सामग्री पर जाएँ

भाषावृत्तिः/तृतीयोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः
भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव
द्वितीयः पादः →

तृतीयाध्याये प्रथमः पादः

3-1-1- प्रत्ययः ।

-3-1-2- परश्च ।
प्रत्ययो वक्तव्यः। स च परः स्यात्। तथैवोदाहार्यम्। याति। कृतम्।

-3-1-3- आद्युदात्तश्च ।

-3-1-4- अनुदार्त्तौ सुप्पितौ ।
स्वरसूत्रद्वयम्।

-3-1-5- गुप्‌तिज्‌किद्भ्यः सन् ।
एभ्यः सन् प्रत्ययः स्यात्। लोकतोऽर्थावगमः। जुगुप्सतेऽधर्मम्। तितिक्षतेऽपराधम्। चिकित्सत्यातुरम् भिषक्। तथा विचिकित्सति मे मनः। सन्देग्धीत्यर्थः।

-3-1-6- मान्वधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ।
मानादिभ्यः सन् स्यात्। अभ्यासस्य दीर्घश्च। मीमांसते शास्त्रम्। बीभत्सते गजम्। दीदांसते शत्रुम्। शीशांसते शस्त्रम्। अनिच्छासन आर्धधातुकत्वं नास्ति। धातोरित्यनभिधानात् (3.1.7)।

-3-1-7- धातोः कर्मणः समानकर्तृकादिच्छायां वा ।
इषेः कर्मणः समानकर्तृकाद्धातोरिच्छायां वा सन् स्यात्। पक्षे वाक्यं च। कर्तुमिच्छति चिकीर्षति। जुगुप्सिषते। विवर्त्तिषते। इच्छासन्नन्तान्नेष्यते। चिकीर्षितुमिच्छति। इहाश्मा लुलुठिषते नदीकूलं पिपतिषतीत्युपचारात्।

-3-1-8- सुप आत्मनः क्यच् ।
इषेः कर्मणः सुबन्तादेषितुरिच्छायां वा क्यच् स्यात्। आत्मनः पुत्रमिच्छति पुत्रीयति। पुत्रीयन्ति। पुत्रीयन्। भार्यीयति। दधीयति। मधूयति। गव्यति। राजीयति।
(क) क्यचि मान्ताव्ययान्निषेधः। किमिच्छति। स्वरिच्छति।

-3-1-9- काम्यच्च ।
क्यज्विषये काम्यच् स्यात्। पुत्रकाम्यति। स्त्रीकाम्यति।

-3-1-10- उपमानादाचारे ।
क्यजित्येव। उपमानात् कर्मणः सुबन्तादाचारे क्यच् स्यात्। पुत्रमिवाचरति पुत्रीयति भृत्यम्। मात्रीयति परकलत्रम्।
(क) अधिकरणाच्च । आचारे क्यच् स्यात्। "प्रासादीयति यः कुट्याम्। पर्यड्कीयति मञ्चके।"

-3-1-11-कर्तुः क्यङ् सलोपश्च ।
कर्त्तुरुपमानादाचारेऽर्थे क्यङ् स्यात्। सान्तस्य च लोपः। शिशुरिवाचरति शिशूयते वृद्धः। "एरण्डोऽपि द्रुमायते"। काकोऽपि गरुडायते। गव्यते गवयः। नाव्यते द्रोणी। "तस्य सन्तोषशीलस्य कुब्जिकाप्यप्सरायते"।
सलोपोऽयमौजसोऽप्सरसो नित्यं पयसस्तु विभाषया इत्येके। अप्सरस एव लोपो नान्यस्येत्यपरे।
(क) सर्वप्रातिपदिकेभ्यः क्विब् वा । प्रातिपदिकात् क्यङविषये क्विब् वा स्यात्। अश्वति खरः। प्रभवति भृत्यः। रिपवन्ति मित्राणि। विधवति रविः। गोदोहति। गोदुहतीति कश्चित्। अवगल्भादयस्तु क्विब्विधावात्मनेपदार्थ-
मनुदात्तेत उपदेष्टव्या इति स्मृतिः। तेनावगल्भते। विहोडते। क्लीबते। कास्प्रत्ययादित्याम् (3.1.35)। अवगल्भाञ्चक्रे।

-3-1-12- भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ।
भृशादिभ्यश्च्व्यर्थगतौ भुवि भवत्यर्थे क्यङ् स्यात्। अभृशो भृशो भवति भृशायते स्नेहः। शीघ्रायते। उत्सुकायते। हलन्तस्य च लोपः। सुमनायते। उन्मनायते। उन्मनायमानः।

-3-1-13- लोहितादिडाज्भ्यः क्यष् ।
लोहितादेर्डाजन्ताच्च भुवि भवत्यर्थे क्यष् स्यात्। अलोहितो लोहितो भवति लोहितायति लोहितायते। मन्दायति। मन्दायते। एवं वर्म हरित निद्रा तन्द्रा करुणा घृणा केका। आकृतिगणोऽयम्। कात्यायनस्तु
(क) लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणीत्याह। डाच्। दमदमायति दमदमायते। डाचि बहुलमति (8.1.12, वा) द्वे।

-3-1-14- कष्टाय क्रमणे ।
कष्टाय यत् प्रातिपदिकं ततः क्रमणेऽर्थे क्यङ् स्यात्। कष्टायेति सामान्यनिर्देशात् सत्रकक्षकृच्छगहनेभ्योऽपि स्यात्। तथाच श्लोकवार्त्तिकम्--
तार्दथ्य एवात्र भवेच्चतुर्थी कष्टाय यत् क्रामति कर्मणे तु।
व्ख्यानतोऽर्थग्रहणं हि लभ्यमंहश्चिकीर्षापि च नान्तरीया ।।1।।
इति। कष्टायते। सत्रायते। कृच्छायते। कक्षायते। गहनायते। पापञ्चिकीर्षतीत्यर्थः।

-3-1-15- कर्मणो रोमन्थतपोभ्यां वर्त्तिचरोः ।
आभ्यां कर्मभ्यां वर्त्तिचरोरर्थयोः क्यङ् स्यात्। रोमन्थायते गौः। हनुचलनेऽभिधानान्नेह। कीटो रोमन्थं वर्त्तयति।
(क) तपसः परस्मैपदञ्च। तपस्यति।

