भाषावृत्तिः/तृतीयोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव

-3-4-1- धातुसम्बन्धे प्रत्ययाः
धात्वर्थद्वयम्बन्धे भिन्नकाला अपि प्रत्ययाः साधवः स्युः। पितृव्यघाती पुत्रो जनिता। गतो वनं श्वो भवितेति रामः। दौवारिकः सम्पत्स्यते। गोमानयमभासीत्। वसन् ददर्श। भुक्तवानस्मि। योत्स्यमानो जगाम।
धातुसम्बन्धे विधानमा कर्त्तरि कृतः (3.4.67)।
-3-4-2- क्रियासमभिहारे लोड्, लोटो हिस्वौ वा च तध्वमोः ।।
क्रियासमभिहारे गम्ये धातोः कालत्रयेऽपि लोट् स्यात्। तस्य च हिस्वौ कर्त्तव्यौ। तध्वंविषये हिस्वौ वा स्याताम्। लुनीहि लुनीहीत्येमावलावीत्, लविष्यतः, लुनाति वा। लुनीहि लुनीहीत्वेवेमेऽलाविषुः, लविष्यन्ति, लुनन्ति वा। अधीष्वधीष्वेत्येवायमध्यगीष्ट, अध्येष्यते, अधीते वा।
तध्वंविषये हिस्वौ वा--लुनीत लुनीतेत्येवं लुनीहि लुनीहीत्येवं वा यूयं, लुनीथ, लविष्यथ, अलाविष्ट वा। अधीध्वमधीमित्येवम्, अधीष्वाधीष्वेत्येवं वा यूयमधीध्वे, अध्येष्यध्वे, अध्यगीढ्वं वा।
सर्वत्र चेह प्रकरणे प्रत्ययान्तानुप्रयोगधात्वर्थयोः सामान्यविशेषभावेन सम्बन्धः।
-3-4-3- समुच्चयेऽन्यतरस्याम् ।।
क्रियासमुच्चये लोडादिकं वा स्यात्। खमट, द्यामट, क्ष्माम्टेत्येवायमटति, इमावटतः, इमेऽटन्ति वा। ओदनं भुङ्क्ष्व, सक्तून् पिब, धानाः खादेत्येवायमभ्यवहरति।
एवं सर्वेषु कालेषु वचनेषु चोन्नेयम्।
-3-4-4- यथाविध्यनुप्रयोगः पूर्वस्मिन् ।।
प्रथमे लोङ्विधौ यस्माद् धातोर्लोड् विहितः स एवानुप्रयोज्यः। लुनीहि लुनीहीत्येवायं लुनाति। न तु च्छिनत्ति।
-3-4-5- समुच्चये सामान्यवचनस्य ।।
समुच्चये लोङ्विवधौ सामान्यवचनस्यानुप्रयोगः कार्यः। यथा--भुङ्क्ष्व पिब खादेत्येवायमभ्यवहरति।
अत्र च्छन्दःसूत्राणि द्वादश(1)। (1.) तानि चेमानि---
-3-4-6. छन्दसि लुङ्लङ्लिटः ।।
-3-4-7. लिङर्थे लेट् ।।
-3-4-8. उपसंवादाशङ्कयोश्च ।।
-3-4-9. तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्येन्कध्यैञ्ञ् शध्यैशध्यैस्तवैतवेङ्तवेनः ।।
-3-4-10. प्रयै रोहिष्यै अव्यथिष्यै ।।
-3-4-11. दृशे विख्ये च ।।
-3-4-12. शकि णमुल्कमुलौ ।।
-3-4-13. इर्श्वरे तोसुन्कसुनौ ।।
-3-4-14. कृत्यार्थे तवैकेन्केन्यत्वनः ।।
-3-4-15. अवचक्षे च ।।
-3-4-16. भावलक्षणे स्थेण्कृञ्ञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ।।
-3-4-17. सृपितृदोः कसुन् ।।
-3-4-18- अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ।।
तुमर्थ इत्यनुवर्त्तते यावदव्ययकृतां विधानम् ( 3 4.66 )। तुमर्थश्वच भाव इत्युक्तम्। प्रतिषेधवाच्यलं-खलूपपदाद् धातोः क्त्वास्यात्। अलं कृत्वा। खलु कृत्वा। न कर्तव्यमित्यर्थः।
