भाषावृत्तिः/तृतीयोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव
चतुर्थः पादः →


तृतीयाध्याये तृतीयः पादः

-3-3-1- उणादयो बहुलम् ।।
वर्त्तमाने संज्ञायामुणादयः प्रत्यया बहुलं साधवः स्युः। उण्--कारुः, वायुः। एनुः--करेणुः। आलञ्ञ्--पातालम्। अलच्-मङ्गलम्।
-3-3-2- भूतेऽपि दृश्यन्ते ।।
भूतार्थेऽप्युणादयः साधवः स्युः। वृत्तं र्वत्म। भसितं भस्म।

                    ।।उक्तो वर्त्तमानः ।।
भविष्यतिकत्प्रत्ययप्रकरणम्
-3-3-3- भविष्यति गम्यादयः ।।
गम्यादयः षड् भविष्यदर्थे साधवः स्युः। ग्रामं गमी। अगामी। ग्रामगामी। प्रतियोगी। प्रस्थायी। प्रतिबोधी। भावी।
भविष्यदधिकारः प्राग् घञ्ञः (3.3.16)।
-3-3-4- यावत्पुरानिपातयोर्लट् ।।
यावत्पुरानिपातयोर्योगे भविष्यति लट् स्यात्। यावद् भुङ्क्ते। न गच्छामि पुरा लङ्काम्।
निपातयोः किम् ? यावद् भोक्ष्यसे तावद् दास्यति।
-3-3-5- विभाषा कदाकर्ह्मोः ।।
भविष्यदर्थे कदा-कर्हियोगे लड् वा स्यात्। कदा भवति मे प्रीतिः? तर्हि भवति मे धनम् ?
पक्षे लुङ्-लृटौ।
-3-3-6- किंवृत्ते लिप्सायाम्।
किंवृत्तयोगे लिप्सायां लङ् वा स्यात्। कस्ते भिक्षां ददाति ? कस्त्वां भोजयति ? कस्त्वां भोजयति ?
वृत्तग्रहणं डतरडतमार्थम्--कतरो भिक्षां ददाति ? कतमो भोजयति ? पक्षे लुङ्-लृटौ ।
-3-3-7- लिप्स्यमानसिद्धौ च ।।
अभीष्टादर्थस्य सिद्धौ गम्यमानायां लङ् वा स्यात्। यो दध्योदनं ददाति स स्वर्गं गच्छति। पक्षे लुङ्-लृटौ।
-3-3-8-लोडर्थलक्षणे च ।।
    प्रैषादिलक्षणार्थाद् धातोलड् वा स्यात् । उपाध्यायश्चेदागच्छति,आगमिष्यति,आगन्ता वा, अथ त्वं छन्दोऽधीष्व ।
-3-3-9- लिङ् चोर्ध्वमौहूर्त्तिके ।।
ऊर्ध्वमौहूर्त्तिके भविष्यति लोडर्थलक्षणार्थाद् धातोर्लिङ् लट् च स्याद्वा। मुहूर्त्तस्योपरि गुरुश्चेदागच्छति, आच्छेद्, आगमिष्यति,
-3-3-10- तुमुण्ण्वुलौ क्रियायां क्रियार्थायाम्।।
धातोस्तुमुण्ण्वुलौ स्यातां क्रियार्था चेत् क्रियोपपदं स्यात्। ओदनंभोक्तुं व्रजति। ओदनं भोजको व्रजति। भोजनार्था व्रजतिक्रियात्रोपपदम्।
-3-3-11- भाववचनाश्च ।।
भावार्थाश्च घञ्ञादयस्तुमुन्विषये स्युः। लाभाय स्थितः। भूतये धावति।
-3-3-12- अण् कर्मणि च ।।
तुमुन्नर्थे कमोर्पपदादण् स्यात्। शत्रुलावो व्रजति। गोदायो व्रजति।
-3-3-13- लृट् शेषे च ।।
तुमुनर्थे लृट् स्यात्। नटं द्रक्ष्यामीति व्रजति।
शेषे भविष्यन्मात्रे च--करिष्यति। पठिष्यति।
-3-3-14- लृटः सद्धा।
लृटः स्थाने शतृशानचौ वा स्याताम्। करिष्यति, करिष्यते। करिष्यन्, करिष्यमाणः।
-3-3-15- अनद्यतने लुट् ।।
भविष्यदनद्यतेन लुट् स्यात्। श्वः कर्त्ता। परश्वो भोक्ता। ःथ्द्य;ह तु ःथ्द्य;यं नु कदा गन्ता यैवं पादौ निदधाति ःथ्द्य;त्यद्यतनेऽपि कालविप्रकर्षादुपमानेनानद्यतनत्वमारोप्य लुडिति भाष्यस्थितिः।।
उक्तं भविष्यति ।।
-3-3-16- पदरुजविशस्पृशो घञ्ञ् ।।
एभ्यो घञ्ञ् स्यात्। पद्यते गच्छतीति पादः। रोगः। वेशः।
।स्पृशेरुपतापेऽभिधानम् ।। स्पर्शः। अन्यत्र तु पचाद्यचि---कम्बलस्पर्शः। स्वरे भेदः।
-3-3-17- सृ स्थिरे ।।
कर्त्तेः स्थिरे कर्त्तरि घञ्ञ् स्यात्। सारःउमज्जा। चन्दनसारः। कार्यसारः।
।व्याधिमत्स्यबलेष्विति वक्तव्यम् ।। अतीसारो व्याधिभेदः। विसारो मत्स्यः। सारो बलम्।
-3-3-18- भावे ।।
भावे घञ्ञ् स्यात्। पाकः। रोगः।
-3-3-19- अकर्त्तरि च कारके संज्ञायाम् ।।
कर्मादावकर्त्तरि कारके घञ्ञ् स्यात् संज्ञायाम्। प्रास्यत इति प्रासः।प्रसेवः। आहरन्त्यस्मादित्याहारः।
संज्ञाग्रहणं प्रायिकम्, तेनेहापि स्यात्--दायः, दत्तः। लाभः, लब्धः।
अकर्त्तरि किम् ? मिषतीति मेषः, पचाद्यच्, स्वरे भेदः।
इह दारजारौ कर्त्तरीति न वक्तव्यम्। दीर्यन्ते तैर्दाराः। जीर्यते तेन जार इति करणे सिद्धिरिति स्मृतिः।
अतः परं भावेऽकर्त्तरि च कारके विधानम्। तत्र तावद् एरच् ऋदोरपो-र्बाधकं घञ्ञमाह। तद् यथा--
