मन्दारमरन्दचम्पूः/नर्तनबिन्दुः

विकिस्रोतः तः
               




   

नर्तनबिन्दुः ।

अत्र नर्तनबिन्दौ तु वक्ष्ये रूपकलक्षणम् ।
प्राचीनोक्तीः समालोच्य बालानां बुद्धये द्रुतम् ॥
अभिव्यज्य विभावानुभावादीन्नाटके च ये (?) ।
उत्पादयन्सहृदये रसज्ञानं निरन्तरम् ॥
अनुकर्तृस्थितो योऽर्थोऽभिनयः सोऽभिधीयते ॥

आङ्गिको वाचिकश्चापि सात्त्विकाहार्यकाविति ।
स चतुर्धाकृतस्तज्ज्ञैराङ्गिकोऽङ्गक्रियोच्यते ॥
रागानुषङ्गि यद्वाक्यं नाट्ये वाचिक उच्यते ।
सत्त्वक्रिया सात्त्विकः स्यादाहार्यो भूषणादिकः ॥
चतुर्विधैरभिनयैः सात्त्विकाङ्गिकपूर्वकैः ।
धीरोदात्ताद्यवस्थानुकृतिनाट्यं रसाश्रयम् ॥
तादृङ्नाट्यं द्विधा प्रोक्तं नृत्तनृत्यविभेदतः ।
भावाश्रयं तु नृत्तं स्यान्नृत्यं ताललयाश्रयम् ॥
तद्द्वयं द्विविधं प्रोक्तं लास्यताण्डवभेदतः ।
लास्यं तु मधुरं प्रोक्तमुद्धतं ताण्डवं मतम् ॥
नाट्यस्यैवात्र मुख्यत्वादादौ तल्लक्ष्म कीर्तितम् ।
तादृङ्नाट्याद्रूपकाणि दशधा संभवन्ति हि ॥
नाटकं च प्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवाकारौ वीथ्यङ्केहामृगा इति ॥
यथा मुखादौ पद्मादेरारोपो रूपकं मतम् ।
तथैव नायकारोपो नटे रूपकमुच्यते ॥
रसेतिवृत्तनेतारस्तत्तद्रूपकभेदकाः ।
रम्यबिन्दौ रसानां च लक्षणं वक्ष्यते स्फुटम् ॥
शुद्धबिन्दौ नायकानां वक्ष्यते लक्ष्म विस्तरात् ।
इतिवृत्तकथावस्तुशब्दाः पर्यायवाचकाः ॥
इतिवृत्तं प्रधानं तु शरीरं परिकीर्तितम् ।
तत्त्वाधिकारिकं चैव प्रासङ्गिकमिति द्विधा ॥
अधिकारः फलेशत्वमधिकारी तु तद्युतः ।
तन्निर्वृत्तं भवेदाद्यमन्तव्याप्याधिकारिकम् ॥
प्रसङ्गात्तु प्रवृत्तं तु बुधाः प्रासङ्गिकं विदुः ।
प्रासङ्गिकं तु द्विविधं पताका प्रकरीति च ॥

दूरानुवर्तिनी या च पताका सा कथा मता ।
सा प्रोक्ता प्रकरी प्राज्ञैः कथा याल्पानुवर्तिनी ॥
ख्यातं कल्प्यं च संकीर्णमिति तत्त्रिविधं त्रिधा ।
प्रख्यातमितिहासादि कल्प्यं स्यात्कविकल्पितम् ।
संकीर्णं संकरायत्तमेवं तन्नवधा स्मृतम् ॥
इतिवृत्तं पुनर्द्वेधा सूच्यासूच्यविभेदतः ।
सूच्यं तु द्विविधं प्रोक्तं श्राव्याश्राव्यविभेदतः ॥
असूच्यमपि चाश्राव्यदृश्यश्राव्यविभेदतः ।
त्रिविधं तत्र चाश्राव्यं स्वगतं परिकीर्तितम् ॥
दृश्यं तु मधुरोपात्तरसभावनिरन्तरम् ।
श्राव्यं तु त्रिविधं सर्वनियताकाशभेदतः ॥
सर्वश्राव्यं प्रकाशं स्यान्नियतश्राव्यमप्युत ।
जनान्तिकं तथैवापचारितं चेति तद्द्विधा ॥
पताकात्रिपताकाभ्यां रञ्जितेन करेण च ।
कथान्तरेऽपवार्यान्यानन्योन्यं यत्तु मन्त्रणम् ॥
जनान्ते तच्च कविभिर्जनान्तिकमितीरितम् ।
सर्वानन्यांश्चापवार्य रहस्यं यत्तु कथ्यते ॥
तच्चापवारितमिति प्राज्ञाः पूर्वे बभाषिरे ।
प्रविष्टपात्रं किं ब्रूथ किं ब्रवीष्येवमादिकम् ॥
उक्त्वा श्रुत्वेव चानुक्तमप्येवं स्यादितीव यत् ।
भाषणं तत्तु चाकाशभाषितं ब्रुवते बुधाः ॥
तर्जनीमूलसंलग्नकुञ्चिताङ्गुष्ठकः करः ।
गण्डगः संहताकारप्रसारिततलाङ्गुलिः ॥
पताकः स्यादथ यदि वक्रितानामिकाङ्गुलिः ।
स एव श्रोत्रगस्तर्हि त्रिपताक इतीर्यते ॥
पुनश्च वस्तु विद्वद्भिः पञ्चधा परिकीर्तितम् ।
बीजं बिन्दुः पताका च प्रकरी कार्यमित्यपि ॥

