भाषावृत्तिः/चतुर्थोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः
भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव
द्वितीयः पादः →

चतुर्थोऽध्यायः ।
प्रथमःपादः।
१। ड्याप्प्रातिपदिकात्।
स्वादिटाबादितद्धितानां प्रकृतिरधिक्रियते ।
२। खौजसमौटछष्टाभ्याम्भिस्डेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसम्ङ्योस्मुप् ।
एते सुपो ङ्यन्ताबन्तप्रातिपदिकेभ्यः परे स्युः। नदी नद्यो नद्यः। रामा रामे रामाः। वृक्षः वृक्षौ वृक्षाः ।
३। स्त्रियाम् ।
अधिकारोऽयम् । समर्थानां प्रथमाद्वेति (४।१।८२) यावत् ।
४। अजाद्यतष्टाप्।
अजादेर्गणाददन्ताच्च स्त्रियां टाप् स्यात् । अजा। अखा। कोकिला जातिः । पूर्वहायना टित्। जेष्ठा कनिष्ठा मध्यमा पंयोगे। दंष्ट्रा।
(1) सम्भस्वाजिनशणपिण्डेभ्यः फलात् । सम्फलेत्यादि ।
(2) सत्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्यात् । सतपुष्पा । एकपुष्पा ।
(3) शूद्रा चामहत्पूर्वा जातिः। महत्पूर्वस्य तु महाशूद्री।
(4) मूलान्नञ्ः । अमूला। अजादिपाठोऽयं जात्यादिलक्षणङीषादेर्बाधकः ।
अदन्तात् । खट्वा। देवदत्ता । तपरः किम्? शंस्थाः स्त्री।
५। ऋन्नेभ्यो ङीप् ।
ऋकारनकारान्तेभ्यः स्त्रियां डीप् स्यात्। कन्नी। दण्डिनी।
६। उगितश्च ।
उगितो डीप् स्यात् । गोमती। श्रेयसी । पचन्ती । अतिभवती।
(क) धातोरुगितः प्रतिषेधः । उखास्रत् । पर्णध्वत् ।
(ख) अच्चतेश्चोपसंख्यानम् । प्राची। प्रतीची।
७। वनो र च।
वव्रन्ताद् डीप् स्याद्रश्चान्तादेशः ।
धीवरी। पीवरी। परलोकदृश्वरी। खर्लोकदृश्वरी। सहकृत्वरी। सुत्वरी। कथमतिशुनी निःशुनी? अर्थवद्ग्रहणात्।
(क) वनो न हश इति वक्तव्यम् । हशः परो यो वंस्तदन्तान् डीब्री न स्तः । राजयुध्वा स्त्री । शर्वरीशब्दस्त्वौणादिको वरट्प्रत्ययान्तः ।
८। पादोऽन्यतरस्याम् ।
पादन्तान् डीप् स्याद्वा। विपदी द्विपिाहा ।
९। टाबृचि।
ऋच्यर्थे पादन्ताट् टाप् स्यात् । द्विपदा त्रिपदा ऋक् ।
१० । न षट्खस्रादिभ्यः ।
षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च (1) स्त्रीप्रत्ययो न स्यात् । पञ्च स्त्रियः । एवं सप्त। नव। कति । तदन्तेऽपि निषेधः । प्रियपञ्चानो वेश्याः । स्वस्रादेः । स्वसा। तिस्रः । चतस्रः। ननान्दा। दुहिता । याता। माता | नप्तेति भागुरिः । (2)
११ । मनः।
मन्नन्तान् ङीन्न स्यात्। पामा । पामानौ। सीमा। सीमानौ । तदन्तेऽपि । अतिपटिमा। पतिपटिमानौ।
१२। अनो बहुव्रीहिः।
अन्नन्ताद् बहुव्रीहे र्ङीन्न स्यात् । सुपर्वा । सुपर्वाणौ। बहुव्रीहेः किम्? सुराज्ञी। (3)
१३। डाबुभाभ्यामन्यतरस्याम् ।।
मन्नन्तादन्नन्ताच्च बहुव्रीहेर्डाब् वा स्यात् । सीमाः सीमानः। सुपर्वाः सुपर्वाणः । अनिनस्मन्ग्रहणेष्वर्थवद्ग्रहणाभावात् । सुपटिमाः सुपटिमानः स्त्रियः । निर्गरिमाः निगरिमाणः । अन्यतरस्यांग्रहणाड् डाप्प्रतिषेधाभ्यां मुक्ते ङीब्राविति भाष्यम् । बहुसुत्वरी नगरी।
१४। अनुपसर्जनात्।
वक्ष्यमाणस्त्रीप्रत्यय उपसर्जनान्न स्यात् । बहुकुरुचरा नगरी। बहुकुक्कुटा अटवी।
१५ । टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञकञ्क्वरप्ख्युनाम् । (4)
एतदन्तेभ्यः स्त्रियां ङीप् स्यात् । टित् । कुरुचरी । गायनी । सायन्तनी । टित्त्वसामर्थ्याद् नदट् नदी। धेट् स्तनन्धयी। ढः । वैनतेयी । अण्। कुम्भकारी। भङ्गकारी सेना । औपगवी । अञ् । औत्सी। बैदी। द्वयसच् । जानुद्वयसी। दघ्नच् । जानुदघ्नी । मात्रच् । जानुमात्री। तयप् । द्वितयी। द्वयी । उभयी । पञ्चतयी । ठक् । आक्षिकी । ठञ् । लावणिकी। कञ् । यादृशी। तादृशी। क्वरप् । नश्वरी। जित्वरी । गत्वरी। ख्युन् । सुभगङ्करणी।
(क) नञ्स्रञीककः । स्त्रेणी । पौंस्री। शाक्तीकी। तार्त्तोयिकी । हैतीयीकी। तीयादीकक् (४।२।७, वा)।
१६। यञश्च ।
अपत्ययञन्तान् ङीप् स्यात् । गार्गी । वात्सी।
१७। प्राचां ष्फ स्तद्धितः ।
यञन्तात् तद्धितसंज्ञकः ष्फः स्यात् । षित्त्वान् ङीष् । गार्ग्यायणी । वात्स्यायनी । प्राचां किम्? गार्गी । वात्सी।
१८। सर्वत्र लोहितादिकतन्तेभ्यः ।
गर्गाद्यन्तर्गणाल्लोहितादेः कतशब्दान्ताद् यञन्तान् नित्यं ष्फः स्यात् । लौहित्यायनी। सांशित्यायनी। कात्यायनी। सर्वत्रग्रहणाच्चाब्विषयेऽपि । आवट्यायनीति स्मृतिः।
१९। कौरव्यमाण्डूकाभ्याञ्च ।
ण्यान्तात् कुरुशब्दादपत्याणन्ताच्च मण्डूकात् ष्फः स्यात् । कौरव्यायणी। माण्डूकायनी । तस्येद (४।३।१२०) मित्यस्मन्तात्तु कौरवी सेना । माण्डूकी भार्य्या।
(क) इञन्तादासुरेरुपसंख्यानम् । आसुरायणी कन्या। ष्फस्य तडितत्वे यस्येति चेति (६।४।१४८) लोपः ।
२० । वयसि प्रथमे।
प्रथमवयोवचनान् ङीप् स्यात् । प्रथमग्रहणमचरमोपलक्षणार्थम् (5)। कुमारी। वर्करी। तरुणी। वधूटी। चिरण्टी । कथं कन्या? निपातनात् ।
२१ । द्विगोः । द्विगो र्ङीप् स्यात् । पञ्चपूली। त्रिलोकी । षडक्षरी । त्रिफलेति तु वैद्यकरूढ़ेः ।
२२ । अपरिमाणविस्ताचितकम्बलेभ्यो न तद्धितलुकि। एतदन्ताद् दिगोस्तद्धितलुकि ङीम् न स्यात् । अपरिमाणान्तात् । पञ्चभिरश्वैः क्रीता पञ्जाश्वा। त्रिशता । द्विवर्षा। कालः संख्या च न परिमाणम् । विस्ताद्यन्तात् । द्विविस्ता । द्व्याचिता। त्रिकम्बल्या । तद्धितलुकि किम्? समाहारे दशशती।
२३ । काण्डान्तात् क्षेत्रे ।
काण्डान्ताद् द्विगोस्तद्धितलुकि ङीम् न स्यात् । द्वे काण्डे प्रमाणमस्याः । द्विकाण्डा क्षेत्रभक्तिः । प्रमाणे लो द्विगो (५।२।३७, वा) रिति मात्रचो लुक् । क्षेत्रे किम्? द्विकाण्डी रज्जुः ।
२४। पुरुषात् प्रमाणेऽन्यतरस्याम् । क/?