बाह्यकर्मसम्बन्धे तु--अलमालम्ब्य व्यवसायबन्ध्यताम्। खलूक्त्वा खलु वाचिकम्। न लोक इति कर्मणि षष्ठीनिषेधाच्चात्र द्वितीया।
भावेऽपि हि प्रत्यये सकर्मकाद् धातोः पश्चात् कर्मसम्बन्धो भवत्येव, पाक ओदनस्य, कटं कृत्वा शेते, गम्यते मया ग्रामम् इति भागवृत्तावुक्तम्।
प्राचांग्रहणं पूजार्थम्।
-3-4-19- उदीचां माङो व्यतीहारे ।।
माङिति मेङः कृतात्त्वस्य ग्रहणम्; तस्यैव व्यतिहारवृत्तित्वात्। तस्मादुदीचां मतेन पूर्वकालापवादः क्त्वा स्यात्। पूर्वं याचते ततोऽपमयते अपमित्य याचते। अपमातुं याचत इत्यर्थः।
-3-4-20- परावरयोगे च ।।
अनयोर्योगे गम्ये क्त्वा स्यात्। बाल्यमतिक्रम्य यौवनम्। ततः
परमित्यर्थः। अप्राप्य नदीं गिरिः। नद्या अवर इत्यर्थः।
-3-4-21- समानकर्तृकयोः पूर्वकाले ।।
पूर्वकालार्थाद् धातोः क्त्वा स्यात्, समानश्चेत् कर्त्ता भवति। नीत्वा हसति। स्नात्वा भुक्त्वा पीत्वा व्रजति। स्नात्वा भुक्त्वा श्रुत्वा व्रजति।
पूर्वकाले किम् ? भुङ्क्ते जल्पति च। समानकर्त्त कयोः किम् ? ब्राह्मणे भुक्तवति सेवको व्रजति।
झनत्कृत्य पतति, अक्षिणी सम्मील्य हसतीत्यादिकमुपसांख्येयम्।
इह तु स्रात्वा सुखं भवति, पापं कृत्वानुतापः स्याद्--इत्यादौ स्थितस्य इति पदमध्याहार्यम्।
-3-4-22- आभीक्ष्ण्ये णमुल् च ।।
पौनःपुन्ये धातोर्णमुल् स्यात्, क्त्वा च। भोजं भोजम्, भुक्त्वा भुक्त्वा वा व्रजति। स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्।
-3-4-23- न यद्यनाकाङ्क्षे ।।
धातोर्यद्युपपदात् क्त्वाणमुलौ न स्याताम्। यदयं भुड्क्ते ततः पठति। यदयमधीते ततः शेते।
वाक्ये साकाङ्क्षे तु--यदयं भुक्त्वा व्रजति नूनमयं पठिष्यति।
-3-4-24- विभाषाग्रेप्रथमपूर्वेषु ।।
आभीक्ष्ण्यं निवृत्तम्। एषूपपदेषु धातोस्तौ वा स्याताम्। अग्रे भोजमग्रे भुक्त्वा वा व्रजति। एवं प्रथम्, पूर्वम्।
-3-4-25- कर्मण्याक्रोशे कृञ्ञः खमुञ्ञ् ।।
कर्मणि कृञ्ञः खमुञ्ञ् स्यादाक्रोशश्चेत्। चौरङ्कारमाक्षिपति। तं भीतङ्कारमाक्रुश्य रावणः प्रत्यभाषत।
-3-4-26- स्वादुमि णमुल् ।।
स्वाद्वर्थोपपदात् कृञ्ञो णमुल् स्यात्। स्वादुङ्कारं भुङ्क्ते। निपातनादनुस्वारः। मिष्टङ्कारं भुङ्क्ते।
-3-4-27- अन्यथैवंकथमिथंसु सिद्धाप्रयोगश्चेत् ।।
एषु कृञ्ञो णमुल् स्यात् सिद्धश्चेदप्रयोगः करोतेः; गतार्थत्वात्। अन्यथा भुङ्क्ते अन्यथाकारं भुङ्क्ते। एवङ्कारं वक्ति। कथङ्कारमागच्छति। इत्थङ्कारं शेते।
सिद्धाप्रयोगे किम् ? अन्यथा कृत्वा शिरो भुङ्क्ते।
-3-4-28- यथातथयोरसूयाप्रतिवचने ।।
यथातथयोर्योगे।द्यऽसूयोक्तौ कृञ्ञः स स्यात्। यथाकारं तथाकारं भुङ्क्ते किं तवात्र ?