-3-1-16- वाष्पोष्मभ्यामुद्वमने ।
(क) फेनाच्च । एभ्य उद्वमने क्यङ् स्यात्। वाष्पायते स्थाली। ऊष्मायते भक्तम्। फेनायते नदी। धूमाच्चेति भर्तृहरिः। धूमायतेऽग्निः। "धूमायन्त इवाश्लिष्टाः"।

-3-1-17- शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे ।
एभ्यः क्रियायां क्यङ् स्यात्। शब्दं करोति शब्दायते। वैरायते। वैरायमाणः। एवं यावन् मेघायते। (क) सुदिनदुर्दिननीहाराच्च । सुदिनायते। दुर्दिनायते। नीहारायते। (ख) अटाट्टाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्त्तव्यम् । अटायते। अट्टायते। शीकायते। कोटायते। पोटायते। सोटायते। प्रुष्टायते। प्लुष्टायते।

-3-1-18- सुखादिभ्यः कर्तृवेदनायाम् ।
एभ्यः कर्तृरनुभवे क्यङ् स्यात्। आत्मनः सुखं वेदयते सुखायते। दुःखायते। सुख दुःख अलीक करुणा कृच्छ्र प्रतीप घृणा। आकृतिगणोऽयम्।
-3-1-19- नमोवरिवश्चित्रङः क्यच् ।
एभ्यः क्यच् स्यात्। पूजापरिचर्याश्चर्येष्वभिधानम्। नमस्यति देवान्। वरिवस्यति गुरून्। चित्रीयते
हेममृगः। विस्मापयत इत्यर्थः।

-3-1-20- पुच्छभाण्डचीवराण्णिङ् ।
एभ्यो णिङ् स्यात्। उदसनसमाचयनपरिधानेष्वभिधानम्। उदसनमुत्क्षेपणम्। उत्पुच्छयते व्याघ्रः। सम्भाण्डयते कुलालः। सञ्चीवरयते भिक्षुः।

-3-1-21- मुण्डमिश्रश्लक्ष्णलवणव्रतवस्रहलकलकृततूस्तेभ्यो णिच् ।
करणे इत्येव। मुण्डादिभ्यः क्रियाविशेषे णिच् स्यात्। मुण्डयति। मिश्रयति। श्लक्ष्णयति। लवणयति। व्रतयति।
वस्त्रात् संवरणे। संवस्त्रयति। हलिकल्योरत्वनिपातनं सन्वद्भावनिषेधार्थम्। हलिं गृह्णाति हलयति। कलिं गृह्णति कलयति। अजहलत्। अचकलत्। हलिर्बृहद्धलम्। कृतं गृह्णाति कृतयति। तूस्तानि विनिहन्ति वितूस्तयति पन्थानं वातः। तूस्तं धूलिः।
 
-3-1-22- धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।
धातोः क्रियासमभिहारे यङ् स्यात्। कार्त्स्न्येन पुनःपुनर्वा पचति पापच्यते। कार्त्स्न्येन भृशं वा ज्वलति जाज्वल्यते। जाज्वल्यमानः। एकाचः किम् ? भृशं जागर्त्ति। हलादेः किम् ? भृशमीक्षते। शुभरुचोस्त्वनभिधानम्। गृणातेश्च।
(क) सूचिसूत्रिमूत्र्यट्यर्‌त्त्यशूर्णोतीनामुपसंख्यानम्। सप्तभ्यो यङ् स्यादेभ्यः। सोसूच्यते। सोसूत्र्यते। मोमूत्र्यते। अटाट्यते। "अटाट्यमानोऽरण्यानीम्"। अरार्य्यते। "किमभीरुररार्य्यसे"। अशाश्यते। प्रोर्णोनूयते।

-3-1-23- नित्यं कौटिल्ये गतौ ।
गत्यर्थात् कौटिल्य एव यङ् स्यात्। जङ्गम्यते। चङ्क्रम्यते। नित्यग्रहणं क्रियासमभिहारनिवृत्त्यर्थमिति स्मृतिः।

-3-1-24- लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्।
लुपादिभ्योऽष्टभ्यो धात्वर्थगर्हायामेव यङ् स्यात्। गर्हा निन्दा। गर्हिंतं लुम्पति लोलुप्यते। सासद्यते। "तस्याः सासद्यमानायाः।" चञ्चूर्यते। जञ्जप्यते। जञ्जभ्यते। दन्दह्यते। दन्दश्यते। निजेगिल्यते।

-3-1-25- सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ।
एभ्यो णिच् स्यात्। लोकतोऽर्थावगमः। सत्यापयति। अर्थवेदसत्यानामापुगिति पूर्वस्मृतेरुपलक्षणम्। अर्थापयति। वेदापयति। विपाशयति। निरूपयति। उपवीणयति। अनुतूलयिति। उपश्लोकयति। अभिषेणयति। अनुलोमयति। त्वचशब्दोऽदन्तः। त्वचं गृह्णाति त्वचयति। संवर्मयति। वर्णयति। अवचूर्णयति। चुरादिभ्यः स्वार्थे णिच्। चोरयति। चिन्तयति। चुरादौ
(1) प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च ।
(2) तत् करोति तदाचष्ट इति गणसूत्रम्। सूत्रं करोति सूत्रयति। मूत्रयति। सूचयति। कुमारीमाचष्टे कुमारयति। मालां मालयति। मातरं मातयति। बहुलवचनाद्।
(क) आख्यानात् कृदन्तात् तदाचष्ट इति णिच्। कृल्लुगादिकं प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवति। कंसस्य वधमाचष्टे धातयति कंसम्। बलिं बन्धयति नटः कथको वा। एवं राजानमागमयति। मृगान् रमयति। उद्गमयति सूर्यमिति। पाशादेरपि णिजस्यैव प्रपञ्चः।]

