मन्दारमरन्दचम्पूः/गुप्तबिन्दुः
गुप्तबिन्दुः ।
अधुना गुप्तबिन्दौ तु क्रियादेर्गोप्यगुम्फनम् । |
तत्र क्रियागुप्तं यथा--
गृहद्वारगतस्यास्य पुंसः कामार्तचेतसः । |
अत्र 'वित्त' इति ।
आलोलनयनां कृष्णो लिं[१]पन्ती वीक्षणैर्दिशः । |
अत्र ‘आलिंगति' इति ।
हेरम्बचरणाम्भोजं महद्भृङ्गनिषेवितम् । |
अत्र 'वंदामहे' इति ।
जितकाञ्चनकुम्भश्रि सुघृणायतनं द्युतेः । |
अत्र 'जिघृक्षति' इति ।
रमासमानया कृष्णः सहासो राधया तया । |
अत्र 'विजहार' इति ।
अञ्चितोऽपि निकुञ्जोऽसौ कुञ्चत्कण्टकिवीरुधा । |
अत्र 'सौधायते' इति ।
वसन्तं प्राणिनां देहे वसतस्ते सुरोत्तम । |
अत्र 'याचामहे' इति ।
इति क्रियागोपनम् ।
कर्तृगुप्तं यथा--
सर्पात्क्रूरतरान्दैत्याननेकानवधीद्युधि । |
अत्र 'सर्पात्' इति ।
दृप्तानामात्मनारीणां सर्वसाम्राज्यसंभवः । |
अत्र 'आत्मना' इति ।
अन्ये भेदाः पूर्ववत् ।
इति कर्तृगोपनम् ।
[२]शंकरः कुरुताच्छ्रीमान्भक्तस्य मम ते सदा । |
अत्र 'शम्' इति ।
[३]मनोजस्य परीहासैरारामे राधया तया । |
अत्र 'मनः' इति ।
अन्ये भेदाः पूर्ववत् ।
इति कर्मगोपनम् ।
संबन्धगुप्तं यथा--
[४]बालेवयस्य मुद्युक्ता मुखमालोकसे सदा । |
अत्र 'यस्य' इति ।
पूर्ववदन्ये भेदाः ।
पदगुप्तं यथा--
[५]नालंकृतकुलं क्रूरं विहरन्तं सरस्तटे । |
अत्र 'नकुलम्' इति ।
अत्र 'सुतं, कचम्' इति च ।
'इदमेवार्थगुप्तम्' इति केचित् ।
पदार्थोभयगुप्तं यथा--
[८]सनिषिद्धोऽप्यगराजः कुचोपमायां पुनश्च गतिवण्योः (?) । |
अत्र सनिषिद्धो निषेधवाचकनकारयुक्त इत्यर्थगोपनम्, 'नागराजः' इति पदगोपनं च । अत्र क्रियागुप्तवद्भेदा बोध्याः ।
कर्तृकर्मोभयगुप्तं यथा--
नारीनाशोदयद्धूलीपालीपिहितपूषणि ॥ |
अत्र 'ना, अरीन्' इति ।
भावगुप्तं यथा--
मारनाराचनिर्भिन्नमानसा मत्तकाशिनी । |
अत्र 'चन्द्रोत्पत्तिहेतुत्वात्' इति भावः ।
जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । |
इति श्रीमद्घटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवनाम्नश्च कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे गुप्तबिन्दुः षष्ठः समाप्तिमगमत् ।
पूर्वार्धः समाप्तः ।
- ↑ परसवर्णमकृत्वैव गुप्तताश्रिता.
- ↑ 'ते करः' इति योजना.
- ↑ अजस्य कृष्णस्य
- ↑ 'हे बाले,यस्य मुखमालोकसे ते
कामसंतप्त गाढालिङ्गनविभ्रमैरेव' इति योजना - ↑ 'नकारेणालंकृतः कुलशब्दो यत्र त
नकुलम्' इति बोध्यम्. - ↑ मध्यमेन 'कृ' इत्यनेन रहितमध्यमम्
- ↑ नास्ति वकारो यत्र, अर्थात् वकाररहितम्.
- ↑ कुचोपमाया निषिद्धोऽपि सोऽगराजः पर्वतः पुनश्च गतिवर्णनाया नकारयुक्तोऽगराजो नागराजो गजो योग्योऽभूत्.