यथातथयोः इति सौत्रो निर्देशः।
-3-4-29- कर्मणि दृशिविदोः साकल्ये ।।
साकल्यवति कर्मणि दृशिविदोः स स्यात्। ब्राह्मणदर्शं प्रणमति। भिक्षुवेदं भोजयति। सर्वान् भिक्षूनित्यर्थः।
कर्मणि विधिः प्राक् करणे हनः (3.4.37)।
-3-4-30- यावति विन्दजीवोः ।।
अत्रानयोः स स्यात्। यावज्जीवमधीते। यावद्वेदं भुङ्क्ते।
-3-4-31- चर्मोदरयोः पूरेः ।।
अनयोः पूरेः स स्यात्। चर्मपूरं तिलान् ददाति। उदरपूरं भुङ्क्ते।
-3-4-32- वर्षप्रमाण ःढ़द्य;लोपश्चास्यान्यतरस्याम् ।।
वृष्टिप्रमाणगतौ पूरेः स स्याद् ऊकारलोपश्च वा। गोष्पदप्रम्, गोष्पदपूरं वा वृष्टो देवः।
-3-4-33- चेले क्नोपेः ।।
चेलर्थोपपदे क्रोपेः स स्याद् वर्षप्रमाणे। वस्त्रक्रोपं वृष्टो देवः।
-3-4-34- निमूलसमूलयोः कषः ।।
अनयोः कषेः स स्यात्। निमूलकाषं कषति। समूलकाषं चकषू रुदन्तः।
-3-4-35- शुष्कचूर्णरुक्षेषु पिषः ।।
एषु पिषेः स स्यात्। शुष्कपेषं पिनष्टि। चूर्णपेषम्। रुक्षपेषम्।
-3-4-36- समूलाकृतजीवेषु हन्कृञ्ञ्ग्रहः ।।
समूलादिषु हनादेः स स्यात्। समूलघातं न्यवधीदरींश्च। समूलं न्यवधीदित्यर्थः।
कषादयो हि गतार्था एव। सर्वत्रानुप्रयुज्यन्त इति। अकृतकारं कुरुते। जीवग्राहं गृह्णाति।
                       ।।उक्तं कर्मणि ।।
-3-4-37- करणे हनः ।।
करणोनपपदाद् हन्तेः स स्यात्। पाणिघातं हन्ति। पाणिना हन्तीत्यर्थः। शरघातमरीन् हन्ति।
-3-4-38- स्नेहने पिषः ।।
स्नेहने करणे पिषेः स स्यात्। घृतपेषं पिनष्टि। घृतेन पिनष्टीत्यर्थः। तेलपेषम् पिनष्टि।
-3-4-39- हस्ते वर्त्तिग्रहोः ।।
हस्ते करणे वर्त्तिग्रहोः सस्यात्। हस्तवर्त्तं वर्त्तयति। करवर्त्तं वर्त्तयति। हस्तग्राहं गृह्णाति। पाणिग्राहं गृह्णाति।
-3-4-40- स्वे पुषः ।।
आत्मात्मीयघनज्ञातिवाचिन्युपपदे करणे पुषेः स स्यात्। स्वेनापुषत्, स्वपोषमपुषत्। आत्मीयपोषं रैपोषम् आत्मपोषं गोपोषं धनपोषम् बन्धुपोषं वा पुष्णाति।
-3-4-41- अधिकरणे बन्धः ।।
-3-4-42- संज्ञायाम् ।।
आधारोपपदाद्. बध्नातेः स स्यात्। गुप्तौ ब्धनाति, गुप्तिबन्धं बध्नाति। चक्रे बध्नाति, चक्रबन्धं बध्नाति।
इह तु--मयूरिकाबन्धं बद्धः, चाण्डालिकाबन्धं बद्धः, अट्टालिकाबन्धं
बद्ध इत्युपमाने कर्मणि च कर्मणि च इति णमुलिति भाष्यम्।
-3-4-43- कर्त्रोर्जीवपुरुषयोर्नशिवहोः ।।
जीवे पुरुषे च कर्तर्युपपदे नशिवाहिभ्यां स स्यात्। जीवन्नेव नष्टो जीवनाशं नष्टः। पुरुषः सन् वहति पुरुषवाहं वहति।
-3-4-44- ऊर्ध्वे शुषिपूरोः ।।
