मन्दारमरन्दचम्पूः/चित्रबिन्दुः

विकिस्रोतः तः
               




   

इत्थं मया श्लेषभेदा दिङ्मात्रमिह कीर्तिताः ।
ग्रन्थगौरवशङ्कात उन्नेया विबुधैरथ ॥

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतः श्लिष्टबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्धटिकाशत[शत]घण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दारमरन्दे चम्पूप्रबन्धे श्लिष्टबिन्दुस्तृतीयः समाप्तिमगमत् ।


चित्रबिन्दुः ।

अत्राधुना चित्रबिन्दौ क्रमाद्यमकचित्रयोः ।
वक्ष्यते लक्षणं भूयः सोदाहरणगुम्फनम् ॥
स्वरव्यञ्जनसंबद्धवर्णाद्यावर्तने सति ।
यमकं तत्तु पादाद्यादिस्थित्या बहुधा मतम् ॥

आदौ यथा--

कमलापतिपदयुगलं कमलाभेदोपपादकं रुचिभिः ।
कमलाकरकेलौ सा कमलाक्षी राधिका जगृहे ॥ १ ॥

मध्ये यथा----

विधुमुखी दवधूदधिविप्लुतावददमन्दवधूजनकाङ्क्षितम् ।
स्मरभ यादव धूतगुणेतर स्मरशरादव धूतहृदं जनम् ॥ २ ॥

याम्' इत्यस्माल्लट् । एषु सर्वत्र क्रियावाचकपदावर्तनं बोध्यम् । इमं बिन्दुमुपसंहरति-- इत्थमिति ॥ जलजनीति पद्ये पूर्ववदेव व्याख्येयम् ॥ इति मन्दारमन्दव्याख्याया माधुर्यरञ्जन्याख्याया गूढकर्तृकायाः श्लिष्टबिन्दुस्तृतीयः समाप्तः ॥

 उपोद्घातसंगत्या चित्रबिन्दुमुपक्रमन्प्रतिजानीते-- अत्रेति । वक्ष्यमाण इत्यर्थः ॥ यमकमाह-- स्वरव्यञ्जनेत्यादिना । तथा चासकृदेकानुपूर्वीकवर्णसमूहघटितत्वमिति भावः । इदं स्वरूपलक्षणं पद्ये समन्वेति-- पादाद्यादिस्थित्येति । आदिपदेन मध्यान्तादेर्ग्रहणम् । तथा च यमकं पादादिगपादमध्यगपादान्तगत्रिपादगद्विपादगान्तादिगान्तमध्यगादिभेदेन बहुविधमित्यर्थः । तदुदाहरति-- आदौ यथेत्यादिना । पादादिगं यथेत्यर्थः । एवमग्रेऽपि । कमलापतीति । कमलाक्षी सा राधिका रुचिभिः कान्तिभिः । करणे तृतीया । कमलस्याभेदोपपादक कमलापतेः कृष्णस्य पदयुगलं कर्म कमलाकरकेलौ सरःक्रीडायां जगृहे ॥ १ ॥ विधुमुखीति । दवधूदधौ विरहसमुद्रे वि

अन्ते यथा--

माधवमसदामधुरंधरमवनितलस्थदैत्यदामधुरम् ।
भज हृदि मुदा मधुरञ्जितभणितं हरन्तमम्बुदामधुरम् ॥ ३ ॥

अन्ताद्योर्यथा--

न हरिं कमलाकलितं कमलाकलितं वनं च पश्यन्त्याः ॥
नयनं कमलाकलितं कमलाकलितं बभूव च सरोऽपि ॥ ४ ॥

एवमादिरीत्या द्वित्र्येकपादयमकेषु भेदा ऊह्याः ॥

 पादद्वये यथा--

शरवृन्दे प्रपतामि च शरवृन्दे पतति तापमस्य न सहेऽहम् ।
शम्बररिपुविद्यायाः शंबरसमाश्रयणमिह तव युक्तम् ॥ ५ ॥