पुरुषात् प्रमाणार्थाद् द्विगोस्तद्धितलुकि ङीब् वा स्यात् । द्विपुरुषी द्विपुरुषा वा परिखा।
२५। बहुव्रीहे रूधसो ङीष् ।
ऊधसन्ताद्बहुव्रीहेर्ङीष् स्यात् । डाप्-प्रतिषेध ङीपां बाधा । कुण्डोध्नी । घटोध्नी ।
२६ । संख्याव्ययादे र्ङीप् ।
एतदादेर्बहुब्रीहे रूधसन्तात् ङीप् स्यात् । चतुरूध्नी । निरूध्नी । स्वरे भेदः ।
२७। दामहायनान्ताच्च ।
संख्यादेरित्येव। दामहायनान्ताद् बहुव्रीहे र्ङीप् स्यात् । द्विदाम्नी। त्रिदाम्नी। हायनान्ताद्वयस्यभिधानम् । त्रिचतुर्भ्यां णत्वञ्च । द्विहायनी । त्रिहायणी। चतुर्हायणी।
२८। अन उपधालोपिनोऽन्यतरस्याम् ।
उपधालोपयोग्यादबन्ताद्बहुव्रीहे र्वा ङीप् स्यात् । सुराज्ञी। बहुतक्षणी । सुदाम्नी। भूरिधाम्नी विद्या । ङीपा मुक्ते डाप-प्रतिषेधौ । सुराजे सुराजानाविति । उपधालोपिनः किम्? सुपर्वाणो सुपर्वे ।
२६ । नित्यं संजाच्छन्दसोः ।
ङीप् स्यात् । सुराज्ञी नाम नगरी। छन्दसि नोदाज्ञ्रियते ।
३० । केवलमामकभागधेयपापापरसमानार्य्यकृतसुमङ्गलभेषजाच्च ।
एभ्यो नवभ्यः संज्ञायां ङीप् स्यात् । केवली नाम ज्योतिः । मामकी देवता। पापी। अपरी। समानी कून्दः। सुमङ्गली। संज्ञायामित्येव । मामिका बुद्धिः । सुमङ्गला नारी।
३१। रात्रेश्चाजसौ।
रात्रिशब्दात् संज्ञायां ङीप् स्यात् । रात्री। अजसौ किम्? रात्रयः ।
(क) अजसादिष्विति वक्तव्यम् । रात्रिम् । रात्रिभिरित्यादि। कथं तिमिरपटलैरवगुण्ठिताश्च रात्रा इति? कृदिकारादिति (४।१।४५, ग, सू) ङीष्।
३२। अन्तर्वत्पतिवतोर्नुक् ।
अनयो र्ङीप् स्यान्नुगागमञ्च । मतोर्वत्वञ्च निपातनात्। अन्तर्वह्नी गर्भिणी। पतिवत्नी सभर्तृका।
३३ । पत्युर्नो यज्ञसंयोगे।
पत्युर्ङीप् स्यान्नश्चान्तादेशो यज्ञसंयोगश्चेत् । पत्नी ब्राह्मणस्य । कथं पत्नी शूद्रस्येति? उपमानात् । (6)
३४। विभाषा सपूर्वस्य ।
सपूर्वपदस्य पत्युर्ङीम्नकारौ वा स्याताम् । वृद्धपत्नी वृद्धपतिः। “दृष्टा मया रामपतिः प्रमन्युः।"
३५। नित्यं सपत्न्यादिषु ।
एषु नित्यं ङीम्नकारौ स्याताम्। सपत्नी। “कामेकपत्नीव्रतदुःखशीलाम् ।” वीरपत्नी । भ्रातृपत्नी । पुत्रपत्नी ।
३६ । पूतक्रतोरै च।
अतो ङीप् स्यादैकारश्चान्तादेशः । पूतक्रतोर्भार्य्या पूतक्रतायी।
३७। वृषाकप्यग्निकुसितकुसौदानामुदात्तः।
एषां ङीप् स्यादैकारश्चान्तादेशः । वृषाकपायी वृषाकपे र्भार्य्या । अम्बायी।
३८। मनो रो वा।
मनीर्ङीप् स्यादैकारौकारादेशौ च। मनोः स्त्री मनायी मनावी। मनुरपीत्येके । नेत्यन्ये ।
३९। वर्णादनुदात्तात् तोपधात्तो नः।
तोपधाहर्णवाचिनो ङीप् स्याद्वा। तकारस्य च नकारः। एनी। श्येनी। हरिणी। रोहिणी । पक्ष एता। श्येता। हरिता। रोहिता । अनुदात्तात् किम्? खेता। अत इत्येव । शितिः स्त्री।
(क) असितपलितयोः प्रतिषेधः । असिता। पलिता।
(ख) क्रमित्येके । “गतो गणस्तूर्णमसिक्निकानाम् ।" पलिक्नी।
(ग) पिशङ्गादुपसंख्यानम् । “मध्येसमुद्रं ककुभः पिशङ्गीः।"
४०। अन्यतो ङीष् ।
तोपधादन्यतो वर्णादनुदात्तान् ङीष् स्यात् । सारङ्गी। कल्याषी। शवली। अनुदात्तात् किम्? कृष्णा । कपिला ।
४१। षिद्गौरादिभ्यश्च ।
षितो गौरादेश्च ङीष् स्यात् । नर्तकी। रजकी । खनकी । दंष्ट्रेत्यजादिपाठात्। गौरी। मत्सी। मनुषी। द्रोणी। आमलकी। वदरी। धातकी। विम्बी। रेवती। पिप्पली। पृथिवी। शमी।
४२। जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद् वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनाऽज्योविकारमैथुनेच्छाकेशवेशेषु ।
जानपदाद्येकादशकाद् यथाक्रमं वृत्त्यादावर्थे ङीष् स्यात्। जानपदी वृत्तिः । कुण्डी भाण्डम् । गोणी आवपनम् । स्थली अकृत्रिमा भूः। भाजी श्राणा। पक्वेत्यर्थः । नागी स्थौल्यवती। काली कृष्णवर्णा ।
(क) नीलात् प्राण्योषध्योः। नीली वड़वा। नीली ओषधिः ।
(ख) संज्ञायां वेत्येके । नीली नीला। कुशी लौहविकारः । कामुकी मैथुनेच्छावती । कवरी केशवेशः
४३। शोणात् प्राचाम् ।
शोणौ। प्राचां किम्? शोणा।
४४। वोतो गुणवचनात् (7)।
गुणवचनादुदन्ताद्वा ङीष् स्यात् । पट्वी पटुः । तन्वी तनुः । गुर्वी गुरुःः ।
