भाषावृत्तिः/चतुर्थोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः भाषावृत्तिः
तृतीयः पादः
पुरुषोत्तमदेव
चतुर्थः पादः →


चतुर्थाध्याये तृतीयः पादः
-4-3-1- युष्मदस्मदोरन्यतरस्यां खञ्ञ्च ।।
शेषे इत्येव। युष्मदस्मदोः खञ्ञ् छश्च स्याद्वा। यौष्माकीनम्।आस्माकीनम्। युष्मदीयम्। अस्मदीयम्।
पक्षेऽण् च--यौष्माकम्। आस्माकम्।
-4-3-2- तस्मिन्नणि च युष्माकास्माकौ ।।
तस्मिन् खञ्ञि अणि च युष्मदस्मदोर्युष्माकास्माकादेशौ स्याताम्। तर्थवोदाहृतम्।
-4-3-3- तवकममकावेकवचने ।।
एकार्थे युष्मदस्मेदास्तवकममकौ स्यातां खञ्ञि, अणि च। तावकीनम। मामकीनम। तावकम्। मामकम्।
-4-3-4- अर्धाद् यत् ।।
अस्माद. यत् स्यात्। अर्ध्यम्।
। सपूर्वपदाट् ठञ्ञ् वक्तव्यः ।। गौतमार्धिकम्।
-4-3-5- परावराधमोत्तमपूर्वाच्च ।।
एतत्पूर्वपदादर्धाद् यत् स्यात्। परार्ध्यम्। अवरार्ध्यम्। अधमार्ध्यम्। उत्तमार्ध्यम्।
-4-3-6- दिकपूर्वपदाट् ठञ्ञ्च ।।
 दिक्पूर्वपदादर्धाट् ठञ्ञ् स्यात्, यच्च। पौर्वाधिर्कम्, पूर्वार्ध्यम्।दाक्षिणार्धिकम्, दक्षिणार्ध्यम्।
-4-3-7- ग्रामजनपदैकदेशादञ्ञ्ठञ्ञौ ।।
अनयोरेकदेशाद् दिक्पूर्वपदादर्धादञ्ञ्ठञ्ञौ स्याताम्। इमेऽस्य ग्रामस्य जनपदस्य वा पौर्वार्धाः, पौर्वार्धिकाः।
-4-3-8- मध्यान्मः ।।
मध्यशब्दाच्छेषे मः स्यात्। मध्यमः।
। अवोऽधसोर्लोपश्च । इत्येके। अवमः। अधमः।
-4-3-9- अ साम्प्रतिके ।।
मध्यादकारः। स्यान्न्याय्येउनात्युच्चैर्नातिनीचैः। मध्यं काष्ठम्।
मध्यस्तर्किकः।
-4-3-10- द्वीपादनुसमुद्रं यञ्ञ् ।।
समुद्रसमीपे द्वीपाद् यञ्ञ् स्यात्। द्वैप्या वणिजः।

               ।।तद्धितेषु कालाधिकारः।।
-4-3-11- कालाट् ठञ्ञ्।।
शेषे कालवाचिनष्ठञ्ञ् स्यात्। द्विवार्षिकः। द्वैवर्षिकः। मासिकः। सांवत्सरिकः। आह्निकः। मौहूर्त्तिकः।
कालाधिकारः प्राक् तत्र जातात् (4.3.25)।
-4-3-12- श्राद्धे शरदः ।।
श्राद्धे शरदष्ठञ्ञ् स्यात्। शारदिकं श्राद्धम्। शारदमन्यत्।
-4-3-13- विभाषा रोगातपयोः ।।
अनयोरर्थयोः शरदष्ठञ्ञ् स्याद्वा। शारदिकः, शारदो वा रोगः, आतपो वा। ठञ्ञा मुक्ते ऋत्वण्।
-4-3-14- निशाप्रदोषाभ्याञ्ञ्च ।।
आभ्याञ्ञ्च ठञ्ञ् वा स्यात्। नैशिकम् नैशं वा तमः।, प्रादोषिकः, प्रादोषो वा।
-4-3-15- श्वसस्तुट् च ।।
श्वःशब्दाट् ठञ्ञ् वा स्यात्, तुट् चागमः। श्वो भविता शौवस्तिकः। शौवस्तिकत्वं विभवा न येषाम्। पक्षे श्वस्त्यम्। श्वस्तनम्।
-4-3-16- सन्धिवेलादयृतुनक्षत्रेभ्योऽण् ।।
एभ्यः शेषेऽण् स्यात्। सन्धिवेलादेः--सान्धिवेलम्। सान्ध्यम्। आमावास्यम्। पौर्णमासम्। त्रायोदशम्। चातुर्दशम्। प्रातिपदम्। ऋतोः--ग्रैष्मम्। शैशिरम्। नक्षत्रात्--तैषम्। तिष्यपुष्ययोर्नक्षत्राणि इति यलोपः। पौषम्।
। संवत्सरात् फलपर्वणोरेव । ( ग0 सू0 )। सांवत्सरं फलं पर्व वा। नेह--सांवत्सरिको व्याधिः।
-4-3-17- प्रावृष एण्यः ।।
स्यात्। प्रावृषेण्यो मेघः। प्रावृषेण्यं पयोवाहम्।
-4-3-18- वर्षाभ्यष्ठक् ।।
स्यात। वार्षिकम्। तदन्ताच्च--पौर्ववर्षिकम्।
-4-3-19- छन्दसि ठञ्ञ् ।।
-4-3-20- सवन्ताच्च ।।
छन्दः सूत्रद्वयम्(1)। (1.) वस्तुतस्तु हेमन्ताच्च इत्यपि छन्दःसूत्रमेव, तेन छन्दःसूत्रत्रयमेतत्।