इदमादौ । अन्ते यथा--

सरक्षितोऽस्मि विरहानलतो भवत्या
सद्रत्नहारविलसत्कुचकुम्भवत्या ।

प्लुता निमज्जन्ती विधुमुखी चन्द्रानना काचिद्गोपी कर्त्री अमन्देन बहुना वधूजनेन काङ्क्षितमपेक्षितम् । कर्मणि क्तः । कर्म । कृष्णमिति यावत् । स्मरस्य भेव भा यस्य तस्य सबुद्धिस्तथोक्तम् । धूता उत्सृष्टा गुणेतरे दोषा यस्य तथा । हे यादव कृष्ण, स्मरशराद्भूतं हृदयं यस्य तथोक्तम् । जनमस्मदीयगोपीजनमित्यर्थः । मामिति वा अव रक्षेत्यर्थः ॥ २ ॥ माधवमिति । पिता पुत्रं बोधयति-- हे पुत्र, असता खलानामामा रीतिस्तस्या धुरन्धर समर्थमवनितलस्थदैत्यदामधुर भूतलस्थितदानवपङ्क्तिभारं हरन्तं संहरन्तं मधुवदमृतवद्रञ्जितम् । कर्तरि क्तः । भणित भाषणं यस्य तथोक्तम् । अम्बुद इव आ सम्यक् मधुरं मनोहरं माधवं हृदि मुदा भज । 'भज सेवायाम्' । लोट् ॥ ३ ॥ न हरिमिति । विप्रलब्धगोपीवर्णनमिदम् । कमलया लक्ष्म्या कलितं युक्तं हरिं कृष्णं न पश्यन्त्याः कमलैः कुरङ्गैः आकलितः वनमारामं पश्यन्त्या गोप्या नयनं नेत्रं कमलेन जलेन आकलितं संबद्धं बभूव । सरोऽपि कमलैः कुसुमैरकलित रहित बभूव । चन्द्रः उदयं प्रापेत्यर्थः । अत्र कमलकुसुमराहित्येन चन्द्रोदयव्यञ्जनादर्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ ४ ॥ शरवृन्द इति । मदीये पाण्डुरङ्गविलासे विरहिण्याः सुन्दर्या इव मुक्तिः । अस्य कामस्य शरवृन्दे बाणसमूहे पतति सति अहं तापं न सहे । किं चेति चार्थः । शरवृन्दे उदकसमूहे प्रपतामि । शम्बरेति । तत्रैव तत्सख्या बल्लव्या वचनमिदम् । इह अधुना शम्बरस्यासुरस्य रिपुणा कामेन विद्याया मर्दितायास्तव शम्बरस्योदकस्य समाश्रयण युक्तम् । 'शत्रोः शत्रुः स्वमित्रं स्यात्' इत्युक्तेरिति भावः ॥ ५ ॥ संरक्षित इति । तत्रैव सुन्दरीं घटयित्वा उक्तवतीं बल्लवीं प्रति कृष्णस्योक्तिरियम् । अन्ये सुहृदो

त्वामेव मित्रमहमम्बुरुहाक्षि मन्ये
किं तैर्भरन्ति सुहृदः खलु कुक्षिमन्ये ॥ ६ ॥

पादत्रये यथा-

नस्यं नयनविनाशं तनुते भुक्त्यात्मनापि न विना शम् ।
किंत्वज्ञानविनाशं तस्मादेतद्बुधोऽपि गृह्णाति ॥ ७ ॥

एकपादे यथा--

प्रथमसंगमगेहनिविष्टया सुदृढनीविनिबद्धकराम्बुजम् ।
सुशयितं धुरि भर्तुरवाङ्मुखं मदनकादनकातरया रयात् ॥ ८ ॥

समस्त्येन यथा--

विदलितकीचकवपुषं कीचकवपुषः सुतं च बल्लववेषम् ।
बल्लववेषाप्रियकरवेषाप्रियकरमद्य कलयामि ॥ ९ ॥


मित्राणि कुक्षि भरन्ति खलु तैः किम् । न किमपि प्रयोजनं भवतीत्यर्थः ॥ ६ ॥ नस्यमिति । नसायां नासिकायां साधु नस्यम् । सप्तम्यन्तात्स्वार्थे यत्प्रत्ययः । 'नसा नस्या च नासिका' इति त्रिकाण्डशेषः । 'तवकिरी' इत्यर्थः । नयनयोर्विनाशं तनुते आत्मना स्वेन नस्येनेति यावत् । विना भुक्त्यापि भोजनेनापि शं सुखं न तनुते । 'पृथग्विनानानाभिस्तृतीयान्यतरस्याम्' इति तृतीया । तथापीति कित्वर्थः । अज्ञानविनाश तनुते करोति । तन्द्रीमुत्सार्य जागरूकतामुत्पादयतीत्यर्थः । तस्माद्धेतोरेतन्नस्यं बुधोऽपि गृह्णाति ॥ ७ ॥ प्रथमेति । कश्चिन्नवोढायाः स्वीयाया वृत्तान्तं सख्ये ब्रवीति-- प्रथमं संगमगेहं सुरतगृहं प्रविष्टया अतएव मदनस्य कादनं कलहः । सुरतमिति यावत् । 'कदनं कादनं कलिः' इति कमलाकरः । तस्मिन्कातरयाधीरया । कान्तयेत्यर्थात् । सुदृढं यथा तथा नीवौ कटिवस्त्रबन्धे निबद्धं कराम्बुजं यस्मिन्कर्मणीति तथोक्तम् । अवाङ्मुखमिति क्रियाविशेषणम् । भर्तुर्धुरि पुरः सु अत्यन्तं शयितम् । भावे क्तः ॥ ८ ॥ विदलितेति । मदीये कीचकनिधने इदं पद्यम्-- विदलितानि कीचकानां वपूंषि येन तथोक्तम्, कीचकानां सरन्ध्रवेणूना वं ध्वनिं पुष्णातीति कीचकवपुट् तस्य वायोः सुत बल्लवस्य सूदस्य वेष इव वेषो यस्य स तथोक्तम् । बल्लववेषस्य गोपालरूपिणः कृष्णस्याप्रियकरो वेषः स्वरूपं येषा तेषामप्रियकरम् । अर्थाद्भीममित्यवगन्तव्यम् । अद्य नाट्यारम्भावसरे कलयामि ध्यायामीत्यर्थः । 'बल्लवौ सूदगोपालौ' इत्युभयत्रापि मञ्जरी । 'आकल्पवेषौ नेपथ्यम्' इत्यमरः ॥ ९ ॥

