भाषावृत्तिः/चतुर्थोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः
← प्रथमः पादः भाषावृत्तिः
द्वितीयः पादः
पुरुषोत्तमदेव
तृतीयः पादः →


चतुर्थाध्याये द्वितीयः पादः
तद्धितेषुरक्ताद्यर्थप्रकरणम्
-4-2-1- तेन रक्तं रागात् ।।
रागवाचिनः तेन रक्तम् इत्यर्थेऽण् स्यात्। कषायेण रक्तं काषायं वस्त्रम्। कौङ्कुमम्। माञ्ञ्जिष्ठी पताका।
तेन इति वर्त्तते यावद् द्वैपवैयाघ्रादञ्ञ् (4.2.13)।
-4-2-2- लाक्षारोचनाशकलकर्दमाट् ठक् ।।
लाक्षादेः पूर्वार्थे ठक् स्यात्। लाक्षिकं वस्त्रम्। रौचनिकी शाटी। शाकलिकः पटः। कार्दमिकम्।
। शकलकर्दमाभ्यामणपि । इत्येके। शाकलम्। कार्दमम्।
। नील्या अन् ।। नीलं वस्त्रम्।
। पीतात् कन् ।। पीतकम्।
-4-2-3- नक्षत्रेण युक्तः कालः ।।
अत्रार्थेऽण् स्यात्। पुष्येण युक्ता पौषी रात्रिः। माघी। पौषमहः। माघम्।
कालः किम् ? पुष्येण युक्तः शशी।
-4-2-4- लुबविशेषे ।।
नक्षत्राणो लुप् स्यात्। अद्य पुष्यः। अद्य कृत्तिका।
अविशेषे किम् ? पौषी रात्रिः। पौषमहः।
-4-2-5- संज्ञायां श्रवणाश्वत्थाभ्याम् ।
आभ्यां नक्षत्राणो विशेषेऽपि लुप् स्यात्। श्रवणा रात्रिः। अश्वत्थो मुहूर्त्तः।
संज्ञायां किम् ? श्रावणी रात्रिः।
-4-2-6- द्वन्द्वाच्छः ।।
नक्षत्रद्वन्द्वाच्छः स्यात्। राधानुराधीया रात्रिः। लुप् चानेन बाध्यतेः, परत्वात्। तिष्यपुनर्वसीयमद्य।
-4-2-7- दृष्टं साम ।।
अत्रार्थेऽण् स्यात्। वसिष्ठेन दृष्टं सामा वासिष्ठम्। वैश्वामित्रम्।
-4-2-8- कलेर्ढक् ।।
स्यात्। कलिना दृष्टं साम कालेयम्।
। सर्वत्राग्रिकलिभ्याम् ।। आभ्यां प्राग्दीव्यतीये सर्वत्रार्थे ढग् वक्तव्यः--तेन दृष्टम्, तत्र भवम्, तत आगतम्, सास्य देवता इति। आग्नेयम्। कालेयम्।
।दृष्टे सामनि जाते च द्विरण(1) डिद्वा विधीयते।। औशसनसम्, औशनं वा साम। शातभिषः, शातभिषजो वा बालः। (1.) प्राग्दीव्यतोऽण्
प्राप्तः कालठत्रा बाधितः सन्धिवेला0 इति पुनर्विधीयते इत्यर्थः।
। तीयादीकग् । । न विद्यायाः ।। स्वार्थे तीयादीकक् स्यात्। द्वैतीयीकम्। द्वैतीयीकी। नेह--द्वितीया विद्या।
। गोत्रादङ्कवदिष्यते ।। औपगवकं साम। गोत्रचरणाद् वुञ्ञ्।
-4-2-9- वामदेवाड् ड्यड्यौ ।।
अस्मादिमौ स्याताम्--तेन दृष्टं सामेति। वामदेव्यम्।
स्वरार्थोऽनुबन्धः।
-4-2-10- परिवृतो रथः ।।
रथश्चेद् भवति--अत्रार्थेऽण् स्यात्। वस्त्रेण परिवृतो रथो वास्त्रः। चार्मणो रथः।
-4-2-11-पाण्डुकम्बलादिनिः ।।
अस्मादिनिः स्यात् पूर्वार्थे। पाडुण्कम्बली रथः।
-4-2-12- द्वैपवैयाघ्रादञ्ञ् ।।
आभ्यामञ्ञ स्यात् पूर्वार्थे। द्वैपेन चर्मणा परिवृतो द्वैपो रथः। वैयाघ्रः। तेन इति निवृत्तम्।
-4-2-13- कौमारापूर्ववचने ।।
अणन्तः कौमारो निपात्यतेऽपूर्वस्य अनूढाया विवाहस्य वचने।
प्रथमोढा कुमारी कौमारी, तस्याः पतिश्च कौमारः। उपलम्भ्यामपश्यन्तः कौमारीं पततां वर।
-4-2-14- तत्रोद्धृतममत्रेभ्यः ।।
अत्रार्थे पात्रेभ्योऽण् स्यात्। शरावेषूद्धृतं शारावं दधि। कार्पर ओदनः। इह भुक्तोत्सृष्टम्उउद्धृतम्।
तत्र इति वर्त्तते यावत् क्षीराड् ढञ्ञ् (4.2.20)।
-4-2-15- स्थण्डिलाच्छयितरि व्रते ।।
अत्र संस्कृतम् इत्यर्थेऽण् स्याद् भक्षाश्चेत्। भ्राष्ट्रा अपूपाः। पैठराः।
-4-2-16- शूलोखाद् यत् ।।
आभ्यां तत्रार्थे यत् स्यात्। शूले संस्कृतं शूल्यम् मांसम्। उख्यम्।
