भाषावृत्तिः/तृतीयोऽध्यायः/द्वितीयः पादः
← प्रथमः पादः | भाषावृत्तिः द्वितीयः पादः पुरुषोत्तमदेव |
तृतीयः पादः → |
१। कर्मण्यण्।
कर्ममात्रीपपदाद् धातोरण् स्यात् । कुम्भकारः। नगरकारः। शत्रुलावः । वेदाध्यायः। कर्त्रभिप्रायः । छत्रधारः। हारपाल: । विप्रघातः । अश्ववारः । कमण्डलुग्राहः । रिपुधातः ।
(क) शीलिकामिभक्ष्याचरिभ्यो णः। एभ्यो णः स्यात् । मांसशीलः । स्त्रियां टाप् । मांसशीला । मांसकामः । मांसकामा। धर्मकामः । धर्मकामा । मांसभक्षः । मांसभक्षा । साध्वाचारः । कल्याणाचारा कन्या ।
(ख) ईक्षिक्षमिभ्याञ्च । आभ्यां ण: स्यात् । सुखप्रतीक्षा । बहुक्षमा।
२। ह्वावामश्च ।
ह्वेञ्वेञ्माङ्भ्यः कापवादोऽण् स्यात् । स्वर्गह्वायः। तन्तुवायः । "व्योममायमिवोत्थितम् ।”
३। आतोऽनुपसर्गे कः।
आदन्तादप्रादौ कः स्यात् । गोदः । शर्मदः । कम्बलदः । सुखदः। धर्मदः। सर्वज्ञः । नृपः। अङ्गुलित्रः । पार्ष्णित्रः। अनुपसर्गे किम् ? गोसन्दायः । वड़वासन्दायः ।
४। सुपि स्थः।
सुपीति योगविभागादादन्तात् सुप्युपपदे कः स्यात् । द्विपः । पादपः । कच्छपः । सुस्थः । दुःस्थः । प्रस्थः । विषमस्थः । मध्यस्थः । ततः स्थः | तिष्ठते: सुपि कः स्यात् । भावेऽभिधानम् । आखूत्थं वर्तते । अतःपरं कर्मणि सुपीति यथासम्भवमनुवर्तते।
५। तुन्दशोकयोः परिमृजापनुदोः ।
अनयोराभ्यां कः स्यात्। तुन्दपरिमृजोऽलस एव । शोकापनुदः प्रिय एवोच्यते ।
(क) कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् । कः स्यात् । मूलविभुजो रथः । नखमुचं धनुः । प्रियाख्यो ब्राह्मणः । अपो बिभर्ति अब्भ्रम् । महीध्रः । कृतघ्नो नरः । शत्रुघ्नः । प्रलम्बनः । कुमुदम् । सरोरुहम् । त्रयो दीव्यन्त्यस्मिंस्त्रिदिवः स्वर्गः । आकृतिगणोऽयम् ।
६। प्रे दाज्ञः।
७। समि खाः।
प्रदाप्रज्ञासंख्याभ्योऽणपवादः कः स्यात् । विश्वासप्रदः। पथिप्रज्ञः । गोसंख्यः ।
८। गापो ष्टक् । गापाभ्यां कापवादष्टक् स्यात् । सामगः । सामगी। अनुपसर्ग एव । सामप्रगायः।
(क) सुराशीध्वोः पिबतेरिति वक्तव्यम् । सुरापः । शोधुपः। सुरापी । शोधुपी।
९ । हरतेरनुयमनेऽच् ।
हृञोऽनुत्क्षेपणेऽच् स्यात् । अंशहरः । मनोहरः । पित्तहरं क्षीरम् । वाक्यहरा दूती । उत्क्षेपणे तु भारहारः ।
१०। वयसि च।
वयसि गम्यमाने हृञोऽच् स्यात् । अस्थिहरः श्वा । वर्म्महरः कुमारः ।
११। आङि ताच्छीलो ।
आङि हृञोऽच् स्यात् । पुष्याहरः। फलाहरः । सुखाहरः। तच्छील इत्यर्थः ।
१२। अर्हः ।
अर्हतेरणपवादोऽच् स्यात् । पूजार्हः पण्डितः । पूजार्हा ब्राह्मणी । कार्य्यार्हा ब्राह्मणी।
(क) शक्तिलाङ्गूलाङ्कुशयष्टितोमरघटघटीधनुःषु ग्रहेः । एषु ग्रहेरच् स्यात्। शक्तिग्रहः । लाङ्गूलग्रहः। धनुर्ग्रहः ।
(ख) सूत्रे चावधार्य्यर्थे । (18)
ग्रहेरच् स्यात् । सूत्रमर्थतोऽवधारयति सूत्रग्रहः प्राज्ञः। सूत्रग्राहोऽन्यत्र ।
१३। स्तम्बकर्णयो रमिजपोः ।
रमिजपिभ्यां स्तम्बकर्णोपपदाभ्यामच् स्यात् । हस्तिसूचकयोरभिधानम् । स्तम्बेरमी हस्ती। कर्णेजपः खलः ।
१४। शमि धातो: संज्ञायाम् ।
शम्युपपदे धातुमात्रादच स्यात् । शङ्करः शिवः । शंवरो दैत्यः । शंवदः कोऽपि।
१५। अधिकरगों शेतेः ।
आधारोपपदाच्छोङोऽच् स्यात् । खेगयः । गुहाशयः ।
(क) पार्खादिषूपसंख्यानम् । एषु शीङोऽच् स्यात् । पार्खाभ्यां शेते पाखंशयः । उर:शयः ।
(ख) उत्तानादिषु कर्तषु । उत्तान: शेते उत्तानशयः। अवमूईशयः ।
(ग) दिग्धसहपूर्वाच्च। दिग्धमहशयः । गिरिशशब्दम्तु लोमादिशप्रत्ययान्तो भाषायां साधुः (19) ।
१६ । चरेष्टः।
आधारोपपदाचरेष्टः स्यात् । कुरुचरः । वनेचरः । रात्रिचरः रात्रिञ्चरः । खेचरः । खेचरी। नक्तञ्चरी । कथं सहचरीति ? (20) चिन्त्यम् ।