अर्थप्रकृतयः पूर्वैः पञ्चेमे परिकीर्तिताः ।
यत्तु स्वल्पमुपन्यस्तं बहुधा विस्तृतिं गतम् ॥
कार्यस्य कारणं प्राज्ञैस्तद्बीजमिति कथ्यते ।
बीजप्रधाने बीजस्य प्रसङ्गोक्तिः फलान्तरैः ॥
विच्छिन्ने यदविच्छेदे कारणं बिन्दुरिष्यते ।
पताका तु प्रधानोपकाराद्या स्वार्थकारिणी ॥
प्रकरी स्यात्पदार्थस्य साधकं तु प्रदेशभाक् ।
वस्तुनस्तु समर्थस्य धर्मकामार्थलक्षणम् ॥
फलं कार्यमिदं शुद्धं मिश्रं वा कल्पयेत्सुधीः ।
अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ॥
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ।
अत्र मुख्यफलोद्योगमात्रमारम्भ इष्यते ॥
यत्नस्तु तत्फलप्राप्तावत्यौत्सुक्येन वर्णनम् ।
प्राप्त्याशा तु महार्थस्यानिर्धारभावना तथा ॥
नियताप्तिरविघ्नेन फलसंसिद्धिनिश्चयः ।
समग्रेष्टफलप्राप्तिर्नायकस्य फलागमः ॥
एकैकस्यास्त्ववस्थायाः प्रकृत्या चैकयैकया ।
योगः संधिरिति ज्ञेयो नाट्यविद्याविशारदैः ॥
मुख्यप्रयोजनवशात्तथाङ्गानां समन्वये ।
अवान्तरार्थसंबन्धः संधिः संधानरूपतः ॥
मुखं प्रतिमुखं गर्भो विमर्शश्चोपसंहृतिः ।
इति पञ्चविधः प्रोक्तः संधिः पूर्वैर्मनीषिभिः ॥
नानाविधानामर्थानां भावानामपि कारणम् ।
तन्मुखं तत्र चाङ्गानि बीजारम्भानुरोधतः ॥
उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥

उद्भेदभेदौ करणमिति द्वादश योजयेत् ।
उपक्षेपस्तु बीजस्य सूचना कथ्यते बुधैः ॥
परिक्रिया तु बीजस्य बहुलीकरणं मतम् ।
बीजनिष्पत्तिकथनं परिन्यास इतीर्यते ॥
नायकादिगुणानां यद्वर्णनं तद्विलोभनम् ।
सम्यक्प्रयोजनानां हि विचारो युक्तिरिष्यते ॥
या स्यात्सुखेन संप्राप्तिः प्राप्तिरित्यभिधीयते ।
बीजस्य पुनराधानं समाधानमितीर्यते ॥
किंचिद्दुःखकरं किंचिद्विधानं सुखकारकम् ।
श्लाघ्यैश्चित्तचमत्कारो गुणाद्यैः परिभावना ॥
उद्घाटनं यद्बीजस्य तदुद्भेदः प्रकीर्तितः ।
बीजस्योत्तेजनं भेदो यद्वा संघातभेदनम् ॥   ७०
प्रस्तुतार्थसमारम्भं करणं परिचक्षते ।
लक्ष्यालक्ष्य इवोद्भेदो बीजस्य यदि वै भवेत् ॥
तत्स्यात्प्रतिमुखं बिन्दोः प्रयत्नस्यानुरोधतः ।
इह त्रयोदशाङ्गानि प्रयोज्यानि मनीषिभिः ॥
विलासः परिसर्पश्च विधूतं शर्मनर्मणी ।
नर्मद्युतिः प्रगमनं विरोधः पर्युपासनम् ॥
वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ।
विलासः संगमार्थस्तु व्यापारः परिकीर्तितः ॥
पूर्वदृष्टस्य बीजस्य त्वङ्कच्छेदादिना तथा ।
नष्टस्यानुस्मृतिः शश्वत्परिसर्प इतीरितः ॥
नायकादेरीप्सितानामर्थानामनवाप्तितः ।
अरतिर्या भवेत्सा तु विद्वद्भिर्विधुतं मतम् ॥
अरतेः शमनं तज्ज्ञाः शममाहुर्मनीषिणः ।
परिहासप्रधानं यद्वचनं नर्म तद्विदुः ॥

कोपस्यापह्नवार्थं यद्धास्यं नर्मद्युतिर्मतम् ।
तथानुरागबीजस्य चोत्तरोत्तरभाषणैः ॥
प्रकाशनं प्रगमनमिति नाट्यविदो विदुः ।
विरोधश्छद्मना यच्च हिताशमनिरोधनम् ॥
पर्युपासनमित्युक्तं स्वजनानुनयो बुधैः ।
वज्रं तदिति विज्ञेयं साक्षान्निष्टुरभाषणम् ॥
रागप्रकाशको वाक्यविशेषः पुष्पमुच्यते ।
युक्तिभिः सहितो योऽर्थो ह्युपन्यासः स उच्यते ॥
सर्ववर्णापगमनं वर्णसंहार इष्यते ।
परिसर्पप्रगमनवज्रोपन्यासपुष्पकम् ॥
पञ्चाङ्गान्येव मुख्यानीत्यार्याः प्रतिमुखे विदुः ।
दृष्टादृष्टस्य बीजस्य गर्भस्त्वन्वेषणं मुहुः ॥
अत्राप्त्याशा पताकानुगुण्येनाङ्गानि कल्पयेत् ।
अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥
संग्रहश्चानुमानं च तोटकाधिबले तथा ।
उद्वेगः संभ्रमाक्षेपावित्यङ्गानि च द्वादश ॥
अभूताहरणं तत्स्याद्वाक्यं यत्कपटाश्रयम् ।
मार्गस्तत्त्वार्थकथनं रूपं सन्देहवद्वचः ॥
सोत्कर्षवचनं यत्तु तदुदाहरणं मतम् ।
भावज्ञानं क्रमो यद्वा चिन्त्यमानार्थसंग्रहः ॥
संग्रहः सामदानोक्तिः प्रस्तुता परिकीर्तिता ।
अर्थस्याभ्यूहनं लिङ्गादनुमानं प्रचक्षते ॥
ससंभ्रमं तु वचनं संगिरन्ते हि तोटकम् ।
बुधैरधिबलं प्रोक्तं कपटेनाभिवञ्चनम् ॥
यद्वेष्टजनसंधानं बुधा अधिबलं विदुः ।
तोटकस्यान्यथाभावं केचिच्चाधिबलं विदुः ॥