-3-3-20- परिमाणाख्यायां सर्वेभ्यः ।।
धातुमात्राद् घञ्ञ् स्यात् परिमाणाख्या चेत्। एकस्तण्डुलनिश्चायः। द्वौ शूर्पनिष्पावौ।
कथं तिङोऽष्टादश प्रत्ययाः, पञ्ञ्चोपद्रवाः, नैकोऽपि तव निश्चयः इति ? पदसंस्कारपक्षे भवष्यिति।
-3-3-21- इङश्च
इङो घञ्ञ् स्यात्। अध्यायः। उपाध्यायः।
। स्त्रियां वा ङीष्वचनम् । उपाध्यायी, उपाध्याया वा।
। शृणातेर्वायुवर्णनिवृतेषु घञ्ञ् वक्तव्यः ।। शारो वातः। शारः शबलः। नीशारः प्रावरणम्।
-3-3-22- उपसर्गे रुवः ।।
प्रादौ रौतेर्घञ्ञ् स्यात्। उपरावः। संरावः। विरावः।
-3-3-23- समि युद्रुदुवः ।।
एभ्यः समि घञ्ञ् स्यात्। संयावः। सन्द्रावः। सन्दावः।
समोऽन्यत्र--यवः। प्रयवः। उपयवः। निद्रवः।
-3-3-24- श्रिणीभुवोऽनुपसर्गे ।।
एभ्योऽप्रादौ घञ्ञ् स्यात्। श्रायः। नयनं नायः। भावः।
कथं प्रभावः ? पश्चात् समासेन।
-3-3-25- वौ क्षुश्रुवः ।।
क्षुश्रुभ्यां वौ घञ्ञ् स्यात्। विक्षावः। विश्रावः।
-3-3-26- अवोदोर्नियः ।।
अवे उदि च नियो घञ्ञ् स्यात्। अवनायः। उन्नायः।
कथमवनयोन्नयौ ? बाहुल्यात्। राव-प्रभाव-गर्भस्राववत्।
-3-3-27- प्रे द्रुस्तुस्रुवः ।।
एभ्यः प्रे घञ्ञ् स्यात्। प्रद्रावः। प्रस्तावः। प्रस्रावः।
-3-3-28- निरभ्योः पूल्वोः ।।
निष्वभिलूभ्यां घञ्ञ् स्यात्। निष्पावः। अभिलावः।
-3-3-29- उन्नयोर्ग्रः ।।
उन्नयोर्गृणातेर्घञ्ञ् स्यात्। उद्गारः। निगारः।
-3-3-30- कॄ धान्ये ।।
धान्यविषये उन्न्योः किरतेर्घञ्ञ् स्यात्। उत्कारो धान्यानाम्। निकारः।
धान्ये किम् ? पुष्पनिकरः।
-3-3-31- यज्ञे समि स्तुवः ।।
यज्ञविषये संस्तौतेर्घञ्ञ् स्यात्। संस्तावश्छन्दोगानाम्।
यज्ञविषये किम् ? गुणाः प्रियत्वेऽधिकृता न संस्तवः।
-3-3-32- प्रे स्त्रोऽयज्ञे ।।
यज्ञादन्यत्र प्रस्तृणातेर्घञ्ञ् स्यात्। पुष्पप्रस्तारः।
अयज्ञे किम् ? वर्हिष्प्रस्तरः। व्रीहिप्रस्तरः।
-3-3-33- प्रथने वावशब्दे ।।
वौ स्तृणातेः प्रथने घञ्ञ् स्यात्। प्रथनं विस्तीर्णता। वारिविस्तारः।
अशब्दे किम् ? वाग्विस्तरः।
-3-3-34- छन्दोनाम्नि च ।।
वृत्तनाम्रिविस्तृणातेघञ्ञ् स्यात्। विष्टारपङि्क्तर्नाम च्छन्दः। छन्दोनाम्रि च इति षत्वम्।
-3-3-35- उदि ग्रहः ।।
उदि ग्रहेर्घञ्ञ् स्यात्। उद्गाहः।
-3-3-36- समि मुष्टौ ।।
मुष्टौ संग्रहेर्घञ्ञ् स्यात्। अहो मल्लस्य संग्राहः। मुष्टेर्दाढर्‌यमित्यर्थः।
अन्यत्र--संग्रहः।
-3-3-37- परिन्योर्नीणोर्द्यूताभ्रेषयोः ।।
द्यूते परिनीञ्ञोऽभ्रेषे(1) नीणो घञ्ञ् स्यात्। परिणायस्तु शाराणाम्। न्यायः स्थित्यनतिक्रमः। (1.) अम्रेषः अचलनमित्यर्थः।
-3-3-38- परावनुपात्यय(2) इणः ।।
(2.) अनुपात्ययःउक्रमप्राप्तस्यानितिपातः।
परिपूर्वादिणः परिपाट्यां घञ्ञ् स्यात्। तव पर्यायः। मम पर्यायः।
अनुपात्यये किम् ? कालविपर्ययः।
-3-3-39- व्युपयोः शेतेः पर्याये ।।
व्युपयोः शेतेर्घञ्ञ् स्यात्। तवाद्य विशायः। ममोपशायः। पर्यायशयनमित्यर्थः।
-3-3-40- हस्तादाने चेरस्तेये ।।
सामीप्यगतौ चिञ्ञो घञ्ञ् स्यात्। पुष्पप्रचायः। फलोच्चायः। फलोपचायः।
हस्तादाने ? लगुडेन पुष्पप्रचयः। अस्तेये किम् ? वृक्षाग्रे चौर्येण पुष्पोच्चयः। पुष्पप्रचयः।
-3-3-41- निवासचितिशरीरोपसमाधानेष्वादेश्च कः ।।
एष्वर्थेषु चिञ्ञो घञ्ञ् स्यात्, आदेश्च कः। निकायो गृहम्। निकायोऽग्निः। निचित इत्यर्थः। कायो देहः। उपसमाधानम्उराशीकरणम्। गोमयनिकायः। काष्ठनिकायः।
-3-3-42- संघे चानौत्तराधर्ये ।।
प्राणिनां समुदायःउसङ्घः। सङ्घे चिञ्ञो घञ्ञ् स्यात्, आदेश्च कः। भिक्षुनिकायः। मृग्याः शत्रुनिकायानाम्।
अनौत्तराधर्ये किम् ? शूकरनिचयः।
-3-3-43- कर्मव्यतिहारे णच् स्त्रियाम् ।।
परस्परकरणे धातोः स्त्रियां भावे णच् स्यात्। व्याक्रोशीं विदधते। व्यावहासीमनाश्रितैः। णचः स्त्रियामञ्ञ्।
बाहुल्यात् क्वचिद् वाधकविषयेऽपि--व्यावचोरी। व्यात्युक्षीमभिसरणग्लहामदीव्यन्।