-3-1-26- हेतुमति च ।
करणे इत्येव। हेतोः प्रयोजकस्य यो व्यापारः क्रियासु प्रेषणमानुकूल्यं वा स हेतुमान्। तत्र धातोर्णिच् स्यात्। कुर्वन्तं प्रयुक्ते कारयति। पाचयति। आसयति। शाययति। भिक्षा वासयतीति कारीषोऽग्निरध्यापयतीत्युपचारात्। पञ्चभिर्हलैः कर्षतीति कृषिः प्रतिविधानार्थः। याजका यजन्तीति यजिर्हविष्प्रक्षेपणार्थः।

-3-1-27- कण्ड्वादिभ्यो यक् ।
एभ्यो यक् स्यात्। कण्डूञ्। कण्डूयति कण्डूयते। "वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का।"
महीङ्। "महीय्यमाना भवतातिमात्रम्"। हृणीङ्। "हृणीयते वीरवती न भूमिः।" मृग। "मृग्यन्तः पदवीम्"। क्लिश्यन्नपि हि मेधावी"। सुख। "सुख्येयुः प्रकृतयो नृपम्।"

-3-1-28- गुपूधूपविच्छिपणिपनिभ्य आयः ।
एभ्य आयः स्यात्। गोपायति। धूपायति। विच्छायति। पणायति। पनायति।

-3-1-29- ऋतेरीयङ् ।
ऋतेः सौत्राद्धातोरीयङ् स्यात्। ऋतीयते।

-3-1-30- कमेर्णिङ् ।
स्यात्। कामयते।
 
-3-1-31- आयादय आर्द्धधातुके वा ।
आर्धधातुके विषये आयादयो वा स्युः। गोप्ता, गोपायिता वा। गुप्तिः, गोपाया वा। अर्त्तिता, ऋतीयिता वा। कामयिता, कमिता वा।
-3-1-32- सनाद्यन्ता(1) धातवः(1.) सन्क्यच्काम्यच्क्यषोऽथावारक्विब् णिज्-यङौ तथा।
यगाय इर्यङ् णिङ् चेति द्वादशामी सनादयः। सनाद्यन्ता धातुसंज्ञकाः स्युः। तथैवोदाहृतम्।

-3-1-33- स्यतासी लृलुटोः ।
लटि लृङि च स्यः स्यात्। करिष्यति। अकरिष्यत्। लुटि तासिः स्यात्। कर्त्तासि। कर्त्तासे।

-3-1-35- कास्प्रत्ययादाममन्त्रे लिटि ।
कासेः प्रत्ययान्ताच्च धातोर्लिट्याम् स्यात्। कासाञ्चक्रे। पुरी सौधैः। चिक्रीर्षाम्बभूव। पातयामास। सन्त्रासयाञ्चकार। भूयस्तं बेभिदाञ्चक्रे। प्रत्ययग्रहणमनेकाजुपलक्षणमिति स्मृतिः। तेन--दरिद्राञ्चकार, चुलुम्पाञ्चकार।

-3-1-36- इजादेश्च गुरुमतोऽनृच्छः ।
इजादिर्यो धातुर्गुरुमांस्ततो लिट्याम् स्यात्। इर्हाञ्चक्रे। इर्क्षाञ्चक्रे।ःढ़द्य;हाञ्चक्रे। अनृच्छः किम् ? आर्नच्छ। ःढ़द्य;र्णोतेर्नुवद्भावो वक्तव्यः ।। प्रोर्णुनाव।

-3-1-37- दयायासश्च ।
एभ्यो लिट्याम् स्यात्। दयाञ्चक्रे न राक्षसः। पलायाञ्चक्रे। आसाञ्चक्रे। आसाम्बभूव। आसामास।
 
-3-1-38- उषविदजागृभ्योऽन्यतरस्याम् ।
एभ्यो लिट्याम्। वा स्यात्। ओषाञ्चकार कामाग्निः। उवोष। विदेरगुणत्वञ्च--विदाञ्चकार विदाम्बभूव विदामास विवेद। जागरामास जागराञ्चकार जागराम्बभूव जजागर।

-3-1-39- भीह्रीभृहुवां श्लुवच्च ।
एषां लिट्याम् वा स्यात्। श्लावेव द्वित्वमित्त्वञ्च। बिभयाञ्चकार। जिह्रयाम्बभूव। बिभरामास। जुहवाञ्चकार।
 
-3-1-40- कृञ्ञ्चानुप्रयज्यते लिटि ।
आमन्तस्य लिटि परतः कृञ्ञनुप्रयुज्यते। कृञ्ञ् इति कृभ्वस्तयः। तथैवोदाहृतम्।

-3-1-41- विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ।
इदं लोटि वा निपात्यते। विदांकुर्वन्तु, विदन्तु वा। विदांकुरु, विद्धि वा।

-3-1-42- अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद् विदामक्रन्निति च्छन्दसि ।
छान्दसम्।

-3-1-43- च्लि लुङि ।

-3-1-44- च्लेः सिच् ।
लुङि च्लिः स्यात्, तस्य सिजादिश्यते। अकार्षीत्। अहार्षीत्। अपाक्षीत्। स्पृशमृशकृषतृपदृपां सिज् वा वाच्यः ।। एभ्यः सिज वा स्यात्। अस्प्राक्षीत्, अस्पार्क्षीत्। अम्राक्षीत्। अमार्क्षीत्। अक्राक्षीत्। आकर्क्षीत्। अत्राप्सीत्। अतार्प्सीत्। अद्राप्सीत्। अदार्प्सीत्। पक्षे क्सः --अस्पृक्षत्। अमृक्षत्। अकृक्षत्। पुषाद्यङ्--अतृपत्। अदृपत्।

-3-1-45- शल इगुपधादनिटः क्सः ।।
श-ष-स-हान्तादिगुपधात् च्लेः क्सः स्यात्। स्पृश--अस्पृक्षत्। गुहू--अघुक्षत्। मा घुक्षः पत्युरात्मानम्।
अनिटः किम् ? अमोषीत्।

-3-1-46- श्लिष आलिङ्गने ।
श्लिषः प्राण्यालिङ्गन एव क्सः स्यात्। अश्लिक्षत् कन्याम्। अश्लिक्षद् भार्याम्। अन्यत्र--समाश्लिषज्जतु काष्ठम्।