ऊर्ध्वे कर्त्तरि शुषिपूरोः स स्यात्। ऊर्ध्वः शुष्यति, ऊर्ध्वशोषं शुष्यति। ऊर्ध्वपूरं पूर्यते।
-3-4-45- उपमाने कर्मणि च ।।
उपमाने कर्मणि कर्तरि च धातोः स स्यात्। कर्मणि--रत्ननिधायं निहितः। घृतविलायं विलीनः। कर्त्तरि--मृगनाशं नष्टः। अजकनाशं नष्टः।
-3-4-46- कषादिषु यथाविध्यनुप्रयोगः ।।
निमूलसमूलयोः कषः इत्यादिषु णमुल्प्रकृतेरेवानुप्रयोगः कार्यः। तथैवोदाहृतम्।
स च क्रियासमभिहारानुप्रयोगवद् व्यवधानेऽपि भवति, यथा--घृतनिधायमुदकं निदधाति इति
भागवृत्तिः।
-3-4-47- उपदंशस्तृतीयायाम् ।।
तृतीयान्तोपपदादुपदंशः स स्यात्। मूलकेनोपादश्य, मूलकोपदंशं वा भुङ्क्ते।
इतः प्रभृति विकल्पेनोपपदसमासः। मूलकेनोपदंशं भुङ्क्त इति वा।
-3-4-48- हिंसार्थानाञ्ञ्च समानकर्मकाणाम् ।।
तृतीयान्तोपपदे हिंसार्थात् स स्यात्। दण्डोपघातं गाः कालयति, दण्डेनोपघातं वा।
समानकर्मकाणां किम् ? दण्डेनाहत्य व्याघ्रं गाः कालयति।
-3-4-49- सप्तम्याञ्ञ्चोपपीडरुधकर्षः ।।
सप्तम्यन्ते तृतीयान्ते चोपपदे उपपूर्वात् पीडे रुधिकृषिभ्याञ्ञ्च स्यात्। पार्श्वोपपीडं शेते, पार्श्वयोरुपपीडं वा। स्तनोपपीडमाश्लिष्यति, स्तनाभ्यामुपपीडं वा। एवं हस्तरोधं दघद्धनुः इति भटि्टः। पाणिकर्षं
वटकानत्ति, पाणिना कर्षं वा।
विशेषानुपादानात् पाण्युपकर्षम्।
-3-4-50- समासत्तौ ।।
सन्निधानगतौ तृतीयासप्तम्यन्तोपपदाद् धातोः स स्यात्। केशग्राहं युध्यन्ते। केशैर्ग्राहम्, केशेषु ग्राहं वा।
-3-4-51- प्रमाणे च ।।
आयामगतौ पूर्वोक्तोपपदात् स स्यात्। द्व्यङ्गुलोत्कर्षं दण्डिकां छिनत्ति। द्व्यङ्गुलोत्कर्षमङ्गानि च्छिन्दानो द्विषतां युधि।
-3-4-52- अपादाने परीप्सायाम् ।।
अपादानोपपदाद्धातोस्त्वरायां स स्यात्। शय्योत्थायं भुङक्ते।
-3-4-53- द्वितीयायाञ्ञ्च ।।
कर्मोपपदाद् धातोस्त्वरायां स स्यात्। लोष्टग्राहं युध्यन्ते।
इह त्वरायामिति(1) नानुवर्तत इत्याहुः। तेनैकवर्जम् इति णमुल्सिध्यति। (1.) अपादाने परीप्सायाम् इत्यतः परीप्सायाम् इति नानुवर्तते इति भावः। परीप्साउत्वरा।
-3-4-54- स्वाङ्गेऽध्रुवे ।।
स्वाङ्गे कर्मणि धातोः स स्यात्। अक्षिनिकोचं हसति। भ्रूक्षेपं वक्ति।
अध्रुवे किम् ? उत्क्षिप्य शिरः कथयति।
यत्र च्छिन्ने प्राणी भ्रियते तद् ध्रु वम्।
-3-4-55- परिक्लिश्यमाने च ।।
क्लेशिनि स्वाङ्गे कर्मणि स स्यात्। उरःप्रातपष युद्ध्यन्ते। ध्रु वार्थोऽयं योगः।
-3-4-56- विशिपतिदिस्कन्दां व्याप्यमानासेव्यमानयोः ।।