तत्र चोरादिसंभूतं भयमुद्वेग उच्यते ।
शत्रुव्याघ्रादिसंभूतौ शङ्कात्रासौ हि संभ्रमः ॥
गर्भबीजसमुत्क्षेपमाक्षेपं परिचक्षते ।
इष्टार्थोपायानुसृतिमाक्षेपं केचिदूचिरे ॥
अत्राभूता हृतिर्मार्गस्तोटकाधिबले तथा ।
आक्षेपश्चेति पञ्चैव प्रधानानि विदो विदुः ॥
यत्र प्रलोभनक्रोधव्यवसायैर्विमृश्यते ।
बीजार्थो गर्भसंभिन्नः स विमर्श इतीरितः ॥
प्रकरी नियताप्त्यानुगुण्यादत्राङ्गकल्पनम् ।
अपवादश्च संफेटो विद्रवद्रवशक्तयः ॥
द्युतिप्रसङ्गौ छलनं व्यवसायो विरोधनम् ।
प्ररोचनं च चलनमादानं च त्रयोदश ॥  ७०
तत्रापवादो दोषाणां प्रख्यापनमितीर्यते ।
रोषसंग्रथितं वाक्यं संफेटं परिचक्षते ॥
विरोधवधदाहादिर्विद्रवः परिकीर्तितः ।
गुरोस्तिरस्कृतिं प्राह द्रवं तु भरतो मुनिः ॥
उत्पन्नस्य विरोधस्य शमनं शक्तिरिष्यते ।
द्युतिर्नाम समुद्दिष्टा तर्जनोद्वेजने बुधैः ॥
प्रस्तुतार्थेन च गुरोः प्रसङ्गः परिकीर्तनम् ।
अवमानादिकरणं कार्यार्थं छलनं विदुः ॥
व्यवसायः स्वसामर्थ्यप्रख्यापनमितीर्यते ।
विरोधनं विरोधोक्तिः संरब्धानां परस्परम् ॥
सिद्धवद्भाविनोऽर्थस्य सूचना स्यात्प्ररोचनम् ।
आत्मश्लाघा तु चलनमादानं कार्यसंग्रहः ॥
मुख्यसंध्यादयो यत्र विकीर्णा बीजसंयुताः ।
महाप्रयोजनं चापि तन्निर्वहणमुच्यते ॥

एतदेव बुधैः प्रोक्तमुपसंहृतिरित्यपि ।
फलागमनकार्यानुगुण्येनाङ्गानि कल्पयेत् ॥
संधिर्विरोधो ग्रथनं निर्णयः परिभाषणम् ।
प्रसादानन्दसमयाः कृतिर्भाषोपगूहनम् ॥
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ।
स्याद्बीजोपगमः संधिर्विरोधः कार्यमार्गणम् ॥
कार्यस्योपक्षेपणं तु ग्रथनं परिकीर्तितम् ।
पश्चाच्च स्वानुभूतार्थकथनं निर्णयो मतम् ॥
विवादविधिरन्योन्यं परिभाषणमीरितम् ।
स्याच्छुश्रूषादिसंभूता प्रसादस्तु प्रसन्नता ॥
अभीप्सितार्थसंप्राप्तिरानन्दः परिकीर्तितः ।
समयः स्यात्सुखावाप्तिर्दुःखप्रशमनं च वा ॥
कृतिरित्युच्यते पूर्वैर्लब्धार्थस्य स्थिरीकृतिः ।
प्राप्तकार्यानुमोदः स्याद्बुधैर्भाषणमीरितम् ॥
अद्भुतार्थस्य संप्राप्तिरुपगूहनमुच्यते ।
दर्शनं त्विष्टकार्यस्य पूर्वभाव इतीरितः ॥
उपसंहार इत्युक्तः कार्यार्थस्योपसंहृतिः ।
शुभप्रशंसनं धीरैः प्रशस्तिरिति कथ्यते ॥
चतुःषष्ठ्यङ्गसंयुक्ताः स्युरेवं पञ्च संधयः ।
उक्तिर्विवक्षितार्थस्य गोप्यार्थस्य च गोपनम् ॥
प्रकाश्यार्थप्रकाशश्च रागाभिनयसंपदः ।
चमत्कारवहत्वं च कथाया विस्तरस्तथा ॥
इत्येषां पञ्चसंधीनां षड्विधं स्यात्प्रयोजनम् ।
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ॥
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ।
शुद्धः संकीर्णकश्चेति विष्कम्भो द्विविधो मतः ॥