त्रिरावर्तनं यथा--

कमलयामलया मलयानिलप्रचलयाचलयाचलया तया ।
कलितकुञ्जगृहेऽमृतवीरुधा समुदपादि मनोजमहोत्सवः ॥ १० ॥

एवमेव चतुःपञ्चावर्तनादय उन्नेया इति दिक् ।

चित्रं स्याद्यदि वर्णानां पद्माद्याकारहेतुता ।
तच्चित्रं बहुधात्रास्य दिङ्मात्रं दर्शयामहे ॥
विना वर्गेष्वाद्यवर्णद्वितयं शषसा नचः ।
हलादीनां कृदन्तानां पदानां पृष्ठतो यदि ॥
आदन्तोत्तरवान्तानां पदानां विनियोजने ।
तत्र चित्रं भवेदस्य स्वौजसन्तपदान्वयात् ॥
धातोर्लोटो मध्यमस्य परस्मैपदिनः सकृत् ।
उक्तस्यैव पदोद्भेदात्स्वौजसन्तेषु चान्वयात् ॥

यथा---

विशदमहितकीर्तिश्रीप्रभावानिमग्नं
कलितगहनपापे दीर्घसंसारकूपे ।


कमलयेति । मदीये वैकुण्ठवर्णन इदम् । अचलयाचलया अचल क्रीडापर्वत यातीत्यचलयास्तादृशी अचला भूर्यस्यास्तथोक्तम् । असनिहितभूदेवीकयेत्यर्थः । अमलया निर्दुष्टया कमलया श्रीदेव्या कर्त्र्या । मलयानिलेन मन्दमारुतेन । मलयानिलपदे मन्दमरुतविषयिणी कविरूढिः । प्रचलया संचलयामृतवीरुधामृतलतया कलिते व्याप्ते कुञ्जगृहे गृहसदृशकुञ्जे मनोजमहोत्सव कामकेलिः समुदपादि उत्पादित । कृत इत्यर्थः ॥ १० ॥ उपसंहरति एवमिति ॥ इति माधुर्यरञ्जिन्यां यमकप्रकरणम् ॥
 उद्देशक्रमेण चित्रं लक्षयति-- चित्रमिति ।चित्त राति आदत्ते इति चित्रम् । विस्मयकारीत्यर्थः । तच्च शब्दालङ्कारः, अर्थालंकारश्च । काव्यस्य तु चित्ररूपशब्दालंकारार्थालंकारतदुभयविशिष्टत्वेन चित्रत्वम् । चित्रमस्यास्तीति चित्रमित्यर्शआदित्वादच् । अत्र तु चित्ररूपशब्दालंकारनिरूपणं बोध्यम् । पद्मादीति । आदिपदेन नागगजविभक्तिद्वयादयः(?) । तथा च पद्माद्याकारहेतुभूतवर्णत्वं चित्र(त्व)मित्यर्थः । अस्य चित्रस्येत्यर्थः । चित्रोपायं निरूपयति-- विनेत्यादिना । हलादीनामिति । हल्वर्णा आदौ येषां तेषामित्यर्थः । अस्यैताद्दशवाक्यस्य । लोट इति । लोट्प्रत्ययान्तस्येत्यर्थः । मध्यमस्य मध्यमपुरुषस्य । पदोद्भेदात्पदच्छेदात् । एतत्सर्वमुदाहरणे बोध्यम् । विशदमहितकीर्तिश्रीप्रभावानिमग्नमिति । अत्र ‘श्रीप्रभाव आनिमग्नम्' इति मारुतिपक्षे पदच्छेदः । 'श्रीप्रभौ आनिमग्नम्' इति चन्द्रसूर्यपक्षे । 'श्रीप्रभावाः निमग्नम्' इति विधिहरिशितिकण्ठपक्षे । कुरुतमुदितमेनमित्यत्रापि

कुरुतमुदितमेनं मारुते चन्द्रसूर्यौ
विधिहरिशितकण्ठास्त्वं युवा यूयमद्य ॥ ११ ॥

पृष्ठतो न्युपसर्गादेः राज्याद्यन्तसुयोजने ।
चित्रं भवेद्भिन्नलिङ्गंस्वावाद्यन्तसमन्वयात् ॥