-4-2-17- शूलोखाद् यत् ।।
आभ्यां तत्रार्थे यत् स्यात्। शूले संस्कृतं शूल्यम्। मांसम्। उख्यम्।
-4-2-18- दध्नष्ठक् ।।
स्यात्। दध्रि संस्कृतं दाधिकम्।
-4-2-19- उदश्वितोऽन्यतरस्याम् ।।
अतष्ठक् स्याद्वा। उदश्विति संस्कृतमौदश्वित्कम्। औदश्वितम्।
-4-2-20- क्षीराड् ढञ्ञ् ।।
स्यात्। क्षीरे संस्कृता क्षैरेयी यवागूः। तत्र इति निवृत्तम्।
-4-2-21- सास्मिन् पौर्णमासीति संज्ञायाम् ।।
अत्रार्थेऽण् स्यात् संज्ञा चेत्। पौषी पौर्णमास्यस्मिन् पौषो मासः, अर्धमासः, संवत्सरो वा। माघः। चैत्रः। वैशाखः।
-4-2-22- आग्रहायण्यश्वत्थाट् ठक् ।।
आभ्यां पूर्वार्थे ठक् स्यात्। आग्रहायणी पौर्णमास्यस्मिन् आग्रहायणिको मासः, पक्षः, वत्सरो वा। आश्वत्थिकः(1)। (1.) आश्वत्थिकःउश्रावणो मासः।
-4-2-23- विभाषा फल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः ।।
आभ्यः पूर्वार्थे ठक् स्याद्वा। फाल्युनिकः, फाल्गुनो वा मासः, अर्द्धमासः, वत्सरो वा। श्रावणिकः, श्रावणो वा । कार्त्तिकिकः, कार्त्तिको वा। चैत्रिकः, चैत्रो वा।
-4-1-24- सास्य देवता ।।
अत्र यथाविहितं प्रत्ययः स्यात्। इन्द्रो देवतास्य ऐन्द्रं हविः। बार्हस्पत्यो मन्त्रः।
यागे पुरोडाशादिसम्प्रदानं मन्त्रस्तुत्यञ्ञ्च देवता इत्याहुः। सास्य देवता इत्यधिकारः प्राक् पितृव्यात् (4.2.36)।
-4-1-25- कस्येत् ।।
कशब्दादण् स्यादिकारश्चान्तादेशः। को(1) देवतास्य कायं हविः।
(1.) प्रजापतिरित्यर्थ.।
-4-1-26- शुक्राद् घन् ।।
स्यात्। शुक्रियोऽध्यायः।
-4-1-27- अपोनध्त्रपान्नप्तृभ्यां घः ।।
आभ्यां पूर्वार्थे घःस्यात्। अपोनप्त्रियम्। अपान्नप्त्रिमम्।
-4-1-28- छे च ।।
आभ्यां छः स्यात्। अपोनप्त्रीयम्। अपान्नप्त्रीयं हविः।
। पैङ्गाक्षीपुत्रादिभ्य(2) उपसंख्यानम् ।। पैङ्गाक्षीपुत्रीयम्। तार्णविन्दवीयम्। (2.) पैङ्गाक्षीउकुबेरपुत्रीत्यर्थः।
। शतरुद्राद् घश्च ।। शतरुद्राद् घच्छौ स्याताम्। शतद्रीयम्। शतरुद्रियम्।
-4-2-29- महेन्द्राद् घाणौ च ।।
अस्माद् घाणौ स्याताम्, छश्च। माहेन्द्रम्, महेन्द्रियम्, महेन्द्रीयम्।
-4-2-30- सोमाट् ट्यण् ।।
पूर्वार्थे ट्यण् स्यात्। सौम्यं हविः। सौमी ऋक्।
-3-2-31- वाय्वृतुपित्रुषसो यत् ।।
पूर्वार्थ एभ्यो यत् स्यात्। वायव्यो मन्त्रः। ऋतव्यम्। उषस्यम्। पित्र्यम्।
-4-2-32- द्याव्यापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ।।
एभ्यः षड्भ्यश्छः स्याद् यच्च पूर्वार्थे। द्यावापृथिवीयम्, द्यावापृथिव्यम्। शुनासीरीयम्, शुनासीर्यम्। मरुत्वतीयम्, मरुत्वत्यम्। अग्रिषोमीयम्, अग्रषोम्यम्। वास्तोष्पतीयम्, वास्तोष्पत्यम्।
गृहमेधीयम्, गृहमेध्यम।
-4-2-33- अग्नेर्ढक् ।।
स्यात्। आग्नेयश्चरुः।
-4-2-34- कालेभ्यो भववत् ।।
कालवाचिभ्यः सास्य देवता इत्यर्थे भवार्थवत् प्रत्ययाः स्युः। मासिकम्। प्रावृषेण्यम्। हैमनम्। वासन्तम्।
-4-2-35- महाराजप्रोष्ठपदाट् ठञ्ञ् ।।
आभ्यां पूर्वार्थे ठञ्ञ् स्यात्। माहाराजिकम्(1)। प्रौष्ठपदिकम्। (1.) ऐन्द्रमित्यर्थः।
। तदस्मिन् वर्त्तत इति नवयज्ञादिभ्यः ।। ठञ्ञ् स्यात्। नवयज्ञोऽस्मिन् वर्त्तते नावयज्ञिकः कालः। स्वाध्यायिकः। औत्पातिकः।
। पूर्णमासादण् ।। पूर्णमासोऽस्यां वर्त्तते पौर्णमासी तिथिः।

              ।।सास्य देवता इत्यधिकारः पूर्णः ।।