-3-3-44- अभिविधौ भाव इनुण् ।।
भावेऽभिव्याप्तौ धातोरिनुण् स्यात्। सांराविणम्। साङ्कूटिनम्। अणिनुणः इति स्वार्थेऽण्।
-3-3-45- आक्रोशेऽवन्योर्ग्रहः ।।
अवे नौ च ग्रहेर्घञ्ञ् स्यादाक्रोशश्चेत्। अवग्राहः। निग्राहस्ते वृषल भूयात्।
-3-3-46- प्रे लिप्सायाम् ।।
लिप्सायां प्रग्रहेर्घञ्ञ्स्यात्। पात्राप्रग्राहेण चरति भिक्षुः पिण्डार्थी।
-3-3-47- परौ यज्ञे ।।
यज्ञे परिग्रहेर्घञ्ञ् स्यात्। उत्तरपरिग्रहाः। यज्ञविशेषः।
-3-3-48- नौ वृ धान्ये ।।
नौ वृधातोर्घञ्ञ् स्यात्। नीवारा व्रीहयः।
-3-3-49- उदि श्रयतियौतिपूद्रुवः ।।
एभ्य उदि घञ्ञ् स्यात्। उच्छ्रायः। उद्यावः। उत्पावः। उद्द्रावः।
-3-3-50- विभाषाऽऽङि रुप्लुवोः ।।
रुप्लुभ्यामाङि घञ्ञ् स्याद्वा। आरावः, आरवो वा। दूराप्लावं हनूमन्तं रामः प्रोचे गजाप्लवः।
-3-3-51- अवे ग्रहो वर्षप्रतिबन्धे ।।
वृष्टिनिरोधेऽवग्रहो घञ्ञ स्याद्वा। अवग्राहः, अवग्रहो वा मेघस्य।
-3-3-52- प्रे वणिजाम् ।।
वणिजां तुलासूत्रे वाच्ये प्रग्रहेर्घञ्ञ स्याद्वा। प्रग्राहः, प्रग्रहो वा।
-3-3-53- रश्मौ च ।।
रश्मिःउअश्वादिविधारणरज्जुः, तत्र प्रग्रहेर्घञ्ञ् स्याद्वा। प्रग्राहः, प्रग्रहो वा।
-3-3-54- वृणोतेराच्छादने।।
आच्छादनेऽस्माद् घञ्ञ् स्याद्वा। प्रावारो वस्त्रम्। विन्ध्यस्य प्रवरो धनः।
-3-3-55- परौ भुवोऽवज्ञाने ।।
परिभुवस्तिरस्कारे घञ्ञ् स्याद्वा। परिभावः।
पक्षे ऽप्--परिभवः।

                      ।।उक्तो घञ्ञ् ।।
-3-3-56- एरच् ।।
एवर्णान्ताद् घञ्ञपवादोऽच् स्यात्। चयः। शिलोच्चयः। जयः। व्ययः। प्रणयः। प्रशयः।
। अज्विघौ भयादीनामुपसंख्यानम् ।। क्लीबे क्तादिबाधनार्थम्।
भयम्। वर्षम्।
वासरूपेण क्तादयोऽपि भवन्ति--भीतं शिशुना, वृष्टं देवेन, वर्षणं मेघस्य इति भागवृत्तिः।
                      ।।अप्प्रत्ययप्रकरणम्।।
-3-3-57- ॠदोरप् ।।
ॠकारान्तोवर्णाभ्यामप् स्यात्। कृ-करः। तृ-तरः। भृ-भरः। गृ-गरः। शृ-शरः। प्रतरः। प्रदरः। सङ्गरः। सुञ्ञ्-सवः। स्तवः। भवः। सम्भवः। लवः। पवः।
ॠदिति दकारोऽयमुच्चारणार्थः, नैष तकारः इति भाष्यम्।
-3-3-58- ग्रहवृदृनिश्चिगमश्च ।।
। वशिरण्योश्च ।। एभ्योऽप् स्यात्। ग्रहः। वरः। दरः। निश्चिग्रहणं स्वरविशेषार्थम्। निश्चयः। गमः। वशः। रणः। बहुलाधिकारात्-स्वयंग्राहः।
। स्थास्नापाव्यधिहनियुधिभ्यो घञ्ञर्थे कः ।। प्रस्थः। प्रस्नः। प्रपिबन्त्यस्यां प्रपाद्य आविधः। विध्नः। आयुधम्।
-3-3-59- उपसर्गेऽदः ।।
अत्तेः प्रादावप् स्यात्। विघसः। प्रघसः। संघसः।
उपसर्गे किम् ? घासः।
-3-3-60-नौ ण च ।।
नावत्तेरप् स्यात्, णश्च। निघसः। न्यादः।
-3-3-61- व्यधजपोरनुपसर्गे ।।
आभ्यामप्रादावप् स्यात्। व्यधः। जपः।
प्रादौ तु--आव्याधः। उपजापः।
-3-3-62- स्वनहसोर्वा ।।
आभ्यामप्रादावव् वा स्यात्। स्वनः, स्वानः। हसः, हासः।
-3-3-63- यमः समुपनिविषु च ।।
अप्रादावेषु च यमोऽब् वा स्यात्। यमः, यामः। संयमः, संयामः। उपयमः, उपयामः। नियमः, नियामः। वियमः, वियामः।
-3-3-64- नौ गदनदपठस्वनः ।।
एभ्यो नौ व स्यादप्। निगदः, निगादः। निनदः, निनादः। निपठः, निपाठः। निस्वनः, निस्वानः।
-3-3-65- क्वणो वीणायाञ्ञ्च ।।
क्वणोऽप्रादावब् वा स्यात्। क्वणः, क्वाणः।
नौ च--निक्वणः, निक्वाणः।
वीणाविषये च--प्रक्वाणः, प्रक्वणो वा वीणायाः।
-3-3-66- नित्यं पणः परिमाणे ।।
अत्र पणो नित्यमप् स्यात्। शाकपणः। परिमितो मुष्टिः। नराः क्षीणपणा इव।
-3-3-67- मदोऽनुपसर्गे ।।
अप्रादौ मदोऽप् स्यात्। विद्यामदः। धनमदः।
बाहुल्यात्-मादः।
-3-3-68- प्रमदसम्मदौ हर्षे ।।
एतावत्र निपात्येते। प्रमदः। सम्मदः।
-3-3-69-समुदोरजः पशुषु ।।
समुत्पूर्वादजोऽप् स्यात्। हस्तिनां समजः सङ्घः। अश्वानामुदजः उद्गमनम्।
पशुषु किम् ? विप्रसमाजः।
-3-3-70- अक्षेषु ग्लहः ।।
अक्षेषु ग्लहो निपात्यते।
अन्यत्र--ग्रहः।
-3-3-71- प्रजने सर्त्तेः ।।