यथा--

ध्वस्ताघालीनिबद्धोरुगुणालीनिहते भवे ।
गातां हरेस्तनुः पादौ चरित्राणि सदा हृदि ॥ १२ ॥

यथा वा--

यशोराजी नितान्तोरुसंपत्पालीनियोगतः ।
अपत्यानि हरेः पादौ लक्ष्मीश्च कुरुता मम ॥ १३ ॥

इनीदन्तपदैर्योगे रेफादिपदपृष्ठतः ।
भवेच्चित्रं भिन्नलिङ्गस्वौशसन्तसमन्वयात् ॥

यथा--

सुदानशालिनी राजत्सुजनप्रेयसी रमा ।
केशवस्य च पादाब्जे संपदस्तनुतां मयि ॥ १४ ॥


'कुरु तं उदितम्' इत्येकत्र । 'कुरुतम् उदितम्' इत्यन्यत्र । 'कुरुत मुदितम्' इत्यपरत्र पदच्छेदः । अर्थस्तु सुगम एव ॥ ११ ॥ न्युपसर्गादेरिति । नीत्युपसर्ग आदौ यस्य तस्येत्यर्थः । राज्याद्यन्तेति । राजिरादिर्येषा ते राज्यादय । आलिः अङ्गुलिः वलिः केलिः नीविः नाभिरित्यादयः शब्दा अन्ते येषां तेषामित्यर्थः । स्वावाद्यन्तेति । सुऔ इत्यादिप्रत्ययान्तेष्वित्यर्थः । ध्वस्ताघालीति । ध्वस्ता अघानां पापानामाली समूहो यस्यास्तथोक्तेति तनुविशेषणम् । 'कृदिकारादक्तिनः' इति पक्षे ङीष् । निबद्धा संबद्धा उरुगुणानामाली यस्या सेत्यपि तनुविशेषणम् । प्रथमैकवचनम् । पादविशेषणे तु द्विवचनम् । चरित्रविशेषणे तु ध्वस्ताघालीनि बद्धोरुगुणालीनीति पदच्छेदः । नपुंसकबहुवचनम् । हरेर्विष्णोस्तनुः कर्त्री । पादौ कर्तारौ । चरित्राणि कर्तॄणि । सदा हृदि गाताम् । 'गाङ् गतौ' इत्यस्मात्प्रार्थनायां लोट् । नित्यं बहु(सर्व)वचनान्तमिदं सर्वत्रान्वेति । प्रवर्ततामित्यर्थः । एवमेवोत्तरत्रापि ॥ १२ ॥ अपत्यानि कर्माणि । पादौ लक्ष्मीश्च कर्तृपदे । कुरुतामिति । परस्मैपदे लोटि मध्यम(प्रथम) पुरुषद्विवचनम् । अन्यत्रात्मनेपदे लोटि मध्यम(प्रथम)पुरुषैकवचनम् ॥ १३ ॥ इनीदन्तेति । स्त्रीप्रत्ययप्रकृतिकणिन्यादिप्रत्ययान्तपदैरित्यर्थः । भिन्नलिङ्गस्वौशसन्तसमन्वयादिति । लिङ्गभेदविशिष्टप्रथमैकद्विबहुवचनान्तपदान्वयादित्यर्थः । सुदानेति ।

आदन्तोत्तरतोऽज्वादेः संध्या शब्दस्य गुम्फने ।
भवेच्चित्रं लिङ्गभेदादेकद्विवचनान्वयात् ॥
विभासिताविभौघेन चन्द्रलेखा विभासिता ।
कुरुपाण्डवयोः सेनासंनिवेशाविवासकृत् ॥ १५ ॥
कश्यपार्काविव मुदा सेवितावरुणेन या ।
तां प्रतीचीं चुचुम्बासौ गोभिः संमान्य चन्द्रमाः ॥ १६ ॥
रामावलिविलासेन हरिणा रमते रमा ।
करटाविव गोप्यो वा पुनः पद्मच्छदाविव ॥ १७ ॥