-4-1-36- पितृव्यमातुलमातामहपितामहाः ।।
एते निपात्यन्ते। गौरादिङीषि--पितामही, मातामही।
। अवेर्दुग्धे सोढदूसमरीसचः ।। अविशब्दादेते स्युर्दुग्धं चेत्। अविसोढम्। अविदूसम्। अविमरीसम्।
।तिलान्निष्फलात् पिञ्ञ्जपेजौ ।। स्याताम्। तिलपिञ्ञ्जः। तिलपेजः।
-4-1-37- तस्य समूहः ।।
अत्रार्थेऽण् स्यात्। काकानां समूहः काकम्। वाकम्। शौकम्। समूहाधिकारः कट्चयनं (4.2.51) यावत्।
-4-1-38- भिक्षादिभ्योऽण् ।।
एभ्यो बाधकं बाधित्वाण स्यात्। भिक्षाणां समूहो भैक्षम्। गार्भिणम्। चार्भिणम्। धार्मिणम्। साहस्रम्। पादातम्।
युवतिशब्दाद् यौवतमिति जयादित्यः। भस्याढे तद्धिते इति पुंवद्भावे यौवनमिति भागवृत्तिः।
-4-2-39-ोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्त्रवत्समनुष्याजाद् वुञ्ञ्।।
 गोत्रान्तादुक्षादिभ्यश्च समूहे वुञ्ञ् स्यात्। दाक्षकम्। गार्गकम्। औक्षकम्। औष्ट्रकम्। औरभ्रकम्। राजकम्।
राजन्यकम्। राजपुत्रकम्। वात्सकम्। आजकम्।
।वृद्धाच्च।।वार्द्धकम्।
-4-2-40- केदाराद् यञ्ञ्च ।।
केदाराद् यञ्ञ् च स्यात्। कैदार्यम्। केदारकम्। अचित्तठको बाधा।
। गणिकायाश्च ।। गाणिक्यम्।
-4-2-41- ठञ्ञ् कवचिनश्च ।।
कवचिनः केदाराच्च ठञ्ञ् स्यात्। कावचिकम्। कैदारिकम्।
-4-2-42- ब्राह्मणमाणववाडवाद् यन् ।।
स्यात्। ब्राह्मण्यम्। माणव्यम्। वाडव्यम्।
। पृष्ठाच्च ।। पृष्ठ्यम्।
। अह्नः खः क्रतौ ।। क्रतुविषयेऽह्नः समूहे खः स्यात्। अहीनः।
। पर्श्वा णस् ।। समूहे। पार्श्वम्। पर्शूणां समूह इत्यर्थः।
-4-2-43- ग्रामजनबन्धुसहायेभ्यस्तल् ।।
एभ्यः समूहे तल् स्यात्। ग्रामता। बन्धूता। जनता। सहायता (1)।
(1.) पुराणेषु सुरता इति प्रयोगस्तु आर्ष एव।
। गजाच्च ।। गजता।
-4-2-44- अनुदात्तादेरञ्ञ् ।।
-4-2-45- खण्डिकादिभ्यश्च ।।
एभ्योऽञ्ञ् स्यात्। कापोतम्। मायूरम्। खाण्डिकम्। वडवानां वृन्दं वाडवम्।
-4-2-46- चरणेभ्यो धर्मवत् ।।
समूहे चरणार्थेभ्यो धर्मवत् प्रत्ययाः स्युः। काठकम्। छान्दोग्यम्। आथर्वणम्।
-4-1-47- अचित्तहस्तिधेनोष्ठक् ।।
अचित्तार्थेभ्यो हस्तिधेनुभ्याञ्ञ्च समूहे ठक् स्यात्। आपूपिकम्। शाष्कुलिकम्। हास्तिकम्। धैनुकम्।
। धेनोरञ्ञपि ।। धैनवम्।
-4-2-48- केशाश्वाभ्यां यञ्ञ्छावन्यतरस्याम् ।।
यथासंख्यमेतौ स्याताम्। केशाद् यञ्ञ् वा स्यात्। कैश्यम्।
पूर्वेण ठक्। कैशिकम्।
अश्वाच्छो वा--अश्वीयम्। आश्वम्। पक्षेऽण्।
-4-2-49- पाशादिभ्यो यः ।।
पाशादेर्वृन्दे यः स्यात्। पाश्या। तृण्या। वन्या। वात्या। धूम्या।
-4-2-50- खलगोरथात् ।।
एभ्यो यः स्यात्। खल्या। गव्या। रथ्या।
-4-2-51- इनित्रकट्यचश्च ।।
खलादिभ्यः क्रमेणैते स्युः। खलिनी। गोत्रा। सञ्ञ्जग्मे मत्स्यागोत्रया। रथकट्या।
। खलादिभ्य इनिर्वक्तव्यः ।। खलिनी। उलुकिनी। पदि्मनी।

                      ।।उक्तं समूहे ।।
तस्य इति वर्त्तत एव।
-4-2-52- विषयो देशे ।।
षष्ठ्यन्तात् तस्य विषयेऽण् स्याद् देशश्चेत्। शिवीनां विषयो देशः शैवः। आङ्ग। पौरवः।
-4-2-53- राजन्यादिभ्यो वुञ्ञ् ।।
एभ्यः पूर्वार्थे वुञ्ञ् स्यात्। राजन्यको देशः। मालवकः।
-4-2-54- भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ।।
गणाभ्यामाभ्यां पूर्वार्थे विधल्-भक्तलौ स्याताम्। भौरिकिविधः। ऐषुकारिभक्तः।
-4-1-55- सोऽस्यादिरिति च्छन्दसः प्रगाथेषु ।।