प्रजनेउप्रथमगर्भाधाने सर्त्तेरप् स्यात्। उपसरः।
-3-3-72- ह्वः सम्प्रसारणञ्ञ्च न्यभ्युपविषु ।।
एषु ह्वयतेरप् स्यात्, सम्प्रसारणञ्ञ्च। निहवः। अभिहवः। उप हवः। विहवः।
-3-3-73- आङि युद्धे ।।
आङि ह्वयतेरप् स्यात्, सम्प्रसारणञ्ञ्च। आहवो युद्धम्।
-3-3-74- निपानमाहावः ।।
आहावो निपात्यते निपानं चेत्।
-3-3-75- भावेऽनुपसर्गस्य ।।
अप्रादौ भावे ह्वयतेरप् स्यात्। कुर्वन्तो हवमाप्तानाम्।
-3-3-76- हनश्च वधः ।।
भावे हनोऽप् स्याद् वधादेशश्च। वधः।
चकाराद् घञ्ञपीष्यते--घातः।
-3-3-77- मूर्त्तौ घनः ।।
हन्तेः काठिन्येऽप् स्यात्, धनादेशश्च। लौहघनः। अम्रघनः।
कथं घनं दधीति ? अभेदोपचारात्।
-3-3-78- अन्तर्घणो देशे ।।
अयमभ्यन्तरदेशे स्यात्, णत्वं चेष्यते। तस्मिन्नन्तर्घणे पश्यन् इति भटि्टः।
-3-3-79- अगारैकदेशे प्रघणः प्रघाणश्च ।।
एतौ गृहैकदेशे स्याताम्।
-3-3-80- उद्घनोऽत्याधानम् ।।
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्घनः।
-3-3-81- अपघनोऽङ्गम् ।।
अयमङ्गे स्यात्। व्रणिभिरपघनैर्घर्घराव्यक्तघोषान्।
-3-3-82- करणेऽयोविद्रुषु ।।
एषु हनः करणेऽप् स्यात्, घनादेशश्च। अयोघनः। विघनः। दुघनः। कुठारः।
णत्वे द्रुघण इति केचित्।
। स्त्रियां खलनौ विप्रतिषेधेन ।। अयोहननी। द्रुहननी। विहननी।
-3-3-83- स्तम्बे क च ।।
स्तम्बे हनः कः स्यात्। सा स्तम्बध्नपदन्यासान्।
चकारादप च--स्तम्बघनः।
-3-3-84- परौ घः ।।
करणे परौ हन्तेरप् स्यात्, घादेशश्च। परिघः।
-3-3-85- उपघ्न आश्रये ।।
अयमत्र निपात्यते
-3-3-86- सङ्घोद्घौ गणप्रशंसयोः ।।
गणे सङ्घः, प्रशंसायामुद्घः स्यात्।
-3-3-87- निघो निमितम् ।।
परिमितं निघः स्यात्। निघा वृक्षाः।

                     ।।उक्तोऽप् ।।
-3-3-88- डि्वतः क्त्रिः ।।
धातोर्डुकारानुबन्धात् क्त्रिः स्यात्। क्त्त्रेर्मम् नित्यम्।
कृत्रिमम्। क्रीत्रिमम्। लब्ध्रिमम्। भृत्रिमम्। पक्त्रिमम्।
-3-3-89- टि्वतोऽथुच् ।।
टुकारानुबन्धादथुच् स्यात्। नन्दथुः। वमथुः। भ्राजथुः। वेपथुः।
-3-3-90- यजयाचयतविच्छप्रच्छरक्षो नङ् ।।
एभ्यो भावेऽकर्त्तरि च कारके नङ् स्यात्। यज्ञः। याच्ञ्ञा। यत्नः। विश्नः। प्रश्नः--प्रश्ने चासन्नकाले इति ज्ञापकात् सम्प्रसारणाभावः। रक्ष्णः।
-3-3-91- स्वपो नन् ।।
अस्मान्नन् स्यात्। स्वप्नः।
-3-3-92- उपसर्गे घोः किः ।।
प्रादौ दाधाभ्यां किः स्यात्। आदिः। आधिः। निधिः। प्रधिः।
अन्तर्द्धिः। प्रणिधि।
बाहुल्यात् कर्त्तरि विधिः।
-3-3-93- कर्मण्यधिकरणे च ।।
आधारे कर्मोपपदाद् घोः किः स्यात्। जलधिः। वारिधिः। ओषधिः। बालधिः।
-3-3-94- स्त्रियां क्तिन् ।।
स्त्रियां भावेऽकर्त्तरि च कारके धातोः क्तिन् स्यात्। श्रितिः। चितिः। सिद्धिः। नीतिः। श्रूयतेऽनया श्रुतिः। भूतिः। सूतिः। कृतिः। ऋद्धिः। सृष्टिः।
। ॠकारल्वादिभ्यः क्तिन् निष्ठावत् ।। कीर्णिः। गीर्णिः। लूनिः। घूनिः।
। क्तिन्नाबादिभ्यः ।। आबादेः गुरोश्च हलः इत्यपवादः क्तिन स्यात्। आप्तिः। दीप्तिः। राद्धिः। साद्धिः। प्रशस्तिः।
बाहुल्याच्छास इत्वं नास्ति--शास्तिः।
। ग्लाम्लाज्याहाभ्यो निः ।। एभ्यो निः स्यात्। ग्लानिः। म्लानिः
ज्यानिः। हानिः।
। सम्पदादिभ्यः क्विप् ।। सम्पत्। प्रतिपत्। विपत्। संवित्।
वेत्येव। क्तिन्नपीष्यते--सम्पत्तिः। प्रतिपत्तिः। विपत्तिः।
-3-3-95- स्थागापापचो भावे ।।
एभ्योऽङपवादः क्तिन् स्यात्। प्रस्थितिः। सङ्गीतिः। प्रगीतिः। आपीतिः। पक्तिः।
कथमास्था, व्यवस्थेति ? अभिधानप्रामाण्यात्(1)। (1.) पूर्वापर (1.1.34) इति सूत्रे व्यवस्थायाम्
इति निर्देशादपि सिद्धिः।
-3-3-96- मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ।।
छान्दसम्।
-3-3-97- ऊतियूतिजूतिसातिहेतिकीर्त्तयश्च ।।
वेञ्ञादेः षडमी निपात्यन्ते।
-3-3-98- व्रजयजोर्भावे क्यप् ।।
आभ्यां भावे क्यप् स्यात्। व्रज्या। प्रव्रज्या। इज्या।
बाहुल्याद् इष्टिः।