सुष्ठुदानशालिनीति राजता सुजनानां प्रेयसीति रमाविशेषणम् । रमा कर्त्री । सुदानशालिनीति राजसुजनप्रेयसीति च नपुंसकलिङ्गकपदद्वयम् । पादाब्जयोर्विशेषणम् । पादाब्जे च कर्तृणी । सुदानशालिनीरिति सुजनप्रेयसीरिति च स्त्रीलिङ्गद्वितीयाबहुवचनान्तपदद्वयम् । सपद्विशेषणम् । सपदः कर्माणि । तनुतामिति पदं कुरुतामितिवद्योज्य पूर्ववत् । 'ढ्रलोपे पूर्वस्य दीर्घोऽण' इति दीर्घः ॥ १४ ॥ आदन्तोत्तरत इति । आकारान्तपदाव्यवहितोत्तरमित्यर्थः । अज्वादेः अचः अ इ उ ऋ ए ओ ऐ औ एते (वकारश्च) आदौ यस्य तस्य शब्दस्य सध्या सधिपूर्वक गुम्फने योजने सति । विभासितेति । सेनासनिवेशपक्षे 'विभासितौ इभौघेन' इति पदच्छेदः । चन्द्रलेखापक्षे 'विभासिता विभौघेन' इति च्छेदः । इभानां गजानामोघस्तेन । अन्यत्र वकारः शोभावाची सोऽस्यास्तीति वीभाना नक्षत्राणामोघः समूहस्तेन । यद्वा वोऽमृतमासामस्तीति विन्यो भा. कान्तयस्तासामोघेन । अमृतमयकान्त्योघेनेति यावत् ॥ १५ ॥ कश्यपार्काविति । कश्यपार्कौ कश्यपसूर्यौ मुदा अरुणेन अनूरुणा सेवितौ । प्रतीचीपक्षे मुदा वरुणेन प्रचेतसा सेविता । पालितेत्यर्थः । असौ चन्द्रमा गोभिः समान्य मानयित्वा चुचुम्ब । अत्र प्रतीचीसबन्धरूपास्तमये वर्ण्यमानेऽप्रस्तुतपरवनितासक्तपुरुषान्तरप्रतीतेः समासोक्तिरलंकारः । 'अप्रस्तुतपरिस्फूर्तिर्यत्र प्रस्तुतवर्णने । समासोक्तिः' इति लक्षणात् ॥ १६ ॥ रामावलीति । 'रामौ अलिविलासेन, रामाः बलिविलासेन' इति द्विधा पदच्छेदः । 'रामा बलिविलासेन' इति रमापक्षे छेदः । बलीना त्रिवलीना विलासेन रामा रमणीया रमा लक्ष्मीः । रामावलिविलासेनेत्येकं पदम् । रामाणां स्त्रीणामावलौ विलासो यस्य तथोक्तेन हरिणा कृष्णेन रमते । 'रमु क्रीडायाम्' इत्यस्माल्लट् । करटाविव गजगण्डाविव । एतत्पक्षेऽलिविलासेन भ्रमरविलासेन रामौ रमणीयौ । गोप्यो वा गोपिका इव । 'वद्वायथातथैवेयं सामान्ये' इत्यमरः । एतत्पक्षे बलिना त्रिवलीना विलासेन रामा रमणीयाः । पद्मच्छेदाविव कमलपत्रे इव । एतत्पक्षेऽलीना विलासेन रामौ रमणीयावित्यर्थः । अत्र 'लिङ्गसंख्याविभेदेऽपि उपमानोपमेयता । विभक्तिः पुनरेकैव उपमानोपमेययोः ॥' इत्यनुशासनाच्छ्लेषकृतसाधारणधर्मोपादानविशिष्टोपमानालंकारे वचन

अजन्तानां हलन्तानां यथायोगं नियोजने ।
विभक्तिभेदाच्चित्रं स्यात्स्वावम्टादिपदान्वयात् ॥

यथा प्रथमायाम्--

प्रकीर्णकचमरीचयः सुरतश्रान्ताङ्गना इवाभाति ।
अपि बहुकर्कारुचयो घोटकशाला इवाचलाधिपतिः ॥ १८ ॥

लोहकारनिषद्याश्च राजन्ते पुरि सर्वतः ।
अनेककृष्णसूच्यश्च नन्दसूनुरिव व्रजे ॥ १९ ॥