१७। भिक्षासेनादायेषु च ।
एषु चरेष्टः स्यात्। भिक्षाचरः। मेनाचरः। आदायचरः (21)। स्वयं ग्राहीत्यर्थः।
१८। पुरोऽग्रतोऽग्रेषु सर्तः ।
एषु सर्तेष्टः स्यात् । पुरःसरः । अग्रतःसरः । अग्रे सरतीति अग्रेसरः । अग्रेसरी। कथं पुरःसरा वाचः ? व्युत्पत्त्यन्तरेण । पचाद्यच् । (22)
१९। पूर्व कर्त्तरि।
सर्तेष्टः स्यात् । पूर्वःसरतीति पूर्वसरः ।
२०। रुजी हेतुताच्छोलानुलोम्येषु ।
हेवादौ गम्ये कञोऽविषये टः स्यात् । "दारिद्रं पुरुषस्य विक्लवकरम्"। पुष्टिकरं मांसम् । ताच्छील्ये। व्यसनकरः। दयाकरः । आशाकरः । तापकरः । आनुलोम्थे । प्रीतिकरः ।“पितुर्वाक्वकरं रामम्" । हेवादौ किम् ? भाष्यकारः।
२१ । दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिलिपिलिबिबलिभक्तिकर्तृचिव-क्षेत्रसंख्यानकाबाह्वहर्यत्तद्धनुररुःषु।
दिवादी षविंशतौ यथायोगं सुपि कर्मणि चोपपदे सजोऽहेवादी टः स्यात् । दिवाकरः । विभाकरः । प्रभाकरः। भास्करः । "देवापदामादिकरो य एकः”। किंकरः। कारकरः। संख्याकरः । संस्थत्वर्थग्रहणमित्येके । एककरः । हिकरः । चतुष्करः । अहस्करः । अरुष्करः ।
(क) किंयत्तबहुचविधानं टावर्थमिति कात्यायनः। किंकरा । यत्करा । तत्करा । बहुकरा । सूत्रकारस्य मते त्वजादिपाठाट टाए। (23)
२२। कर्मणि भृतौ ।
कर्मशब्दोपपदात् को भृतौ टः स्यात् । कर्मकरो भृत्यः। कर्मकरी । भृतौ किम् ? कर्मकारः।
२३ । न शब्दश्नोककलहगाथावरचाटुसूबमन्वपदेषु ।
नवस्वेषु कजो हेलादौ टो न स्यात् । “शब्दकारः पपात खम्" । श्लोककारः । एवं यावत् पदकारः ।
२४ । स्तम्बशकृतोरिन् ।
अनयोः क्वज इन् स्यात्। स्तम्बकरिः। शकत्करिः। ब्रीहिवत्सयोवामिधानम् ।
२५। हरतेतिनाथयोः पशौ ।
पशौ कर्तरि दृतौ नाथे चोपपदे हृज इन् स्यात्। दृतिहरिः खा । नाथहरिः सिंहः । (24)
२६ । फलेगहिरात्मम्भरिश्च ।
इवन्तौ निपात्येते। चकारात् कुक्षिम्मरिः ।
२७। छन्दसि वनसनरक्षिमथाम् ।
छान्दसम् ।
२८। एजेः खश ।
स्यन्तादेजेरणविषये खश स्यात् । अङ्गमेजयः । जनमेजयः । शत्रुमैजयः । चाटमेजयः।
(क) वातशुनीतिलशधैवज ट्तुदजहातिभ्यश्च । वातादिष्वजादिभ्यः खश् स्वात् । वातमजो मृगः । शुनिन्धयः पापः । तिलन्तुदः काकः । शईजहा मृगाः।
२९ । नासिकास्तनयो(धेटोः ।
३०। नाडौमुष्टयोश्च ।
(क) घटीखारीवातेषु च । एषूपपदेषु प्राधेटीः खश स्वात्। नासिकन्धमः । नासिकन्धयः । खित्य नव्ययस्येति (६।३।६६) हवः । स्तने धेट एवेति स्मृतिः। स्तनन्धयो बालः । “नाडिन्धमान मार्गान्"। नाडिन्धयः । मुणिन्धमः । मुष्टिन्धयो बालः । घटिन्धमः। घटिन्धयः। खारिन्धमः। खारिन्धयः । वातन्धमः । वातन्धयः ।
३१। उदि कूले जिवहोः ।
अत्रानयोः खश स्यात् । कूलमुगुजो गजः । कूलमुहा नदी।
३२। वहाधे लिहः।
वहेऽभ्रे च लिहः खश स्यात्। वहलिहो गौः। अनंलिह स्तरुः ।
३३। परिमाणे पचः ।
खश् स्यात्। प्रखम्पचा स्थाली। “पान्तावल्पम्पचान् मुनीन् !" "तापोऽम्भः प्रमृतम्पच:"।
३४। मितनखे च।
अनयोः पचेः खश स्यात्। मितम्प चः कपणः । नखम्पचा यवागूः ।
३५। विध्वरुषो स्तुदः ।
अनयोस्तुदः खश स्थात्। विधुन्तुदो राहुः । अरुन्तुदः पीडाकृत् ।
३६ । असूर्यललाटयो भितयोः।
असूयें दृशो ललाटे तपः खश स्यात् । असूर्यम्मश्या राजदाराः । ललाटसपः सूर्यः
३७। उग्रम्पश्येरम्मदपाणिन्धमाश्च ।
अमी निपात्यन्ते। "उग्रम्पश्येन सुग्रीवस्तेन भात्रा निराकृतः ।" मेघज्योतिरिरम्मदः । पाणिन्धमाः पाचकाः ।
३८। प्रियवशे वदः खच ।
अनयोर्वदः खच् स्यात्। प्रियंवदः। वशंवदोऽनुकूलः ।
३६। हिषत्परयोस्तापः ।
अनयोस्तापैः खच स्यात् । विषन्तपः। परन्तपः। खचि हवः (६।४।८४)। लिङ्गविशिष्टे नेष्टम् । द्विषतीतापः ।.