-3-3-99- संज्ञायां समजनिषदनिपतमनविदषुञ्ञ्शीङभृञ्ञिणः ।।
एभ्यो नवभ्यः संज्ञायां क्यप् स्यात्। भावाधार-करणेष्वभिधानम्। समज्या। निषद्या। निपत्या। मन्या। विद्या। सुत्या। शय्या। भृत्या। इत्या।
बाहुल्यात्--समस्येत्येके।
कथं भृतिः, मतिः, आसूतिरिति ? निपातनादिति न्यासकृत्।
-3-3-100- कृञ्ञः श च ।।
कृञ्ञः शः स्यात् क्यप् च। क्रिया। कृत्या। योगविभागात्--कृतिः।
-3-3-101- इच्छा ।।
भावे निपात्यते। कर्मणि क्तिनि इष्टिः।
। परिचर्यापरिसर्यामृगयाटाट्याजागर्याजागराणाम् ।। शप्रत्यये एषां षण्णां निपातनं कर्त्तव्यम्।
-3-3-102- अ प्रत्ययात् ।।
प्रत्ययान्ताद् धातोरः स्यात्। ततष्टाप्। चिकीर्षा। तिष्ठासा।पुत्रीया। पुत्रकाम्या। लोलूया। चङ्क्रमा। सेसिचा। कण्डूया।
-3-3-103- गुरोश्च हलः ।।
गुरुमतो हलन्ताद् अः स्यात्। शिक्षा। भिक्षा। इर्क्षा। प्रतीक्षा। व्यतीहा। ऊहा।
बाहुल्याद्--रूढिः। चकारात्--शोभा।
-3-3-104- षिदि्भदादिभ्योऽङ् ।।
षितो भिदादेश्चाङ् स्यात्। पचा। त्रपा। ऋदृशोरङि गुणः जरा। घटा। व्यथा। जटा।
बाहुल्याद्--उपलब्धिः।
भिदादेस्त्वभिधानं स्मरन्ति। भिदा विदारणे। भित्तिरन्या। अर्त्तेरङि कृते गुणे निपातनाद्दीर्घः--आरा शस्त्र्याम्। ऋतिरन्या। एवं कारा बन्धनालये। तारा नक्षत्रे। धारा प्रपतने। धृतिरन्या।
बाहुल्याद्--असिधारा।
लिखेर्गुणे पक्षे रत्वञ्ञ्च--लेखा। रेखा।
क्रपेः सम्प्रसारणञ्ञ्च। कृपा। गुहा। पृच्छा। मृजा। रुजा। विदा। भिदादिराकृतिगणः।
-3-3-105- चिन्तिपूजिकथिकुम्बिचर्चश्च ।।
ण्यन्तेभ्य एभ्योऽङ् स्यात्। युचोऽपवादः। चिन्ता। पूजा। कथा। कुम्बा। चर्चा।
-3-3-106- आतश्चोपसर्गे ।।
आदन्तात् प्रादावङ् स्यात्। प्रमा। प्रतिमा। प्रधा। उपधा। प्रभा। प्रतिभा।
। श्रदन्तरोरुपसर्गवद् वृत्तिः ।। श्रद्धा, अन्तर्धा।
बाहुलकात् क्तिन्--प्रमितिः।
-3-3-107- ण्यासश्रन्थो युच् ।।
ण्यन्तादासेः श्रन्थेश्च युच् स्यात्। भावाना। दापना। दीपना। कारणा। भूषणा। कामना। चोदना।
उपासना। श्रन्थना।
बाहुल्यात्--पाचयतेः पाक्तिः।
।घटि्टवन्दिविदिभ्यश्च ।। एभ्यो युच् स्यात्। घट्टना। वन्दना। वेदना।
। इषेरनिच्छार्थस्य ।। अन्वेषणा।
। परेर्वा ।। पर्येषणा। परीष्टिः।
-3-3-108- रोगाख्यायां ण्वुल् बहुलम् ।।
रोगे गम्ये बहुलं ण्वुल् स्यात्। प्रच्छर्दिका। प्रवाहिका। विचर्चिका। प्रस्कन्दिका।
न च भवति--शिरोऽर्त्तिः, अर्देः क्तिन्।
। धात्वर्थनिर्देशे ण्वुल् वक्तव्यः ।। आसिका। आशिका। शायिका।
। इक्श्तिपौ धातुनिर्देशे ।। पचिः। याचिः। करोतिः। यजेः, वपेः इत्युच्चारणार्थ इकारः।
। वर्णात् कारः ।। अकारः। आकारः। औकारः। ककारः। ओङ्कारः। हुङ्कारः। एवकारः। फट्कारः। शीत्कारः। फुत्कारः। थुत्कारः।
एवकारादौ घञ्ञन्तेन समास इत्यन्ये।
। रादिफः ।। रेफः।
। मत्वर्थाच्छः ।। मत्वर्थीयः। बाहुल्यादभस्यापि यस्येति च इति लोपः।
। इञ्ञजादिभ्यः ।। आजिः। आतिः। आटिः।
। इक् कृष्यादिभ्यः ।। कृषिः। गिरिः।
सर्वोऽयं बहुलप्रपञ्ञ्चः।
-3-3-109- संज्ञायाम् ।।
नाम्रि धातोर्ण्वुल् स्यात्। पुष्पभञ्ञ्जिका, शालभञ्ञ्जिका नाम क्रीडा।
-3-3-110- विभाषाख्यानपरिप्रश्नयोरिञ्ञ् च ।।
प्रश्नाख्यानयोरिञ्ञ्-ण्वुलौ वा स्याताम्। कां त्वं कारिमकार्षीः, कारिकाम्, क्रियाम्, कृत्याम्, कृत्याम्, कृतिं वा। सर्वां कारिमकार्षम्, कारिकाम्, क्रियाम्, कृत्याम्, कृतिं वा। एवं स्थायिम्, स्थितिम्, स्थायिकां वा।
-3-3-111- पर्यायार्हणोत्पत्तिषु ण्वुच् ।।
धातोरेष्वर्थेषु ण्वुच् स्यात्। भवतः शायिका। अहं पर्यायसम्प्राप्तां कुर्वे प्रायोपवेशिकाम्। अर्हसि त्वमिक्षुभक्षिकाम्। धारयसि मे तिलमोदकखादिकाम्। उत्पन्ना मे पयःपायिका।
-3-3-112- आक्रोशे नञ्ञ्यनिः ।।
शापे नञ्ञ्युपपदादनिः स्यात्। तस्याजननिरेवास्तु जननीक्लेशकारिणः। अभवनिरस्तु तदा मनोभवस्य।
भावे, अकर्त्तरि च कारके, स्त्रियाञ्ञ्च--इति निवृत्तम्।