प्रथमाद्वितीययोर्यथा--

तमोविध्वंसिनी राजत्कमलानन्ददायिनी ।
हरिनेत्रे तुलयति भानोः किरणसंततिः ॥ २० ॥


भेदेऽपि न दोषः ॥ १७ ॥ स्वावम्टादिपदान्वयादिति । प्रथमैकवचनद्विवचनद्वितीयैकवचनतृतीयाद्यन्वयादित्यर्थः । प्रकीर्णकेति । अचलाधिपतिः पर्वतश्रेष्ठः । भातीत्यन्वयः । किंभूतः । सुरतेन श्रान्ता अङ्गना इवेत्येकं पदम् । 'इवेन सह नित्यसमासो विभक्त्यलोपश्च' इत्यनुशासनात् । उपरिसुरतश्रान्तकान्ता इवेत्यर्थः । प्रकीर्णकचमरीचयः । कन्तापक्षे प्रकीर्णानां कचानां मरीचिः प्रभा यासां तास्तथोक्ताः । पर्वतपक्षे प्रकीर्णको विस्तृतः चमरीणां चयो वृन्द यस्मिस्तथोक्तः । प्रथमैकवचनम् । 'प्रकीर्णकं चामरे स्याद्विस्तृते ना तुरगमे' इत्यनेकार्थमेदिन्यौ । किंचेत्यप्यर्थः । घोटकशाला इव वाजिशाला इव । बहुकर्काणामनेकशुक्लाश्वानां रुचिर्यासु ता इति बहुवचनम् । पूर्वपक्षे बहूनां कर्कारुणां कूष्माण्डकानां चयो यस्मिंस्तथोक्त इत्येकवचनम् । 'सित कर्कः' इति । 'कूष्माण्डकस्तु कर्कारुः' इति चोभयत्रामरः ॥ १८ ॥ लोहकारेति । लोहकाराणां निषद्याः । 'आपणस्तु निपद्यायाम्' इत्यमरः । पुरि नगरे सर्वतः सर्वत्र । सार्वविभक्तिकस्तसिः । व्रजे गोकुले नन्दसूनुरिव कृष्ण इव । अनेककृष्णसूच्य अनेकाः कृष्णाः सूच्यः प्रसेविन्यो यासु ता इत्यापणपक्षे बहुवचनम् । कृष्णपक्षेऽनेकैर्जनैः कृष्ण इति सूच्यः सूचनाविषय इत्येकवचनम् । राजन्ते ॥ १९ ॥ तम इति । भानोः सूर्यस्य किरणानां संततिः कर्त्री । हरेर्नेत्रे कर्मणी । तमोविध्वंसिनी तमो ध्वान्त विध्वंसयतीति तथोक्ता । ताच्छील्ये णिनिः । स्त्रीत्वात् ङीप् । इति भानुकिरणपक्षे स्त्रीलिङ्गप्रथमैकवचनम् । हरिनेत्रपक्षे तमोऽज्ञान विध्वंसयत इति तथोक्ते नपुंसकलिङ्गद्वितीयाद्विवचनम् । एवमग्रेऽपि । कमलेति । पद्मं लक्ष्मीश्चेत्यर्थः । अत एव तुलयति समीकरोति । नात्रोपमालंकारः । किंतु प्रकृताप्रकृतोभयश्लेषः । तेन 'लिङ्गसंख्याविभेदेऽपि' इत्यनुशासनाद्विभक्तिभेदस्य चात्र सत्त्वात्कथमुपमालंकार इति शङ्का परास्ता ।

सदयः करवालानां वृन्दमन्वकरोन्नृपः ।
विशालकीर्ति ग्रीष्मीयसरोऽपि विदुषां कुलम् ॥ २१ ॥
उत्फुल्लमल्लिकाजालमालिकाबद्धकेशवान् ।
केलीकुपितगोपस्त्रीजनाननुकरोत्ययम् ॥ २२ ॥
पल्लवलालितसुवयो वेश्यावृन्दं भजन्ति चारामाः ।
उल्लसितश्रीकवयस्तुलयन्त्युद्यानमाः सभादेशाः ॥ २३ ॥


उपमानत्वेनपप्रकृतस्योपमेयत्वेन प्रकृतस्य च विशेषणमात्रश्लेषाच्छ्लेषालंकारः संगच्छते । तथा चोक्त प्रतापरुद्रीये--'प्रकृताप्रकृतोभयगतमुक्त यच्छ्लेषमात्रसाधर्म्यम् । श्लेषोऽय श्लिष्टत्व सर्वत्राद्यद्वयेनान्त्यः ॥' इति । अत एव प्रकृताप्रकृतोभयश्लेषविवक्षया विभक्तिवचनभेदेनोक्त भैष्मीपरिणये--'समदया गजपङ्क्त्या सदृशी नीतिश्च' इति ॥ २० ॥ सदय इति । नृपः कर्ता । सदयः दयया सहितः । इति अदन्तप्रथमैकवचनम् । अन्यत्र सत् अयो लोहो यस्मिन् तथोक्तमति सान्तद्वितीयैकवचनम् । अत अव करवालाना कृपाणानां वृन्दमन्वकरोत् अनुससार । विदुषां कुल समूहः कर्तृ विशालकीर्ति विशाला कीर्तिर्यशो यस्य तदिति प्रथमैकवचनम् । अन्यत्र विशाला कीर्तिः पङ्को यस्मिन् तदिति द्वितीयैकवचनम् । ग्रीष्मीयसरः ग्रीष्मकालिकतटाकम् । अन्वकरोदित्यस्यानुकर्षः । 'यशःकर्दमयो कीर्ति' इत्यनेकार्थः ॥ २१ ॥ उत्फुल्लेति । अय कर्ता । उत्फुल्लानां मल्लिकानां जालस्य मालिकया बद्धाः केशा अस्य सन्तीति तथोक्त इति तकारान्तप्रथमैकवचनम् । 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चैत्तदर्थप्रतिपत्तिकर' इत्यनुशासनस्यानित्यत्वान्मत्वर्थीय(वति)प्रत्ययः । अन्यत्र उत्फुल्लमल्लिकाजालमालिकाबद्धः केशवो यैः, येषा वा तानिति पुलिङ्गद्वितीयाबहुवचनम् । अत एव केलौ कुपितान् गोपस्त्रीजनान् अनुकरोति अनुसरति । 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारपरिहारवत् ॥' इत्युक्तेः ॥ २२ ॥ पल्लवेति । आरामाः कर्तारः । पल्लवलालितसुवय पल्लवैः किसलयै करणैः लालिता लालनयुक्ताः । अधिकरणे क्तः । शोभना वयः पक्षिणा इति इदन्तप्रथमाबहुवचनम् । अन्यत्र पल्लवैर्विटैर्लालित सुष्ठु वयो यौवन यस्य तदिति सान्तद्वितीयैकवचनम् । वेश्यावृन्द कर्म । भजन्ति । सभादेशाः कर्तारः । उल्लसितश्रीकवयः उल्लसिता विकसिता श्रीर्येषा ते कवयो येषु ते इति इदन्तप्रथमाबहुवचनम् । अन्यत्र उल्लसिता श्रीर्यस्य तदुल्लसितश्रीक वयः पक्षी यस्मिन् तदिति नपुंसकद्वितीयैकवचनम् । अत एव उद्यान कर्म तुलयन्ति समीकुर्वन्ति । 'पल्लवोऽस्त्री किसलये पुंसि शृङ्गारपिङ्गयो' इत्यनेकार्थः । 'विविष्किरपतत्रयः' इत्यमरः । 'वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम्' इति मेदिनी । 'आः प्रगृह्यं स्मृतौ वाक्ये