(क) खरुसंयोगोपधयोः प्रतिषेधः । खरुः । कद्रुः । पाण्डुः स्त्री।
४५। बह्वादिभ्यश्च ।
बह्वादिर्वा ङीष् स्यात् । बह्व्यः। बहवः । रात्रिः। रात्री। जग्रसे कालरात्रीवेति भट्टिः। एवं शकटि । शाटि । शक्ति । शारि । यष्टि । पहति । युवति (8)। कल्याण । उदार । चण्ड । विकट । विशङ्कट ।
(1) इतः प्राण्यङ्गात् । कटी। धमनी। श्रोणी ।
(2) क्वदिकारादत्किनः । धरणी।
(3) सर्वतोऽक्तिन्नर्थादित्येके । रजनी । राजी। सुरभी। भूमी । अक्तिन्नर्थात् किम्? प्रकरणिः । इतश्छन्दःसूत्रे द्वे।
४६ । नित्यच्छन्दसि ।
४७। भुवश्च।
४८। पुंयोगादाख्यायाम् ।
यत् पुमाख्यं पुंयोगात् स्त्रियां वर्तते ततो डीष् स्यात् । गणकी। प्रष्ठी।
(क) गोपालिकादीनां प्रतिषेधः । गोपालिका स्त्री।
(ख) सूर्य्याद् देवतायां चाब् वक्तव्यः। सूर्य्यस्य देवता स्त्री सूर्या । अन्या तु सूरी।
४९। इन्द्रवरुणभवशव्वरुद्रमृड़हिमारण्ययवयवनमातुलाचार्य्याणामानुक्। एभ्यो ङीष् स्यादानुगागमश्च । इन्द्रादेः स्त्री इन्द्राणी। वरुणानी। मृडानी।
(क) हिमारण्ययोर्महत्त्वे । हिमानी। अरण्यानी।
(ख) यवाद्दोषे । यवानी।
(ग) यवनाल्लिप्याम् । यवनानी लिपिः (9)।
(घ) उपाध्यायमातुलाभ्यामानुग्वा । उपध्यायानी। मातुलानी। पत्ते उपाध्यायी। मातुली।
(ङ) आचार्य्यादणत्वञ्च । आचार्य्यामी।
(च) अर्व्यक्षत्रियाभ्यां वा ङीषानुको। अर्य्या अर्य्याणी। क्षत्रिया क्षत्रियाणी। पुंयोगे त्वर्यी क्षत्रियी।
५०। क्रौतात् करणपूर्वात् ।
ङीष् स्यात् । धनक्रोती। मनसाक्रीती। सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसीति टाबन्तेन समासः ।
५१। क्तादल्पाख्यायाम् ।
करणपूर्वात् क्तादल्याख्यायां ङीष् स्यात् । अभ्रविलिप्ती द्यौः । सूपविलिप्तो पात्री। अक्षरविलिप्ती जिह्वा ।
५२। बहुव्रीहेश्चान्तोदात्तात् ।
अन्तोदात्तात् क्तान्तबहुव्रीहे र्ङीष् स्यात्। उरुभिन्नी। केशविलूनी । इह पाणिग्रहीती भार्य्याविशेषे। दन्तजाताऽकृतामासजाताक्षणजातासुखजातासुकृतादयस्त्वजादिपाठात् ।
५३। अस्वाङ्गपूर्वपदाद्वा।
अस्वाङ्गपूर्वपदादनन्तरो ङीष् वा स्यात् । सारङ्गजग्धी सारङ्गजग्धा वा । मुरापीती सुरापीता वा।
५४। स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् । (10)
उपसर्जनस्वाङ्गात् प्रातिपदिकाद्वा ङीष् स्यात् । चन्द्रमुखी चन्द्रमुखा वा। निष्क्रान्ता केशान् निष्केशी निष्केशा वा यूका। असंयोगोपधात् किम्? सुगुल्फा। सुपार्श्वा । उपसर्जनात् किम्? दीर्घशिखा ।
(क) अङ्गगात्रनेत्रकण्ठेभ्योऽपि वेत्येके | मृद्वङ्गी मृद्वङ्गा वेत्यादि। (11)
५५ । नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ।
नासिकाद्यन्ताहा ङीष् स्यात् । तुङ्गनासिकी तुङ्गनासिका वा । तनूदरी तनूदरा वा । विम्बोष्ठी विम्बोष्ठा वा ।
(क) पुच्छाच्च । कल्याणपुच्छी कल्याणपुच्छा वा ।
(ख) कवरमणिविषशरेभ्यो नित्यम् । कवरपुच्छी । शरपुच्छी।
(ग) उपमानात् पक्षात् पुच्छाच्च । उलूकपक्षी शाला। काकपुच्छी सेना।
५६। न क्रोड़ादिबह्वचः ।
क्रोडाद्यन्ताद् बह्वजन्ताच्च स्वाङ्गादिति (४।१।५४) डीष् न स्यात् । सुक्रोड़ा। कल्याणखुरा। सुगुदा। दुर्भगा। सुभगा। आकृतिगणोऽयम् । बह्वचः । पृथुजघना।
५७। सहनञ्विद्यमानपूर्वाच्च ।
सहादिपूर्वादुक्तो ङीष् न स्यात् । सकेशा। अकेशा। विद्यमानकेशा । अनासिका।
५८। नखमुखात् संज्ञायाम् ।
आभ्यां नाम्नि नास्ति ङीष् । शूर्पणखा। कालमुखा। दीर्घणखा ।
५९। दौर्घजिह्वी च च्छन्दसि ।
छ द: सूत्रम्।
६०। दिक्पूर्वपदान् ङीप्।
इह स्वाङ्गादिति ( ४।१।५४ ) ङीषि सिद्दे दिक्पूर्वपदान् ङीबिति स्वरार्थम् । प्राङ्मुखी प्राङ्मुखा ।
६१। वाहः।
वाह इत्यपि च्छान्दसम् । वहेश्छन्दसीति (३।२।६४) ष्विविधानात् ।
६२। सखाशिश्वीति भाषायाम् ।
सखी। अशिश्वी। भाषायां स्यात् । न वेदे।
६३ । जातेरस्त्रीविषयादयोपधात् । (12)
जातिवाचिन: स्त्रियां ङीष् स्यात् । कुक्कटी। मयूरी। यक्षी। सर्पी। विहगी। भूती। प्रेती। अमरी। पुरी। तटी। दूती। असुरी। कुष्माण्डी । नटी। शाटी। नाड़ायनी। कठी। अस्त्रीविषयात् किम्? सर्वदा स्त्रीलिङ्गान्मा भूत् । मक्षिका। पिपीलिका। माला। वलाका। अयोपधात् किम्? क्षत्रिया।