-3-3-113- कृत्यल्युटो बहुलम् ।।
धातोर्ल्युट्, कृत्याश्च बहुलं कर्त्रादौ स्युः। कर्त्तरि--लोचनलोभनीया शस्यपङि्क्तः। करणे--स्रानीयं चूर्णम्। सम्प्रदाने--दानीयो भिक्षुः। आधारे--शयनीयं कटित्रम्। रमणीया वापी। रम्यमुद्यानम्। तिष्ठन्त्यस्मिन् स्थेयः।
ल्युट् कर्त्तरि--गुणमुक्तवान् गुणवचनः। कर्मणि--अवसेचनो वृक्षः। राजभोजनाः शालयः। अपादाने--प्रपतनमित्यादि।
-3-3-114- नपुंसके भावे क्तः ।।
क्लीबे भावे क्तः स्यात्। हसितं भिक्षोः। गतं विप्रस्य।
-3-3-115- ल्युट् च ।।
क्लीबे भावे ल्युट् स्यात्। करणम्। गमनम्। हरणम्।
-3-3-116- कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् ।।
इर्दृक्कर्मोपपादाल्लयुट् स्यान्नपुंसके भावे।पयःपानं भुजङ्गानां सुखम्। गुडभोजनं भिक्षोः सुखम्। नित्यमुपपदसमासः।
विशेषणं किम् ? कण्टकानां मर्दनं कण्टकमर्दनं दुःखम्।
-3-3-117- करणाधिकरणयोश्च ।।
अनयोर्ल्युट् स्यात्। देहव्रश्चनः खड्गः। उपमानं मुखस्येन्दुः। आधारे--राजधानी। वरार्धानी। गोदोहनी स्थाली। ओदनपचनः कटाहः। व्रीहिभरणः कुसूलः।
करणाधिकरणयोर्विधानमा खलः (3.3.126)।
-3-3-118- पुंसि संज्ञायां घः प्रायेण ।।
पुंसि नाम्रि प्रायेण घः स्यात्। करणे--दन्तच्छदः। कुर्वन्त्यनेन करः। शरः। आधारे--आकरः। आलयः। परिसरावसरौ--अत्रैव।
-3-3-119- गोचरसञ्ञ्चरवहव्रजव्यजापणनिगमाश्च ।।
सप्तैते घान्ता निपात्यन्ते। चकाराद्--आहूयतेऽनेन आह्वयः।
-3-3-120- अवे तॄस्त्रोर्घञ्ञ् ।।
अवे आभ्यां घञ्ञ् स्यात्। अवतारः। अवस्तारः।
-3-3-121- हलश्च ।।
हलन्ताद् घविषये घञ्ञ् स्यात्। लेखः। वेदः । बन्धः। अपामार्गः। भृज्यतेऽनेन भर्गः।
प्रायेणेत्येव--निकषः।
-3-3-122- अध्यायन्यायोद्यावसंहाराधारावायाश्च ।।
षडिमे घविषये घञ्ञन्ता निपात्यन्ते। अधीयतेऽत्राध्यायः। निपूर्वादिणो नीयतेऽनेन न्यायः।
-3-3-123- उदङ्कोऽनुदके ।।
अयमत्र निपात्यते। घृतोदङ्कः।
नेह--जलोदञ्ञ्चनः।
-3-3-124- जालमानायः ।।
आनायः स्यात् जालं चेत्।
-3-3-125- खनो घ च ।।
खनो घञ्ञ् स्याद्, घश्च। आखन्यतेऽनेन आखानः। आखनः। इह--आखाखनिकादयस्त्वौणादिकाः।
करणाधिकरणयोः इति (3.3.117) निवृत्तम्।
-3-3-126- इर्षद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।।
एषु धातोः खल् स्यात्। कृच्छ्रेण क्रियतेऽसौ दुष्करः। दुर्लभः।
अकृच्छ्रेण क्रियतेऽसौ सुकरः। इर्षत्करः। सुभोजः। सुबोधः। सुभेदः। सुलभः।
-3-3-127- कर्तृकर्मणोश्च भूकृञ्ञोः ।।
कर्त्तरि भुवः कर्मणि कृञ्ञस्तथा खल् स्यात्। च्वयर्थेऽभिधानम्।
दुराढ्यम्भवं तेन। सुराजम्भवममुना। इर्षदाढ्यङ्करस्त्वया पुत्रः। सुपण्डितङ्करः शिष्यः।
गतित्वेऽपि सुदुरोरत्र धातोः प्राक् प्रयोगो न भवति; खलः खित्करणात्।
-3-3-128- आतो युच् ।।
आदन्तात् खल्विषये युच् स्यात्। सुपानं पयः। दुरुपस्थानो गुरुः। दुर्दाना गौः। दुर्ज्ञाना गौः।
-3-3-129- छन्दसि गत्यर्थेभ्यः ।।
-3-3-130- अन्येभ्योऽपि दृश्यते ।।
छान्दसे सूत्रे।
। भाषायां शासियुधिदृशिधृषिमृषिभ्यश्च ।। एभ्यो युच् स्यात्। दुःशासनः। दुर्योधनः। दुर्दर्शनः। दुर्धर्षणः। दुर्मर्षणः। सुयोधनः। सुदर्शनः। सुमर्षणः।
-3-3-131- वर्तमानसामीप्ये वर्तमानवद्वा ।।
वर्त्तमानसमीपे भूते भविष्यति च वर्त्तमानवत् प्रत्ययो वा स्यात्। गच्छामि। यान्तं मां विद्धीत्यर्थः।
पक्षे यथाप्राप्तञ्ञ्च।
-3-3-132- आशंसायां भूतवच्च ।।
आकाङ्क्षायां भविष्यति वर्त्तमानवद् भूतवच्च प्रत्ययो वा स्यात्। उपाध्यायश्चेदागच्छति, आगतः, आगमिष्यति, आगन्ता, आगच्छेद्, आगमद् वा एते छन्दोऽधीमहे, अध्यगीष्महि। पक्षे लृङ्लुटौ।
एवं सौमित्रे मामुपायंस्थाः, मामुपायंस्त राम इति।
अथास्यापवादद्वयमाह--
-3-3-133- क्षिप्रवचने लृट् ।।
शिप्रार्थयोगे लृट् स्यात्। स चेत् क्षिप्रमायास्यति त्वरितमध्येष्ये।
-3-3-134- आशंसावचने लिङ् ।।