-4-3-21- हेमन्ताच्च ।।
-4-3-22- सर्वत्राण् च तलोपश्च ।।
हेमन्तादण् स्यात् तलोपश्च। हैमनम्। रजनीष्वपि हैमनीषु।
ऋत्वणपीष्यते--हैमन्तम्।
पूर्वसूत्रे ठञ्ञ्प्रत्ययेनाभिसम्बन्धाद् भाषायामपि--हैमन्तिकः।
सर्वत्र इत्येकवृत्तौ छन्दोऽधिकारनिवृत्त्यर्थम्।
-4-3-23- सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ।।
सायमादेष्ट्युट्युलौ स्याताम्, तुट् चागमः। सायन्तनम्। चिर न्तनम्। निपातनान्मकारः। अव्ययात्--दिवातनम्। दोषातनम्।
इह ट्युट्युलौ भवतो विप्रतिषेधेन--प्राक्तनम्। प्रातस्तनम्। चिरपरुत्परारिभ्यस्त्न इति जयादित्यः। चिरत्नम्। परुत्नम्। परारित्नम्।
। अग्रपश्चाड्डिमच् । इति च्छान्दसमिति भागवृत्तिः। अग्रिमम्। पश्चिमम्।
अन्ताच्च डिमच इति जयादित्यः। अन्तिमम्।
-4-3-24- विभाषा पूर्वाह्णापराह्णाभ्याम् ।।
आभ्यां ट्युट्युलौ वा स्याताम्, तुट् च। पूर्वाह्णे तनम्। अपराह्णेतनम्। घकालतनेषु इति सप्तम्या अलुक्। पक्षे--कालाट् ठञ्ञ् पौर्वाह्णिकः। आपराह्णिकः।

                        ।।पूर्णः कालाधिकारः ।।
-4-3-25- तत्र जातः ।।
अत्रार्थे यथविहितमणादयो घादयश्च स्युः। माथुरः। स्रौघ्रः। औत्सः। राष्ट्रियः। कात्रेयकः।
-4-3-26- प्रावृषष्ठप् ।।
प्रावृषो जातार्थे ठप् स्यात्। प्रावृषिकः।
-4-3-27- संज्ञायां शरदो वुञ्ञ् ।।
नाम्रि शरदो वुञ्ञ् स्यात्। शारदका मुद्गाः। शारदमन्यत्।
-4-3-28- पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद् वुन् ।।
एभ्यो जातार्थे नाम्रि वुन् स्यात्। पूर्वाह्णकः। अपराह्णकः। आर्द्रकम्। मूलकम्। प्रदोषकः। अवस्करकः।
-4-3-29- पथः पन्थ च ।।
पथो वुन् स्यात्, पन्थादेशश्च जातार्थे। पन्थको वत्सः।
-4-3-30- अमावास्याया वा ।।
अतो वा वुन् स्यात्। अमावास्यकः, आमावास्यो वा।
-4-3-31- अ च ।।
अस्या अकाराश्च स्यात्। अमावास्यः।
-4-3-32- सिन्ध्वपकराभ्यां कन् ।।
जातार्थे आभ्यां कन् स्यात्। सिन्धुकः। अपकरकः।
-4-3-33- अणञ्ञौ च ।।
आभ्यामिमौ स्याताम्। सैन्धवः। आपकरः। स्वरे भेदः।
-4-3-34- श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् ।।
एभ्यो जातार्थे नक्षत्राणो लुक् स्यात्। लुक् तद्धितलुकि इति स्त्रीप्रत्ययस्य लुक्। श्रविष्ठः। फल्गुन्योऽर्जुनः। स्वार्थेऽणि--फाल्गुनो मासे चार्जुने इति। पुनर्वसुःउवररुचिः। बहुलः।
। चित्रारेवतीरोहिणीभ्यः स्त्रियां लुक् ।। चित्रा। रेवती।रोहिणी। प्रत्यये लुप्ते पुनष्टाप्। यथासम्भवं गौरादिङीष् वा।
। फल्गुन्यषाढाभ्यां टानौ ।। आभ्यां स्त्रियां टानौ स्यात्। फल्गुनी। अषाढा।
। श्रविष्ठाषाढाभ्यां छण् ।। श्राविष्ठीयः। आषाढीयः।
-4-3-35- स्थानान्तगोशालखरशालाच्च ।।
एभ्यो जातार्थप्रत्ययस्य लुक् स्यात्। गोस्थाने जातो गोस्थानः। अश्वस्थानः। गोशालः। खरशालः।
-4-3-36- वत्सशालाभिजिदश्वयुक्शतभिषजो वा ।।
एभ्यो जातार्थप्रत्ययस्य लुग् वा स्यात्। वत्सशालः, वात्सशालो वा। अभिजित्, आभिजितो वा। अश्वयुक्, आश्वयुजो वा। शतभिषक्, शातभिषजो वा।
-4-3-37- नक्षत्रेभ्यो बहुलम् ।।
नक्षत्रवाचिभ्यो बहुलं सयन्धिवेलनाद्यणो लुक् स्यात्। रौहिणः। रोहिणः। मार्गशीर्षः। मृगशिराः।
।।पूर्णो जातार्थः ।।