प्रगाथेषु च्छन्दसोऽण् स्यात् मन्त्रविशेषः प्रगाथश्चेत्। पङि्क्त रादिरस्य प्रगाथस्य पाङ्क्तः। आनुष्टुभः। जागतः।
। छन्दसः क्लीबे स्वार्थे उपसंख्यानम् ।। त्रिष्टुबेव त्रैष्टुभम्। जागतम्। आनुष्टुभम्।
-4-2-56- संग्रामे प्रयोजनयोद्धृभ्यः ।।
तदस्यार्थे प्रयोजनयोद्धृभ्यो यथाविहितं स्यात् संग्रामश्चेत्। सुभद्रा प्रयोजनमस्य सौभद्रो रणः। द्रौपदः। सैतः। स्त्रैणः। पौस्रः। भरता योद्धारोऽस्य भारतः संग्रामः। पादातः। आश्वः।
-4-2-57- तदस्यां प्रहरणमिति क्रीडायां णः ।।
अत्रार्थे णः स्यात् क्रीडा चेत्। दण्डः प्रहरणमस्यां दाण्डा क्रीडा। मौष्ट। पाल्लवा।
-4-2-58- घञ्ञ सास्यां क्रियेति ञ्ञः।।
 घञ्ञन्तादत्रार्थे ञ्ञः स्यात्। श्येनपातः क्रियास्यां श्यैनम्पता मृगया। मौसलपाता भूमिः।
-4-2-59- तदधीते तद्वेद ।।
अनयोरर्थयोरण् स्यात्। व्याकरणमधीते वेद वा वैयाकरणः। छान्दसः। ज्यौतिषः। निमित्तान्यधीते वेद वा नैमित्तः।
-4-2-60- क्रतूक्थादिसूत्रान्ताट्ठक् ।।
उभ्यः पूर्वार्थे ठक् स्यात। क्रतूः--आग्निष्टोमिकः। उक्थादिः--औक्थिकः। याज्ञिकः।
एक्थ। यज्ञ। लोकायत। न्याय। न्यास। तर्क।
। विद्यालक्षणकल्पसूत्रान्तादकल्पादेः । इति गणसूत्रम्। वायसविद्यिकः। धानुर्विद्यिकः।
चातुवैद्य इति तु तत्र कुशलार्थे कृतलब्धक्रीतकुशलाः इत्यणि। लक्षणाद्यन्तात्--गौलक्षणिकः। प्राथमकल्पिकः। वार्त्तिकसूत्रिकः। नेह--काल्पसूत्रः।
। विद्या चानङ्गक्षत्रर्धत्रिपूर्वा । ( ग0 सू0 )। अङ्गादिपूर्वाया विद्याया न ठक् स्यात्।आङ्गविद्यः। त्रैविद्यः।
। आख्यानाख्यायिकेतिहासपुराणेभ्यश्च ।। ठक् स्यात्। आख्यानाख्यायिकयोरर्थग्रहणम्। इतिहासपुराणयोस्तु स्वरूपग्रहणम्। यावक्रीतिकः। वासवदत्तिकः। ऐतिहासिकः। पौराणिकः।
।सर्वसादेद्विगोश्च लः ।। एभ्यो लुक् स्यात्। सर्वादेः--सर्ववेदः। सादेः--सवार्त्तिकः। द्विगोः--पञ्ञ्चकल्पः। द्विवेदः। द्वितन्त्रः ।
। इकन् पदोत्तरपदात् ।। पदोत्तरपदिकः।
। शतषष्टेः षिकन् पथः ।। शतपथिकः। षष्टिपथिकी।
-4-2-61- क्रमादिभ्यो वुन् ।।
स्यात्। क्रममधीते वेद वा क्रमकः। पदकः।
शिक्षा । मीमांसां। उपनिषत्।
-4-2-62- अनुब्राह्मणादिनिः ।।
पूर्वार्थे इनिः स्यात्। ब्राह्मणसदृशो ग्रन्थःउअनुब्राह्मणम्, तदधीते वेद वा अनुब्राह्यणी।
-4-2-63- वसन्तादिभ्यष्टक् ।।
पूर्वार्थे ठक् स्यात्। वासन्तिकः। वार्षिकः। वसन्तादिसहचरितो ग्रन्थस्तथा।
-4-2-64- प्रोक्ताल्लुक् ।।
प्रोक्तप्रत्ययान्तादध्येतृवेदित्रोरुत्पन्नस्य प्रत्ययस्य लुक स्यात्। पाणिनिना प्रोक्तो ग्रन्थः वृद्धाच्छः पाणिनीयः, तमधीते वेद वा
पाणिनीयश्छात्रः। आपिशलिना प्रोक्तमिति इञ्ञश्च इत्यण्--आपिशलम्।
आपिशलमधीते वेद वा आपिशला ब्राह्मणी।
-4-2-65- सूत्राच्च कोपधात् ।।
सूत्रवाचिनः कोपधादध्येतृवेदित्रोरुत्पन्नस्य प्रत्ययस्य लुक् स्यात्। अष्टकं पाणिनिसूत्रमधीयते विदन्ति वाऽष्टकाः पाणिनीयाः। दशका वैयाघ्रपदीयाः। द्वादशका मीमांसकाः।
। संख्याप्रकृतेरेवाभिधानम् ।। नेह--महावार्त्तिकसूत्रमधीते माहावार्त्तिकः।
कोपधात् किम् ? चतुष्टयमधीते चातुष्टयः।
-4-2-66- छन्दोब्राह्मणानि च तद्विषयाणि ।।
मण्डूकप्लुत्या प्रोक्ताद् इत्येव। प्रोक्तप्रत्ययान्तानि च्छन्दांसि ब्राह्मणानि च, चकारात् केचन पुराणप्रोक्ताः कल्पाः सूत्राणि च, तद्विषयाणि अध्येतृवेदितृविषयाणि स्युः, न प्रोक्तप्रत्ययान्तानि। कठेन प्रोक्तं छन्दोऽधीयते कठाः। मौदाः। ताण्ड्ये न प्रोक्तं ब्राह्मणमधीयते ताण्डिनः। कल्पे--काश्यपिनः। सूत्रे--पाराशरिणः।