कर्मण्युपपदे विश्यादेः स स्याद्, द्रव्यस्य व्याप्तिः क्रियायाश्च नित्यता चेत। गेहप्रवेशमास्ते। लतानुपातं कुसुमान्यगृह्णात्। मण्डपानुप्रपादमास्ते। नद्यवस्कन्दमाचामति।
असमासे तु नित्यवीप्सयोः इति द्विरुक्तिः---गेहं गेहं प्रवेशमिति, गेहं प्रवेशं प्रवेशमिति वेत्यादि।
-3-4-57- अस्यतितृषोः क्रियान्तरे कालेषु ।।
काले कर्मणि क्रियाव्यवधायकेऽस्यति-तृषिभ्यां स स्यात्। द्व्यहात्यासं
गाः पाययति। द्व्यहतर्षम्। द्व्यहमतिक्रम्येत्यर्थः।
-3-4-58- नाम्न्यादिशिग्रहोः ।।
नाम्रि कर्मण्यादिशिग्रहिभ्याञ्ञ्च स स्यात्। नामादेशमाचष्टे। नामग्राहं स्तौति।
-3-4-59- अव्ययेऽयथाभिप्रेताख्याने कृञ्ञः क्त्वाणमुलौ ।।
अव्ययोपपदात् कृञ्ञः क्त्वाणमुलौ स्यातामनिष्टाख्यानं चेत्। ब्राह्मण पुत्रस्ते जातः। किं तर्हि वृषलो नीचैःकृत्याचष्टे, नीचैःकारं वा ! उच्चैहि प्रियाख्यानं युक्तम्।
आवेदयन्तः क्षितिपालमुच्चैःकारं मृतं रामवियोगशोकात्। उच्चैःकृत्य वा। नीचैरिहाप्रियाख्यानं युक्तम्।
-3-4-60- तिर्यच्यपवर्गे ।।
तिर्यगुपपदात् कृञ्ञस्तौ स्यातां समाप्तौ। तिर्यक्कृत्य गतः, तिर्यक्कारं वा। समाप्येत्यर्थः।
-3-4-61- स्वाङ्गे तस्प्रत्यये कृभ्वोः ।।
तस्प्रत्ययान्ते स्वाङ्गे उपपदे कृभूभ्यां तौ स्याताम्। मुखतःकृत्य गतः, मुखतःकारं वा पृष्ठतोभूय, पृष्ठतोभावं वा।
-3-3-62- नाधार्थप्रत्यये च्व्यर्थे ।।
नार्थे धार्थे च च्व्यर्थ उपपदे कृभूभ्यां तौ स्याताम्। नानाकृत्य गतः, नानाकारं वा। नानाभूय, नानाभावं वा।
धार्थे--द्विधाकृत्य, द्विधाकारं वा। द्वैधम्भावम्, द्वैधम्भूय वा। प्रत्ययग्रहणं किम् ? पृथक् कृत्वा।
-3-4-63- तूष्णीमि भुवः ।।
तूष्णींशब्द उपपदे भुवस्तौ स्याताम्। तूष्णीम्भूयास्ते, तूष्णीम्भावं वा।
-3-4-64- अन्वच्यानुलोम्ये ।।
अन्वगुपपदाद् भुवस्तौ स्यातामानुकूल्यं चेत्। अन्वग्भूयास्ते, अन्वग्भावं वा।
उक्तानि तृतीयाप्रभृतीनि यान्यमा क्त्वाप्रत्ययेन च वा समस्यन्ते ।।
-3-4-65- शकधृषाज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ।।
शकाद्यर्थोपपदाद् धातोस्तुमुन् स्यात्। शक्रोति भोक्तुं बालकः। अर्हति दातुम्। अस्ति भोक्तुम्। विद्यते भोक्तुम्।
अक्रियार्थोपपदार्थोऽयं विधिः।
-3-4-66- पर्याप्तिवचनेष्वलमर्थेषु ।।
पर्याप्तिःउपरिपूर्णता, तद्वचनेश्वलमर्थविशिषष्टेषु धातोस्तुमुन् स्यात्। अलं भोक्तुम्। पारयति दातुम्।
पर्याप्तिवचनेषु किम् ? अलं भुक्त्वा। अलं कृत्वा।

                ।।गतं धातुस्बन्ध-तुमर्थाभ्याम् ।।