४०। वाचि यमो व्रते।
व्रतविषये वाचि यमः खच स्यात् । वाचंयमो मुनिः। व्रते किम् ? वाग्यामः।
४१। पू:सर्वयो रिसहो । पुरि दारः सर्वे सहः खच स्यात् । पुरन्दरः। सर्वसहः। सर्वसहा भूमिः । भगे च दारः। भगन्दरी रोगः ।
४२। सर्वकूलाभकरोषेषु कषः ।
करेषु खच स्यात् । सर्वङ्गषः खलः। कूलङ्गषा नदी। अभ्रङ्गषो गिरिः । करीषशषा वाल्या ।
४३। मेघर्तिभयेषु कृञः।
एषु कञः खच, स्यात्। मेघरो वातः । ऋतिकरः। भयङ्करः ।
४४। क्षेमप्रियमद्रेण च।
एषु कञः खच स्यात् । अण च । क्षेमकरः क्षेमकारी वा । प्रियङ्करः प्रियकारो वा । मद्रंकरो मट्रकारो वा । कथं क्षेमरीति ? चिन्त्यम् । (25)
४५। आशिते भुवः करणभावयोः । आपूर्वादश्नातः कर्तरि निष्ठान्ते आशितशब्द उपपदे भवतः खच् स्यात् । आशितेन हप्तेन भूयतेऽनेनेत्याशितम्भव ओदनः। भावे । “फलैर्येष्वाशितम्भवम् ।”
४६ । संज्ञायां भृत्वजिधारिसहितपिदमः ।
एभ्योऽष्टभ्यः कर्मणि सुपि च नाम्नि खच स्यात् । विश्वम्भरो विष्णुः । रथन्तरं साम। पर्तिवरा कन्या। शत्रुञ्जयो राजा। धनञ्जयोऽर्जुनः । वसुन्धरा पृथ्वी। सर्टसहा भूः । उष्णन्तपः सूर्यः । वलिन्दमः कृष्णः ।
४७। गमश्च ।
गमे: सुपि खच, स्यात् संज्ञायामसंज्ञायाञ्च। हृदयङ्गममेतत् त्वां ब्रवीमीति भट्टिः। मातापिटपूर्वङ्गमः । प्लवङ्गमः । सुतङ्गमः । भुजङ्गमः ।
(क) विहायसी विह च । विहङ्गमः खगः । विहगविहङ्गादयस्तु संज्ञाशब्दास्त्रिकाण्डपाठात् साधवः सुरः ।
४८। अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः।
एषु गमे र्ड: स्यात् । अन्तगः । अत्यन्तगः । अध्वगः ।
(क) अन्येष्वपि दृश्यते । अन्यत्र सुप्युपपदे गमे ड: स्यात्। सर्वत्रगः । स्वागारगः । खे गच्छतीति खगः । प्लवन गच्छतीति प्लवगः ।
(ख) उरसो लोपश्च । उरसा गच्छतीति उरगः ।
(ग) सुदुरोरधिकरणे। सुगः । दुर्गः ।
(घ) निसो देशे। निर्गों देश: । पदभ्यां न गच्छतीति पत्नगः सर्पः । पृषोदरादिः (६।३।१०८)।
४६। आशिषि हनः।
आशिषि हन्ते स्यात् । शव वध्याच्छत्रुहः। दस्युहः। आशिषि किम् ? शत्रुधातः। इह दाघाटश्चार्वाधाटो वर्णसंघात इति कर्मण्यणि (३।२।१) पृषोदरादिप्रपञ्च (६।३।१०८) एव ।
५०। अपे क्लेशतमसोः।
क्लेशे तमसि चापहन्तेर्ड: स्यात् । लेशापहः पुत्रः । तमोपहः सूर्यः
५१। कुमारशौर्षयोगिनिः।
अनयोर्हन्तर्णिनिः स्यात् । कुमारघाती । शीर्षघाती। निपातनाच्छिरसः शीर्षभावः ।
५२। लक्षणे जायापत्योष्टक।
जायापत्यो हन्तेष्टक स्यालक्षणवति कसरि । जायानस्तिलकालकः । पतिघ्नी पाणिरेखा। “पतिघ्नीलक्षणोपेतां मन्येऽहं बालिनः श्रियम् ।”
५३। अमनुष्यकर्त्तके च।
अमनुष्वकर्तृकाइन्तेष्टक् स्वात्। श्लेमन्नं मधु । पित्तघ्नं क्षीरम् ।
५४। शक्ती हस्तिकपाटयोः ।
अनयो इन्तेष्टक् स्यात्। “युधि हस्तिनः" । कपाटन चौरः । शक्ती किम् ? हस्तिघातो विषप्रदः ।
५५ । पाणिघताड़धौ शिल्पिनि।
एतौ शिल्पिनि निपात्यते ।
(क) उपसंख्यानाच राजघ स्तीक्ष्णः ।
५६। आढासुभगस्थूलपलितनग्नान्धप्रियेषु च्यर्थेष्वचौ कृञः करणे ख्युन्।
पाढ्यादिषु चपर्थेष्वचौ कञःकरण ख्युन् स्यात् । अनाढ्यमाढयमनेन कुर्वन्यायङ्करणो मन्त्रः। सुभगकरण दानम् । स्थूलंकरण वृतम् । पलितंकरणी जरा। नग्नकरण द्यूतम् । अन्धकरणो मूत्रनिरोधः । अचावित्युत्तरार्थम । इह तु ख्युना मुक्ते ल्युटा भाव्यम्। आढीकरणो रसविधिः । स्थूलीकरणमौषधम् । तदुक्त भाथे स्थुनि चिपतिषेधानर्थक्यम् । ल्युट्युनोरविशेषादिति।
५७। कर्तरि भुवः खिष्णुच खुको।
आढ्यादिषु भवतः खिष्णुच्खुकजी स्वातां कर्तरि । अनाढा आढ्यो भवति “आयभविष्णुर्यशसा कुमारः।” आढाभावुकः। प्रियश्चविष्णुः प्रियभावुकः। अचावित्येव । आयोभविता। अतः परं सकम्भकेभ्योऽपि सुपि विधिः । न कर्मण्येव ।
५८। स्पृशोऽनुदके क्विन् ।
स्पृशे: सुपि क्विन् स्यात् । व्योमस्मृक् । मर्मस्पृक् । मन्त्रेण स्पृशति मन्त्रस्मृक् । अखस्मृक् । तस्मृक् । अम्निस्मृक् । हादस्मृक् । किन्प्रत्ययस्य कुः (८।२।६२) । अनुदके किम् ? उदकस्पर्गों विप्रः ।
५९। ऋत्विगतकस्रगदिगुष्णिगच्चुयुजिक्रुञ्चाञ्च ।
किन्प्रत्ययान्ता ऋत्विगादयो निपात्यन्ते । ऋतौ यजतीति ऋत्विक् । धृषदित्वच्च । दधक पृष्टः। सृजिदृशोः कर्मणि जिन् । सृजन्ति तामिति स्रक । दिशन्ति तामिति दिक । उनिहस्तलोपश्च षत्वञ्च । उणिक् । पञ्चेः सुपि क्विन् । प्राङ् प्राञ्चौ । न्यङ् न्यञ्चौ । अध्यङ् । सध्राङ् । देवदाङ् । प्राक्प्रत्यगादयस्त्वस्तातिप्रत्ययान्ताः। युजः केवलात्। युङ्। युञ्जौ । क्रुञ्चेश्च । क्रुङ् । क्रुञ्ची। जोपधत्वावलोपाभावः ।
