मध्यमकशास्त्रम्/निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम्

विकिस्रोतः तः
← मध्यमकशास्त्रम्/आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम् मध्यमकशास्त्रम्
निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम् →

यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते ॥ २५.१ ॥
यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते ॥ २५.२ ॥
अप्रहीणमसंप्राप्तमनुच्छिन्नमशाश्वतम् ।
अनिरुद्धमनुत्पन्नमेतन्निर्वाणमुच्यते ॥ २५.३ ॥
भावस्तावन्न निर्वाणं जरामरणलक्षणम् ।
प्रसज्येतास्ति भावो हि न जरामरणं विना ॥ २५.४ ॥
भावश्च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् ।
नासंस्कृतो हि विद्यते भावः क्वचन कश्चन ॥ २५.५ ॥
भावश्च यदि निर्वाणमनुपादाय तत्कथम् ।
निर्वाणं नानुपादाय कश्चिद्भावो हि विद्यते ॥ २५.६ ॥
यदि भावो न निर्वाणमभावः किं भविष्यति ।
निर्वाणं यत्र भावो न नाभावस्तत्र विद्यते ॥ २५.७ ॥
यद्यभावश्च निर्वाणमनुपादाय तत्कथम् ।
निर्वाणं न ह्यभावोऽस्ति योऽनुपादाय विद्यते ॥ २५.८ ॥
य आजवंजवीभाव उपादाय प्रतीत्य व ।
सोऽप्रतीत्यानुपादाय निर्वाणमुपदिश्यते ॥ २५.९ ॥
प्रहाणं चाब्रवीच्छास्ता भवस्य विभवस्य च ।
तस्मान्न भावो नाभावो निर्वाणमिति युज्यते ॥ २५.१० ॥
भवेदभावो भावश्च निर्वाणमुभयं यदि ।
भवेदभावो भावश्च मोक्षस्तच्च न युज्यते ॥ २५.११ ॥
भवेदभावो भावश्च निर्वाणमुभयं यदि ।
नानुपादाय निर्वाणमुपादायोभयं हि तत् ॥ २५.१२ ॥
भवेदभावो भावश्च निर्वाणमुभयं कथम् ।
असंस्कृतं च निर्वाणं भावाभावौ च संस्कृतौ ॥ २५.१३ ॥
भवेदभावो भावश्च निर्वाणे उभयं कथम् ।
[तयोरेकत्र नास्तित्वमालोकतमसोर्यथा] ॥ २५.१४ ॥
नैवाभावो नैव भावो निर्वाणमिति याञ्जना ।
अभावे चैव भावे च सा सिद्धे सति सिध्यति ॥ २५.१५ ॥
नैवाभावो नैव भावो निर्वाणं यदि विद्यते ।
नैवाभावो नैव भाव इति केन तदज्यते ॥ २५.१६ ॥
परं निरोधाद्भगवान् भवतीत्येव नोह्यते ।
न भवत्युभयं चेति नोभयं चेति नोह्यते ॥ २५.१७ ॥
तिष्ठमानोऽपि भगवान् भवतीत्येव नोह्यते ।
न भवत्युभयं चेति नोभयं चेति नोह्यते ॥ २५.१८ ॥
न संसारस्य निर्वाणात्किंचिदस्ति विशेषणम् ।
न निर्वाणस्य संसारात्किंचिदस्ति विशेषणम् ॥ २५.१९ ॥
निर्वाणस्य च या कोटिः कोटिः संसरणस्य च ।
न तयोरन्तरं किंचित्सुमूक्ष्ममपि विद्यते ॥ २५.२० ॥
परं निरोधादन्ताद्याः शाश्वताद्याश्च दृष्टयः ।
निर्वाणमपरान्तं च पूर्वान्तं च समाश्रिताः ॥ २५.२१ ॥
शून्येषु सर्वधर्मेषु किमनन्तं किमन्तवत् ।
किमनन्तमन्तवच्च नानन्तं नान्तवच्च किम् ॥ २५.२२ ॥
किं तदेव किमन्यत्किं शाश्वतं किमशाश्वतम् ।
अशाश्वतं शाश्वतं च किं वा नोभयमप्यतः ॥ २५.२३ ॥
सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः ।
न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः ॥ २५.२४ ॥