तत्र इति वर्त्तते यावत् तदस्य सोढम् (4.3.52)।
-4-3-38- कृतलब्धक्रीतकुशलाः ।।
अत्र कृतादिषु यथाविहितं स्यात्। स्रुध्ने कृतो लब्धः क्रीतः कुशलो वा स्रौध्नः। राष्ट्रियः।
-4-3-39- प्रायभवः ।।
प्रायभव इत्यर्थे यथाविहितं स्यात्। स्रुघ्ने प्रायेण भवति स्रौध्नः। राष्ट्रियः।
-4-3-40- उपजानूपकर्णोपनीवेष्ठक् ।।
एभ्यः प्रायभवेऽर्थे ठक् स्यात्। पाणी यस्यौपजानुकौ। औपकर्णिकलोचनः। औपनीविकमरुद्ध किल स्त्री वल्लभस्य
करमात्मकराभ्याम्।
-4-3-41- सम्भूते ।।
अत्रार्थे यथाविहितं स्यात्। स्रुध्ने सम्भवति स्रौध्नः क्ष्माभृत्।
स्थानमिह सम्भवार्थः
-4-3-42- कोशाड् ढञ्ञ् ।।
कौशेयम्। रूढ्या वस्त्रमेव। विकारेऽभिधानम्।
-4-3-43- कालात् साधुपुष्प्पत्पच्यमानेषु ।।
एष्वर्थेषु कालाद् यथाविहितं स्यात्। हेमन्ते साध हैमनं वासः। शैशिरिमनुलेपनम्। ग्रैष्मम्। वसन्ते पुष्प्यति वासन्ती लता। माधवी। शरदि पच्यन्ते शारदा माषाः।
कालात् इत्यधिकारः प्राक् तत्र भवात् (4.3.53)।
-4-3-44- उप्ते च ।।
उप्तेऽर्थे कालाद् यथाविहितं स्यात्। हैमना यवाः। ग्रैष्माः शालयः। तत्रोप्ता इत्यर्थः।
-4-3-45- आश्वयुज्या वुञ्ञ् ।।
आश्वयुजीशब्दाद् कुञ्ञ् स्यादुप्तेऽर्थे। ठञ्ञो बाध। आश्वयुजज्यां पौर्णमास्यामुप्ता आश्वयुजका माषाः।
-4-3-46- ग्रीष्मवसन्तादन्यतरस्याम् ।।
आभ्यामुप्तेऽर्थे वुञ्ञ् वा स्यात्। ग्रैष्मकम्। वासन्तकम्।
पक्षे ऋत्वण्--ग्रैष्मम्। वासन्तम्।
-4-3-47-देयमृणे।।
      अत्रार्थे यथाविहितं स्यात् । मासे देयमृणम् मासिकम्।सांवत्सरिकम्।
-4-3-48- कलाप्यश्वत्थयववुसाद् वुन् ।।
यत्र मयूराः कलापिनः, अश्वत्थाः फलिनः, यवबुसाश्चोत्पद्यन्ते स कालस्तथा। तस्मात् पूर्वार्थे वुन् स्यात्। कलापिनि काले देयमृणं कलापकम्। अश्वत्थकम्। यववुसकम्।
-4-3-49- ग्रीष्मावरसमाद् वुञ्ञ् ।।
आभ्यां पूर्वार्थे वुञ्ञ् स्यात्। ग्रैष्मकम्। आवरसमकम्।
-4-3-50- संवत्सराग्रहायणीभ्यां ठञ्ञ्च ।।
आभ्यां ठञ्ञ् स्याद्, वुञ्ञ् च। संवत्सरे देयमृणं सांवत्सरिकम्, सांवत्सरकं वा। आग्रहायणिकम्, आग्रहायणकं वा।
-4-3-51- व्याहरति मृगः ।।
अत्रार्थे कालाद् यथाविहितं स्यात्। निशायां व्याहरति नैशो मृगः। नैशिको वा। तत्र इति निवृत्तम्।
-4-3-52- तदस्य सोढम् ।।
अत्रार्थे कालाद् यथाविहितं स्यात्। निशासहचरितं कर्म निशा,तत् सोढं जितमभ्यस्तमस्य नैशिकश्छात्रः। नेशो वा। प्रादौषिकः, प्रादोषो वा।

                     ।।उक्तं कालात् ।।
-4-3-53- तत्र भवः ।।
अत्रार्थे यथाविहितं स्यात्। स्रुध्ने भवो विद्यमानः स्रौघ्रः। राष्ट्रियः।
तत्रभवाधिकारः प्राक् तत आगतः इत्यस्मात् (4.3 74)।
-4-3-54- दिगादिभ्यो यत् ।।
एभ्यो यत् स्यात्। दिशि भवं दिश्यम्। वन्यम्। रहस्यम्। आद्यम्। अन्त्यम्। यूथ्यम्। गण्यम्। रस्यम्।
। उदकात् संज्ञायाम् । (ग0 सू0)। उदक्या रजस्वला। अन्यत्र औदको मत्स्यः।
-4-3-55- शरीरावयवाच्च ।।
यत् स्यात्। दन्त्यम्। तालव्यम्। कण्ठ्यम्। ओष्ठ्यम्। ःढ़द्य;रव्यम्। उरस्याम्। मूर्धन्यम्। मुख्यम्।
-4-3-56- दृतिकुक्षिकलशिवस्त्यहेर्ढञ्ञ् ।।
एभ्यो ढञ्ञ् स्यात्। दार्त्तेयम्। कौक्षेयोऽसिः। कालशेयं जलम्। वास्तेयम्। आस्तेयम्। आहेयम्। भोगान् भोगानिवाहेयान इति।
