेवकानां वस्वीशयक्षोराणां वसुकुबेरशिववह्नीनां धाम तेजो येन स तथोक्तः । माया लक्ष्म्या आधारः क्ष वक्षःस्थलं यस्य स तथोक्तः । यशस्वी कीर्तिमान् । भ्राजितानि स्फाराणि बहूनि नामानि यस्य स तथो

गजबन्धो यथा--

राजाभास्या भासमानस्वर्णकर्णस्वपिस्वरा ।
सारापाला पातु लोला सा पिकस्वनमासरा ॥ ७ ॥

चक्रबन्धो यथा--

श्रीराजीवविराजमाननयनं श्यामाम्बुदामं हरिं
श्रीमद्वीन्द्र(?)महेन्द्रवन्दितपदं पापादपेतं भजे ।
अञ्चन्तं गजराजवज्जनकजातालस्तनालिङ्गितं
सान्द्रप्रेमभरं स्वभक्तनिवहे गेयस्ववीर्यं बुधैः ॥ ८ ॥

छत्रबन्धो यथा---

सालजालवलद्वाते भूरिभूते दृगादृते ॥
सा रराज रमा चारुरुचा मारजरारसा ॥ ९ ॥


क्तः । मया सपदा नारेण नरसमूहेन च स्फातानामभिवृद्धानां जिना जयवतामत एव भ्राजितां प्रकाशमानानां रिपूणां निवहस्य वृन्दस्य ध्वसनव्यासे नाशविस्तारे साम उपायो यस्य स तथोक्तः । 'व्यासो मुनौ च विस्तारे' इति त्रिकाण्डशेषः । क्षादीना वक्षःस्थलादिवाचकत्वमेकाक्षरकोशे द्रष्टव्यम् ॥ राजाभेति । राजाभास्या भासमान स्वर्णकर्णस्वपिस्वरा सारापाला पातु लोला सा पिकस्वनमासरा इति पदच्छेदः । सेति तच्छब्दबलाद्येति लभ्यते । या राजाभास्या चन्द्राभमुखी । 'राजा चन्द्रो नृपो राजा' इति मञ्जरी । स्वं पातीति स्वपम् । द्रव्यसाध्यमित्यर्थः । मुक्ताफलमिति यावत् । स्वपमस्यास्तीति स्वपि । भूषणमिति यावत् । कर्णयोः स्वपि । कर्णसंबन्धि भूषणमित्यर्थः । स्वरः गानं भाषणं वा । कर्णस्वपि च स्वरश्च कर्णस्वपिस्वरौ । स्वर्णमस्यास्तीति स्वर्णम् । अन्यत्र सुष्ठु अर्णाः वर्णानि यस्मिन् स स्वर्णः । स्वर्ण च स्वर्णश्च स्वर्णौ (?) स्वर्णौ च तौ कर्णस्वपिस्वरौ च स्वर्णकर्णस्वपिस्वरौ भासमानौ स्वर्णकर्णस्वपिस्वरौ सुवर्णमयकर्णभूषणशोभनाक्षरयुक्तभाषणे यस्याः सेति तथोक्तम् । 'स्वरो गाने भाषणे नासिकानिले । उदात्तादौ च षड्जादावकारादौ ध्वनौ पुमान् ॥' इत्यनेकार्थः । अराणामिदमार चक्रं तेन आसमन्तात्पलयतीत्यारापालो विष्णुः । तेन सहिता सारापाला । स्वनस्य मा संपत् तस्याः सरः । माला । पिकस्य स्वनमासर इव स्वनमासरो यस्याः सा तथोक्ता । लोला अस्थिरा लक्ष्मीः पातु रक्षतु । 'पा रक्षणे' इत्यस्माल्लोट् ॥[२]

चामरबन्धो यथा--

मारसारतरस्फारफातिभारं परं सुरम् ।
सीतानेत्रचकोरेन्दुबिम्बं वन्दे रमेश्वरम् ॥ १० ॥

मर्दलबन्धो यथा--

मारसापरसापारामापारापरसापसा ।
मवरापवरामायामामायापवरावरा ॥ ११ ॥

रथबन्धो यथा--

पादाहितगुणा मान्ति यस्य चित्ते कलावतः ।
महिलानन्ददं कान्तं तं भजे सततं हरिम् ॥ १२ ॥

गोमूत्रिकाबन्धो यथा--

भजे राधावरं कञ्जमुखं भक्तरुचिव्रतम् ॥
व्रजे बाधाहरं कुञ्जसुखं व्यक्तशुचिस्मितम् ॥ १३ ॥

अथ चतुरङ्गचक्रबन्धो निरूप्यते--

नाडीरामोऽब्धिभूर्नेत्रदृग्भूवर्णोऽग्निकन्यका ।
भूरसोऽङ्घ्रिजो वार्धिवाजी सायककन्यका ॥
कर्मस्वरः सिद्धिगजो नदीशत्रुर्गजाम्बुधिः ।
तर्करामः पापचन्द्रो नदीनेत्रं शरानलः ॥
कारकेन्दुर्दन्तिनेत्रं मुनिवार्धी रमारसः ।
मुनिलक्ष्मीः पाण्डवार्वा प्रश्नकाव्यं युगे रसः ॥
मूर्तिगन्धश्चन्द्रमुनिर्नेत्रबाणो युगाम्बुधिः ।
मूर्तिर्नेत्रं चन्द्रचन्द्रो नेत्रमूर्तिः क्षमाशरः ॥
बाहुद्वीपो वार्धिलक्ष्मीः कालतर्कोऽङ्घ्रिसागरः ।
भूमिनेत्रं कालचन्द्रो वार्धिकालो बलाम्बुधिः ॥
कन्याकुचो द्वीपचन्द्रो गजशक्तिर्नदीशरः ।
लक्ष्मीमुनिस्तर्कलक्ष्मीः कन्यातर्को नदीमुनिः ॥
कन्यालक्ष्मीर्बलबलं गजकन्या नदीगुणः ।
लक्ष्मीचन्द्रस्तर्कनेत्रं कन्यावार्धियुगद्वयम् ॥

करचन्द्रो भूमिशक्तिः शक्तिवार्धिर्हनूरसः ।
भूमिदन्ती शक्तिमुनिर्मकरालयकन्यका ॥
अत्र वीथीबोधिकाद्या संख्यान्या गृहबोधिका ।
संख्यापर्यायकथनं शेषबिन्दौ भविष्यति ॥
घोटीगतिक्रमादेवं चतुरङ्गगृहेषु च ।
निरन्तरं लघुगुरूण्यक्षराणि न्यसेद्यथा---॥

पपापपापपापपापपापपापपापपा
पपापपापपापपापपापपापपापपा ।
पपापपापपापपापपापपापपापपा
पपापपापपापपापपापपापपापपा ॥ १४ ॥

 पञ्चचामरप्रमाणिकासमानिकोपचामरवृत्तैः पञ्च श्लोका भवन्ति । दण्डपार्श्ववर्तुलकोणघोटीगत्याद्याकारभेदेनानेके भेदा ऊह्याः । एवं मयूरक्षीरहारबन्धादयोऽपि ॥

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतो बन्धबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दारमरन्दे चम्पूप्रबन्धे बन्धबिन्दुः पञ्चमः समाप्तिमगमत् ।


  1. १-२. परसवर्णस्य नित्यत्वे बन्धानुगुण्येनानुस्वार एव रक्षितः
  2. अस्माभिरियानेव टीकाग्रन्थ उपलब्धः.