-4-2-67- तदस्मिन्नस्तीति देशे तन्नाम्नि ।।
अत्रार्थेऽण् स्याद् देशस्तन्नामा चेत्। उदुम्बरा अस्मिन् देशे सन्ति औदुम्बरः। पार्वतः।
-4-2-68- तेन निर्वृत्तम्।
अत्रार्थेऽण् स्यात्। कुशाम्बेन निर्वृत्ता कौशाम्बी पुरी। साहस्री परिखा।
-4-2-69- तस्य निवासः ।।
अत्रार्थेऽण् स्यात्। शिवीनां निवासः शैवः।
-4-2-70- अदूरभवश्च ।।
अत्रार्थेऽण् स्यात्। विदिशाया अदूरभवं वैदिशं नगरम्। पाम्पानि
वनानि।
एते चत्वारोऽर्था अनुवर्त्तन्ते शेषाधिकारं (4.2.92) यावत्।
-4-2-71- ओरञ्ञ् ।।
उवर्णान्ताच्चातुरर्थिकोऽञ्ञ् स्यात्। कार्कटवम्।
अञ्ञधिकारः प्राक् सुवास्त्वादिभ्योऽणः (4.2.77)।
-4-2-72- मतोश्च बह्वजङ्गात् ।।
बह्वजङ्गं यस्य मतुपस्तदन्तादञ्ञ् स्यात्। ऐकटावतो नाम देशः।
-4-2-73- वह्वचः कूपेषु ।।
बह्वचोऽञ्ञ् स्यात् कूपश्चेत्। दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः। वृक्षमूलस्यादूरभवो वार्क्षमूलः।
-4-2-74- उदक् च विपाशः ।।
विपाशाया उत्तरकूलकूपेष्वञ्ञ् स्यात्। दत्तेन निर्वृतो दात्तः कूपः। गौप्तः।
-4-2-75- सङ्कलादिभ्यश्च ।।
एभ्यश्चातुरर्थिकोऽञ्ञ् स्यात्। साङ्कलः। पौष्कलो देशभेदः।
-4-2-76- स्त्रीषु सौवीरसाल्वप्राक्षु ।।
स्त्रीलिङ्गे सौवीरादिदेशेऽञ्ञ् स्यात्। दत्तामित्रेण निर्वृत्ता पुरीदात्तामित्री। साल्वे--वैधूभाग्री। प्राचि--माकन्दी नगरी।
-4-2-77- सुवास्त्वादिभ्योऽण् ।।
एभ्योऽण् स्यात्। सौवास्तवं नगरम्। सौवास्तवी नगरी। सौवास्तवी नदी। वार्णवम्। वार्णवी।
-4-2-78- रोणी ।।
रोण्यन्तादण् स्यात्। आजकरोणः।
। केवलाच्च ।। रोण्या निवृत्तो रौणः कूपः।
-4-2-79- कोपधाच्च ।।
अण् स्यात्। कार्णचित्रकः। कार्णच्छिद्रकः। त्रैशङ्कवम्।
-4-2-80- वुञ्ञ्छण्कठजिलसेनिरढञ्ञ्ण्ययफक्फिञ्ञिञ्ञ्ञ्ञ्यकक्ठकोऽरीहणकृशार्श्वश्यकुमुदकाशत्णप्रेक्षाश्मसखिसङ्काशबलपक्षकणेसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ।।
एभ्यः सप्तदशभ्यो गणेभ्यो यथासम्भवं चतुर्ष्वर्थेषु वुञ्ञादयः स्युः। अरीहणादेर्वुञ्ञ्--आरीहणकम्। कृशाश्वादेश्छण्--कार्शश्वीयः। ऋश्यादेः कः--ऋश्यकः। कुमुदादेष्ठच्--कुमुदिकम्। काशादेरिलः--काशिलम्। तृणादेः सः--तृणसा, नडसा, वीरणसा। प्रेक्षादेरिनिः--प्रेक्षी, फलकी। अश्मादिभ्यो रः--अश्मरः। सख्यादेर्ढञ्ञ्--साखेयम्। सङ्काशादेर्ण्यः--साङ्काश्यम्, काम्पिल्यम्। बलादिभ्यो यः--बल्यम्।पक्षादेः फक्--पाक्षायणः। कर्णादेः फिञ्ञ्--कार्णायनिः। सुतङ्गमादेरिञ्ञ्--सौतङ्गमिः। प्रगदिन्नादेर्ञ्ञ्यः--प्रागद्यम्। वराहादेः कक्--वाराहकम्, पालाशकम्, शार्करकम्। कुमुदादेष्ठक्--कौमुदिकम्, गौमथिकम्।
-4-2-81- जनपदे लुप् ।।
जनपदे तन्नाम्नि देशे चातुरर्थिकस्य लुप् स्यात्। पञ्ञ्चालानां निवासो जनपदः पञ्ञ्चालाः। कुरवः। वङ्गाः।
जनपदो देशभेदः।
-4-2-82- वरणादिभ्यश्च ।।
एभ्यश्चातुरर्थिकस्य लुप् स्यात्। वरणा ग्रामः। गोदौ ग्रामः। खलतिकं वनानि। एवं शिरीषाः। शृङ्गी। गया। उज्जयिनी।
-4-2-83- शर्कराया वा ।।
अस्या लुप् स्याद्वा। शर्कराभिनिर्वृत्तं शर्कराः, शार्करं वा।
-4-2-84- ठक्छौ च ।।
अस्याष्ठ-छौ स्याताम्। शार्करिकम्। शर्करीयम्।