-4-3-57- ग्रीवाभ्योऽण् च ।।
अस्या अण्ढञ्ञौ स्याताम्। ग्रैवम्। ग्रैवेयम्।
बहुवचनं वैचित्र्यार्थम्।
-4-3-48- गम्भीराञ्ञ् ञ्ञ्यः ।।
स्यात्। गाम्भीर्यम्।
। बहिर्देवपञ्ञ्चजनेभ्यश्च ।। बहिषष्टिलोपः। बाह्मम्। दैव्यम्। पाञ्ञ्चजन्यम्।
-4-3-59- अव्ययीभावाच्च ।।
अस्माद् भवार्थे ञ्ञ्यः स्यात्। पारिमुख्यम्। पारिहनव्यम्। नोपकूलादिभ्यः--औपकूलः। औपशालः।
-4-3-60- अन्तःपूर्वपदाट् ठञ्ञ्च ।।
अन्तःपूर्वपदादव्ययीभावाट् ठञ्ञ् स्यात्। आन्तर्देहिकः। आन्तर्वेश्मिकः। आन्तर्वंशिकः।
। अध्यात्मादिभ्यश्च ।। भवार्थे ठञ्ञ् स्यात्। आध्यात्मिकम्। आधिभौतिकम्। आधिदैविकम्। औपसर्गिकम्। चातुरर्थिकम्। त्रैवर्णिकम्। साम्प्रतिकम्। गैरिकम्। इत्यादि। आकृतिगणोऽयम्।
। समानस्य तदादेश्च ।। सामानिकः। सामानग्रामिकः।
। ऊर्ध्वन्दमोर्ध्वदेहाच्च ।। और्ध्वन्दमिकः। और्ध्वदेहिकः।
। लोकोत्तरपदस्य च ।। ऐहर्लौकिकः। पारलौकिकः।
। मुखपार्श्वतसोरीयः ।। मुखतीयः। पार्श्वतीयः। अव्ययानां भमात्रे टिलोपः।
। कुग्जनस्य परस्य च ।। जनकीयः। परकीयः।
। इर्यः कार्योऽथ मध्यस्य मण्मीयौ प्रत्ययौ तथा ।। मध्यीयः। माध्यमः। मध्यमीयः।
। मध्यस्य मधयं दिनण् च प्रत्ययः ।। माध्यन्दिनमुपगायति।
। लुक् स्थाम्रोऽजिनान्ताच्च ।। अश्वत्थामा। कृष्णाजिनः।
-4-3-61- ग्रामात् पर्यनुपूर्वात् ।।
अस्मादव्ययीमावाट् ठञ्ञ् स्यातृ। पारिग्रामिकः। आनुग्रामिकः।
-4-3-62- जिह्वामूलाङ्गुलेश्छः ।।
आभ्यां छः स्यात्। यतो बाधा। जिह्वामूलीयम्। अङ्गुलीयम्।
-4-3-63- वर्गान्ताच्च ।।
वर्गान्ताच्छः स्यात्। कवर्गीयः। पवर्गीयः। चवर्गीयः।
-4-3-64- अशब्दे यत्खावन्यतरस्याम् ।।
वर्गान्तादशब्दे यत्खौ वा स्याताम्। मित्रर्वग्यः, मित्रवर्गीणः, मित्रवर्गीयो वा।
अशब्दे किम् ? कवर्गीयो वर्णः।
-4-3-65- कर्णललाटात् कन्नलङ्कारे ।।
आभ्यामलङ्कृतौ कन् स्यात्। कर्णे भवोऽलङ्कारः कर्णिका। ललाटिका।
-4-3-66- तस्य व्याख्यान इति व्याख्यातव्यनाम्नः ।।
तस्य व्याख्यानार्थे चकाराद् भवार्थे च व्याख्येयनाम्रो यथाविहितं स्यात्। सुपां व्याख्यानो ग्रन्थः, सुप्सु भवो वा सौपो ग्रन्थः। तैङः। कार्त्तः।
-4-3-67- बह्वचोऽन्तोदात्ताट् ठञ्ञ् ।।
व्याख्येयनाम्रो बह्वचः प्रातिपदिकाट् ठञ्ञ् स्याद् भवव्याख्यानयोः।षात्वणत्विकः। कार्त्तद्धितिकः। समासस्वरेणान्तोदात्ता प्रकृतिः।
-4-3-68- क्रतुयज्ञेभ्यश्च ।।
क्रतुभ्यो यज्ञेभ्यश्च भवव्याख्यानयोष्ठञ्ञ् स्यात्। आग्रिष्टोमिकः। पाञ्ञ्चौदनिकः। पाकयज्ञिकः। नावयज्ञिकः।
-4-3-69- अध्यायेष्वेवर्षेः ।।
ऋषिवाचिनो व्याख्येयनाम्रः पूर्वार्थयोष्ठञ्ञ् स्यादध्यायश्चेत्। वासिष्ठिकोऽध्यायः। वैश्वामित्रिकः।
-4-3-70- पौरोडाशपुरोडाशात् ष्ठन् ।।
आभ्यां पूर्वार्थयोः ष्ठन् स्यात्। पौरोडाशिकी। पुरोडाशिकी।
-4-3-71- छन्दसो यदणौ ।।
अस्मादिमौ स्याताम्। छन्दस्यः। छान्दसः।
-4-3-72- द्व्यजृद्ब्राह्मर्णक्प्रथमाध्वरपुरश्चरणनामाख्याट्ठक् ।।
द्व्यजादिभ्यः पूर्वार्थयोष्ठक् स्यात्। द्व्यचः--नैष्ठिकः। ऋतः--चातुर्होतृकः। ऋचः--आर्चिकः। ब्राह्मणिकः। प्राथमिकः। आध्वरिकः। पौश्चरणिकः। नामाख्यातिकः।