६०। त्यदादिषु दृशोऽनालोचने कञ् च।
स्थदादावुपपदे दृशः कञ् स्यात् । चकारात् किश्च । त्यच्छन्दश्छान्दसः । स इव दृश्यते तादृशः । तादृक् । तादृशी । यादृशः । यादृक् । यादृशी। कौटुक् । कीदृशः । त्वादृक् । वादृशः । भवादृक् । भावादृशः । अनालोचने किम् ? तं पश्यतीति तद्दर्शः।
(क) समानान्ययोश्चेति वक्तव्यम् । समानमात्मानं पश्यतीति सदृशः । सदृशी। सट्टक् । अन्यादृशः । अन्यादृक् । अन्याशी । सदृक्षस्तु च्छान्दसः ।
६१। सत्सूहिषट्ठहदुहयुजविदभिदच्छिदजिनौराजामुपसर्गेऽपि क्लिप।
सदादेरप्रादौ प्रादौ च सुपि विप स्यात् । गिरौ सौदति गिरिसत् । प्रसत् । प्रसूः । “अगदखं पुनर्हन्तुम् ।” प्रहिट । मित्रहिट । मित्रध्रुक् । गोधुक् । अश्वयुक् । शब्दवित् । प्रवित् । काष्ठभित् । शत्रुच्छित् । शत्रुजित् । प्रणीः । सेनानीः । सन्मार्गनीः । “सायन्तनी तिथिप्रयः ।" राजू सम्राट् । खाराट् । कुरुराट्। “पतिते पतङ्गमगराजि।"
६२। भजो खिः ।
सुपि प्रादौ च भजो विः स्यात् । अईभाक् । प्रभाक् । इह छन्दःपञ्चसूत्री। (26) विट ।
६८। अदोऽनन्ने ।
अदो विट, स्यात्। शस्यमति शस्यात् । मत्स्यात्। “वाणं प्राणादमक्षिपत् ।” अनन्ने किम् ? अनादः । कथं कणादः ? वासरूपविधिना ( ३।१४)।
६९। क्रव्ये च।
क्रव्यशब्दे चोपपदेऽदो विट् स्यात् । क्रव्यमत्ति क्रव्यात् । अदोऽनन इत्येव (३।२।६८) सिडे क्रव्यग्रहणं वासरूपे-(३।१।०.४) नानिवृत्त्यर्थमिति भाष्यम् ।
७०। दुहः कब घश्च ।
दुहे: कप् स्याद् घश्चान्तादेशः । कामदुधः कल्पतरुः । अत्र च्छन्दश्चतु:सूत्री। (27)
७४। आतो मनिनक्कनिबवनिपश्च ।
प्राकारान्तेभ्यो धातुभ्यो विज्मनिन्वनिब्वनिपश्च प्रत्ययाः स्युः। शुभयाः । कोलालपाः । मनिन् । सूत्रामा (28) । अश्वत्थामा । पृषोदरादित्वात (६।३।१०८)। सुदामा ।
७५। अन्येभ्योऽपि दृश्यन्ते ।
सुशर्मा । देवशर्मा । क्वनिप् । धौवा । पोवेति भाषायमपीत्येके । तथाच विविज्मनिनक्कनिनवनिप इति चान्द्रसूत्रम् । नेत्यन्ये । यदा वनिप् तदा धावा । पावा । अवावा । (29)
७६ । विप् च ।
धातोर्यथाविधानं क्विय् स्यात् । उखासत्। पर्णध्वत् । प्रयुक्। जेश्चक्रधक।
७७। स्थः क च ।
तिष्ठते: सुपि कः स्यात् किप च । शंस्थः । शंस्थाः (30)। शमिधातो (३।२।१४) रित्यजबाधनाथ वचनम् ।
७८। सुपाजातौ णिनिस्ताच्छोला ।
सुपि धातोर्णिनिः स्यात् । उष्णभोजी। शीघ्रभोजी। मृदुभाषी। वृहसेवी। नित्यजागरी। आत्मानं न श्रावयतीत्यावी किवादिप्रत्ययः । अजातौ किम् ? णानां नेता।
(क) साधुकारिणि च। साधुकारिणि कर्तरि धातो णिनिः स्यात् । अताच्छोल्येऽपि । साधुकारी । साधुदायो । तुरङ्गगामी । तुरयायो।
(ख) ब्रह्मणि वदः । णिनिः स्यात् । ब्रह्मवादी। ब्रह्मवाद इति तु न भवति । अनभिधानात् ।
७६। कतैयुपमाने ।
अत्र धातोर्णिनिः स्यात् । हंसव गच्छति हंसगामी। सिंहनीं।
८०। व्रते। णिनिः स्यात् । स्थण्डिलगायो । वनवत्तौ ।
८१। बहुलमाभीक्षणे।
आभीक्ष्णगतौ णिनिः स्यात् । पुनः पुनर्मधु पिवन्ति मधुपायिनी भ्रमराः । कषायपायिणः ।
८२। मनः।
मन्यते णिनिः स्यात् । दर्शनीयमानी भार्यायाः। रिपुमानी (31) भातुः।
८३। आत्ममाने खश्च ।
आत्ममानगतौ मन्यतेः खश् स्यात् । णिनिश्च । शूरमात्मानं मन्यते शूरभन्यः शूरमानी (81)। साधुम्मन्यः साधुमानी।
८४। भूते।
अधिकारोऽयं प्राग् वर्तमानात् (३।२।१२३) ।
८५। करणे यजः।
करणोपपदाद यजते णिनिः स्यात्। हविर्याजी। अम्निष्टोमयाजी। राजसूययाजो।
८६। कर्मणि हनः ।
कर्मोपपदाइन्ते णिनिः स्यात्। पिटव्यघाती। अन्यासक्तघाती। निन्दायामभिधानम् । अन्यत्र चौरं हतवान् ।
८७। ब्रह्मभणडवेषु क्विप।
एषु हनः किए स्यात् । ब्रह्महा। "ब्रह्मनां पापसम्मतः ।" भ्रूणहा । वृत्रहा। अन्येभ्योऽपौति (३।२।१७) विपि सिहे हन्तेः किवचनं ब्रह्मादिष्वेवेति नियमार्थमिति भाष्यम्। भूते च नियमात् । कालसामान्यविवक्षायां हिमहा। वीरहा। तमोहा। तमोपहा ।
८८। बहुलच्छन्दसि ।
छन्दः सूत्रमेकम् ।
८९। सुकर्मपापमन्त्रपुण्येषु कृञः।
एषु कञः क्विय् स्यात् । सुकत्। कर्मकृत् । पापक्वत् । पुण्यवत् । मन्त्रकत्।
९०। सोमे सुञः।
क्विप् स्यात् । सोमसुत् ।
९१। अग्नौ चेः ।
क्किए स्यात् । अग्निचित् ।
९२। कर्मण्यग्न्याख्यायाम् ।
कर्मोपपदाच्चित्रः क्विय् स्यादग्न्याख्या चेत् । श्येन इव चीयते चितश्चेष्यते वा श्येनचित् । रथचक्रचित् । आख्याग्रहणं रूढ़िप्रसिद्ध्यर्थम् ।