(क) योपधप्रतिषेधे हयगवयमुकयमत्स्यमनुष्याणां ङीष्। हयी। गवयी। मुकयी। मत्सी। मनुषी।
६४। पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ।
पाकाद्युत्तरपदात् ङीष् स्यात् । स्त्रीविषयार्थं वचनम् । ओदनपाकी । पिष्टकपाकी। मिष्टपर्णी । शङ्खपुष्पी।
६५ । दूतो मनुष्यजातेः ।
इदन्तान् मनुष्यजातिवाचिनो ङीष् स्यात्। दाक्षी । अवन्ती। कुन्ती । पुनर्जातिग्रहणाद् योपधादपि भवति । औदमेयी। इतः किम्? दरत् । नृजातिः किम्? तित्तिरिः । अगोत्रे्ञन्ताच्च ङीष् स्यात् । सौतङ्गमी पुरी ।
६६ । अङुतः ।
उदन्तात् मनुष्यजातेरूङ् स्यात्। कुरूः । धीबन्धूः । ब्रह्मबन्धूः (13)। भीरूः। (14)
(क) अप्राणिजातेश्चारज्ज्वादीनाम् । अलाबुः। कर्कन्धूः। अप्राणिजातेः किम्? आखुः । कृकवाकुः । रज्ज्वदिस्तु । रज्जुः । हनुः ।
६७। बाह्वन्तात् संज्ञायाम् ।
बाहुशब्दान्तादूङ् स्यात् । भद्रबाहः काचित् । संज्ञायां किम्? बृहद्बाहुः स्त्री।
६८। पङ्गोश्च ।
स्वादूङ । पङ्गूः ।
(क) श्वशुरस्योकाराकारयोर्लोपश्च । श्वश्रूः ।
६९। ऊरूत्तरपदादौपम्ये ।
ऊर्वन्तादौपम्ये स्यादूङ । रम्भोरुः । करभोरूः ।
७० । संहितशफलक्षणवामादेश्च ।
संहिताद्यादेरूरोः स्यादूङ्। संहितोरुः। “वामोरूरतिशयमापविभ्रमस्य"।
(क) सहितसहाभ्याञ्च । सहितोरूः। सहोरूः ।
७१। कद्रुकमण्डल्वोश्छन्दसि ।
छन्दः सूत्रम् ।
७२। संज्ञायाम्।
आभ्यां नाम्नि स्यादूङ । कद्रूः । कमण्डलूः ।
७३। शार्ङ्गरवाद्यञो ङीन् ।
जातेरित्येव । शार्ङ्गरवादेरञन्ताच्च ङीन् स्यात् । शार्ङ्गरवी। गौतमी । पुत्री (15) । (1) नृनरयोर्वृद्धिश्च । नारी। अञः खल्वपि । बैदी । औत्सी।
७४। यङश्चाप्।
यङन्ताच्चाप् स्यात् । ञाङ्। आम्बष्ठ्या। कौशल्या। ष्यङ् । कारीषगन्ध्या । वाराह्या ।
७५। आवट्याच्च ।
गर्गादियञन्ता-(४।१।१०५) दावट्यशब्दाच्चाप् स्यात् । आवट्या।
७६। तद्धिताः।
इतस्तद्धितसंज्ञकाः प्रत्यया वाच्याः कपं यावत् (५।४।१५१) तद् यथा ।
७७। यूनस्तिः । (16)
युवशब्दात् तिः स्यात् । युवतिः ।
७८। अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे ।
गोत्रे यावणिञो तयोः स्त्रियां ष्यङादिश्यते । अण् कारीषगन्ध्या । इञ् वाराह्या। अनार्षयोः किम्? वासिष्ठी। गुरूपोत्तमयोः किम्? औपगवी। त्रिप्रभृतीनामचामन्तामुत्तमम् । तत्समीपमुपोत्तमम्।
७९। गोत्रावयवात्।
गोत्रावयवाः पुणिकादयः । तेभ्योऽणिञोः ष्यङ् ङादिश्यते । पौणिक्या। भौणिक्या। मौखर्य्या।
८०। क्रोड्यादिभ्यश्च ।
एभ्यः स्त्रियां ष्यङ् स्यात् । क्रौड्या । लाड्या। दैवदत्त्या । भोजात् क्षत्रियजातौ। भोज्या ।
८१। दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविड्विभ्योऽन्यतरस्याम्।
एभ्य इञः व्यङ् वा स्यात् । दैवयज्ञ्या। शौचवृक्ष्या । पक्षे इतो मनुष्यजाते (४।१ ६५) रिति ङीष् । दैवयज्ञी । काण्ठेविद्वी । पूर्ण: स्त्त्र्यधिकारः ।
८२। समर्थानां प्रथमाहा।
स्वार्थिकात् (५।४।१) प्रागयमधिकारः। समर्थानां पदानां मध्ये सूत्रे प्रथमनिर्दिष्टाद्वा तद्धिताः स्युः । वाग्रहणाद् वाक्यञ्च । वक्ष्यति तस्यापत्यमिति (४।१।९२)। उपगोरपत्यमोपगवः । समर्थानां किम्? कम्बलमुपगोरपत्यं देवदत्तस्येति ।
८३। प्राग्दीव्यतोऽण् । तेन दीव्यतीत्यतः ( ४।४।२) प्रागर्थेष्वणधिक्रियते। तथैवोदाहर्त्तव्यम् ।
८४। अश्वपत्यादिभ्यश्च ।
एभ्योऽण् स्यात् । आश्वपतम् । गाणपतम् । पाशुपतम् । ण्ये प्राप्ते वचनम् ।
८५। दित्यदित्यादित्यपत्युत्तरपदाण्यः ।
एभ्योऽणपवादो ण्यः स्यात् । दितेः तिजन्ताद् दैत्यः (17)। अदितेरपत्यमादित्यः । आदित्यशब्दात् तस्यापत्यमादित्य्यम् । पत्यन्तात् । सैनापत्यम् । गार्हपत्यम् । प्राजापत्यम् ।
(क) यमाञ्च । याम्यम् । (18)
(ख) पृथिव्या ञाञौ। पार्थिवा पार्थिवी।
(ग) देवस्य यञाञौ । दैव्यं दैव्या । देवं देवी ।
(घ) बहिषष्टिलोपश्च । बहिर्भवो बाह्यः ।
(ङ) ईकक् च । बाहीकः ।