वाञ्ञ्छार्थयोगे लिङ् स्यात्। स चेदागच्छेत् कामये युक्तोऽधीयीय। आशंसा न हि न प्रेते जीवेम दशमूर्धनि।
-3-3-135- नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः ।।
भूत-भविष्यदनद्यतेन लङ्लुटावुक्तौ, तौ तु निषिध्येते क्रियासातत्ये, सामीप्ये च। यावज्जीवं भृशमन्नमदाद्, दास्यति च।
सामीप्ये--अनन्तरायां पौर्णमास्यां गुरुधर्ममवोचत्। आगामिन्यां वक्ष्यति।
-3-3-136- भविष्यतिमर्यादावचनेऽवरस्मिन् ।।
मर्यादोक्ताववरभागे भविष्यति नानद्यतनवत् स्यात्। योऽयमा पर्वताद् गन्तव्यः पन्थास्तस्य यदवरं नद्यास्तत्र तिलौदनं भोक्ष्यामहे।
-3-3-137- कालविभागे चानहोरात्रारणाम् ।।
कालविभागे च पूर्ववन्नानद्यतनवत् स्यात्। आगामिवत्सरस्य यदवीरं वैशाख्यास्तत्र गयां यास्यामः।
अहोरात्रसम्बन्धिनि तु कालविभागे--आगामिनि मासे पञ्ञ्चदशरात्रादवरस्मिन् महाबोधिं गन्तास्मः।
-3-3-138- परस्मिन् विभाषा ।।
परस्मिन् कालविभागे भविष्यति नानद्यतनवद्वा स्यात्। आगामिवत्सरस्याग्रहायण्याः परस्मिन् धर्मं श्रोष्यामि, श्रोतास्मि वा।
-3-3-139- लिङि्नमित्ते लृङ् क्रियातिपत्तौ ।।
हेतुहेतुमदादौ लिङि्वषये क्रियातिपाते भविष्यति लृङ् स्यात्। यदि वर्षसहस्रमजीविष्यं तदा पुत्रशतमजनयिष्यम्।
-3-3-140- भूते च ।।
भूते च पूर्ववल्लृङ् स्यात्। यदि शिलाः कोमला अभविष्यंस्तदा क्रोष्टुभिरेवाभक्षयिष्यन्त।
-3-3-141- वोताप्योः ।।
उतापिशब्दात् ( 3.3.152 ) प्राग् भूते लृङ् वा स्याद्--इत्यधिक्रियते।
-3-3-142- गर्हायां लडपिजात्वोः ।।
कालसामान्ये जात्वपियुक्ताद् धातोर्लट स्यान्निन्दा चेत्। अपि सभवान् शूद्रं याजयति ? मन्त्रे जातु वदन्त्यज्ञास्त्वं तानप्यनुमन्यसे।
-3-3-143- विभाषा कथमि लिङ् च ।।
कथंयुक्ताद् गर्हायां लिङ् लट् च वा स्यात्। स कथं शूद्रं याजयेत्, याजयति वा ? पक्षे याजयिता, याजयिष्यति, अयीयजत्, याजयाञ्ञ्चकार वा।
क्रियातिपत्तौ भूते वा लृङ्--अयाजयिष्यत्। काकुत्स्थ दयितां साध्वीं त्वमाशङि्कष्यथाः कथम्।
भविष्यति तु लिङि्नमित्ते क्रियातिपत्तौ सर्वत्रात्र प्रकरणे नित्यो लृङ् बोद्धव्यः।
-3-3-144- किंवृत्ते लिङ्लृटौ ।।
किंवृत्तयोगे गर्हायां लिङ्लृटौ स्याताम्। सर्वलकाराणां बाधा को नाम कतरो नाम शूद्रं याजयेद्, याजयिष्यति वा ?
-3-3-145- अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि ।।
अश्रद्धाक्षमयोर्योगेऽकिंवृत्तेऽपि लिङ्लृटौ स्याताम्। नावकल्पयामि सभवान् हस्तिरथं प्रतिगृह्णीयात्, प्रतिग्रही ष्यति वा। न श्रद्धधे, न क्षमे दुर्जनः प्रतिष्ठां लभेत, लप्स्यते वा।
-3-3-146- किंकिलास्त्यर्थेषु लृट् ।।
किंकिलास्त्यर्थयोगे लृट् स्यात्। किंकिल सभवान् सुरां पास्यति !
किं क्रमिष्यति किलैष वामनः ! अस्ति नाम शूद्रो वेदं व्याख्यास्यास्यति--न श्रद्दधे न क्षमे !
-3-3-147- जातुयदोर्लिङ् ।।
-3-3-148- यच्चयत्रयोः ।।
। यदायद्योश्च ।। जातुयद्यदायदियच्चयत्रोपपदे लिङेव स्यात्।
न पृथग्नजनवज्जातु प्रमुह्येत् पण्डितो जनः। नावकल्प्यमिदं ग्लायेद् यत् कृच्छ्रेषु भवानपि। यदा भवद्विधः शूद्रं याजयेदित्यादि।
-3-3-149- गर्हायाञ्ञ्च ।।
यच्चयत्रयोर्योगे गर्हायां लिङेव स्यात्। यच्च यत्र भवान् सीदेन्महदि्भस्तद् विगर्हितम्।
-3-3-150- चित्रीकरणे च ।।
आश्चर्ये च पूर्ववल्लिङेव स्यात्। आश्चर्यं यच्च यत्र त्वां प्रब्रूयाम वयं
हिम्। लृडयदौ ।।
-3-3-151-शेषे लृडयदौ ।।
यच्चयत्राभ्यामन्यः शेषः। तस्मादुपपदादाश्चर्ये लृडेव स्यात्। अद्भतमन्धो नाम गिरिमारोक्ष्यति ! वधिरो नाम व्याकरणमध्येष्यते !
अयदौ किम् ? चित्रं नाम यदि स भुञ्ञ्जीत।
-3-3-152- उताप्योः समर्थयोर्लिङ् ।।
वाढार्थयोरुताप्योर्योगेर्लिङेव स्यात्। उत कुर्यात। अपि कुर्यात्।
-3-3-153- कामप्रवेदनेऽकच्चिति ।।
इच्छाप्रकाशने सर्वलकारापवादौ लिङेव स्यात्। कामो मे शृणुयाद् भवान्।
अकच्चिति किम् ? कच्चिज्जीवति ते पिता !