-3-1-47- न दृशः ।
दृशः क्सो न स्यात्। अद्राक्षीत्। अदर्शत्। इरितो वा इति वा अङ्।

-3-1-48- णिश्रिद्रुस्रुभ्यः कर्त्तरि चङ् ।
एभ्यश्चलेश्चङ् स्यात्। अचीकरत्। अलीलवत्। अनीनशत्। मा तपः साध नीनशः। अचिक्लिशत्। अशिश्रियत्। अदुद्रुवत्। धनो जलमसुस्रु वत्। कर्त्तरि इति वर्त्तते प्राक् चिण् भावकर्मणोः (3.1.66) इति। कमेरुपसंख्यानम्(1) । अचकमत सपल्लवां धरित्रीम्। णिङ्पक्षे पूर्वेण अचीकमत। (1.) अत्र नाकमिष्टसुखं याति सुयुक्तैवर्डवारथैः।
अथ पत्काषिणौ यान्ति येऽचीकमतभाषिणः ।इति भाष्ये विशिष्टप्रयोगप्रशंसापरः श्लोकः।

-3-1-49- विभाषा धेट्श्व्योः ।
धेट्-श्विभ्यां चलेश्चङ् स्याद्वा। अदधद्, अधासीद् वा। विभाषा घ्राधेट् इति पक्षे लुगुक्तः--अधात्। अशिश्वियद्, अश्वयीद् वा। अङ्--अश्वत्। कर्त्तरीत्येव--अधिषातां गावो वत्सेन।

-3-1-50- गुपेश्छन्दसि ।

-3-1-51- नोनयतिध्नयत्येलयत्यर्दयतिभ्यः ।
छान्दसं सूत्रद्वयम्।

-3-1-52- अस्यतिवक्तिख्यातिभ्योऽङ् ।
एभ्यश्च्लेरङ् स्यात्। आस्थत्। अवोचत्। आख्यत्। तङ्पक्षे--पर्यास्थत। अवोचत। व्याख्यत।

-3-1-53- लिपिसिचिह्वश्च ।

-3-1-54- आत्मनेपदेष्वन्यतरस्याम् ।
लिपादिभ्य श्च्लेरङ् स्यात्। इह सा व्यलिपद् गन्धैः स्रान्तीहाभ्यषिचज्जलैः। इहाहं द्रष्टुमाह्वं तां स्मरन्तेवं मुमोह सः। तङि वा। तस्यालिपत शोकाग्निः। अलिप्तेवानिलः शीतः। स्रानभ्यषिचताम्भोऽसौ। तथाभ्यषिक्त वारीणि। आह्वास्त स मुहुः सुरान् मुहुराह्वत राक्षसान्।

-3-1-55- पुषादिद्युताद्य्लृदितः परस्मैपदेषु ।
पुषादेर्द्युतादेर्लृदितश्च च्लेरङ् स्यात्। अपुषत्। अशुषत्। अद्युतत्। अश्वितत्। शक्लृ--अशकत्। गम्लृ--अगमत्। परस्मैपदेषु किम् ? व्यद्योतिष्ट।

-3-1-56- सर्त्तिशास्त्यर्त्तिभ्यश्च ।
एभ्यश्च्लेरङ् स्यात्। असरत्। अशिषत्। आरत्। आरताम्। कथं समारन्त ममाभसीष्टाः ? तङ्यपीच्छन्त्याचार्याः।
 
-3-1-57- इरितो वा ।
इरितो धातोर्वा च्लेरङ् स्यात्। अच्योतीत्, अच्युतत् वा। अभिदत्, अभैत्सीद् वा। अरुधत्, अरीत्सीद्धा।परस्मैपदेष्वित्येव-अरुद्ध।

-3-1-58- जॄस्तम्भुम्रुचुम्लुचुग्लुचुञ्ञ्चुश्विभ्यश्च ।
एभ्यश्च्लेरङ् स्याद्वा। अजरत्। अस्तभत्। अभ्रुचत्। अग्लुचत्। ग्लुञ्ञ्चेः--अग्लुञ्चदित्येके। अश्वत्। पक्षे सिच--अजारीत्, अश्वयीत्।

-3-1-59- कृमृदृरुहिभ्यश्छन्दसि ।
छान्दसम्।

-3-1-60- चिण् ते पदः ।
तकारे परतः पद्यतेः कर्त्तरि चलेश्यिण् स्यात्। समपादि शस्यम्। तकारे किम् ? उदपत्साताम्।

-3-1-61- दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ।
कर्तरि दीपादिभ्यस्तकारे च्लेश्चिण् स्यात्। क्रुद्धोऽदीपि रघुव्याघ्रः। अदीपिष्ट वा। अजनि, अजनिष्ट वा। अबोधि, अबुद्ध वा। अपूरि, अपूरिष्ट वा। अतायि, अतायिष्ट, अप्यायि अप्यायिष्ट वा।

-3-1-62- अचः कर्मकर्त्तरि ।
अजन्तात् कर्मकर्त्तरि तकारे चिण् वा स्यात्। उपाचायि वनं स्वयमेव, उपाचायिष्ट वा। अकारि कटः स्वयमेव, अकृत वा।

-3-1-63- दुहश्च ।
दुहेस्तत्र चिण्वा स्यात्। अदोहि, अदुग्ध वा गौः स्वयमेव।

-3-1-64- न रुधः ।
रुधस्तत्र न चिण् स्यात्। अरुद्ध गौः स्वयमेव।

-3-1-65- तपोऽनुतापे च ।
तपस्तत्र न चिण् स्यात्। अतप्त तपस्तापसः। अनुतापे च भावकर्मणोरपि न चिण्--अन्ववातप्त पापेन कर्मणा।

-3-1-66- चिण् भावकर्मणोः ।
अनयोस्तकरे परतश्च्लेश्चिण् स्यात्। अशायि त्वया। अकारि कटः।

-3-1-67- सार्वधातुके यक् ।
भावकर्मवाचिनि सार्वधातुके यक् स्यात्। भावे--आस्यते त्वया। कृञ्ञः श च--क्रिया। परिचर्या। कर्मणि--क्रियते कटः। क्रियेते कटौ।