(च) स्थाम्नोऽकारः। अश्वत्थामः । महास्थामः ।
(छ) लोम्नोऽपत्ये बहुषु। अकार इत्येव । ऊर्ह्वलोमाः । बहुषु किम्? और्ह्वलोमिः। और्ह्वलोमी। बाह्वादिः ।
(ज) सर्वत्र गोरजादिप्रसङ्गे यत् । गव्यम् ।
८६। उत्सादिभ्योऽञ् ।
एभ्योऽञ् स्यात् । औत्सः । औदपानः ।
८७। स्त्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्।
भवनात् (५।२।१) प्रागर्थेषु भवसमूहहितादिषु स्त्रिया नञ् पुंसः स्नञ् स्यात् । पुसः संयोगान्तलोपः ( ८।२।२३) । “सङ्गच्छ पौंस्नि स्त्रैणं माम् ।" कथं स्त्रीवत् पुंवत्? स्त्रीत्वं पुंस्त्वमिति च? स्त्री पुंवच्चेति ( १।२।६६ ) निर्देशेनास्यानित्यत्वज्ञापनात् ।
८८। द्विगोर्लुगनपत्ये।
द्विगोः सम्बन्धिनः प्राग्दीव्यतीयतद्धितस्याजादेर्लुक् स्यात् । तत्र संस्कृतम् ( ४।४।३)। पञ्चकपालः । तदधीते तद्वेद ( ४।२।५८ )। द्विवेदः । अनपत्ये किम्? पाञ्चनापितिः । अजादेः किम्? पञ्चगर्गरूप्यम् ।
८९। गोत्रेऽलुगचि।
यस्कादिभ्यो गोत्र (२।४।६३) इत्यादिभिर्येषां लुगुक्तस्तेषामजादौ प्राग्दीव्यतीये कर्तव्ये स निषिद्यते। गर्गाणां छात्रा गार्गीयाः। आत्रेयीयाः । अचि किम्? गर्गेभ्य आगतं गर्गरूप्यम् ।
९०। यूनि लुक्।
अजादौ प्राग्दीव्यतीये कर्त्तव्ये यूनि विहितस्य लुक् स्यात् । अत इञ् (४।१।९५)। फाण्टाहृतिः। तस्यापत्यं युवा फाण्टाहृतः। फाण्टाहृतिमिमताभ्यां अफिञी (४।१।१५०) । तस्य च्छात्राः । णस्य लुक् । तत इञश्चेत्यण् (४।२।११२) । फाण्टाहृताश्छात्राः ।
९१। फक्फिञोरन्यतरस्याम् ।
यूनि विहितयोः फक्फिञोर्लुग् वा स्यात् । यञिञोश्चेति (४।१।१०१) फक्। गाार्ग्यायणः। तस्य च्छात्रा गार्गीया गाार्ग्यायणीया वा। अणो ह्यच इति फिञ् (४।१।१५६)। यास्कायनिः। तस्य च्छात्रा यास्कीया यास्कायनीया वा।
९२। तस्यापत्यम् ।
अत्रार्थे यथाविहितं प्रत्ययः स्यात् । औपगवः । दैत्यः । स्त्रैणः । भानोरपत्वं भानवः। आपादान्तमपत्याधिकारः ।
९३। एको गोत्रे।
आद्यप्रकृतेर्गोत्रे एक एव प्रत्ययः स्यात् । उक्तञ्च भाष्ये एको गोत्र इति । गोत्रे एकः प्रथमशब्द एव प्रत्ययमुत्पादयतौति । गर्गस्य गोत्रापत्यं गार्ग्यः । तत्युत्रोऽपि गार्ग्यः ।
९४। गोत्राद् यून्यस्त्रियाम् ।
यून्यपत्ये गोत्रादेव प्रत्ययः स्यात्। नान्यप्रकृतेः । वात्स्यस्यापत्यं युवा वात्स्यायनः । अस्त्रियां किम्? वात्सी । युवसंज्ञेव निषिद्यत इति स्मृतिः ।
९५। अत दूञ्।
अदन्तादिञ् स्यात्। दाक्षिः। दाशरथिः । कथं प्रदीयतां दाशरथाय मैथिलीति? तस्येद (४।३।१२०) मिति विवक्षायामण् ।
९६। बाह्वादिभ्यश्च ।
बाह्वादेराकृतिगणादिञ् स्यात् । बाहविः । चौडिः । सौमित्रिः । और्ङ्घलोमिः । कार्णिः । ऋष्यणो (४।१।११४)ऽत्र बाधकः ।
९७। सुधातुरकङ् च ।
सुधातुरिञ् स्यादकङ् चान्तादेशः । सौधातकिः ।
(क) व्यासवरुड़निषादचण्डालविम्बानामिति वक्तव्यम् । वैयासकिः । वारुड़किः । नैषादकिः । चाण्डालकिः । वैम्बकिः ।
९८। गोत्रे कुञ्जादिभ्यश्च्फञ्।
कुञ्जादेर्गोत्रापत्ये च्फञ् स्यात् । ततः स्वार्थे ञ्यः (५।३।११)। कौञ्जायन्यः । ब्राध्नायन्यः । गोत्रे किम्? कुञ्जस्यानन्तरापत्यं कौञ्जिः । गोत्रापत्ये विधिः शिवाद्यणं यावत् (४।१।११२)। यस्तु गोत्रादेव विधीयते स तु यूनि बोद्धव्यः ।
९९। नड़ादिभ्यः फक्।
नड़ादर्गोत्रापत्ये फक् स्यात् । नाड़ायनः । चारायणः। नड़। चर। उपक । लमक । शकट। कितव। अमुष्य । ब्राह्मण । उदुम्बर । नर । दूतिक ।
(1) शलङ्कु शलङ्कञ्च । शालङ्कायनः ।
१००। हरितादिभ्योऽञः ।
विदाद्यजन्ताह्वरितादेर्यूनि फक् स्यात् । हारितायनः । कौत्सायनः ।
१०१। यञिञोश्च ।
गोत्रे यौ यञिञौ तदन्तयोर्यूनि फक् स्यात् । वात्स्यायनः । दाक्षायणः ।
१०२। शरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु ।
एभ्यो भृग्वादौ गोत्रे फक् स्यात् । शारद्वतायनो भार्गवः । शौनकायनो वात्स्यः । दार्भायणोऽयमाग्रायणः ।
१०३। द्रोणपर्वतजीवन्तादन्यतरस्याम् ।
द्रोणादेर्गोत्रापत्ये फग् वा स्यात् । द्रौणायणो द्रौणिर्वा । पार्वतायन: पार्वतिर्वा । जैवन्तायनो जैवन्तिर्वा ।