९३। कर्मणौनि विक्रियः ।
कर्मणि विक्रीणातैरिनि: स्यात् । पुनः कर्मग्रहणं कुत्सार्थम् । तैलविक्रयो। मांसविक्रयो विप्रः ।
९४। दृशः क्वनिप् ।
कर्मणि दृशः क्वनिप् स्यात् । मेरु दृष्टवान् मेरदृखा । परलोकट्टखा । बहुदृश्खा । पारखा।
९५। राजनि युधिकृतः।
९६। सहे च।
राजनि सहे च युधिकञ्भ्यां कनिए स्यात् । राजानं योधितवान राजयुध्वा । “राजकत्वा पिता न ते।" "सहयुध्वानमन्येन" । सहकत्वा ।
९७। सप्तम्यां अने डः।
सप्तम्यन्तोषपदाजने ई: स्यात् । उपसरजः। "ये प्रोता कतद्विजैः।" मन्दुरजः
९८। पञ्चम्यामजातौ।
पञ्चम्यां जने ईः स्यात् । बुडेतो बुद्धिजः । कौशल्याजो रामः । अजाती किम् ? अवाज् जातः ।
९९। उपसर्गे च संज्ञायाम् ।
संज्ञा चेत् प्रादौ जने डं: स्यात् । प्रजा सर्वलोकः ।
१००। अनौ कर्मणि।
कर्मोपपदादनुजने ई: स्यात् । पुमनुजः । रामानुजः । आत्मानुजः ।
१०१। अन्येष्वपि दृश्यते।
अन्येषूपपदेषु जने ई: स्यात् । अजः। हिजः। केन जातः किञ्जः । सहजः । जातौ च । ब्राह्मणजो धर्मः। प्रादावसंज्ञायाञ्च । अभिजाः केशाः । अधिजः। प्रथमे जात: प्रथमजः । अनावकर्मणि च । अनुजः। अपिशब्दादन्येभ्योऽपि धातुभ्यो डः। आखा । परिखा। वरानाइन्ति वराहः । स्वरापहः। कटाहः । दूरापहः। प्रहः। कहः। गिरिशः । एवञ्च गमे ईविधावन्येष्वपीति (३।२।४७) यदुक्त तदस्यैव प्रपञ्चः ।
१०२। निष्ठा।
धातीभूते ततवतू स्याताम् । ततः कृतवान् । (क) आदिकर्मणि निष्ठा वक्तव्या । प्रकृतः कटं चैत्रः ।
१०३। सुयजोङ निप।
सुजो यजेश्च इनिप् स्यात् । सुत्वा सुत्वानौ । यज्वा यज्वानौ । “यज्वभिः सम्भृतं हव्यम् ।”
१०४। जौर्यरटन् ।
स्थात् । जरन् । जरन्तौ। जरन्तः ।
१०५। छन्दसि लिट् ।
१०६ । लिटः जकान वा ।
१०७। वसुश्च ।
लिटः कसुर्वेति त्रयमधिक्रियते । शेषश्छान्दसः । न्यासकारस्तु कानच्कसोः कित्करणाद् भाषायामपि प्रयोगमिच्छति (32)। चिञ् चिक्यानः । पृ निपपुराणः । स्था तस्थिवान्। “पदमातस्थुषा त्वया ।” पा पपिवान् । तु तितीर्वान्।
१०८। भाषायां सदवसश्रुवः ।
सदादेर्भाषायां लिटः क्वसुर्वा स्यात् । उपसेदिवान् । उपसेदुषा। अषिवान्। “जषुषां परदारैश्च ।” शुश्रुवान् । पक्षे लुङललिटो विज्ञेयाः ।
१०९ । उपेयिवाननाश्वाननूचानश्च ।
एते लिटि निपात्यन्ते । इण: क्वसुरिट् च । उपेयिवान् । अश्नात नि । अनाखान् । “तजयधुतेरनाशुषः”। अनुवचेः कर्तरि कानच । “अनूचान: (33) प्रवचने" । सूत्रे लिङ्गवचनमतन्त्रमिति । "उपयुषामपि दिवम् ।” (34) वेत्यनुवृत्त्या पक्षे लुङ ललिटो विजेयाः ।
११०। लुङ्।
भूतार्थाद्धातोर्लुङ, स्यात् । अकार्षीत् । अनेषीत् ।
१११। अनद्यतने लड़।
अद्यतनवर्जिते भूते काले धातो लङ, स्यात्। अकरोत् । अपचत् ।
(क) परोक्षे च लोकविज्ञाते प्रयीतुर्दर्शनविषये लङ वक्तव्यः ।
अरुण यवनः साकेतमित्यादिकस्तु प्रपञ्चः। नापूर्वलक्षणम् । परोक्षेऽप्यनद्यतनमात्रविवक्षायां सिद्धेः । दर्शनाविषयेऽपि । ताहन कंसं किल विष्णुरिति स्यादिति चेत् ? वाढम् । भवतु। का ते हानिः ? तथाहि वास्तवेऽपि भूतानद्यतनपरोक्षे विवक्षाभेदेन भटिप्रयोगा:-अभूवृपः । न्यक्षिपञ्चाङ्गदम् । सुग्रीवं प्रोचे सद्भावमागत इत्यादयः (85)।
११२। अभिज्ञावचने लूट ।
११३। न यदि।
स्मृतिवाचिन्युपपदेऽनद्यतने भूत लट् स्यात् । स्मरसि पुण्डयां वत्सयामः । “सम्भविष्याव एकस्यामभिजानासि मातरि"। यच्छब्दयोगे तु नायं लट् । लडेव । अभिजानासि यवागविन्देऽतिष्ठाम । “अवसाम नगेन्द्रेषु यत्"।
११४। विभाषा साकाङ्क्ष। साका प्रयोतारि लड़यं वा स्यात् । तत् स्मरसि यत्रानकसत्रं गमिथामस्तन वृतेनौदनं भोल्यामहे। पक्षे अगच्छामाभुजमहि वा ।
११५। परोक्ष लिट्।
भूतानद्यतनपरोक्षे लिट् स्यात्। जगाम । चकार | पपाच ।
(क) अत्यन्तापहवे च। भूतमात्रे लिट् । कपित्थयां नगऱ्या दृष्टोऽसि मया । नाहं कपित्थोजगाम ।
११६। हशश्वतोर्लङ च।
अनयोर्योग लड्लिटौ वा स्याताम् । इतिहाकरोत् । शश्वदकरोत् । पक्षे इतिह चकार ।
११७। प्रश्ने चासनकाले ।
अत्र लिडर्थे लड्लिटौ स्याताम् । पृच्छामि त्वामगच्छज्जगाम वा चैत्रः। आसन्त्रकाले किम् ? “जहार सीतां पौलस्त्यः'। पञ्चवर्षाभ्यन्तरमासनकालः ।
११८ । लट् स्मे ।
११९ । अपरोक्षे च।
स्मयुक्ताहातोभूतानद्यतनेऽपरोक्षे परोक्षे च लट् स्यात् । अधीते स्म । विहरति स्म ।
१२० । ननौ पृष्टप्रतिवचने।
१२१ । नन्वोर्विभाषा।