एकद्विमध्यपात्रोक्तः शुद्धः स्यात्संस्कृतात्मकः ।
नीचमध्यमपात्रोक्तो मिश्रः स्यादुभयात्मकः ॥
अन्तर्जवनिकासंस्थैश्चूलिकार्थस्य सूचना ।
अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचनम् ॥
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
प्रवेशकस्तु नाद्यङ्के नीचपात्रप्रयोजितः ॥
यत्र स्यादुत्तराङ्कार्थः पूर्वाङ्कार्थानुसंगतः ।
असूचिताङ्कपत्रं तदङ्कावतरणं मतम् ॥
प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः ।
नायकैकाहचरितप्रतिपादनसंयुतः ॥
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ।
बुधैः संस्कृतबाहुल्यो वाग्व्यापारो नटाश्रयः ॥
भारतीत्युदिता तस्याश्चत्वार्यङ्गानि कल्पयेत् ।
प्ररोचना च वीथी प्रहसनं चामुखं तथा ॥
प्ररोचना प्रशंसात उन्मुखीकरणं मतम् ।
वीथी प्रहसनं चापि स्वप्रसङ्गेन वक्ष्यते ॥
नटी विदूषको वापि नटो वा पारिपार्श्वकः ।
सूत्रधारेण संलापं कुरुते यत्र चित्रगीः ॥
स्वकार्यप्रस्तुताक्षेपि तत्स्यात्प्रस्तावनामुखम् ।
एतस्य त्रीणि चाङ्गानि कथोद्घातः प्रवर्तकः ॥
प्रयोगातिशयश्चेति तेषां लक्ष्माणि च ब्रुवे ।
इतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः ॥
गृहीत्वा प्रविशेत्पात्रं कथोद्घातो द्विधेति सः ।
प्रवृत्तकालसदृशगुणवर्णनया तथा ॥
सूचितस्यैव पात्रस्य प्रवेशः स्यात्प्रवर्तकः ।
एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः ॥

पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः ।
वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्ते तान्यपि क्रमात् ॥
उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् ।
वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ॥
असत्प्रलापव्याहारमार्दवानि त्रयोदश ।
गूढार्थपदपर्यायमालारूपेण वा पुनः ॥
प्रश्नोक्तिमालारूपेणाप्युद्धात्यकमिति द्विधा ।
अन्यकार्यमिपादन्यकार्यस्य कारणं तथा ॥
द्विधावलगितं त्वन्यकार्याच्च स्वार्थसाधनम् ।
असद्भूतमिथःस्तोत्रं प्रपञ्चो हास्यकारकम् ॥
सूत्रधारादिभिः पूर्वं संलापो यत्र चि(च) त्रिभिः ।
शब्दसाम्यादनेकार्थयोजनं त्रिगतं मतम् ॥
प्रियाभैरप्रियैर्वाक्यैर्वञ्चनं छलमीरितम् ।
साकाङ्क्षस्यापि वाक्यस्य निवर्तनमथापि वा ॥
उक्तिप्रत्युक्तिरूपा वाग्वाक्केलिरिति च द्विधा ।
स्पर्धयान्योन्यवाक्यस्याधिक्यं चाधिबलं हि तत् ॥
प्रस्तुतार्थविरोधेन गण्डः स्यात्सहसोदितम् ।
उक्तार्थस्यान्यथाख्यानमवस्यन्दितमीरितम् ॥
सोपहासनिगूढार्थमालिका नालिका मता ।
अन्तर्लापा बहिर्लापा चेतीयं द्विविधा मता ॥
प्रवह्लिकां च तां केचित्केचिदूचुः प्रहेलिकाम् ।
असंबद्धकथालापोऽसत्प्रलापः प्रकीर्तितः ॥
हास्यलोभनकृद्वाक्यं व्याहारोऽन्यार्थकं मतम् ।
दोषाणां यद्गुणत्वेन कथनं मार्दवं हि तत् ॥
गुणानामपि दोषत्वकथनं चापि मार्दवम् ।
इत्येतान्यामुखाङ्गानि कथितानि त्रयोदश ॥