१०४। अनृष्यानन्तर्य्ये बिदादिभ्योऽञ् ।
बिदादेर्गोत्रेऽञ् स्यात् । बैदः । और्व्वः । हारीतः । कश्यप। कुशिक । शुनक । शिग्रु। ये त्वनृषिशब्दाः पठ्यन्ते तेभ्योऽनन्तरापत्येऽञ् । पौत्रः । दौहित्रः । नानान्द्रः।
(1) परस्त्री परशुञ्च । पारशवः ।
१०५। गर्गादिभ्यो यञ् ।
एभ्यो गोत्रापत्ये यञ् स्यात् । गार्ग्यः । गर्ग । वत्स। लोहित । व्याघ्रपात् । कत । तृक्ष । शकल । कुण्डिनी। जमदग्नि । नृकुटि। शण्डिल | १०६ । मधुबभ्रोर्ब्राह्मणकौशिकयोः ।
आभ्यामाङ्गिरसे यञ् स्यात् । माधव्यो ब्राह्मणः । बाभ्रव्यः कौशिकः ।
१०७। कपिबोधादाङ्गिरसे ।
आभ्यामाङ्गिरसे यञ् स्यात् । काप्यः । बौध्यः । कपेर्गर्गादिपाठः ष्फस्य सिद्ध्यर्थः । काप्यायनी।
१०८। वतण्डाच्च । अस्मादाङ्गिरसे यञ् स्यात् । वातण्डः ।
१०९ । लुक् स्त्रियाम् ।
वतण्डात् स्त्रियां यञो लुक् स्यात् । वतण्डी। शार्ङ्गरवादिः (४।१।७३)।
११०। अश्वादिभ्यः फञ् ।
अश्वादिभ्यो गोत्रे फञ् स्यात्। आश्वायनः । श्राविष्ठायनः। श्रानडुह्यो गर्गादिः । तस्यापत्यमानडुह्यायनः ।
१११। भर्गात् त्रैगर्ते।
भर्गात् फञ् स्यात् । भार्गायणः । त्रैगर्ते किम्? भार्गि: । उक्त गोत्रे ।
११२। शिवादिभ्योऽण् ।
शिवादिभ्योऽपत्यमात्रेऽण् स्यात् । इञदेर्बाधा । शैवः । भौमः । गाङ्गः । सापत्नः । विश्रवसोऽपत्यमिति वाक्ये विश्रवणरवणाभ्यां वृत्तिः । वैश्रवणो रावणः ।
११३। अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ।
नदीमानुषीनाम्रोऽण् स्यात् । ढको बाधा। यामुनः। ऐरावतः । मानुषीभ्यः । चैन्तितः। शैक्षितः । गौतमः। अवृद्धाभ्यः किम्? चान्द्रभागेयः । वासवदत्तेयः ।
११४। ऋष्यन्धकवृष्णिकुरुभ्यश्च ।
एभ्योऽण् स्यात् । इञो बाधा । वासिष्ठः। वैश्वामित्रः। अन्धकात् । आन्धकः। खाफल्कः । वृष्णोः। वासुदेवः । आनिरुद्धः । कुरोः। नाकुलः । साहदेवः । अन्धकादिवंशा: केऽप्यनादयः ।
११५। मातुरुत्संख्यासम्भद्रपूर्वायाः ।
संख्यादिपूर्वाया मातुरण् स्यात् । उच्चान्तादेशः । द्वैमातुरः । त्रैमातुरः । षाण्मातुरः । साम्मातुरः । भाद्रमातुरः ।
११६। कन्यायाः कनीन च।
कन्यायाः स्यादण् कनीनादेशश्च । कानीनो व्यासः ।
११७। विकर्णशुङ्गच्छगलाद् वत्सभरद्वाजात्रिषु ।
एभ्य एवण् स्यात्। वैकर्णो वात्स्यः । शौङ्गो भारद्वाजः। छागलोऽप्यात्रेयः । वत्सादिभि स्तदपत्यं लक्ष्यते ।
११८। पीलाया वा।
पीलाशब्दादण् स्याद्वा । पैलः पैलेयो वा।
११९। ढक् च मण्डूकात् ।
मण्डूकादण्ढकौ स्याताम् । मण्डूको माण्डूकेयः । वेत्येव । माण्डूकिः ।
१२०। स्त्रीभ्यो ढक्।
स्त्रीप्रत्ययान्ताड् ढक् स्यात् । सौपर्णेयः । सौभद्रेयः । कौम्भकारेयः ।
(क) वडवाया वृषे वाच्यः । ढक् स्यात् । वाडवेयो वृषः ।
(ख) अण् क्रुञ्चाकोकिलात् स्मृतः । क्रौञ्चः । कोकिलः ।
१२१ । द्व्यचः।
द्व्यच स्तव्रामिकाया अणोऽपवादो ढक् स्यात्। दात्तेयः । गोप्तेयः । पार्थस्तु शिवादिपाठात् ।
१२२ । इतश्चानिञः।
इदन्ताद् ह्यची ढक् स्यात् । आत्रेयः । वैधेयः । अनिञः किम्? दाक्षायणः । ह्यच इत्येव । अण्। मारीचः ।
१२३ । शुभ्रादिभ्यश्च ।
एभ्यो ढक् स्यात् । शौभ्रेयः । लेखाभ्रेयः। काद्रवेयः । पाण्डवेयः । गाङ्गेयः । तिकादिरप्ययङ्गङ्गाशब्दः । ततो गाङ्गायनिरित्येके ।
१२४। विकर्णकुषीतकात् काश्यपे ।
आभ्यामत्रापत्ये ढक् स्यात् । वैकर्णेयः । कौषीतकेयः ।
१२५ । भ्रुवो वुक् च ।
भ्रुवो ढकि वुक् स्यात् । भ्रौवेयः ।
१२६ । कल्याण्यादीनामिनङ् ।
एभ्यो ढक् स्यादिनङ् चान्तादेशः। काल्याणिनेयः । सुभगा। दुर्भगा। ज्येष्ठा। मध्यमा । कनिष्ठा । रजकी। बन्धकी । परस्त्री। बलीवर्द्दीति च।
१२७। कुलटाया वा ।
अस्या ढक् स्यादिनङ् वा। कौलटिनेयः कौलटेयो वा। कोलटेरस्तु शीलहीनाया अपत्यविवक्षायाम् ।
१२८ । चटकाया ऐरक्।
स्यात् । चाटकैरः ।
(क) स्त्र्यापत्ये लुग् वक्तव्यः । चटका।
१२९ । गोधाया ढक्।
१३० । आरगुदीचाम् ।
गोधाया अपत्यं गौधेरः। गौधारः । गौधेयस्तु सभ्रादिपाठात् ।
१३१ । क्षुद्राभ्यो वा।