-3-1-68- कर्त्तरि शप् ।
कर्तृवाचिनि सार्वधातुके शप् स्यात्। भवति। एधते। धावति, धावते। चोरयति। चिकीर्षति। माल्यधारयः।

-3-1-69- दिवादिभ्यः श्यन् ।
एभ्यः श्यन् स्यात्। दीव्यति। सीव्यति। शूरम्मन्यः।

-3-1-70- वा भ्राशाभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।
एभ्यो वा श्यन् स्यात्। भ्राश्यते, भ्राश्यते, भ्राशते वा। भ्लाश्यते, भ्लाशते वा। भ्रम्यति, भ्रमति वा। दिवादौ तु नित्यम्--भ्राम्यति। अभिलष्यति, अभिलषति वा। त्रस्यति, त्रसति वा। त्रुट्यति, त्रुटति वा।

-3-1-71- यसोऽनुपसर्गात् ।
वाश्यन् स्यात्। यस्यति, यसति वा। प्रादौ नित्यम्--प्रयस्यति।
श्यन् वा स्यात्। संयस्यति संयसति वा।

-3-1-73- स्वादिभ्यः श्नुः ।
एभ्यः श्नुः स्यात्। सुनोति। चिनोति।

-3-1-74- श्रुवः शृ च ।
श्रुवः श्नुः स्याच्छृभावश्च। शृणोति, शृणुतः।

-3-1-75- अक्षोऽन्यतरस्याम् ।
अक्षो वा श्नुः स्यात्। अक्ष्णोति, अक्षति वा काष्ठम्।

-3-1-76- तनूकरणे तक्षः ।
तक्षस्तनूकृतौ श्नुर्वा स्यात्। तक्ष्णोति, तक्षति वा काष्ठम्।

-3-1-77- तुदादिभ्यः शः ।
एभ्यः शः स्यात्। तुदति। उपदिशति।

-3-1-78- रुधादिभ्यः श्नम् ।
एभ्यः श्नम् स्यात्। रुणद्धि। भिनीत्ति। पिनष्टि। हिनस्ति। रुन्धानः।
-3-1-79- तनादिकृञ्ञ्भ्यः उः ।।
एभ्य उः स्यात्। तनोति। करोति।
-3-1-80- धिन्विकृष्व्योर च ।।
धिवि-कृविभ्यामुः स्यादकारश्चान्तादेशः, तस्य च अतो लोपः।
धिनोति हव्येन हिरण्यरेतसम्। कृणोति।
-3-1-81- क्रादिभ्यः श्ना ।।
एभ्यः श्ना स्यात्। क्रीणाति, क्रीणीते। प्रीणाति। गृह्णाति। गृह्णन्। गृह्णीते। गृह्णाणः।

-3-1-82- स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्ञ्भ्यः श्नुश्च ।

एभ्यः श्ना स्यात्, श्नुश्च। उत्तभ्नाति उत्तभ्नोति वा। स्तुभ्नाति स्तुभ्नोति वा। स्कभ्नाति, स्कभ्नोति वा।

-3-1-83- हलः श्नः शानज् झौ ।
हलः परस्य श्नाप्रत्ययस्य शानच् स्याद्धौ परतः। पुषाण। बधान। गृहाण।

-3-1-84- छन्दसि शायजपि ।
छान्दससम्। उक्ता विकरणाः ।

-3-1-85- व्यत्ययो बहुलम् ।
बहुलम् इत्याधातुप्रत्ययविधानमधिक्रियते। शेषश्छान्दसः

-3-1-86- लिङ्याशिष्यङ् ।
छान्दसम्।

-3-1-87- कर्मवत् कर्मणा तुल्यक्रियः ।
कर्त्तरि इत्येव। कर्मणा तुल्यक्रियः कर्त्ता कर्मवत् स्यात् कर्मस्थक्रियेष्वतिदेशः। प्रयोजनं यगात्मनेपदचिण्वद्भावाः। पच्यते ओदनः स्वयमेव। षष्टिकाः षष्टिरात्रेण पच्यन्ते। अभेदि काष्ठं स्वयमेव। करिष्यते कटः स्वयमेव। कथमन्योन्यमाश्लिष्यतः, अन्योन्यं गृह्णीतः, साधनभेदेन भिन्नक्रियत्वात्। इह दुहिपच्योः सकर्मकयोः कर्मवद् बहुलम् इति भाष्यम्। दुग्धे गौः क्षीरं स्वयमेव। अदुग्ध गौः क्षीरं स्वयमेव। उदुम्बरो लोहितं फलं पच्यते।
तथा--करणेन तुल्यक्रियः कर्त्ता बहुलं कर्मवत् स्यात्। परिवारयति कण्टकैर्वृक्षम्। परिवार्यन्ते कण्टकाः स्वयमेव वृक्षम्।

-3-1-88- तपस्तपःकर्मकस्यैव ।
तपेः कर्त्ता कर्मवत् स्यात्। तप्यते तपस्तापसः। अर्जयतीत्यर्थः। तपःकर्मकस्यैव किम् ? उत्तपति सुवर्णं सुवर्णकारः।

-3-1-89- न दुहस्नुनमां यक्चिणौ ।
एषां कर्मकर्त्तरि यक्चिणौ न स्याताम्। दुग्धे गौः क्षीरं स्वयमेव, अदुग्ध गौः क्षीरं स्वयमेव। प्रस्नुते गौः, प्रास्रोष्ट गौः स्वयमेव। नमते दण्डः, अनंस्त दण्डः स्वयमेव।
<125> (क) णिश्रन्थिग्रन्थिब्रञ्ञामात्मनेपदाकर्मकाणाञ्च । इति भारद्वाजीयाः। एषां कर्मकर्त्तरि यक्चिणौ न स्तः। णिः---भूषयते कन्या। कारयते कटः, अचीकरत कटः। ग्रन्थते मेखला, अग्रन्थिष्ट माला। श्रन्थते, अश्रन्थिष्ट मेखला। ब्रूते कथा। विकुरुते पयः स्वयमेव। किरादेः सनश्च ।। किरादेः सन्नन्तस्य च कर्मकर्त्तरि यक्चिणौ न स्तः। विकिरते हस्ती। चिकीर्षते कटः। अचिकीर्षिष्ट कटः स्वयमेव।