विगृहीताच्च--नामिकः। आख्यातिकः।
-4-3-73- अणृगयनादिभ्यः ।।
ऋगयनादेः पूर्वार्थयोरण् स्यात्। आर्गयनः। नैरुक्तः। शैक्षः। नैगमः। वैयाकरणः। यौगः। पदस्य व्याख्यानः पादः।

                       ।।भवव्याख्याने निवृत्ते ।।
-4-3-74- तत आगतः ।।
अत्रार्थे यथाविहितं स्यात्। स्रुघ्रादागतः स्रौघ्रः। माथुरः। राष्ट्रियः।
अधिकारोऽयम् प्रभवति इति (4.3.83) यावत्।
-4-3-75- ठगायस्थानेभ्यः ।।
आयस्थानवाचिभ्यष्ठक् स्यात्। आपणादागत आपणिकः। शौल्क शालिकः।
-4-3-76- शुण्डिकादिभ्योऽण् ।।
एभ्य आयस्थानवाचिभ्यष्ठगपवादोऽण् स्यात्। शौण्डिकः। कार्कणः।
-4-3-77- विद्यायोनिसम्बन्धेभ्यो वुञ्ञ् ।।
विद्यायोनिकृतः सम्बन्धो येषां तेभ्य आगतार्थे वुञ्ञ् स्यात् औपाध्यायकम्। आचार्यकम्। पैतामहकम्। मातुलकम्।
-4-3-78- ऋतष्ठञ्ञ् ।।
विद्यायोनिसम्बन्धादृतष्ठञ्ञ् स्यात्। हौतृकम्। मातृकम्। स्वासृकम्।
भ्रातृकम्।
-4-3-79- पितुर्यच्च ।।
पितुर्यत् स्यात्, ठञ्ञ् च। पित्र्यम्। पैतृकम्।
-4-3-80- गोत्रादङ्कवत् ।।
गोत्रान्तादागतार्थेऽङ्कवत् प्रत्ययः स्यात्। अङ्कग्रहणम् तस्येदम्
इत्यर्थोपलक्षणार्थम्। औपगवेभ्य आगत औपगवकः। नाडायणकः। गोत्रचरणाद् वुञ्ञ् इति वुञ्ञ्।
-4-3-81- हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ।।
हेतोर्मनुष्याच्चागतार्थे रूप्यो वा स्यात्। समादागतं समरूप्यम् समीयं वा। गहादित्वाच्छः। देवदत्तरूप्यम्, देवदत्तीयं वा।
-4-3-82- मयट् च ।।
आभ्यां मयट् च स्यात्। सममयम्। देवदत्तमयम्।
-4-3-83- प्रभवति ।।
ततः प्रभवति इत्यर्थे यथाविहितं स्यात्। हिमवतः प्रभवति हैमवती गङ्गा। दारदो नदः। दारदी सिन्धुः।
-4-3-84- विदूराञ्ञ् ञ्ञ्यः ।।
अतो ञ्ञ्यः स्यात्। विदूरात् प्रभवति वैदूर्यो मणिः।
-4-3-85- तद्गच्छति पथिदूतयोः ।।
तद् गच्छति इत्यर्थे यथाविहितं स्यात् पथिदूतौ चेत्। स्रुध्नं गच्छति स्रौघ्रः पन्थाः। माथुरी दूतः।
-4-3-86- अभिनिष्क्रामति द्वारम् ।।
अभिनिष्क्रामत्यर्थे यथाप्राप्तं स्याद् द्वारं चेत्। स्रुघ्रमभिनिष्क्रामति स्रौध्नं कान्युकुब्जद्वारम्। उपचाराद् द्वारं
कर्तृ।
-4-3-87- अधिकृत्य कृते ग्रन्थे ।।
अत्र यथाप्राप्तं स्यात्। सुभद्रामधिकृत्य कृतो ग्रन्थः सोभ्रदः। भैमरथी
आख्यायिका।
साहचर्याद्--वासवदत्ता आख्यायिका। कादम्बरी कथा।
-4-3-88- शिशुक्रन्दयमसभद्वन्द्वेद्रजननादिभ्यश्छः ।।
एभ्यः पूर्वार्थे छः स्यात्। शिशुकन्दं रोगमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः। यमसभीयः। द्वन्द्वात्--श्येनकपोतीयः। वाक्यपदीयम्। शब्दार्थसम्बन्धीयं प्रकरणम्। किरातार्जुनीयम्।
इन्द्रजननादिराकृतिगणः--इन्द्रजननीयः। शिष्योपनयनीयोऽध्यायः। सीतान्वेषणीयं काव्यम्। प्रद्युभ्रागमनीयम्।
। द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः ।। दैवासुरम्। गौणमुख्याम्।
-4-3-89- सोऽस्य निवासः ।।
अत्रार्थे यथाप्राप्तं स्यात्। स्रुध्रो निवासोऽस्य स्रौघ्रः। राष्ट्रियः। माथुरः।
सोऽस्येत्यधिकारो यावत् तेन प्रोक्तम् (4.3.101) इति।
-4-3-90- अभिजनश्च ।।
सोऽस्याभिजनः इत्यर्थे यथाविहितं स्यात्। स्रध्नोऽभिजनोऽस्य स्रोध्नः। माथुरः। राष्ट्रियः।