अङ्गशीलहीनाः क्षुद्राः । ताभ्यो ढक् स्याद्वा । काणेरः कार्ययो वा। दासेरः दासेयो वा।
१३२ । पितृष्वसुश्छण् ।
स्यात् । पैतृश्वस्रीयः ।
१३३ । ढकि लोपः।
ढकि चान्त्यलोपः स्यात् । पैतृष्वसेयः ।
१३४। मातृष्वसुश्च ।
अस्याश्च तथा स्यात् । मातृष्वस्रीयः । मातृश्वसेयः ।
१३५ । चतुष्पाद्भ्यो ढञ्।
स्यात् । अणादेर्बाधा । कामण्डलेयः । जाम्बेयः ।
१३६ । गृष्ट्यादिभ्यश्च ।
एभ्यो ढञ् स्यात् । गार्ष्टेयः। मैत्रेयः ।
१३७ । राजश्वशुराद् यत् ।
आभ्यां यत् स्यात् । राजन्यः क्षत्रियः । श्वशुर्यौ देवरश्यालौ।
१३८ । क्षत्राद् धः।
स्यात् । क्षत्रियः । जातावभिधानम् ।
१३९ । कुलात् खः।
कुलीनः। आढ्यकुलीनः ।
१४० । अपूर्वपदादन्यतरस्यां यड्ढकञौ।
अविद्यमानपूर्वपदात् कुलाद् यड्ढकञौ वा स्याताम् । कुल्यः कौलेयकः कुलीनो वा।
१४१ । महाकुलादञ्खञौ ।
स्याताम् । माहाकुलः । माहाकुलीनः । वेत्येव । महाकुलीनः ।
१४२ । दुष्कुलाड् ढक्।
स्यात् । दौष्कुलेयः । वेत्येव । दुष्कुलीनः ।
१४३ । स्वमुश्छः ।
स्यात् । स्वस्रीयः ।
१४४। भ्रातुर्व्यच्च ।
भ्रातुर्व्यत् स्यात् । छश्च । भ्रातृव्यः । भ्रात्रीयो वा।
१४५ । व्यन् सपत्ने। (19)
भ्रातुरपत्ये शत्रौ व्यन् स्यात् । भ्रातृव्यो दायादः। भ्रातृव्यः कण्टक इत्युपमानात् ।
१४६ । रेवत्र्यादिभ्यष्ठक् ।
रेवत्यादेर्गणाट् ठक् स्यात् । ढगादेर्बाधा । रैवतिकः । दौवारपालिकः ।
१४७। गोत्रस्त्रियाः कुत्सने ण च ।
गोत्र स्त्रीवचनाम्णः स्यात् । ठक् च । गार्ग्या अपत्यं गार्गी जाल्मो गार्गिको वा । कुत्सने किम्? गार्गेयः । गोत्र इति किम्? कारिकाया अपत्यं कारिकेयः । गोत्रापत्ये विधयो यूनि विज्ञेयाः ।
१४८। वृद्धाट्ठक् सौवीरेषु बहुलम् ।
वृद्धात् सौवीरगोत्रात् कुत्सने ठक् स्यात् । भागवित्तिकः । पक्षे फक् । भागवित्तायन: ।
१४९। फेश्छ च।
फिञन्तात् सौवीरगोत्रात् कुत्सने छः स्यात् । ठक् च । तिकादिभ्यः फिञ् ( ४।१।१५४ )। यामुन्दायनिः। तस्यापत्यं यामुन्दायनीयः । यामुन्दायनिको वा ।
१५०। फाण्टाहृतिमिमताभ्यां णफिञौ।
आभ्यां सौवीरेषु णफिञौ स्याताम् । फाण्टाहृतः फाण्टाहृतायनिः । मैमतो मैमतायनिः ।
१५१ । कुर्वादिभ्यो ण्यः ।। एभ्योऽपत्ये ण्यः स्यात् । कौरव्यः कौरव्यौ कौरव्याः। “कौरव्याः पशवः ।” कुरुशब्दोऽत्र मुनिवचन इत्याहुः । कुरु । गर्दभ । शकुनि । कवि । कपिञ्जल।
१५२। सेनान्तलक्षणकारिभ्यश्च ।
एभ्यो ण्यः स्यात् । सेनान्तात् । हारिषेण्यः । माहासेन्यः । लाक्षण्यः । कारिशब्दः शिल्पिवचनः । तान्तुवाय्यः । कौम्भकार्य्यः ।
१५३। उदीचामिञ् ।
तेभ्य उदीचामिञ् स्यात् । माहासेनिः । लाक्षणिः । तान्तुवायिः ।
१५४। तिकादिभ्यः फिञ् ।
एभ्योऽपत्ये फिञ् स्यात् । तैकायनिः । कौरव्यायणिः । कैतवायनिः ।
१५५। कौशल्यकार्मार्य्याभ्याञ्च ।
(क) दगुकोशलकर्मारच्छागदृषाणां (20) युड् वादिष्टस्येति स्मृत्यन्तरम् । एभ्योऽपत्ये फिञ् स्यात् । युट् चागमः । दागव्यायनिः। कौशल्यायनिः । कार्मार्य्यायणिः । छाग्यायनिः । वार्ष्यायणिः ।
१५६ । अणो द्व्यचः । अस्मन्ताद् द्व्यचः फिञ् स्यात् । कार्त्त्र्यायणिः । यास्कायनिः ।
१५७। उदीचां वृद्ध्वादगोत्रात् ।
वृद्ध्वादुदीचां मते फिञ् स्यात् । आम्रगुप्तायनिः। शालगुप्तायनिः । कारिवचनादपि। परत्वात् । नापितायनिः। अन्येषां मते आम्रगुप्तिः । वृद्धात् किम् । याज्ञदत्तिः । अगोत्रात् किम्? औपगविः ।
१५८। वाकिनादीनां कुक् च ।
वाकिनादेरुदीचां मते फिञ् स्यात् । कुगागमश्च । वाकिनकायनिः । कार्कट्यकायनिः । अन्येषां वाकिनिः। कार्कट्यिः ।
१५९। पुत्रान्तादन्यतरस्याम् ।
पुत्रान्ताद् वृद्धात् फिञ् स्यात् । कुक् च वा। वात्सीपुत्रकायणिः । वात्मीपुत्रायणि: । वात्सीपुत्रिर्वा ।
१६०। प्राचामवृद्धात् फिन् बहुलम् ।
अवृद्धात् फिन् स्यात् । ग्लुचुकायनिः । प्राचां किम्? ग्लौचुकिः । बाहुल्यान्नेह। दाक्षिः।
१६१ । मनोर्जातावञ्यतौ षुक् च।
मनोरञ्यतौ स्यातां षुक् च जातिश्चेत् । मानुषः । मनुष्यः । माणवस्तूपसंख्यानात् (21)।
१६२। अपत्यं पौत्रप्रभृति गोत्रम् ।