कर्तरिकृत्प्रत्ययप्रकरणम्
-3-4-67- कर्त्तरि कृत् ।।
अनुक्तार्थाः कृतः कर्त्तरि स्युः। ओदनस्य पाचकः। पक्ववान्। नन्दनः। ग्राही। पचः।
अव्ययकृतो भावे भवन्ति इत्युक्तम्।
-3-4-68- भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ।।
सप्तैते कर्त्तरि वा स्युः। भव्योऽयम्। भव्यमनेन। गेयोऽयं साम्राम। गेयान्यनेन सामानि।
-3-4-69- लः कर्मणि च भावे चाकर्मकेभ्यः ।।
लकाराः कर्त्तरि स्युः, कर्मणि च। अन्न पचति। पच्यतेऽन्नम्।
अकर्मकेभ्यो भावे कर्त्तरि च--शेते विप्रः। शयते विप्रेण।
-3-4-70- तयोरेव कृत्यक्तखलर्थाः ।।
एते भावकर्मणोरेव स्युः। कर्त्तव्यः कटोऽनेन। कार्यः। कृतः।
खलर्थे--इर्षत्करः।
अकर्मकाद् भावे--भवितव्यमनेन। भूतम्। दुराढ्यम्भवम्। इर्षदाढ्यम्भवम्।
-3-4-71- आदिकर्मणि क्तः कर्त्तरि च ।।
क्रियारम्भेक्तः कर्त्तरि स्यात् भावकर्मणोश्च। प्रभुक्त ओदनं विप्रः। प्रभुक्त ओदनो विप्रेण।
-3-4-72- गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च ।।
एभ्यः क्तः कर्त्तरि स्यात्। ग्रामं गतः पान्थः। प्रस्थितः। यातः। अकर्मकात्--आसितः। स्थितः।
आङ्पूर्वश्लिषादेः--आश्लिष्टः कन्याम्। अतिशयितो गुरुम्। उपास्थितस्तम्। उपासितस्तम्। अनुषितस्तम्। अनुजातस्तम्। आरुढस्तरुम्। अनुजीर्णस्तम्।
चकाराद् यथाप्राप्तञ्ञ्च--गतो ग्रामोऽनेन, गतमनेन।
चकारोऽत्रानुवर्त्तते, ततोऽधिकविधानाद् व्यवसित-प्रतिपन्नादिसिद्धः।
-3-4-73- दाश्गोघ्रौ सम्प्रदाने ।।
एतावत्र निपात्येते। गुणवान् ब्राह्मणो दाशः। गोघ्रोऽतिथिः।
-3-4-74- भीमादयोऽपादाने ।।
एतेऽत्र साधवः स्युः। भीमः। भीष्मः। भयानकः। रहः। खलतिः। रक्ष। प्रपतनः। समुद्रः।
-3-4-75- ताभ्यामन्यत्रोणादयः ।।
सम्प्रदानापादानाभ्यामन्यत्रोणादयो ज्ञेयाः। वृत्तं र्वत्म। भसितं भस्म।
-3-4-76- क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ।।
एभ्योऽधिकरणे क्तः स्यात्। चकाराद् यथाप्राप्तञ्ञ्च। ध्रौव्यार्था अकर्मकाः। इदमेषामासितम्, इहानेनासितम्, अयमत्रासितः। इदमहेः
सृप्तम्, इदमहिना सृप्तम्, अयमहिना सृप्तो देशः, इहाहिः सृप्तः।
भक्षणार्थात्--इदमस्य भुक्तं स्थानम्, इहानेन भुक्तम्, भुक्तोऽनेनौदनः।
इह च विभक्ता भ्रातरः, भुक्ता ब्राह्मणाः, पीता गावः--इति भावक्तान्तान् मत्वर्थीयोऽकारः।
।।उक्ताः कृतः ।।
-3-4-77- लस्य ।।
अधिकारोऽयम्।
-3-4-78- तिप्तस्झिसिप्थस्थमिब्वस्ममस् ताताञ्ञ्झथासाथान्ध्वमिड्वहिमहिङ् ।।