धातोर्ननुयुक्ताद भूतमात्रे लट् स्यात् प्रश्नादुत्तरञ्चेत् । अकार्षीः कटं देवदत्त ? ननु करोमि भोः। नन्वोस्तु योगे वा। न करोमि नाकार्ष वा । नु करोमि न्वकार्ये वा।
१२२ । पुरि लुङ, चास्मे ।
भूतानद्यतने पुरायुक्ताद् धातोर्लुङ, लट् च वा स्यात्। अवात्सुरिह पुरा वृक्षाः। वसन्तीह पुरा मृगाः। “पुराधिरूढ़ः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः”। विभाषेलेव । अवसन् पुरा। अषुः पुरा । अस्मे किम् ? पुरा वसन्ति स्म। उक्तं भूते ।
१२३ । वर्तमाने लट ।
प्रारब्धापरिसमाप्तिर्वतमानकालः । तत्र धातो लट् स्यात् । भवति । अत्ति । अस्ति । जुहोति। तनुते । रुणदि। चोरयति । चिकीर्षति । इहापि प्रारब्धापरिसमाप्तिरत्येवेति । तिष्ठन्ति गिरयः। स्रवन्ति नद्यः । जयत्युपेन्द्रः । वर्तमानाधिकारः प्राग् भविषतः (३।३।३) ।
१२४। लटः शटशानचावप्रथमासमानाधिकरणे ।
एतौ लटः स्थाने स्याताम्। विभाषेति वर्त्तते मण्डकपमुत्या । साच व्यवस्थितविभाषेति भाष्यस्थितिः। पचन् विप्रः पचति विप्रः । सन् अस्ति । अधीयानः अधीते । व्यवस्थितविभाषावात् क्वचिनित्यम् । कौर्वतः । पाचतः । खार्थे ऽण् । कुर्वद्भक्तिः । पचमानभक्तिः । भज्यमानत्वाद भक्तिः । पचमानतरः । गच्छद्रूपः । कुर्वद्रूपः । पचत्कल्पः । लसद्दिसच्छेदः। घूर्णमानप्रदीपः कचिन्न । पचतितराम् । जल्पतिरूपम् । अप्रथमासमानाधिकरणे किम् ? अत्र नित्य तौ स्याताम् । पचन्तं पचमानं पश्य । पचता पचमानेन कृतम् ।
१२५ । सम्बोधने च ।
अत्र नित्य तौ स्याताम् । हे कुर्वन् । हे कुर्वाण ।
१२६ । लक्षण हेत्वोः क्रियायाः ।
क्रियायाचिहजनकाहातो स्तौ स्याताम्। तिष्ठन् मूत्रयति गौः । शयानो भुङते। हेतौ। अर्जयनास्ते। मेव्यमानो विलसति । याचमानः प्रसीदति । क्रियायाः किम् ? य: कम्पते सोऽखस्थः ।
(क) माड्याक्रोशे । माडि धातोस्तौ स्याताम् । मा जीवन् । मा पचमानः । “मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति"।
१२७। तौ सत् ।
तौ शशानचौ सदित्युच्येते । लुटः सइत्यादौ कार्यम् (३।३।१४) ।
१२८। पूङ यजोः शानन् ।
लट इति निवृत्तम् । आभ्यां शानन् स्यात् । सोमं पवमानः । यजमानः।
१२९ । ताच्छौल्यवयोवचनशक्तिषु चानश ।
एषु गम्येषु धातोश्चानश स्यात् । वनं पर्यटमानः। आत्मानं वर्णयमानः। भूषयमाणः । जीवमानः । लसमानः । स्फुरमाणः। “दीव्यमानं शितान् वाणान् ।” ज्वलमानः । वधू मण्डयमानः । वयसि । स्त्रियं गच्छमानः । शिखण्ड वहमानः । शक्तौ। हस्तिनं निघ्नानः । १३०। दूधार्योः शवकृच्छ्रिणि ।
अलच्छिणि कर्तरि इड्धारिभ्यां शट स्यात् । अधीयन् सकलं शास्त्रम् । "धारयन् मस्करिव्रतम् ।” क्वच्छिणि तु कर्तरि कष्टेनाधोते ।
१३१ । द्विषोऽमित्र । विषः शनी वाच्य शट स्यात् । दिषन् । दिषती
१३२। सुजो यज्ञसंयोगे।
सुञोऽत्र शट स्यात् । सुन्वन्तो यजमाना एव ।
१३३ । अर्हः प्रशंसायाम् ।
अर्हतेः स्तुतौ शट स्यात् । अर्हन् पूजां मुनिः। नेह । वधमर्हति ।
१३४। आ के स्तच्छौलतद्धर्मतत्साधुकारिषु ।
क्विपं यावत् (३।२।१७७) तच्शीलादौ प्रत्ययो वायः कर्तरि ।
१३५ । तृन्।
धातो स्तृन् स्यात् । शोले । विरुदं वदिता। आचार। श्राई कर्ता । आसनं दाता। वधू मुण्डयितारः (36)। साधौ। हर्ता मनः। गन्ना खेटम् । होटपोवादय स्तूणादौ ।
१३६ । अलंकृनिराकृप्रजनोत्पचोत्पतो(त्पदो)न्मदरुच्यपनपतुधुसहचर दूष्णुच ।
एभ्यो द्वादशभ्यो धातुभ्य इष्णुच् स्यात् । कन्यामलंकरिष्णुः । निरा. करिण : शबून् । एवं यावच्चरिष्णुः । भुवश्चेति (३।२।१३८) चकाराद भाजिष्णुरित्वेक। .
१३७। णेश्छन्दसि ।
छान्दसम् ।
१३८ । भुवश्च ।
इष्णुच् स्यात् । भविष्णुः ।
१३६ । म्लाजिस्थश्च कस्नः ।
एभ्यः क्मुः स्यात् । ग्लासुः । जिष्णुः । चकाराद् भृष्णुः । तिष्ठतेरीत्वं (१।४।६६) नेष्यते । स्थानुः ।
१४०। बसिरधिषिक्षिपः क्रुः ।
एभ्यः : स्यात् । वसुः । ग्रभुः । धृष्णुः । क्षिपणः । (37)
१४१ । शमित्यष्टाभ्यो धिनुण ।
शमादिभ्यो (38) धिनुण् स्यात् । शमी।
"धमो कदम्बसम्भिवः पवनः शमिनामपि।"
लमित्वं कुरुतेऽत्य) मेघशीकरशीतलः ॥"
तमी। दमी । श्रमी । क्षमी। मादी। अकर्मकेभ्योऽभिधानानेह । वर्ग नमिता।
१४२। संपृचानुरोधायमाझ्यसपरिसृसंसृजपरिदेविसंज्चरपरिक्षिपपरिरटपरिवदपरि-दहपरिमुहदुषविषद्रुहदुयुजाकौड़विविचत्यजरजभजातिचरापचरामुषाभााहनश्च ।
एभ्यः सप्तविंशर्घिनुण, स्यात् । सम्पर्की। अनुरोधी। आयामी। आयासी। परिसारी। “संसर्गो सरितां नृपः ।” परिदेवी। संज्वारी। "परिक्षेप्यम्भसामृतः।" परिराटी। परिवादी। परिदाही। परिमोहौ। दोषी। देषी । द्रोही। दोही। योगी। आक्रीड़ी। विवेकी । त्यागी। रागी। निपातनादननासिकलोपः। भागी। अतिचारी। अपचारी। आमोषी। अभ्याघाती। चकारादस्थायी।