-3-1-90- कुषिरजोः प्राचां श्यन् परस्मैपदञ्च ।
अनयोः कर्मकर्तरि प्राचां मतेन श्यन्-परस्मैपदे स्याताम्। कुष्णाति पादम् पादम्। कुष्यति पादः। श्यप्श्यनोर्नित्यम् इति नुम्। कुष्यन्ती जङ्घा। रज्यति वस्त्रम्। स्वयमन्वरज्यदतुषारकरकः।

-3-1-91- धातोः ।
अधिकारोऽयमा तृतीयाध्यायपरिसमाप्तेः। धातोः कृत्-तिङो विधेयाः।

-3-1-92- तत्रोपपदं सप्तमीस्थम् ।
अत्र धात्वधिकारे (3.1.91) सप्तमीनिर्दिष्टमुपपदसंज्ञं स्यात्। वक्ष्यति -- कर्मण्यण् (3.2.1)। सुपि स्थः (3.2.4)।

-3-1-93- कृदतिङ् ।
तत्र धात्वधिकारे तिङोऽन्ये कृत्संज्ञकाः स्युः ण्वुल्-शत्रादयः।

-3-1-94- वाऽसरूपोऽस्त्रियाम् ।
कृत्सु भिन्नरूपोऽपवादौ वा बाधकः स्यात्। कर्तव्यम्, कार्यं वा। विबोद्धा, विबुधो वा। हसितम्, हसनं
वा। अस्त्रियां किम् ? चिकीर्षा। न क्तिन्। असरूपः किम् ? गोदः। शर्मदः।

-3-1-95- कृत्याः प्राङ् ण्वुलः ।
ण्वुलः प्राक् सप्त प्रत्ययाः कृत्यसंज्ञकाः स्युः।
तव्यञ्च तव्यतञ्ञ्चानीयरं केलिमरं तथा। यतं ण्यतं क्यपं चैव सप्त कृत्यान् प्रचक्षते ।

-3-1-96- तव्यत्-तव्यानीयरः ।
धातोरिमे स्युः। भातव्यम् भानीयम्। भवितव्यम्, भवनीयम्। वक्तव्यम्, वचनीयम्। इह वास्तव्यस्तद्धितान्तः। तदुक्तं भाष्ये--तद्धितो वा पुनरेषः--वास्तुनि भवो वास्तव्यः इति।
। केलिमर उपसंख्यानं कर्त्तव्यम् ।। कर्मकर्त्तर्यभिधानम्। पचेलिमा माषाः। छिदेलिमा रज्जुः।
कालसामान्ये खमी तव्यदादयः। तथा च भूतेऽपि--कर्म प्रोक्तवन्तः कर्मप्रवचनीयाः। वर्त्तमाने--भवतीति भव्यः।
 
-3-1-17- अचो यत् ।
अजन्ताद् यत् स्यात्। लव्यम्। भव्यम्। पव्यम्। पेयम्। गेयम्। देयम्। दित्स्यम्। पुत्रीय्यम्। देदीप्यम्। पुत्रकाम्यम्। गर्दभ्यम्। कथं भाव्यमनेनेति ? आवश्यकेऽस्तु(1)। (1.) ओरावश्यके इति सूत्रेण ण्यत्प्रत्यय इत्यर्थः।
। तकिशसिचतियतिजनीनाञ्च ।। तक्यम्। प्रशस्यम्। चत्यम्। यत्यम्। जन्यम्
। हनो वा वध च ।। यत् स्याद् वा वधादेशश्च। वध्यः। पक्षे ण्यति--धात्यः।

-3-1-98- पोरदुपधात् ।
पवर्गान्ताददुपधाद् यत् स्यात्। ण्यतो बाधा। शप्यम्। जप्यम्। लभ्यम्। अदुपधात् किम् ? गोप्यम्। तपरः किम् ? आप्यम्।

-3-1-99- शकिसहोश्च ।
अनयोर्यत् स्यात्। शक्यम्। सह्यम्।
 
-3-1-100- गदमदचरयमश्चानुपसर्गे ।
एभ्योऽप्रादौ यत् स्यात्। गद्यम्। माद्यन्ते तेन मद्यम्। चर्यम्। यम्यम्। ,कथं नियम्यम् यत्नोपर्यमिति ? दुष्प्राप्यवत् पश्चात् समासेन।
। चरेराङि चागुरौ ।। यत् स्यात्। आचर्यो धर्मः। अगुरौ किम् ? आचार्यः। ण्यत्।

-3-1-101- अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु ।
एष्वेते निपात्यन्ते। अवद्यम्उनिन्द्यम्। पण्यम्उविक्रेयम्। वर्यःउअनिरुद्धप्रवृत्तिः। शतेन वर्यः। सुग्रीवो नाम वर्योऽसौ पण्यभ्रातृवधः कपिः। वर्या पर्तिवरेत्येके।

-3-1-102- वह्यं करणम् ।
वह्यम् करणे स्यात्। वहन्ति तेन वह्यं शकटम्।
 
-3-1-103- अर्यः स्वामिवैश्ययोः ।
अनयोरर्त्तेर्यत् स्यात्। अर्यः। अन्यत्र आर्यो गन्तव्यो देशः।
 
-3-1-104- उपसर्या काल्या प्रजने ।
प्रजनेउप्रथमगर्भग्रहणे प्राप्तकाला गौः उपसर्या च्यते।
 
-3-1-105- अजर्यं सङ्गतम् ।
इदमत्र निपात्यते। तेन सङ्गतमार्येण रामाजर्यं कुरु द्रुतम्।

-3-1-106- वदः सुपि क्यप् च ।
वदः क्यप् स्यात् सुप्युपपदे, यच्च। अनृतोद्यं न तत्रास्ति सत्यवद्यं ब्रवीमि ते। मत्वर्थीयेऽचि--सत्यवद्यो रघूत्तमः। सुपि किम् ? वाद्यम्। अनुपसर्ग इत्येव--प्रवाद्यम्। सुवाद्यम्। कथमनूद्यम् ? अनुपर्सेणानुना।