लस्य स्थानेऽमी तिबादयः स्युः। भवति, भवतः, भवन्ति। पचते, पचेते, पचन्ते। भूयते--भावे। पच्यते--कर्मणि। एवं लिडादावुन्नेयम्।
-3-4-79- टित आत्मनेपदानां टेरे ।।
टिल्लकारात्मनेपदे टिभागस्यैकारादेशः स्यात्। पचते। पचन्ते। पेचाते। पक्तासाथे। पक्ष्यते।
कथं पचमानः ? प्रकृतस्य तङो ग्रहणात्।
-3-4-80- थासः से ।।
टिल्लकारस्य थासः से स्यात्। पचसे। क्रियसे।
-3-4-81- लिटस्त्झयोरेशिरेच् ।।
लिटो यौ त-झौ तयोरेशिरेचौ स्याताम्। पेचे। पेचिरे।
-3-4-82- परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
लिटः परस्मैपदानां णलादयः स्युः। अर्थान्तरतम्येन स्थान्यादेशव्यवस्था; शब्दसाम्याभावात्। चकार, चक्रतुः, चक्रुः। चकर्थ, चक्रथुः। थस्यान्तादेशे प्रयोजनाभावात् सर्वादेशोऽकारः--चक्र।चकार, चकर, चकृव, चकृम।
-3-4-83- विदो लटो वा ।।
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः। वेद, विदतुः, विदुः। वेत्थ,
विदयु, वेदः,। वेद, विद्वः विद्मः।
पक्षे--वेत्ति, वित्तः, विदन्तीत्यादि।
-3-4-84- ब्रुवः पञ्ञ्चानामादित आहो ब्रुवः ।।
ब्रूञ्ञो लटः परस्मैपदादिपञ्ञ्चकस्य पञ्ञ्चैव णलादयो वा स्युः। ब्रुवश्चाहादेशः। आह, आहतुः, आहुः। आत्थ, आहथुः।
पक्षे--ब्रवीति, ब्रूतः, ब्रुवन्ति। ब्रवीषि, ब्रूथः।
-3-4-85- लोटो लङ्वत् ।।
लोटो लङवत् कार्यं स्यात्। ताम्-तम्-त-सलोपश्च। पचताम्। पचतम्। पचत। पचाव। पचाम।
-3-4-86- एरुः ।।
लोडिकारस्य उः स्यात्। पचतु। पचन्तु।
। हिन्योरुत्वप्रतिषेधो वक्तव्यः ।। लुनीहि। करवाणि। पचानि।
-3-4-87- सेर्ह्यपिच्च।
लोटः सिपो हिः स्यात्, स चापित्। लुनीहि। राध्नुहि।
-3-4-88- वा छन्दसि ।।
छान्दसम्।
-3-4-89- मेर्निः ।।
लोटो मिपो निः स्यात्। भवानि। पचानि।
-3-4-90- आमेतः ।।
लोडेकारस्याम् स्यात्। कुरुताम्। कुर्वाताम्।
-3-4-91- सवाभ्यां वामौ ।।
लोटः सवाभ्यामेकारस्य वामौ स्याताम्। श्राद्धं कुरुष्व। कुरुध्वम्।
-3-4-92- आडुत्तमस्य पिच्च ।।
लोडुत्तमपुरुषस्याडागमः स्यात्, स च पित्। करवाणि। तनवानि। करवाव। तनवाव।
-3-4-93- एत ऐ ।।
लोडुत्तमपुरुषस्य एत ऐकारादेशः स्यात्। आमपवादः। तनवै। तनवावहै।
अत्र लेटः पञ्ञ्चसूत्री(1) छन्दोभागः। (1.) इयञ्ञ्च सा पञ्ञ्चसूत्री--
-3-4-94. लेटोऽडाटौ ।।
-3-4-95. आत ऐ ।।
-3-4-96. वैतोऽन्यत्र ।।
-3-4-97. इतश्च
लोपः परस्मैपदेषु ।।
-3-4-98. स उत्तमस्य ।।
लोपः परस्मैपदेषु, स उत्तमस्य इत्येतद् द्वयमधिक्रियते।
-3-4-99- नित्यं ङितः ।।