१४३। वो कषलसकत्थसम्भः ।
विपूर्वात कषादेबिनुण स्यात् । कष हिंसायाम् । विकाषी। विलासी। विकत्थी । विस्रम्भी। १४४। अपे च लषः।
अपे वौ च लषे धिनुण स्यात् । अपलाषी। विलाषी। लष कान्तौ ।
१४५। प्रे लपमुद्रुमथवदवसः ।
प्रपूर्वालपादिषट्काद घिनुण स्यात् । प्रलापी। प्रसारी। प्रद्रावी। प्रमाथी। प्रवादी। प्रवासी।
१४६ । निन्दहिंसलिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्।
निन्दादिदशकाद् वुञ् स्यात् । निन्दकः । हिंसकः । क्लेशकः । खादकः । विनाशकः । परिक्षेपकः । परिराटकः। परिवादकः । व्याभाषकः । असूयकः ।
१४७। देविक्रुशोश्चोपसर्गे।
आभ्यां वुञ् स्यात् । आदेवकः । परिक्रोशकः । प्रादौ किम् ? देवयिता। क्रोष्टा ।
१४८। चलनशब्दार्थादकर्मकाट् युच ।
अकर्मकेभ्यश्चलनशब्दार्थेभ्यो युच स्यात्। चलनः । चेष्टनः । वेपनः । कम्पनः । शब्दनः । रवणः । अकर्मकात् किम् ? पठिता स्तोत्रम् ।
१४६। अनुदात्तेतच हलादेः ।
युच् स्यात्। वर्तनः। वईनः। द्योतनः । जुगुप्सनः । मीमांसनः । अनुदात्तेतः किम् ? बन्। भविता । हलादेः किम् । एधिता। अकर्मकादित्येव । वसिता वस्त्रम् । कथ "मुल्कण्ठावईनै शुभ्र"मिति (39) ? नायं षष्ठीसमासः । किं तर्हि ? ढतीयासमासः ।
१५०। मुचक्रम्यदन्द्रम्यस्यधिज्वलशुचलषपतपदः ।
ज्वादिदशकाद् युच, स्यात् । जवनः । चंक्रमणः । दंद्रमणः । सरणः । गर्धनः। ज्वलनः। शोचनः । लषणः । पतनः। पदनः ।
१५१ । ऊधमण्डार्थेभ्यश्च ।
कोपभूषार्थेभ्यो यच स्यात् । क्रोधनः । कोपनः । रोषणः । मण्डनः । भूषणः । प्रसाधनम्। १५२। न यः।
यकारान्ताद् युज् न स्यात् । आप्यायिता। स्फायिता। मायिता । ऋयिता।
१५३ । सूददौपदीक्षश्च ।
एभ्यो नास्ति युच । सूदिता । दीपिता। दीक्षिता। मधुसूदनादयो नन्यादित्वात् (३।१।१३४)। १५४। लषपतपदस्थाभूवषहनकमगमशृभ्य उकञ्।
लषादिदशकादुकञ् स्यात् । अभिलाषुकः । पातुकः । उपपादुकः । स्थायुकः । भावुकः । वर्षकः । घातुकः । कामुकः। गामुकः । शारुकः ।
१५५। जल्पभिक्षकुट्टलुण्टङः षाकन् ।
एभ्यः षाकन् स्यात् । जल्याकः । भिक्षाकः । कुट्टाकः । लुगटाकः । वराकः । षित्वान् डोष् । जल्पाकी । वराकी।
१५६ । प्रजोरिनिः। सौत्रात् प्रजोरिनिः स्यात् । प्रजवी।
१५७। जिक्षिविश्रीखमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ।
एभ्य इनिः स्यात् । जयो। आदरी। क्षयी। वित्रयो। प्रत्ययी। वमो। “पापमव्यथिनं कपिम् ।” अभ्यमी । भुवनपरिभवी । प्रसवी।।
१५८। स्मृहिहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य बालुच्।
स्मृह्यादिसप्तकादालुच स्यात् । स्मृहयालुः । गृहयालुः । पतयालुः । दयालुः। निद्रालुः । तत्पूर्वस्य द्राते स्तन्द्रा निपात्यते । तन्द्रालुः । "श्रद्धालुमधुपानस्य"।
(क) भालुचि शोङ ग्रहणं कर्तव्यम् । शयालुः। कथं शीतालुः ? शीतोष्णप्रेभ्यस्तन्न सहत इति (५।२।१२२, वा) तहितो भविष्यति ।
१५९ । दाधेसिशदसदो रुः।
दादिम्यो कः स्यात् । दारुर्दानशीलः । धारुः । सेरुः । शद्रुः । सट्ठः
१६० । सृघस्यदः कारच ।
एभ्यः कारच स्यात् । समरः । धस्मरः। अमरः ।
१६१ । भञ्जभासमिदो घुरच ।
एभ्यो घुरच स्यात् । भञ्जः कर्मकर्त्तय॑भिधानम् । स्वयं भङ्गुरं काष्ठम् । कथमनङ्ग मानभङ्गुर मिति भामहः (40) ? तर्हि चिन्त्यम् । भासुरम् । मदुरः पशुः ।
१६२ । विदिभिदिच्छिदेः कुरच् ।
एभ्यः कुरच स्यात् । विदुरो ज्ञाता। भिदिच्छिद्योः कर्मकर्तर्यभिधानमित्याहुः । (41) स्वयं भिदुरं काष्ठम् । विदुरा रन्नुः । कथं गुरुमत्सरच्छिदुरयेति माघः ? करीन्द्रदर्पच्छिदुर मृगेन्द्रमिति जाम्बवतीविजयकाव्ये पाणिनिः (42) ? संसारबन्धच्छिदुरान् हिजातीनिति व्योषः ? तदेतच् चिन्त्यम् ।
१६३ । इणनजिसर्तिभ्यः करप्।
एभ्यः करप स्वात् । इत्वरी। नवरी। जित्वरी। विसत्वरी। अकर्मकाविधिः ।
१६४। गत्वरश्च ।
निपात्यते।
१६५। जागरूकः।
जागर्तेरूकः स्यात् । जागरूकः ।
१६६। यजजपदशां यङः ।
एभ्यो यङन्तेभ्य उकः स्यात् । यायजकः। जञ्जपूकः । दन्दशूकः । वावदूकस्तूणादौ।
१६७। नमिकम्पिम्माजसकहिंसदीपो रः।
एभ्यः सप्तभ्यो र: स्यात् । नम्रः। कम्पः । स्मेरः। जसु प्रयत्ने। न जस्यतीत्यजस्रा प्रवृत्तिः। यस्त्वजस्रं भुङ्क्त इति क्रियाविशेषणं सोऽव्ययमन्य एव नित्यपयायः । कर्तृवाचिनोऽस्य क्रियाविशेषणत्वाननुपपत्तेः (43)। कमः । हिंस्रः। दीपः।