प्रथमातृतीययोर्यथा--

सततालम्बितहरिणा भक्तजनेनाभवद्वनी सदृशी ।
विमलतरवारिभृत्या शरदि सरस्या च वाहिनी सदृशी ॥ २४ ॥
प्रचलद्दुन्दुभिर्नागलोकदेशैः समीकृतः ।
वाहिनीसनिवेशोऽयं भाति कृष्णमहीभुजः ॥ २५ ॥

प्रथमाचतुर्थ्योर्यथा--

अतिमञ्जुलशयनाभिर्गोपवधूभिः समीकृतः कृष्णः ।
निजसारूप्यं प्रददौ भक्तजनेभ्यः प्रसन्नरामेभ्यः ॥ २६ ॥


विस्मये च समुच्चये' इत्यनेकार्थादौ इति विस्मयार्थे ॥ २३ ॥ सततेति । वनी कर्त्री । 'स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षापचये यदि' इति कोशादल्पत्वविवक्षाया स्त्रीत्वम् । 'जातेरस्त्रीविषय--' इत्यादिना ङीष् । अल्पवनमित्यर्थः । उपवनमिति भावः । सततालम्बितहरिणा सततमालम्बिताः । कर्तरि क्तः । हरिणाः कुरङ्गा यस्या सेति आदन्तस्त्रीलिङ्गप्रथमैकवचनम् । अन्यत्र सततमालम्बितः । कर्मणि क्तः । हरिर्येन तेनेति । इदन्ततृतीयैकवचनम् । अत एव भक्तजनेन सदृशी अभवत् । 'तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्' इति तृतीया । वाहिनी सेना कर्त्री । विमलतरवारिभृत्या विमलस्तरवारि खड्गो येषां ते भृत्याः भटाः यस्या सेति प्रथमैकवचनम् । अन्यत्र विमलतरस्यात्यन्तस्वच्छस्य वारिणो भृतिर्भरणं यस्यास्तयेति तृतीयैकवचनम् । सदृशी अभवदिति पूर्वेणान्वयः । शरदि शरदृतौ स्थितयेत्यर्थः । सरस्या कासारेण । 'उद्याने हरिणाः सर्वफलपुष्पलताद्रुमाः' इति वर्ण्यवर्ण्यप्रकरणे कविकल्पलतायां देवेश्वरोक्तेरुद्याने हरिणालम्बितत्वं बोध्यम् । 'कासारः सरसी सर' इत्यमरः । 'ऋषिः खड्गस्तरवारिः शस्त्रो भद्रात्मजश्च सः' इति त्रिकाण्डशेषः । 'सेना नदी च वाहिन्यौ' इति च ॥ २४ ॥ प्रचलदिति । कृष्णमहीभुजः कृष्णराजस्य वाहिनीसन्निवेशः सेनासन्निवेशः । कर्ता । प्रचलद्दुन्दुभिः प्रचलन्तो दुन्दुभयो यस्मिन् स इति इदन्तप्रथमैकवचनम् । अन्यत्र प्रचलन् संचलन् दुन्दुः राजसर्पो येषु तैरिति तृतीयाबहुवचनम् । अत एव नागलोकदेशैः पातालप्रदेशैः समीकृतो भाति । 'भा दीप्तौ' । लट् । 'अथ नागभृद्दुन्दुः' इति त्रिकाण्डशेषः । 'दुन्दुर्द्दुण्द्दुरहीरणौ' इति कमलाकरश्च ॥ २५ ॥ अतिमञ्जुलेति । कृष्णः कर्ता । अतिमञ्जुलशयनाभिः अत्यन्तं मञ्जुले शयः पाणिर्नाभिश्च यस्य तथोक्तं इति । इदन्तप्रथमैकवचनम् । अन्यत्र अतिमञ्जुलं शयनं सुरतं यासां ताभिरिति तृतीयाबहुवचनम् । अत एव गोपवधूभिः समीकृतः । प्रसन्नरामेभ्यः प्रसन्नानां रामाणामिभ्यः पतिः । यद्वा प्रसन्नाभी रामाभिरिभ्य आढ्य इति प्रथमैकवचनम् । अन्यत्र प्रसन्नो रामो दाशरथिर्येभ्यस्तेभ्य इति चतुर्थीबहुवचनम् । अत एव भक्तजनेभ्यः निजसारूप्यं साम्यं प्रददौ । भक्त