-4-2-85- नद्यां मतुप् ।।
नद्यां चतुष्वर्थेषु मतुप् स्यात्। उदुम्बरावती नदी। इक्षुमती।
-4-2-86- मध्वादिभ्यञ्ञ्च ।।
एभ्यश्वतुर्ष्वर्थेषु मतुप् स्यात्। मधुमान्। विसवान् देशः।
-4-2-87- कुमुदनडवेतसेभ्यो ड्मतुप् ।।
एभ्यो ड्मतुप्। डिति टिलोपः। कुमुद्वान्। नड्वान्। वेतस्वान्। वेतस्वती सरित्।
।महिषाच्च ।। महिष्मान् नाम देशः।
-4-2-88- नडशादाड् ड्वलच् ।।
आभ्यां ड्वलच् स्यात्। नड्वलः। शाद्वलः। शय्या शाद्वलमासनं शुचिशिला।
-4-2-89- शिखाया वलच् ।।
स्यात्। शिखावलं नगरम्।
-4-2-90- उत्करादिभ्यश्छः ।।
उत्करीयम्।
-4-2-91- नडादीनां कुक् च ।।
एषां छःस्यात् कुक् च। नडकीयम्। नड। वेषु। प्लक्ष। बिल्व।
। क्रुञ्ञ्चाया ह्रस्वत्वं च । (ग0 सू0)। क्रुञ्ञ्चकीयम्।
। तक्षन्नलोपश्च । (ग0 सू0)। तक्षकीयम्।

                 ।।उक्ताश्चातुरर्थिकाः ।।
-4-2-92- शेषे ।।
शेषे तत्र जातादावर्थे प्रत्यया वाच्याः। राष्ट्रे जातः, राष्ट्रादागतः, राष्ट्रे भवो वा राष्ट्रियः। शालीयः।
इह चक्षुषा गृह्यते चाक्षुषं रूपम्, श्रावणः शब्दः अश्वैरुह्यते आश्वो रथः, रथः, चातुरं शकटम्, दृषदि पिष्टा दार्षदा माषाः, औदूखलाः सक्तवः चतुर्दश्यां दृश्यते चातुर्दशं रक्ष इति सामान्येन तस्येदम् इति
विवक्षायाम् इति भागवृत्तिः।
शेष इत्यधिकारौ लक्षणं चेति जयादित्यः।
-4-2-93- राष्ट्रावारपाराद् घखौ ।।
आभ्यां घ खौ स्याताम्। राष्ट्रियः। अवारपारीणः।
। विगृहीताच्च ।। अवारीणः। पारीणः।
। विपरीताच्च ।। पारावारीण इति चेष्यते।
-4-2-94- ग्रामाद् यखञ्ञौ ।।
स्याताम्। ग्राम्यः, ग्रामीणः।
-4-2-95- कत्र्यादिभ्यो ढकञ्ञ् ।।
कत्रीत्येवमादिभ्यो ढकञ्ञ् स्यात्। कत्त्री--कात्त्रेयकः। उम्भि--औम्भेयकः। ग्रामेयकः। नागरेयकः।
। कुड्याया यलोपश्च । (ग0 सू0)। कौडेयकः।
-4-2-96- कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु ।।
कुलादेः श्वादौ वाच्ये ढकञ्ञ् स्यात्। कौलेयकः श्वा। कौक्षेयकोऽसिः।
ग्रैवेयकः कण्ठालङ्कारः।
-4-2-97- नाद्यादिभ्यो ढक् ।।
स्यात्। नादेयं जलम्। वाराणसेयो जनः। श्रावस्तेयः।
-4-2-98- दक्षिणापश्चात्पुरस्यक् ।।
एभ्यः शेषे त्यक् स्यात्। आच्प्रत्ययान्तो दक्षिणाशब्दः, न स्त्रीलिङ्ग इति सर्वनाम्रो वृत्तिमात्रे पुंवद्भावो न। दाक्षिणात्यः। पाश्चात्त्यः। पौरस्त्यः।
-4-2-99- कापिश्याः ष्फक् ।।
अस्याः ष्फक् स्यात्। कापिशायनं मघु। कापिशायनी द्राक्षा।
। बाह् ल्युर्दिपर्दिभ्यश्च ।। ष्फक् स्यात्। बाह्णायनी। और्दायनी। पार्दायनी।
-4-2-100- रङ्कोरमनुष्येऽण् च ।।
रङ्कोरत्रार्थेऽण् स्यात्, ष्फक् च। राङ्कवः। राङ्कवायणः।
-4-2-101- द्युप्रागपागुदक्प्रतीचो यत् ।।
एभ्यो यत् स्यात्। दिव्यम। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्। अव्ययाट् ट्युट्युलौ तुट् च--प्राक्तनम्।
-4-2-102- कन्थायाष्ठक् ।।
कान्थिकम्।
-4-2-103- वर्णौ वुक् ।।
वर्णौ देशे कन्थाया वुक् स्यात्। कान्थकम्।
-4-2-104- अव्ययात् त्यप् ।।
अमेहक्वतसित्रेभ्योऽभिधानम्। अमात्यः। क्वत्येयं दुर्मतिस्तव। ततस्त्यः। यतस्त्यः। कुतस्त्यः। यत्रत्यः। अत्रत्यः। तत्रत्यः।
। त्यब् नेर्ध्रुवे ।। नित्यम्।
। निसो गते त्यप् ।। निर्गतो देशान् निष्ट्यः चाण्डलादिः।
। अरण्याण्णः ।। आरण्याः सुमनसः।
। दूरादेत्यः ।। दूरेत्यः पथिकः।