-4-3-91- आयुधजीविभ्यश्छः पर्वते ।।
पर्वतात् पूर्वार्थे छः स्यादायुधजीविषु लोहितगिरीयाः शास्त्रजीविनः।
आयुधजीविभ्यः किम् ? अक्षोदः पर्वतोऽभिजन एषामाक्षौदा ब्राह्मणाः।
-4-3-92- शण्डिकादिभ्यो ञ्ञ्यः ।।
शण्डिकोऽभिजनोऽस्य शाण्डिक्यः। चाणक्यः। शाक्यः।
-4-3-93- सिन्धुतक्षशिलादिभ्योऽणञ्ञौ ।।
सिन्ध्वादेरणम् स्यात्। सिन्धुरेषामभिजनः सैन्धवाः। काश्मीराः। तक्षशिलादेरञ्ञ्--ताक्षशिलः। पार्वतः।
-4-3-94- तूदीशलातुरवर्मतीकूचवाराड्ढञ्ञ्यकः ।।
एभ्य एते स्युः। तूद्यभिजनोऽस्य तौदेयः। शालातुरीयः। वार्मतेयः। कौचवार्यः।
-4-3-95- भक्तिः ।।
भज्यते सेव्यतेऽसौ भक्तिः। अत्रार्थे यथाविहितं स्यात्। बुद्धो भक्तिरस्य बौद्धः। शैवः। सौरः। चाण्डः।
स्रौघ्रः। माथुरः।
-4-3-96- अचित्ताददेशकालट्ठक् ।।
अदेशकालादचित्ताट् ठक् स्यात्। अपूपो भक्तिरस्य आपूपिकः। मौदकिकः।
अदेशकालात् किम् ? स्रौघ्रः। ग्रैष्मः।
-4-3-17- महाराजाट् ठञ्ञ् ।।
अस्माट् ठञ्ञ् स्यात्। महाराजो भक्तिरस्य माहाराजिकः।
-4-3-18- वासुदेवार्जुनाभ्यां वुन् ।।
आभ्यां वुन् स्यात्। वासुदेवकः। अर्जनकः। सोऽस्य भक्तिः।
-4-3-99- गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्ञ् ।।
गोत्रप्रत्ययान्तेभ्यः क्षत्रियाख्येभ्यश्च बहुलं वुञ्ञ् स्यात्। औपगवो भक्तिरस्य औपगवकः। नाकुलकः।
बाहुल्यान्नेह--पाणिनीयः। सौरमसीयः। पौरवीयः।
-4-3-100- जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने ।।
बहुत्वे जनपदेन तुल्यशब्दानां जनपदिनां जनपदवत सर्वं कार्यं स्यात्। जनपदतदवध्योः इत्युक्ताः प्रत्यया जनपदिभ्योऽप्यतिदिश्यन्ते।यथा--अङ्गानां निवसो जनपदोऽङ्गाः। तत्र जातः इति अवृद्धादपि इति वुञ्ञ्।
आङ्गकः। सौह्मकः। तद्वदङ्गा जनपदिनः क्षत्रियाभक्तिरस्य आङ्गकः। सौह्मकः।
-4-3-101- तेन प्रोक्तम् ।।
अत्रार्थे यथाविहितं स्यात्। अन्येन कृता माथुरेण प्रोक्ता व्याख्याता माथुरी वृत्तिः।
-4-3-102- तित्तिरिवरतन्तुखण्डिकोखाच्छण् ।।
एभ्यश्छण् स्यात्। तद्विषयता चात्रोक्ता। तित्तिरिणा प्रोक्तं छन्दोऽधीयते तैत्तिरीयाः। वारतन्तवीयाः। खाण्डिकीयाः। औखीयाः।
-4-3-103- काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ।।
आभ्यां तेन प्रोक्ते णिनिः स्यात्। तद्विषयता च। काश्यपेन प्रोक्तं छन्दोऽधीयते काश्यपिनः। कौशिकिनः।
-4-3-104- कलापिवैशम्पायनान्तेवासिभ्यश्च ।।
कलाप्यन्तेवासिभ्यश्चतुर्भ्यो णिनिः स्यात्। हरिद्रुणा प्रोक्तमधीयते हारिद्रविणः। तुम्बुरु। उलप। छगलिन्।
वैशम्पायनशिष्येभ्यो नवभ्यश्च--आलम्बिनः। कामलिनः।
एवं पलङ्ग। ऋचाभ। आरुणि। ताण्ड्य। श्यामायन। कठ। कलापिन्।
-4-3-105- पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ।।
पुराणैर्महर्षिभिः प्रोक्तेषु ब्राह्मणेषु कल्पेषु च णिनिः स्यात्। भाल्लविनो ब्राह्मणाः। पैङ्गी कल्पः।
-4-3-106- शौनकादिभ्यश्छन्दसि ।।
दन्दसि विषये शौनकादेर्णिनिः स्यात्। शौनकेन प्रोक्तं छन्दोऽधीयते शौनकिनः। वाजसनेयिनः।
-4-3-107- कठचरकाल्लुक् ।।
आभ्यां प्रोक्तप्रत्ययस्य लुक् स्यात्। कठेन प्रोक्तं छन्दोऽधीयते कठाः। चरकाः।
-4-3-108- कलापिनोऽण् ।।