प्रथमापञ्चम्योर्यथा--

लसद्द्विपादः पञ्चास्यादविशेषविधायकः ।
नमद्द्विजाय पाहीति नमश्चक्रे स भात्वते ॥ २७ ॥

एवमेव द्वितीयादिषूह्याः । अक्षरमात्राबिन्दुच्युतकानुलोमप्रतिलोमादयोऽपि ।

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतश्चित्रबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्घटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दारमरन्दे चम्पूप्रबन्धे चित्रबिन्दुश्चतुर्थः समाप्तिमगमत् ।


जनैरिभ्य आढ्य इति कृष्णविशेषणमपि भवति । 'शयनं सुरते निद्राशय्ययोश्च नपुंसकम्' इति मेदिनी । 'इभ्याकरेणुशल्लक्योः स्त्रियामाढ्ये प्रियेऽन्यवत्' इत्यनेकार्थः ॥ २६ ॥ लसदिति । सः कर्ता । लसद्द्विपादः लसन्तौ द्वौ पादौ यस्य स इति प्रथमैकवचनम् । अन्यत्र लसन्तं द्विपं गजमत्तीति लसद्द्विपात् तस्मादिति पञ्चम्येकवचनम् । अत एव पञ्चास्यात्सिंहात् अविशेषविधायकः विशेषाभावविधायकं । सम इति यावत् । विशेषत्वं च भेदबोधकधर्मत्वम् । 'अन्यारादितरर्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते' इति सूत्रेण प्रतियोगिवाचकपञ्चास्यपदात् सप्तमी । अन्य इत्यर्थग्रहणमित्युक्तेः । तथा च प्रतियोगित्वं पञ्चम्यर्थः । तस्य विशेषपदार्थैकदेशे भेदेऽन्वयः । संपन्नो व्रीहिरित्यादौ क्वचिदेकदेशान्वयस्वीकारात् । तदभावपक्षे विशेषपदस्यैव भेदे लक्षणा । तथा च अविशेषविधायक इत्यस्य भेदाज्ञापक इत्यर्थः । इदं तच्छब्दार्थकर्तृविशेषणम् । नमतां द्विजानामयः शुभावहविधिर्येन तस्य सबुद्धिः । नमद्द्विजायेति संबोधनम् । सूर्योदये सति यज्ञदानस्नानादिशुभावहव्यापाराः प्रवर्तन्ते । पाहीति उक्त्वा भास्वते सूर्याय नमश्चक्रे । भास्वन्तमनुकूलयितुं नमश्चक्र इत्यर्थः । 'क्रियार्थोपपदस्य कर्मणि स्थानिन' इति चतुर्थी । क्रियार्थोपपदस्य तुमुन्नन्तस्याप्रयुक्तस्य धातोर्यत्कर्म तत्प्रयोगं, विना तदर्थकर्मतया यद्विवक्षित तद्वाचकपदाच्चतुर्थीति सूत्रार्थः । 'अयः शुभावहो विधिः' इति कोशाददन्तोऽयशब्दः । ग्रन्थगौरवभीत्या उपसंहरति-- एवमिति । द्वितीयादिषु द्वितीयादिविभक्तिविशिष्टेषु । तथा च द्वितीयान्तस्य तृतीयाद्यन्तान्वयेन तृतीयान्तस्य चतुर्थ्याद्यन्तान्वयेनेत्यादिरीत्योह्या इत्यर्थः ॥ जलजनीति । पद्यं पूर्ववदेव बोध्यम् ॥ इति श्रीमन्दारमरन्दव्याख्याया माधुर्यरञ्जन्याख्याया गूढकर्तृकाया चित्रबिन्दुश्चतुर्थः ॥