-3-1-107- भुवो भावे ।
भावे भुवः सुपि क्यप् स्यात्। ब्रह्यभूयम्, ब्रह्यत्वम्।

-3-1-108- हनस्त च ।
सुपि हन्तेर्भावे क्यप् स्यात्, तश्चान्तादेशः। ब्रह्याहत्या। मित्रभूयं गतस्तस्य रिपुहत्यां करिष्यसि।

- 3-1-109- एतिस्तुशास्वृदृजुषः क्यप् ।
एभ्यः क्यप् स्यात्। इत्यः। स्तुत्यः। शिष्यः। वृत्यः। आदृत्यः। जुष्यः। कथमुपेयम् ? इर्ङ् गतौ इत्यस्मात्।
। शंसिदुहिगुहिभ्यो वा क्यप् ।। शस्यम् शंस्यम्। दुह्यम्, दोह्यम्। गुह्यम्, गोह्यम्।
। अञ्ञ्जेश्च संज्ञायाम्।। क्यप् स्यात्। आज्यं घृतम्।

-3-1-110- ऋदुपधाच्चाक्लृपिचृतेः ।
ऋदुपधात् क्यप् स्यात्। वृत्यम्।नृत्यम्। गृध्यम्। न क्लृपि-चृतेः--कल्प्यम्। र्चत्यम्।

-3-1-111- इर् च खनः ।
खनः क्यप् स्यादीकारश्चान्श्चान्तादेशः। आद्गुणः। खेयम्।
 
-3-1-112- भृञ्ञोऽसज्ञायाम् ।
क्यप् स्यात्। भृत्यः। संज्ञायां तु-भार्या। समश्च बहुलम् ।। सम्भृत्याः। सम्भार्याः।

-3-1-113- मृजेर्विभाषा ।
मृजेर्वा क्यप् स्यात्। मृज्यः, मार्ग्यो वा।

-3-1-114- राजसूयसूर्यमृषोद्यरुच्यकुष्यकृष्टच्याव्यथ्याः ।
क्यबन्ता इमे निपात्यन्ते। राजसूयःउक्रतुः। सुवति दीप्यते सूर्यः। मृषोद्यतेऽसौ मृषोद्यः। रोचतेऽसौ रुच्यः। गुपेरादिकत्वञ्च--कुप्यं वसु। गोप्यमन्यत्। कृष्टपच्याः शालयः। अव्यथ्या दुर्जनाः।

3-1-115- भिद्योद्ध्यौ नदे ।
एतौ नदविशेषे निपात्यते। भिनत्ति कूलानि भिद्यः। उज्झत्युदकमुद्ध्यः।

-3-1-116- पुष्यसिद्ध्यौ नक्षत्रे ।
एतौ नक्षत्रभेदे स्याताम्।

-3-1-117- विपूयविनीयजित्या मुञ्ञ्जकल्कहलिषु।
एष्वेते निपात्यन्ते। विपूयो मुञ्ञ्जः। विनीयः कल्कः। जित्यो बृहद्धलं स्यात्।

-3-1-118- प्रत्यपिभ्यां ग्रहेश्छनदसि ।
छान्दसम्।

-3-1-119- पदास्वैरिबाह्यापक्ष्येषु च ।
एष्वर्थेषु ग्रहेः क्यप् स्यात्। प्रगृह्यम् पदम्। गृह्यका अस्वैरिणः। ग्रामगृह्या सेना। ग्रामबाह्येत्यर्थः। ग्रणगृह्या वचने विपश्चितः। गुणपक्ष्या इत्यर्थः।

-3-1-120- विभाषा कृवृषोः ।
अनयोर्वा क्यप् स्यात्। कृत्यम् कार्यं वा। वृष्यम्, र्वष्यं वा। पक्षे ण्यत्।

-3-1-121- युग्यञ्च पत्रे ।
यूग्यं वाहने स्यात्। योग्यमन्यत्।

-3-1-122- अमावस्यदन्यतरस्याम् ।
अमापूर्वाद् वसेर्ण्यति वृद्धिर्वा निपात्यते। अमावास्या, अमावस्या वा।

-3-1-123-न्दसि निर्ष्टक्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रहृमवाद्यभाव्यस्ता-
व्योपचाय्यपृडानि ।
छान्दसम्।

-3-1-124- ऋहलोर्ण्यत् ।
ऋवर्णान्ताद्धलन्ताच्च ण्यत् स्यात्। कार्यम्। हार्यम्। आहार्यम्। पाक्यम्। वाद्यम्। पाद्यम्। वाह्यम्। वाक्यम्। पाठ्यम्। कवृ--काव्यम्। वास्यम्। कथं समस्यम्, अभ्यस्यम् ? तर्हि संज्ञापूर्वकत्वाद् वृद्ध्यभावः। संज्ञापूर्वको विधिरनित्यः इति। पाणौ सृजेः। ण्यत स्यात्। पाणिर्सग्या रज्जुः।। समवपूर्वाच्च। समवर्सग्यः। दभेश्च। पोरदुपधात् इत्यस्यापवादो ण्यत् स्यात्। अवदाभ्यम्। दभिः सौत्रो धातुः।

-3-1-125- ओरावश्यके ।
उवर्णान्तादावश्यके द्योत्ये ण्यत्। लाव्यम्। पाव्यम्। मयूरव्यंसकादित्वात् समासः--अवश्यलाव्यम्।

-3-1-126- आसुयुवपिरपिलपित्रपिचमश्च ।
एभ्यो ण्यत् स्यात्। आसाव्यम्। याव्यम्। वाप्यम्। राप्यम्। लाप्यम्। अवत्राप्यम्। आचाम्यम्।

-3-1-127- आनाय्योऽनित्ये।
आनाय्यो दक्षिणाग्नौ स्यात्।

-3-1-128- प्रणाय्योऽसम्मतौ ।
असम्मतिः--अनिष्टश्चौरादिः, तत्र प्रणाय्यः स्यात्।

-3-1-129- पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ।
पाय्यादयो माङ्-नीञ्ञ्-चिञ्ञ्-धाञ्ञां मानादौ निपात्यन्ते। पाय्यं मानम्। सान्नाय्यं हविः। निकाय्यो निवासः। द्याय्या सामिधेनी।