स्यात्। कलापिना प्रोक्तं छन्दोऽधीयते कालापाः। सब्रह्मचारि इति
(6.4.184. वा0) टिलोपः।
अण्ग्रहणमधिकविध्यर्थम्--मौदाः।
-4-3-109- छगलिनो ढिनुक् ।।
अतो ढिनुक् स्यात्। छागलेयिनः। नस्तद्धिते इति टिलोपः।
-4-3-110- पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।।
पाराशर्याद् भिक्षुसूत्रे, शिलालिनो नटसूत्रे प्रोकृतार्थे णिनिः स्यात्। पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः। शैलालिनो नटाः। अन्यत्र-पराशरीयाः। श्लोकाः।
-4-3-111- कम्रन्दकृशाश्वादिनिः ।।
आभ्यां प्रोक्तं तयोः सूत्रे स्यादिनिः। कर्मन्दी भिक्षुः। कृशाश्वी नटः।
-4-3-112- तेनैकदिक् ।।
अत्रार्थे यथाविहितं स्यात्। सुदाम्ना एकदिक् सौदामनी विद्युत्।
सौरी वलाका।
-4-3-113- तसिका ।।
पूर्वार्थे तसिः स्यात्। सुदामतः। सूर्यतः।
-4-3-114- उरसो यच्च ।।
उरसो यत्-तसी स्याताम्। उरसा एकदिक् उरस्योहारः। उरस्तः।
-4-3-115- उपज्ञाते ।।
अत्रार्थे यथाविहितं स्यात्। पाणिनिना उपज्ञातम्उप्रथमं कृतं पाणिनीयमकालकं व्याकरणमम्। सौरः संग्रहः।
-4-3-116- कृते ग्रन्थे ।।
तेन कृते ग्रन्थे यथाविहितं स्यात्। वाररुचाः श्लोकाः।
-4-3-117- संज्ञायाम् ।।
नाम्रि तेन कृते यथाविहितं स्यात्। माक्षिकं मधु। सारघम्।
-4-3-118- कुलालादिभ्यो वुञ्ञ् ।।
    एभ्यस्तेन कृते संज्ञायां वुञ्ञ् स्यात्। कौलालकं पात्रम्। वारुडकम्। ऐन्द्रियकं ज्ञानम्।
-4-3-119- क्षुद्राभ्रमरवटरपादपादञ्ञ् ।।
एभ्योऽञ्ञ् स्यात्। क्षौद्रं मधु। भ्रामरम्। वाटरम्। पादपम्।

                      ।।पूर्णस्तेन कृतार्थः ।।
-4-3-120- तस्येदम् ।।
अत्रार्थे यथाविहितं स्यात्। उपगोरिदमौपगवम्। राष्ट्रियम्। शास्त्रीयं कार्यम्। तस्येदम् इत्यधिकारो विकारं यावत् (4.3.134) वर्त्तते।
। संवहेस्तृजन्तादणिट् च ।। संवोढुरिदं सांवहित्रम्।
। अग्रीधः शरणे रण् भत्वञ्ञ्च ।। आग्रीघ्रं शरणम्। भत्वात् पदकार्यं जश्त्वं न भवति।
। समिधामाधाने षेष्यण् ।। सामिधेनी ऋक।
-4-3-121- रथाद् यत् ।।
रथस्येदं रथ्यं चक्रम।
रथोत्तरपदाच्च--परमरथ्यम्।
-4-3-122- पत्त्रपूर्वादञ्ञ् ।।
वाहनपूर्वाद् रथादञ्ञ् स्यात्। आश्वरथं चक्रम्।
-4-3-123- पत्राध्वर्युपरिषदश्च ।।
एभ्योऽञ्ञ् स्यात्। अश्वस्येदमाश्वम्। औष्ट्रो भारः। आध्वर्यवं शकटम्।
पारिषदो हासः। पारिषदः समयः।
-4-3-124- हलसीराट् ठक् ।।
हलस्येदं हालिकम्। सैरिकम।
-4-3-125- द्वन्द्वाद् वुन् वैरमैथुनिकयोः ।।
द्वन्द्वाद् वुन् स्यात्। वैरे--काकोलूकिका। अश्वमहिषिका। मैथुनिकायाम्उविवाहे--अत्रिभारद्वाजिका
। द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः ।। दैवासुरं वैरम्(1)।
(1.) देवासुरमभूद् युद्धम् इति देवीमाहात्म्यप्रयोगस्तु देवा असुराश्च प्रहर्तारी यत्रेति अर्शआदित्वादचा साधीनीयः।
-4-3-126- गोत्रचरणाद् वुञ्ञ् ।।
आभ्यां वुञ्ञ् स्यात्। औपगवानामिद मौपगवकम्।
। चरणाद् धर्माभ्राययोरभिधानम् ।। काठकम्। कालापकम्। मौदकम्।
-4-3-127- सङ्घाङ्कलक्षणेष्वञ्ञ्यञ्ञिञ्ञामण् ।।
अञ्ञाद्यन्तादण् स्यात् संघादौ वाच्ये। घोषग्रहणञ्ञ्चात्र। अञ्ञन्तात्--बिदानामयं संघोऽङ्को लक्षणं घोषो वा वैदः। यञ्ञन्तात्--गार्गः। इञ्ञन्तात्--दाक्षः।