पौत्राद्यपत्यं गोत्रमुच्यते । गर्गस्यापत्यं पौत्रादारभ्य गार्ग्यः । पौत्रप्रभृति किम्? अनन्तरापत्ये गार्गिः।
१६३ । जीवति तु वंश्ये युवा।
पितृपितामहादौ वंश्ये जीवति पौत्रप्रभृतेरपत्यं युवा स्यात् । न गोत्रम् । गर्गे गार्गौ गार्ग्ये वा जीवति गार्ग्यस्यापत्यं युवा गार्ग्यायणः । मृते तु गार्ग्य एव । पौत्रप्रभृतीति षष्ठ्यात्र विपरिणम्यते ।
१६४। भ्रातरि च ज्यायसि ।
ज्येष्ठे भ्रातरि जीवति पौत्रादिरपत्यं युवा स्यात् । ज्येष्ठे भ्रातरि जीवति कनीयान् भ्राता गार्गायणः ।
१६५। वान्यस्मिन् सपिण्डे स्थविरतरे जीवति ।
सप्तमपुरुषावधिज्ञातयः सपिण्डाः (22)। तत्र भ्रातुरन्यस्मिन्नपि सपिण्डे दृढतरे जीवति पौत्रादेरपत्यं जीवदेव युवसंज्ञकं वा स्यात्। पितृव्ये पितामहे वा जीवति गार्ग्यायणो गार्ग्यों वा। स्थविरतराभावे गार्ग्य एव ।
१६६ । वृद्धस्य च पूजायाम् ।
गोत्रमेव पूर्वाचार्यैर्वृद्वमुच्यते। तस्य पूजायां युवसंज्ञा वा स्यात्। सभवान् गार्ग्यायणो गार्ग्यो वा।
१६७। यूनश्च कुत्सायाम् ।
युवसंज्ञा वा स्यात्। गाायणो जाल्मो गार्ग्यो वा । यः पितरि जीवति स्वतन्त्रः स जाल्मः । उक्ता यवसंज्ञा ।
१६८। जनपदशब्दात् क्षत्रियादञ्।
जनपदशब्दात् क्षत्रियवचनादपत्येऽञ् स्यात् । पाञ्चालः । ऐक्ष्वाकः । वैदेहः। जनपदात् किम्? पौरवः ।
१६९ । साल्वेयगान्धारिभ्याञ्च ।
आभ्यामञ् स्यात् । साल्वेयः । गान्धारः ।
१७०। द्व्यञ्मगधकलिङ्गसूरमसादण् ।
द्व्यचो मगधादेश्चाण् स्यात् । अञो बाधा। आङ्गः। वाङ्गः। सौह्मः । मागधः । कालिङ्गः। सौरमसः ।
१७१। वृद्धेत्कोशलाजादाञ्ञ्यङ् ।
वृद्धादिदन्तात् कोशलाजादाभ्याञ्च ञाङ स्यात् । आम्बष्ठ्यः । आवन्त्यः । कौन्त्यः । कौशल्यः । आजाद्यः ।
(क) जनपदात् पाण्डोर्ड्यण् वक्तव्यः । पाण्ड्यः । जनपदात् किम्? महाभारतपाण्डोः पाण्डव एव । नहि तस्य पाण्डुर्देशः ।
१७२ । कुरुनादिभ्यो ण्यः ।
कुरोः क्षत्रियाज्जनपदान्नकारादेश्च ण्यः स्यात् । कौरव्यः कौरव्यौ कुरवः । "चिराय तस्मिन् कुरवश्वकासति ।” नैधन्यः। नेषध्यः। कथं माघे "परिरभिरे कुकुरकौरवस्त्रिय” इति । तथा वेणीसंहारे "रक्ष्यन्तां कौरवा" इति? अजनपदविवक्षयेत्येके । विषयो देश ( ४।२।५२ ) इत्यणि तात्स्थ्यादित्यन्ये । तस्येदमिति (४।३।१२०) विवक्षयेत्यपरे ।
१७३। साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ।
साल्वावयवा उदुम्बरादयः षट् (23) । तेभ्यः प्रत्यग्रथादेश्चेञ् स्यात् । औदुम्बरिः । यौगन्धरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । १७४। ते तद्राजाः ।
तेऽञादयस्तद्राजसंज्ञकाः स्युः । पञ्चालानां राजा पाञ्चालः। कौरव्यः । औदुम्बरिः।
(क) क्षत्रियसमानशब्दाज्जनपदात् तस्य राजन्यपत्यवत्। उक्ताः प्रत्ययास्तस्यापत्यमितिवद् राजनि च भवन्ति । पञ्चालानामपत्यानि राजानो वा पञ्चालाः। वङ्गाः । अवन्तयः । कुरवः। तद्राजस्येति ( २।४।६२ ) बहुषु लुक् ।
१७५ । कम्बोजाल्लुक्।
कम्बोजादिभ्यस्तद्राजस्य लुग्वचनमिति स्मृतिः । कम्बोजानामपत्यं राजा वा कम्बोजः । चोलः । शकः । केरलः ।
१७६ । स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ।
एभ्यः स्त्रियां तद्राजस्य लुक् स्यात् । इयमवन्ती । कुन्ती। कुरूः ।
१७७। अतश्च ।
अकारस्य तद्राजस्य स्त्रियां लुक् स्यात्। शूरसेनी। मद्री। दरत् । इड़विट। अतः किम्? आम्बष्ठ्या । यङश्चाण् (४।१।७४)।
१७८। न प्राच्यभर्गादियौधेयादिभ्यः।
एभ्योऽतश्चेति (४।१।१७७) लुङ् नास्ति । प्राच्यात् । पाञ्चाली। वैदेही। मागधी । आङ्गी। वाङ्गी। भर्गादेः । भार्गी। कैकेयी । “कैकेयी लघयिष्यते प्रियसुताम् ।” कथं "प्राक् केकयीतो भरतस्ततोऽभूदिति"? आद्यप्रकृतेरेव कुलद्वारेण सोऽयमिति स्त्रीवृत्तेः। शार्ङ्गरवाद्यञो ङीनिति (४।१।७३) भागवृत्तिः (24) । यौधेयादिभ्यः पञ्चमेऽध्याये तद्राजमञं वक्ष्यति । तस्याप्यतश्चेति (४।१।१७७) लुक् प्राप्तो निषिध्यते । यौधेयी । शौभ्रेयी । इत्यपत्याधिकार: सम्पूर्णः ।
इति महामहोपाध्यायश्रीपुरुषोत्तमदेवस्य भाषावृत्तौ चतुर्थाध्यायस्य प्रथमः पादः ॥३।३॥