आशीर्नमस्क्रियावस्तुनिर्देशान्यतमाश्रया ।
चन्द्रनामाङ्किता प्रायो मङ्गलार्थपदोज्ज्वला ॥
अष्टभिर्दशभिः श्रेष्ठा तथा द्वादशभिः पदैः ।
अष्टादशपदैर्वापि द्वाविंशत्या पदैर्युता ॥
काव्यार्थसूचनोपेता सा या नान्दी प्रकीर्तिता ।
अ(यः) सूत्रय(ये)न्नायकस्य वस्तुनोऽपि गुणान्कवेः ॥
रङ्गप्रसाधनकरः सुत्रधारः प्रकीर्तितः ।
भरतेनाभिनीतं यो भाव नानारसाश्रयम् ॥
परिष्करोति पार्श्वस्थः स भवेत्पारिपार्श्व(र्श्वि)कः ।
स एवार्यो मारिषश्च मार्पको मार्ष इत्यपि ॥
नर्मभेदप्रयोगज्ञो हास्यकृन्नायकस्य च ।
नर्मवादी स वै नर्मसचिवश्च विदूषकः ॥
चतुःषष्टिकलाभिज्ञा सर्वभाषाविशारदा ।
नटानुयोक्त्री कृत्येषु नटस्य गृहिणी नटी ॥
यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गस्तदुच्यते ॥
पूर्वरङ्गस्य चाङ्गानि द्वाविंशतिर्मतानि च ।
तत्राप्यवश्या नान्दीति कीर्तिता भरतादिभिः ॥
अङ्गाङ्गिभावसंपन्नसमस्तरससंश्रयात् ।
प्रकृत्यवस्था संध्यादिसंपत्त्युपनिबन्धनात् ॥
आहुः प्रकरणादीनां नाटकं प्रकृतिं बुधाः ।
[१]अतिदेशबलप्राप्तनाटकाङ्गोपजीवनात् ॥
अन्यानि रूपकाणि स्युर्विकारा नाटकस्य हि ।
अतश्च लक्षणं पूर्वं नाटकस्य विधीयते ॥
दिव्येन वा मानुषेण धीरोदात्तेन संयुतम् ।
धर्मकामार्थशृङ्गारप्रधानरससंश्रयम् ॥

वृत्तेन प्रख्यातमिश्रकल्पितान्यतमेन च ।
प्रासङ्गिकेन चाप्याधिकारिकेन(ण) समन्वितम् ॥
साङ्गैर्मुखादिभिः पञ्चसंधिभिश्च समन्वितम् ।
विष्कम्भकादिसंयुक्तं नाटकं स्यात्त्रिवर्गदम् ॥
एतादृङ्नाटककृतौ प्रकारो वक्ष्यते मया ।
विधाय प्रथमं पूर्वरङ्गं सूत्रिणि निर्गते ॥
प्रविश्यान्यस्तद्वदेव काव्यार्थस्थापको नटः ।
सूचयेद्वस्तु बीजं वा मुखं वा पात्रमेव वा ॥
तत्र दिव्यं वस्तु दिव्यो भूत्वा मर्त्यं च मानुषः ।
मिश्रं तन्मर्त्यान्यतरो भूत्वेति कवयो विदुः ॥
तत्र पद्यैश्च काव्यार्थसूचकैर्मधुराक्षरैः ।
रङ्गं प्रसाध्य साङ्गां च भारतीमाश्रयेत्ततः ॥
ऋतुं कंचिदुपादाय ततः कार्या प्ररोचना ।
वीथ्यङ्गानि ततः पश्चात्साङ्गा प्रस्तावना ततः ॥
प्रस्तावनाङ्गान्यतमेनार्थं वा पात्रमेव वा ।
सूचयित्वा तदन्ते च सूत्री गच्छेच्छलात्ततः ॥
आद्यङ्कादौ च विष्कम्भं कुर्यादित्येव केचन ।
द्वितीयादिषु चाङ्केषु कुर्यादित्यपि केचन ॥
अपेक्षितं परित्यज्य विस्तरं वस्तु नीरसम् ।
यदा संदर्शयेदादौ कुर्याद्विष्कम्भकं तदा ॥
यदा तु सरसं वस्तु मूलादेव प्रवर्तते ।
आदावेव तदाङ्कः स्यादित्येव कविसंमतम् ॥
प्रविश्य मर्त्यो दिव्यो वा धीरोदात्तश्च नायकः ।
इति वृत्तं महोत्साहोऽभिनयेदाधिकारिकम् ॥
तत्र साङ्गाः प्रयोक्तव्य मुखाद्याः पञ्च संधयः ।
मुखादिसंधिष्वङ्गानां क्रमोऽयं न विवक्षितः ॥