१६८। सनाशंसभिक्ष उः।
सवन्तादुः स्यात् । आशंसेभिक्षेश्च । चिकोर्षः। पिपठिषुः । “आत्मनः क्षेममाशंसुः" । भिक्षुः ।
१६९ । विन्दुरिच्छुः ।
हयं निपात्यते । विन्दु ता। इच्छुः प्रसादम् । कथमल्पार्थे विन्दुः ? विदि अवयवे | औणादिकाउः । १७० । क्याच्छन्दसि।
१७१। आगमहनजनः किकिनौ लिट च ।
(क) भाषायां धाकञ्जनिगमिनमिभ्यः । एभ्यो भाषायां किकिनी स्थाताम् । लिट्कार्यञ्च । दधिः । चक्रिः । सनिः । जन्निः । जग्मिः । नेमिः ।
(ख) सहिवहिचलिपतिभ्यो यडन्तेभ्यः किकिनौ वायौ। सहादि यङन्तात् किकिनौ स्थाताम् । त्रैलोक्यभारं सासहिः । वावहिः । चाचलिः । पापतिः । नौग् (७।४।८४) नेष्टः ।।
१७२। खपिटषोर्नजिङ ।
(क) वृषेश्च ।
(ख) एभ्यो नजिङ् स्यात् । स्वप्नक । स्वप्नजौ। णक् । तृष्णजौ। धृष्णक । कृष्णजौ।
१७३। शृवन्द्योरामः।
आभ्यामारुः स्यात् । शरारुः । वन्दासः ।
१७४ । भियः क्रुल्लकनौ।
(क) क्रुकबपि।
(ख) भियः क्रुक्रुकन्नुकनः स्युः । भीरुः । भीलुकः । भौरुकः ।
१०५। स्थेशभासपिसकसो वरच ।
एभ्यः पञ्चभ्यो वरच् स्यात् । स्थावरः । ईश्वरः । भास्वरः । पिस गतौ । पेखरः । कस गतौ । विकखरः । कयमोखरी ? ओणादिको वरट् । (44)
१७६ । यश्च यङः।
यडन्ताद याते वरच् स्यात् । यायावरोऽनिलयः ।
१७७। भाजभासधुर्विद्युतोजिजुगावस्तुवः क्विप।
भ्राजाद्यष्टकात् तच्छोलादौ क्विय् स्यात् । विभ्राजत इति विभ्राट । विभ्राजौ। भाः भासौ। धूः धुरौ। विद्युत् विद्युतौ। ऊर्क, जौं । पूः पुरौ। जवते र्दीषश्च । जूः जुवौ । ग्रावस्तुत् । ग्रावस्तुतौ। पचे: पक् ।
१७८। अन्येभ्योऽपि दृश्यते ।
क्विप् स्यात् । श्लोकवित् । भित् । शोकच्छित् । दृशिग्रहणाद् दीर्घा दिकच्च । वाक् । शब्दप्राट्। परो व्रजे: षश्च पदान्ते (उण, २।२१७) । परिवाट । आयतं स्तौति आयतस्तूः । कटः । विञ् श्रीः । श्रियौ । ध्यायतेर्दधाते व धौरिति भाष्यम् । गतं ताच्छोलिकैः ।
१७८ । भुवः संज्ञान्तरयोः ।
संज्ञायां भुवः विप् स्यात् । पुनर्भूः। वयम्भूः ब्रह्मा। आत्मभूः । अङ्गभः । पन्तरे च । प्रतिभूरन्तरस्थः ।
१८०। विप्रसंभ्यो डसंज्ञायाम् । भुवो विप्रसम्पूर्वाड् डुः स्यादसंज्ञायाम्। विभुः। प्रभुः। सम्भुः । संज्ञायां तु विभूर्नाम कश्चित् सम्भविता ।
(क) मितादिभ्य उपसंख्यानम् । मितद्रुः । शतद्रुः । कपां लातीति कपालुः । लज्जालुः । शं प्राप्नोतीति शम्भुः शिवः ।
१८१। धः कर्मनिष्टन् । धेटो धात्रो वा ष्ट्रन् स्यात् । धयति दधाति वा तामिति धात्री। प्रामलक्या: स्तनदायिन्या वा संज्ञा (45)।
१८२। दामनौशसयुयुजस्तुतुदसिसि चमिहपतदशनहः करणे।
एभ्यस्त्रयोदशभ्यः करणे छन् स्यात् । दान्ति तेन दानम् । नेत्रम् । "समन्च नेत्रेण रथेन शोचन"। शस्त्रम् । योत्रम् । योक्त्रम्। स्तोत्रम् । तोत्रम् । मेलम् । सेक्त्रम्। मेद्रम् । पन्नम्। दंष्ट्रा। नड़ी। सूत्रे दर्शति निरनुनासिकनिपातनाल्नुपटि दशनम् (16)। त्रुनि तु दंष्ट्रेति । अजादिपाठाट् टाबित्यु तम्।
१८३। हलशूकरयोः एवः ।
पुवः करणे टन स्यात् । पोत्रम् । हलस्य शूकरस्य वा मुखम् ।
१८४। अर्तिलूधूसूखनसहचर इवः ।
एभ्य इत्रः स्यात् करण। अरित्रं नोकावाहनम् । रिपुलवित्रो वाणः । धवित्रं व्यजनम् । सवित्रम् । खमित्रम् । सहित्रम् । चरित्रम् ।
१८५। पुवः संज्ञायाम् ।
पुव इत्र: स्यात् संज्ञा चेत् । पवित्रं कुशम् । (47)
१८६ । कर्तरि चर्षिदेवतयोः !
कर्तरि करणे च पुव इत्रः स्यात्। ऋषिः पवित्रम् (48)। अग्निः पवित्रम् ।
१८७। जीतः क्तः।
जीतो धातोर्वतमाने क्तः स्यात् । मिन्नः । क्ष्विमः ।
१८८। मतिबुद्धि पूजार्थेभ्यश्च ।
इच्छाज्ञानपूजार्थेभ्यो वर्तमाने ताः स्यात्। गनां मतः। राजभिर्मन्यत इत्यर्थः । वासरूपेण (३।१।४) लड़पि भवति । तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीत्यत्र (प, ६८) ल्युटसाहचर्यान् नपंसकते वासरूपविध्यभावः । एवं राजामिष्टः । राज्ञां बुद्धः । राज्ञां ज्ञातः । “न ज्ञातं तात यत्रस्य पौर्वापर्यम. मुष्य ते ।” एवं सतां विदितोऽवगतः । इह वर्तमानक्तेन भूतक्तस्य बाधनमिष्यते । तेन त्वया ज्ञातो मयार्चित इत्याद्यचिकित्यमिति भागहत्तिः । (49) पूजार्थात् सतामचितः । सुराणां पूजितः । सताम् पूजितः । चकारस्थानुक्तसमुच्चयार्थवाच्छीलितरक्षितकान्तव्याहृतदयितस्निग्धतुष्टक्षान्तरुष्टादिसिद्धिः । इति महामहोपाध्यायत्रीपुरुषोत्तमदेवकतायां भाषावृत्ती तीयाध्यायस्य द्वितीयः पादः ॥३२॥