अयं विधिर्नोपपदाश्रयः; कामप्रवेदनस्य गम्यमानतयाभ्युपगमात्,
इच्छार्थेषु लिङ्लोटौ इत्येष तूपपदाश्रयः--इत्यनयोर्भिन्नविषयता।
यत् पुनरत्र सूत्रे कामो मः इति प्रयोगः, स गम्यमानार्थस्यैव स्पष्टार्थो बोद्धव्यः।
-3-3-154- सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे ।।
अलमिति चेत् समभाव्यते, अलञ्ञ्च न प्रयुज्यते, तदा धातोर्लिङेव स्यात्। अपि शिरसा गिरिं भिन्द्यात्।
अलमिति किम् ? विदेशस्थः प्रायेणायास्यति।
अलंयोगे तु--अलं हस्तिनं हनिष्यति।
-3-3-155- विभाषा धातौ सम्भावनवचनेऽयदि ।।
अनन्तरोक्तो लिङ् सम्भावनवाचिधातूपपदे वा स्यात्। सम्भावयामि स भुञ्ञ्जीत। स भोक्ष्यते वा।
अयदि किम् ? श्रद्दधे यत् स भुञ्ञ्जीत।
-3-3-156- हेतुहेतुमतोर्लिङ् ।।
हेतुहेतुफलार्थाद् धातोर्लिङ् वा स्यात्। दक्षिणं चेद् यायान्न शकटं पर्याभवेत् (1)। पक्षे लृट्। (1.) पर्याभवनम्उभङ्गः।
-3-3-157- इच्छार्थेषु लिङ्लोटौ ।।
इच्छार्थयोगे सर्वलकारापवादौ लिङ्लोटौ स्याताम्। कामये त्वं भुञ्ञ्जीथाः। इच्छामि स गच्छतु।
-3-3-158- समानकर्तृकेषु तुमुन् ।।
-3-3-159- लिङ् च ।।
एककर्तृके इच्छार्थयोगे तुमुन् स्याल्लिङ् च। इच्छति भोक्तुम्। गच्छेयमिति वाञ्ञ्छति।
-3-3-160- इच्छार्थेभ्यो विभाषा वर्तमाने ।।
इच्छार्थाद् वर्त्तमाने लिङ् वा स्यात्। इच्छति, इच्छेद्वा। इच्छेः कामयितुं तृवं माम्। वष्टि, उश्याद्वा।
-3-3-161- विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् ।।
एष्वर्थेषु सर्वलकारापवादो लिङ् स्यात्। विधौ--दानं दद्यात्। निमन्त्रणेउनियोगतः करणे--इह भुञ्ञ्जीथाः। कामचारे--यथारुचि भुञ्ञ्जीत।
अध्येषणे--अध्यापयेत्। सम्प्रश्ने--किंनुर्तमधीयीय ? याच्ञ्ञायाम्--लभेय भिक्षाम्।
-3-3-162- लोट् च ।।
विध्यादौ लोट् च स्यात्। करोतु। विनोतु। अधीताम्।
-3-3-163- प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।।
इहा अज्ञातज्ञापनम्उप्रेषणम्। विधिरुक्तः। प्रैषस्तुउप्रेषणमात्रम्। अतिसर्गःउकामचाराभ्यनुज्ञा। प्राप्तकालताउक्रियानिमित्तं कालप्राप्तिः। प्रैषादौ गम्ये कृत्याः स्युः, लोट् च। त्वया कटः कर्त्तव्यः। त्वं कटं कुरु।
कृत्यग्रहणं चैतत्लोटा समावेशार्थं वासरूपविधेः स्त्र्यधिकारात् परेण प्रायिकत्वं ज्ञापयति।
-3-3-164- लिङ् चोर्ध्वमौहूर्त्तिके ।।
ऊर्ध्वमौहूर्त्तिकार्थाद्धातोः प्रेषादौ गम्ये लिङ्लोटौ कुत्याश्च स्युः। मूहूर्त्तस्योपरि कटं कुर्याः। कटं कुरु। कटस्त्वया कर्तव्यः।
-3-3-165- स्मे लोट् ।।
अनन्तरविषये स्मयोगे लोडेव स्यात्। मुहूर्त्तस्योपरि कटं कुरु स्म।
-3-3-166- अधीष्टे च ।।
अत्र स्मयोगे लोडेव स्यात्। भवान् मां पाठयतु स्म।
-3-3-167- कालसमयवेलासु तुमुन् ।।
-3-3-168- लिङ् यदि ।।
कालादियोगे तुमुन् स्यात् प्रैषादौ गम्ये। कालो भोक्तुम्। समयो भोक्तुम्। वेला भोक्तुम्।
यच्छब्दे तु लिङ्--कालोऽयं यद् भुञ्ञ्जीथाः।
-3-3-169- अर्हे कृत्यतृचश्च ।।
अर्हे कर्तरि कुत्य-तृज्-लिङः स्युः। यूना कन्या वोढव्या। युवाकन्याया वोढा। युवा कन्यां वहेत्।
-3-3-170- आवश्यकाधर्मण्ययोर्णिनिः ।।
-3-3-171- कृत्याश्च ।।
एतयोर्णिनिः स्यात्। अवश्यङ्कारी कटस्य। शतं दायी ऋणस्य।
कृत्याश्च--त्वयावश्यं कटः कार्यः। दातव्यं शतम्।
कृत्यग्रहणं वासरूपविधिना णिनिसमावेशार्थम्।
-3-3-172- शकि लिङ् च ।।
शक्तौ लिङ् स्यात्, कृत्यश्च। स भारं वहेत्। तेन वाह्यो भारः। वहनीयः।
-3-3-173- आशिषि लिङ्लोटौ ।।
आशिषि विषये लिङ्-लोटौ स्याताम्। कल्याणं चः क्रियासुः। बौद्धौ(1) जिनः पातु वः। शिवः पातु। (1.) विपदि--पाठा0।
-3-3-174- क्तिच्क्तौ च संज्ञायाम् ।।
आशिषि धातोः क्तिच् स्यात्, क्तश्च संज्ञा चेत्। तनुतात्, तन्तिः। भवताद्, भूतिः। वीरो भूयाद्, वीरभूतिः। अग्निरस्य भूयाद्, अग्निभूतिः। ब्रह्मभूतिः। वृद्धिः। बुद्धिः। देवैरसौ दासीष्ट देवदत्तः। ब्रहृमदत्तः। बुद्धः।
-3-3-175- माङि लुङ् ।।
धातोर्माङ्योगे सर्वलकारापवादो लुङ् स्यात्। मा त्वं कार्षीःपापम्। मोज्जि ग्रहः स्वपौरुषम्।
-3-3-176- स्मोत्तरे लङ् च ।।
मास्मयोगे लङ् स्यात्। मास्म करोत्।
मास्म द्राक्षीर्मृषा दोषम्।
इति महामहोपाध्यायश्रीपुरुषोत्तमदेवस्य भाषावृत्तौ
तृतीयाध्यायस्य तृतीयः पादः
।।समाप्तश्च बहुलपादः ।।
-3-3-176-