ङितो लकारस्योत्तमपुरुषसकारस्य लोपः स्यात्। नित्यग्रहणमेकवृत्तौ सार्थकम्। अपचाव। अपचाम। पचेव। पचेम। अपाक्ष्व। अपाक्ष्म। अपक्ष्याव। अपक्ष्याम।
-3-4-100- इतश्च ।।
ङिल्लकारस्येकारस्य लोपः स्यात्। अपचत्। पचेत्। अपचः। परस्मैपदेष्वित्येव--अपचावहि।
-3-4-101- तस्थस्थमिपां तान्तन्तामः ।।
ङिल्लकारस्य तसादेस्तामादयः स्युः। अपचताम्। अपचतम्। अपचत। अपचम्।
-3-4-102- लिङः सीयुट् ।।
लिङः सीयुडागमः स्यात्। कुर्वीत। कुर्वीयाताम्। कृषीष्ट। कृषीयास्ताम्।
-3-4-103- यासुट् परस्मैपदेषूदात्तो ङिच्च ।।
लिङः परस्मैपदेषु यासुडागमः स्यात्। स च ङित्कार्यं करोति। कुर्यात्, कुर्याताम्, कुर्युः। क्रियात्, क्रियास्ताम्, क्रियासुः।
-3-4-104- किदाशिषि ।।
आशिषि लिङो यासुट् कित् स्यात्। इज्यात्। जागर्यात्।
आशिषि किम् ? विध्यादौ--यजेत्। जागृयात्।
-3-4-105- झस्य रन् ।।
लिङो झस्य रन् स्यात्। पचेरन्। कुर्वीरन्। कृषीरन्।
-3-4-106- इटोऽत् ।।
लिङ इटोऽत् स्यात्। कुर्वीय। कृषीय।
-3-4-107- सुट तिथोः ।।
लिङस्तथयोः सुडागमः स्यात्। कृषीष्ट। कृषीष्ठाः।
-3-4-108- झेर्जुस् ।।
लिङो झेर्जुस् स्यात्। पचेयुः। पच्यासुः।
-3-3-109- सिजभ्यस्तविदिभ्यश्च ।।
एभ्यः परस्य ङिल्लकारस्य झेर्जुस्। सिच्--अकार्षुः। अभ्यस्तस्य--अजागरुः। विदेः--अविदुः।
-3-4-110- आतः ।।
आदन्तादेव सिज्लुगन्ताज् झेर्जुस् स्यात्। अदुः। अधुः। नेह--अभूवन्।
-3-4-111- लङः शाकटायनस्यैव ।।
-3-3-112- द्विषश्च ।।
आदन्ताद् धातोर्द्विषेश्च परस्य लङः शाकटायनस्य मतेन झेर्जुस् स्यात्। अयुः। अवुः। अद्विषुः।
अन्येषाम्--अयान्। अवान्। अद्विषन्।

                       ।।उक्तास्तिङः ।।
-3-4-113- तिङि्शत् सार्वधातुकम् ।।
तिङ् शिच्च प्रत्ययः सार्वधातुकनामा स्यात्। नयति। रोदिति। पच्यते। उत्पिबः। शूरम्मन्यः। कुर्वाणः। कुर्वन्।
-3-4-114- आर्धधातुकं शेषः ।।
धातो इत्येवं विहितस्तङि्शद्भ्यामन्यः शेष आर्धधातुकनामा स्यात्। भविता। भविष्यति। भवितव्यम्। भवितुम्।
-3-4-115- लिट् च ।।
एवकारोऽनुवर्त्तते। लिडादेश आर्धधातुकसंज्ञ एव स्यात्। पेचिथ। शेकिथ। जग्ले।
-3-4-116- लिङाशिषि ।
आशीर्लिङार्धधातुकसंज्ञ एव स्यात्। पविषीष्ट।
आशिषि किम् ? पुनीयात्।
-3-4-117- छन्दस्युभयथा ।।
छान्दसम्।

                     ।।उक्तं धातोः ।।
इति महामहोपाध्यायश्रीपुरुषोत्तमदेवकृतायां भाषावृत्तौ
तृतीयाध्यायस्य चतुर्थः पादः
धातुसम्बन्धपादश्च समाप्तः ।।
-3-4-117