क्रमस्यानादृतत्वेन भरतादिभिरादिमैः ।
लक्ष्येषु व्युत्क्रमेणापि कथनेन न दोषता ॥
रसभावानुरोधेन प्रयोजनमपेक्ष्य च ।
साकल्यं कार्यमङ्गानामित्याचार्याः प्रचक्षते ॥
केषांचिदेषामङ्गानां वैकल्येऽपि न दुष्टता ।
विष्कम्भचूलिकाङ्कास्य प्रवेशाङ्कावतारणैः ॥
एभिः सूच्यं सूचयित्वा दृश्यमङ्गे प्रदर्शयेत् ।
एको रसो भवेत्तत्र शृङ्गारो वीर एव वा ॥
तदङ्गत्वेन च रसा अन्ये सर्वे यथोचितम् ।
अद्भुतः स्यान्निर्वहणे तथा वस्तुरसान्न च ॥
दूरविच्छिन्नतां यायात्तिरोदध्याद्रसं न च ।
दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् ॥
सरोधं भोजनं स्नानं सुरतं चानुलेपनम् ।
अधिकारिवधं नाङ्के निबध्नीयात्कदाचन ॥
एकं प्रयोजनश्लिष्टे तत्रैवासन्ननायके ।
तदा विदूषकाद्यैश्च प्रवेशाद्यैश्च सूचयेत् ॥
प्रविष्टानां च पात्राणामङ्कान्ते निर्गमो भवेत् ।
नाटकेष्वपि सर्वेषु पञ्चन्यूना दशाधिकाः ॥
अङ्का नैवात्र कर्तव्या इतीदं सर्वसंमतम् ।

इति नाटकम् ।


अथ प्रकरणेऽमात्यो विप्रो वा वैश्य एव वा ॥
धीरशान्तो भवेन्नेता धर्मकामार्थतत्परः ।
स्वविपत्तरणोद्युक्तो वृत्तं स्यात्कविकल्पितम् ॥
नायिका कुलजा वापि वेश्या वा तद्द्वयं क्वचित् ।
तद्भेदात्त्रिविधं चेदं तृतीयं धूर्तसंकुलम् ॥
अत्र वेश्या प्राकृतं तु कुलजा संस्कृतं वदेत् ।

शेषं नाटकवत्सर्वं मुखसंध्यादिकं मतम् ॥

इति प्रकरणम् ।

भाणे तु धूर्तो निपुण एक एव पटुर्विटः ।
स्वपराभ्यां चानुभूतं चरित्रमुपवर्णयेत् ॥
भूयसा भारती वृत्तिर्वस्तु स्यात्कविकल्पितम् ।
सौभाग्यशौर्ययोश्चोपवर्णनेनैव सूचयेत् ॥
शृङ्गारवीरौ च साङ्गे मुखनिर्वहणे तथा ।
एकोऽङ्कस्त्वेकपात्रं स्यात्कुर्यादाकाशभाषणम् ॥

इति भाणः ।

अथ प्रहसने हास्यप्रधानं रस उच्यते ।
न त्वेकपात्रनियमः शेषं सर्वं च भाणवत् ॥
शुद्धवैकृतसंकीर्णभेदात्तत्त्रिविधं मतम् ।
पाषण्डविप्रप्रभृतिनटचेटविटाकुलम् ॥
वेषभाषादिसहितं शुद्धं हास्यवचोऽन्वितम् ।
कामुकादिवचोवेषैः षण्ढकञ्चुकितापसैः ॥
प्रहासाभिनयप्रायं विकृतं वैकृतं मतम् ।
संकीर्णं च समाकीर्णं वीथ्यङ्गैर्धूर्तसंकुलम् ॥

इति प्रहसनम् ।।

डिमे बीभत्सकरुणरौद्रवीरभयानकाः ।
साद्भुताः षड्रसा दीप्तास्तथा रौद्रप्रधानकाः ॥
मायेन्द्रजालसंग्रामसूर्यचन्द्रग्रहादयः ।
नायका देवगन्धर्वयक्षरक्षोमहोरगाः ॥
भूतप्रेतपिशाचाद्याः षोडशोत्यन्तमुद्धताः ।
चत्वारोऽङ्का निर्विमर्शाः संधयः कैशिकीं विना ॥
वृत्तयो वस्तुप्रख्यानं शेषं नाटकवन्मतम् ।
असतो वस्तुनो माया सद्रूपोद्भावना तथा ॥
इन्द्रजालः स्थितार्थस्य मन्त्रचूर्णौषधादिभिः ।

अदर्शनमपारोक्ष्यमन्यथाकृतिरुच्यते ॥

इति डिमः ।


व्यायोगे तूद्धतो नेता वृत्तं प्रख्यातमीरितम् ।
षड्रसा डिमवद्दीप्ता अस्त्रीकारणसंयुगः ॥
बहुभिश्च तथैकाङ्क एकाहचरितं तथा ।
विमर्शगर्भरहिताः संधयोऽन्यच्च पूर्ववत् ॥