। उत्तरादाहञ्ञ् ।। औत्तराहः।
-4-2-105- ऐषमोह्यःश्वसोऽन्यतरस्याम् ।।
एभ्यस्त्यप् स्याद्वा। ऐषमस्त्यम्। ह्यस्त्यम्। श्वस्त्यम्।
पक्षे--ऐषमस्तनम्। ह्यस्तनम्। श्वस्तनम्।
-4-2-106- तीररूप्योत्तरपदादञ्ञ्ञ्ञौ ।।
तीरोत्तरपदादाञ्ञ् रूप्योत्तरपदाच्च ञ्ञः स्यात्। वार्कतीरम्। वार्करूप्यम्।
-4-2-107- दिक्पूर्वपदासंज्ञायां ञ्ञः ।।
दिक्पूर्वपदादनाम्रि ञ्ञः स्यात्। पौर्वशालः। औत्तरशालः।
-4-2-108- मद्रेभ्योऽञ्ञ् ।।
दिक्पूर्पपदान्मद्रेभ्योऽञ्ञ् स्यात्। पौर्वमद्रः।
-4-2-109- उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् ।।
उदीच्यग्रामवाचिनोऽञ्ञ् स्यात्। शैवपुरम्। माहानगरम्। बह्वचः
किम् ? ध्वाजम्।
-4-2-110- प्रस्थोत्तरपदपलद्यादिकोपधादण् ।।
एभ्योऽण् स्यात्। प्रस्थान्तात्--माद्रीप्रस्थो ग्रामः। पलद्यादेः--पालदः। पारिषदः। कोपधाद्--वैघातकः।
उदीच्यग्रामादञ्ञोऽपवादः।
-4-2-111- कण्वादिभ्यो गोत्रे ।।
गोत्रप्रत्ययान्तात् कण्वादेरण् स्यात्। छस्य बाधा। कण्वादेर्गर्गादित्वाद् यञ्ञ्--काण्व्यः, तस्यच्छात्राः काण्वाः। गौकक्षाः।
-4-2-112- इञ्ञश्च ।।
गोत्रे इञ्ञन्तादण् स्यात्। छापवादः। दाक्षेरमी दाक्षाः। प्लाक्षाः।
-4-2-113- न द्व्यचः प्राच्यभरतेषु ।।
प्राच्यभरतयोर्गोत्रे द्व्यच इञ्ञन्तादण् न स्यात्। वैङ्कीयाः। काशीयाः।
-4-2-114- वृद्धाच्छः ।।
वृद्धसंज्ञकाच्छः स्यात् शैषिकः। शालीः। आचार्यीयः। बौद्धीयं मतम्। त्वदीयः। मदीयः।
-4-2-115- भवतष्ठक्छसौ ।।
अस्मादिमौ स्याताम्। छस्य बाधा। भावत्कः। भवदीयः।
-4-2-116- काश्यादिभ्यष्ठञ्ञ्ञ्ञिठौ ।।
एभ्य इमौ स्याताम्। काशिकी, काशिका। बैदिकी, बैदिका। चैदिकी, चैदिका।
-4-2-117- वाहीकग्रामेभ्यश्च ।।
एभ्यो वृद्धेभ्यष्ठञ्ञ्ञ्ञिठौ स्याताम्। शाकलिकी, शाकलिका।
-4-2-118- विभाषोशीनरेषु ।।
एषु वाहीकग्रामेभ्यस्तौ स्यातां वा। आह्वजालिकी, आह्वजालिका। आह्वजालीया वा।
-4-2-119- ओर्देशे ठञ्ञ् ।।
उवर्णान्ताद्देशे ठञ्ञ् स्याच्छेषे। शाबरजम्बुकः।
-4-2-120- वृद्धात् प्राचाम् ।।
प्राग्देशे वृद्धादेवोवर्णान्ताट् ठञ्ञ् स्यात्। आढकजम्बुकः।
वृद्धात् किम् ? मल्लवास्तु--माल्लवास्तवः।
-4-2-121- धन्वयोपधाद् वुञ्ञ् ।।
धन्वान्ताद् देशवाचिनो वृद्धाद् योपधाच्च वुञ्ञ् स्यात्। धन्वाउमरुदेशः। पारेधन्वकः। साङकाश्यकः।
-4-2-122- प्रस्थपुरवहान्ताच्च ।।
एतदन्ताद् वृद्धाद् देशाद्वुञ्ञ् स्यात्। मालाप्रस्थकः। नान्दीपरकः। पैलुवहकः।
-4-2-123- रोपधेतोः प्राचाम् ।।
रेफोपधादीदन्ताच्च वृद्धात् प्राग्देशाद् वुञ्ञ् स्यात्। पाटलिपुत्रकः।
ऐकचक्रकः। इर्तः---माकन्दकः।
-4-2-124- जनपदतदवध्योश्च ।।
वृद्धाज्जनपदाद् वुञ्ञ् स्यात्। आभिसारकः। अवधिभूताज्जनपदात्--त्रैगर्त्तकः। गर्त्तोत्तरपदाच्छस्य बाधा।
-4-2-125- अवृद्धादपि बहुवचनविषयात् ।।
बहुवचनविषयाज्जनपदाद् वृद्धादवृद्धाच्च वुञ्ञ् स्यात्। छाणोरपवादः। आङ्गकः। आजमीढकः। वृद्धात्--जाम्बकः। कालञ्ञ्जरकः।
-4-2-126- कच्छाग्निवक्त्रगर्त्तोत्तरपदात् ।।
कच्छाद्यन्ताद् देशाद् वुञ्ञ् स्यात्। दारुकच्छकः। काण्डाग्नकः। सैन्धुवक्त्रकः। बाहुगर्त्तकः।
-4-2-127- धूमादिभ्यश्च ।।
एभ्यो देशे वुञ्ञ् स्यात्। छादेर्बाधकः। धौमकः। वैदेहकम्।
एवं साकेत। राजगृह। उज्जयिनी। दक्षिणापथ।
दक्षिणापथी वृत्तिः इति तु चिन्त्यम्।