-3-1-130- क्रतौ कुण्डपाय्यसञ्ञ्चाय्यौ ।
एतौ क्रतौ निपात्येते।

-3-1-131-अग्नौ परिचाय्योपचाय्यसमूह्याः ।
एतेऽग्नौ निपात्यन्ते। वहेः सम्प्रसारणदीर्घौ च। समूह्यः।

-3-1-132- चित्याग्निचित्ये च ।
एते निपात्येते। चित्योऽग्निः। भावे--अग्निचित्या स्यात्। उक्ताः कृत्यप्रत्ययाः ।

-3-1-133- ण्वुल्-तृचौ ।
धातोः कर्त्तरि ण्वुल-तृचौ स्याताम्। दायकः, दाता। अधिष्ठायकः, अधिष्ठाता। वाचकः, वक्ता। पाचकः, पक्ता। कारकः, कर्त्ता।
-3-1-134- नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।।
नन्द्यादेर्ल्युः स्यात्। नन्दनः। मदनः। दमनः। शोभनः। तपनः। दर्पणः। पवनः। रमणः। जनार्दनः।विभीषणः। लवणः। निपातनाण्णत्वम्। ग्रहादेर्णिनिः--ग्राही। परिपन्थी। स्थायी। पचादेरच्--पचः। श्वपचः। वदः। कद्वदः। मेषः। देवः। श्वेतः। योधः। क्रोधः। सर्पः। स्पर्शः। नर्त्तः। नर्त्त। हलधरः। गदाधरः। पयोधरः। यशोधरः। शक्तिधरः। गङ्गाधरः। जातिस्मरः। लोलुवः। पोपुवः। चञ्ञ्चुरः। पचादिराकृतिगणः।

-3-1-135- इगुपधज्ञाप्रीकिरः कः ।
एभ्यः कः स्यात्। बुधः। कुषः। इर्शः। विपुलः। कृषः। मृडः। ज्ञः। प्रियः। उत्किरः।

-3-1-136- आतश्चोपसर्गे ।
आदन्तात् प्रादौ कः स्यात्। प्रस्थः। सुस्थः। प्रस्रः। सम्लः। सुग्लः।

-3-1-137- पाघ्राध्माधेट्दृशः शः ।
एभ्यः शः स्यात्। उत्पिबः। उज्ज्घ्रिः। आजिघ्रैः पुष्पगन्धानाम्। उद्धमः। उद्धयः। उत्पश्यः। अप्रादेश्च इति केचित्(1) पश्यः। जिघ्रः। (1.) उपसर्गे इति नानुवर्तते इति भावः। न संज्ञायाम् ।। व्याघ्रः। अथ वा निपातनात्।

-3-1-138- अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ।
एभ्योऽप्रादौ शः स्यात्। लिम्पः। विन्दः। माल्यधारयः। सातिः सौत्रः--सातयः। साहयः। गवादिषु विन्देः संज्ञायाम् ।। गोविन्दः। अरविन्दम्। नौ लिम्पेः ।। निलिम्पा देवाः।

-3-1-139- ददातिदधात्योर्विभाषा ।
अप्रादौ दाधाभ्यां शो वा स्यात्। ददः, दायः। दधः, धायः।

-3-1-140- ज्वलितिकसन्तेभ्यो णः ।
धातोर्ज्वलादेः कसन्ताद्वा णः स्यात्। ज्वालः, ज्वलः। चालः, चलः। रामः रमः। अनुपसर्गादित्येव--प्रज्वलः। नित्यं पचाद्यच्। तनोतेश्च । अवतानः अवतनः।

-3-1-141- श्याद्व्यधास्रुसंस्र्वतीणवसावहृलिश्लिषश्वसश्च ।
एभ्यो णः स्यात्। श्यैङ्--अवश्यायः, प्रतिश्यायः। आत्--दायः। धायः। व्यधादेः--व्याधः। आस्रावः। संस्रावः। अत्यायः। अवसायोऽन्तकृत्। अवहारः। लेहः। दह्येऽहं मधुनो लेहैः। श्लेषः। श्वसितीति श्वासः।श्याग्रहणं सोपसर्गात् क-बाधनार्थम्।

-3-1-142- दुन्योरनुपसर्गे ।
दु-नीञ्ञोर्णः स्यात्। दावः। नायः। उत्तरविभाषयास्यापि शेषत्वादचि--दवः, नय इत्याहुः।अप्रादौ किम् ? प्रणयः।

-3-1-143- विभाषा ग्रहः ।
ग्रहो वा णः स्यात्। ग्राहः ग्रहो वा। भवतेश्चेति वक्तव्यम् । भवतीति भावः भवो वा।
 
-3-1-144- गेहे कः ।
गेहे कर्त्तरि ग्रहेः कः स्यात्। गृहम्। गृहाः।

-3-1-145- शिल्पिनि ष्वुन् ।
नृतिखनिरञ्ञ्जिभ्य एव ।। शिल्पिनि कर्त्तरि ष्वुन् स्यात्। नर्त्तकी। खनकी। रजकी।

-3-1-146- गस्थकन् ।
गायतेस्थकन् स्यात्। गाथकः।

-3-1-147- ण्युट् च ।
गायतेर्ण्युट् स्यात्। गायनः। चकारात्--कारणम्।

-3-1-148- हश्च व्रीहिकालयोः ।
हाधातोर्ण्युट् स्यात्। हायनो व्रीहिः। हायनो वत्सरः।

-3-1-149- प्रसृल्वः समभिहारे वुन् ।
प्रुसृलूभ्यः समभिहारे वुन् स्यात्। प्रवकः। सरकः। लवकः।

-3-1-150- आशिपि च ।
आशीर्गतौ धातोर्वृन् स्यात्। नन्दतात् नन्दकः। जीवताज्जीवकः। भूयाद् भवकः।
 
इति महामहोपाध्यायश्रीपुरुषोत्तमदेवस्य भाषावृत्तौ
तृतीयाध्यायस्य प्रथमः पादः