इति व्यायोग ।


अथो समवकारे तु निर्विमर्शाश्च संधयः ।
नेतारे द्वादश पृथक्फला देवासुरादयः ॥
सूक्ष्मा स्यात्कैशिकी वृत्ती रसा वीरप्रधानकाः ।
वीथ्यङ्गानां च संप्राप्तिर्यथासंभवमीरिता ॥
अङ्कास्त्रयस्तत्र चाद्ये मुखप्रतिमुखौ तथा ।
वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः ॥
कथामपि निबध्नीयात्तथा द्वादशनालिकाम् ।
द्वितीयेऽङ्केऽपि चतुर्नालिकावधिकां कथाम् ॥
पुररोधरणाग्न्यादिनिमित्ता विद्रवास्त्रयः ।
तृतीयेऽङ्के निबद्धव्या कथा चापि द्विनालिका ॥
धर्मार्थकामानुगुणास्तिस्रः शृङ्गाररीतयः ।
द्वयोरन्त्याङ्कयोर्गर्भनिर्वाहौ च यथोचितम् ॥
सर्वं नाटकवच्छिष्टमन्यत्प्रस्तावनादिकम् ।
नालिकाघटिकाद्वन्दं सार्धं वा घटिकाद्वयम् ॥

इति समवकारः ।


वीथ्यां तु कैशिकी वृत्तिः शृङ्गारस्तु प्रधानकः ।
उद्धात्यकादीन्यङ्गानि संध्यङ्कादि च भाणवत् ॥
एकपात्रप्रयोगो वा तथा पात्रद्वयं मतम् ।

इति वीथी ।


अथाङ्के प्रख्यातमिति वृत्तं बुद्ध्या प्रपञ्चयेत् ॥

स्त्रीणां विलासो वाग्युद्धं प्रधानं करुणो रसः ।
नायकाः प्राकृता मर्त्याः संध्यङ्काङ्गादि भाणवत् ॥

इत्यङ्कः

ईहामृगे मिश्रवृत्तं चतुरङ्कं त्रिसंधिकम् ।
मर्त्यदिव्यौ च नियमान्नायकप्रतिनायकौ ॥
दिव्यस्त्रियमनिच्छन्तीं हर्तुकामौ समुद्धतौ ।
प्रख्यातौ कामुकावन्त्यो विपर्यासादयुक्तकृत् ॥
अवधं युद्धमन्योन्यं व्याजाद्युद्धनिवारणम् ।
शृङ्गाराभास एवास्मिन्नन्यनाटकवन्मतम् ॥

इतीहामृगः ।

नाटिकां च प्रकरणीं रूपकं केचिदूचिरे ।
नाटिकायां ख्यातवृत्तं भारती वृत्तिरिष्यते ॥
स्त्रीबाहुल्यं तथाङ्कास्तु चत्वारो नायिका पुनः ।
सा दिव्यमर्त्यान्यतरा सदान्तःपुरवासिनी ॥
मुग्धा देवी वशगता तादृक्सुन्दररूपिणी ।
नायकस्तु प्रवर्तेत तद्देवीत्रासशङ्कितः ॥
सा तु देवी प्रगल्भा च गम्भीरा मानिनी तथा ।
तदानुकूल्यादन्ते च तयोरेकत्र संगमः ॥
सा नायिका तु वचसा नानुरागं प्रकाशयेत् ।
कैशिक्यङ्गानि चत्वारि शेषं नाटकवन्मतम् ॥

इति नाटिका ।

अथ प्रकरणिकायां तु वस्तु स्यात्कविकल्पितम् ।
नायिकाङ्कादि सर्वं तु नाटिकायां यथा तथा ॥

इति प्रकरणिका ।

एवं निरूपितं साङ्गं दशरूपकलक्षणम् ।
प्राचामाधुनिकानां च मतान्यालोच्य शक्तितः ॥

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन ॥
गुहपुरनिलयेन प्रोद्धृतो नृत्यबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्घटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे नर्तनबिन्दुः सप्तमः समाप्तिमगमत् ॥


  1. 'प्रकृतिवद्विकृतिः कर्तव्या' इत्यतिदेशः.