। समुदान्नौमनुष्ययोः । ( ग0 सू0 )। वुञ्ञ् स्यात्। सामुद्रिका नौः। सामुद्रको मनुष्यः। नेह--सामुद्रं जलम्, सामुद्रं लवणम्।
-4-2-128- नगरात् कुत्सनप्रावीण्ययोः ।।
वुञ्ञ् स्यात्। खलो नागरकः। कुशला नागरकाः।
कुत्सनप्रावीण्ययोः किम् ? नागरा विप्राः।
-4-2-129- अरण्यान् मनुष्ये ।।
वुञ्ञ् स्यात्। आरण्यको मनुष्यः।
। पथ्यध्यायन्यायविहारहस्तिषु ।। आरण्यकः पन्था इत्यादि।
। वा गोमयेषु ।। आरण्यकम्, आरण्यं वा गोमयम्।
-4-2-130- विभाषा कुरुयुगन्धराभ्याम् ।।
आभ्यां वुञ्ञ् स्याद्वा। कौरवकः, कौरवो वा। यौगन्धरकः, यौगन्धरो वा।
-4-2-131- मद्रवृज्योः कन् ।।
आभ्यां कन् स्यात्। मद्रकः। वृजिकः।
-4-2-132- कोपधादण् ।।
कोपधाज्जनपदादण् स्यात्। वुञ्ञो बाधा। ऋषिकेषु जात आर्षिकः। माहर्षिकः। आर्ष्यकः।
अण्ग्रहणादुवर्णादपि देशे--ऐक्ष्वाक इत्येके।
-4-2-133- कच्छादिभ्यश्च ।।
देशेऽण् स्यात्। काच्छः। सैन्धवः।
तदन्ताच्चेष्टम्--सौरसैन्धवम्।
कच्छ। सिन्धु। कम्बोज। गन्धार। कश्मीर। साल्व। कुरु। रङ्कु।
-4-2-134- मनुष्यतत्स्थयोर्वुञ्ञ् ।।
अनयोरर्थयोः कच्छादिभ्यो वुञ्ञ् स्यात्। काच्छको मनुष्यः। सैन्धवकः।
साल्वकः।
तत्स्थे--काच्छकमस्य हसितम्। काच्छिका चूडा सैन्धविका।
-4-2-135- अपदातौ साल्वात् ।।
अपदातावेव साल्वाद् वुञ्ञ् स्यात्। साल्वको मनुष्यः।
नेह--साल्वः पदातिः।
-4-2-136- गोयवाग्वोश्च ।।
अनयोः साल्वाद् वुञ्ञ् स्यात्। साल्वको गौः। साल्विका यवागूः।
-4-2-137- गर्त्तोत्तरपदाच्छः ।।
गर्त्तान्ताद् देशाच्छः स्यात्। वृकगर्त्तीयः। हस्तगर्त्तीयः।
-4-2-138- गहादिभ्यश्च ।।
एभ्यश्छः स्यात्। गहीयः। अन्तस्थीयः। नान्तरीयः। एकग्रामीयः।
गह। अन्तस्थ। नान्तर। सम। विषम। आकृतिगणोऽयम्।
तेन अङ्गाधिकारीयः, नगरीयः, पूर्वत्रासिद्धीय इत्यादि सिध्यति।
। पृथिवीमध्यस्य मध्यमञ्ञ्च ।। मध्यमीयः।
। चरणेऽण् च ।। माध्यमः। मध्यमीयः।
। मुखपार्श्वतसोर्लोपः ।। मुखतीयः। पार्श्वतीयः।
। कुग् जनस्य परस्य च ।। जनकीयम्। परकीयम्।
। देवस्य चेति वक्तव्यम् । । देवकीयम्।
चान्द्रास्तु--परजनदेवराज्ञां कुक् च इति पठन्ति। स्वस्य च। स्वकीयम्।
वामनस्तु स्वशब्दादणि द्वारादीनाञ्ञ्च इत्यत्रैजागममुदाहरिष्यति--स्वस्येदं सौवमिति।
। वेणुकादिभ्यो वृद्धिश्च ।। वैणुकीयम्। चैत्रकीयम्।
-4-2-139- प्राचां कटादेः ।।
कटपूर्वात् प्राग्देशाच्छः स्यात्। कटनगरीयम्। कटधोषीयम्।
-4-2-140- राज्ञः क च ।।
राज्ञश्छः स्यात्, कश्चान्तादेशः। राजकीयम्।
-4-2-141- वृद्धादकेकान्तखोपधात् ।।
वृद्धादकेकान्तात् खोपधाच्च देशाच्छः स्यात्। आरीहणकीयम्। आश्वत्थिकीयम्। कौटशिखीयम्।
-4-2-142- कन्थापलदनगरग्रामहृदोत्तरपदात् ।।
कन्थाद्यन्ताद् देशाच्छः, स्यात्। वाहीकग्रामविधेरपवादः। दाक्षिकन्थीयः। दाक्षिपलदीयः। दाक्षिनगरीयः। वाहीकग्रामीयः। माहिषग्रामीयः। वाहीकह्रदीयः। माहिषह्रदीयः।
-4-2-143- पर्वताच्च ।।
छः स्यात्। पर्वतीय इति मावजीगणः।
-4-2-144- विभाषाऽमनुष्ये ।।
मनुष्यादन्यत्र पर्वताज्जातदौ छो वा स्यात्। पर्वतीयं फलम्,पार्वतं वा।
-4-2-145- कृकणपर्णाद् भारद्वाजे ।।
भारद्वाजदेशे कृकणपर्णाभ्यां छः स्यात्। कृकणीयम्। पर्णीयम्।
।।उक्तं देशे ।।
इति महामहोपाध्यायश्रीपुरुषोत्तमदेवकृतायां भाषावृत्तौ
चतुर्थाध्यायस्य द्वितीयः पादः
।।समाप्तश्च रक्तपादः ।।