मध्यमकशास्त्रम्/द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम्

विकिस्रोतः तः
← मध्यमकशास्त्रम्/निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम् मध्यमकशास्त्रम्
द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम् →

पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा ।
अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः ॥ २६.१ ॥
विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ ।
संनिविष्टेऽथ विज्ञाने नामरूपं निषिच्यते ॥ २६.२ ॥
निषिक्ते नामरूपे तु षडायतनसंभवः ।
षडायतनमागम्य संस्पर्शः संप्रवर्तते ॥ २६.३ ॥
चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च ।
नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते ॥ २६.४ ॥
संनिपातस्त्रयाणां यो रूपविज्ञानचक्षुषाम् ।
स्पर्शः सः तस्मात्स्पर्शाच्च वेदना संप्रवर्तते ॥ २६.५ ॥
वेदनाप्रत्यया तृष्णा वेदनार्थं हि तृष्यते ।
तृष्यमाण उपादानमुपादत्ते चतुर्विधम् ॥ २६.६ ॥
उपादाने सति भव उपादातुः प्रवर्तते ।
स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः ॥ २६.७ ॥
पञ्च स्कन्धाः स च भवः भवाज्जातिः प्रवर्तते ।
जरामरणदुःखादि शोकाः सपरिदेवनाः ॥ २६.८ ॥
दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते ।
केवलस्यैवमेतस्य दुःखस्कन्धस्य संभवः ॥ २६.९ ॥
संसारमूलान्संस्कारानविद्वान् संस्करोत्यतः ।
अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात् ॥ २६.१० ॥
अविद्यायां निरुद्धायां संस्काराणामसंभवः ।
अविद्याया निरोधस्तु ज्ञानेनास्यैव भावनात् ॥ २६.११ ॥
तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते ।
दुःखस्कन्धः केवलोऽयमेवं सम्यङ्निरुध्यते ॥ २६.१२ ॥