शाकलादण् वा स्यात्, पक्षेवुञ्ञ्। शाकलः संधादिः। शाकलको वा।
-4-3-128- शाकलाद्वा ।।
शाकलादण् वा स्यात्, पक्षे वुञ्ञ्। शाकलःसंघादिः। शाकलको वा
-4-3-129- छन्दोगोक्थिकयाज्ञिकबह्वृ चनटाञ्ञ् ञ्ञ्यः ।।
एभ्यो ञ्ञ्यः स्यात्। सङ्घादयो निवृत्ताः सामान्येन तस्येदमित्यर्थे।
धर्माम्राययोर्विधिरित्यन्ये। छादन्दोग्यम्। औक्थिक्यम्। याज्ञिक्यम्। बाह्वृच्यम्। नाट्यम्।
-4-3-130- न दण्डमाणवान्तेवासिषु ।।
एषु गोत्रचरणाद् वुञ्ञ् न स्यात्। गौकक्षा दण्डमाणवाः। दाक्षा अन्तेवासिनः।
-4-3-131- रैवतिकादिभ्यश्छः ।।
एभ्यो गोत्रचरणाद् वुञ्ञपवादश्छः स्यात्। रैवतिकीयम्। स्वापिशीयम्।
-4-3-132- कौपिञ्ञ्जलहास्तिपदादण् ।।
आभ्यामण् स्यात्। कौपिञ्ञ्जलः। हास्तिपादः।
-4-3-133- आथर्वणिकस्येकलोपश्च ।।
आथर्वणिकादण् स्यादिकलोपश्च। आथर्वणो धर्मः, आम्रायो वा।
-4-3-134- तस्य विकारः ।।
अत्रार्थे यथाविहितं स्यात्। अश्मनो विकार आश्मः प्रासादः। यश्चापमाश्मनप्रख्यं सेषुं धत्तेऽन्यदुर्वहम्। भास्मनः। मार्त्तिकः।
-4-3-135- अवयवे च प्राण्योषधिवृक्षेभ्यः ।।
प्राण्यादिभ्यो विकारावयवयोर्यथाविहितं स्यात्। प्राणिभ्योऽञ्ञ वक्ष्यति।
औषधेः--मौर्वं काण्डं भस्म वा। वृक्षात्--कारवीरम्।
अतः परं प्राण्यादेर्विकारावयवयोः प्रत्ययः, इतरेभ्यो विकारमात्रे।
-4-3-136- बिल्वादिभ्योऽण् ।।
विकारेऽवयवे च स्यात्। बैल्वः। व्रैहः। मौद्गः।
-4-3-137- कोपधाच्च ।।
कोपधादण् स्यात्। माधूकम्। वार्त्ताकवम्। तैन्तिडीकम्।
-4-3-138- त्रपु जतुनोः षुक् ।।
आभ्यामण् स्यात्, षुगागमश्च। त्रापुषम्। जातुषम्।
-4-3-139- ओरञ्ञ् ।।
उवर्णान्तादञ्ञ् स्यात्। दैवदारवम्।
-4-3-140- अनुदात्तादेश्च ।।
एभ्योऽञ्ञ् स्यात्। कापित्थम्। दाधित्थम्।
-4-3-141- पलाशादिभ्यो वा ।।
अञ्ञ् वा स्यात्। पालासम्। खादिरम्। पक्षेऽण्। स्वरे भेदः।
-4-3-142- शम्याष्टलञ्ञ् ।।
ट्लञ्ञ् स्यात्। शामीलम् भस्म। शामीली स्रक।
-4-3-143- मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ।।
विकारावयवयोर्भाषायां मयड् वा स्यात्। अश्ममयम्, आश्मं वा। दूर्वामयम्, दौर्व वा। कपोतमयम्, कापोतं वा। लोहमयम्, लौहं वा।
अभक्ष्याच्छादनयोरिति किम् ? मौद्गः सूपः। कार्पासं वासः।
-4-3-144- नित्यं वृद्धशरादिभ्यः ।।
वृद्धसंज्ञकाच्छरादेश्च नित्यं मयट् स्यात्। आम्रमयम्। शालमयम्। शरमयम्। मृन्मयम्। दर्भमयम्। तृणमयम्।
नित्यमेकाचोऽशरादेरपीच्छिन्ति। त्वङ्मयम्। वाङ्मयम्।
-4-3-145- गोश्च पुरीषे ।।
मयट् स्यात्। गोः पुरीषं गोमयम्। गव्यमन्यमत्।
-4-3-146- पिष्टाच्च ।।
नित्यं मयट् स्यात्। पिष्टमयं भस्म।
-4-3-147- संज्ञायां कन् ।।
पिष्टान्नाम्रि कन् स्यात्। पिष्टकः। पिष्टिका।
-4-3-148- ब्रीहेः पुरोडाशे ।।
अस्मादत्र मयट् स्यात्। व्रीहिमय। पुरोडाशः। व्रैहमन्यत्।
-4-3-149- असंज्ञायां तिलयवाभ्याम् ।।
आभ्यां मयट् स्यात्। तिलमयम्। यवमयम्।
असंज्ञायां किम् ? तैलम्। यावकः।
-4-3-150- द्व्यचछन्दसि ।।
-4-3-151- नोत्त्वद्वर्ध्रविल्वात् ।।
इह च्छन्दःसूत्रद्वयम्।
-4-3-152- तालादिभ्योऽण् ।।
एभ्यः स्यादण्। मयडादेर्बाधा। तालं धनुः। बार्हिणम्।
-4-3-153- जातरूपेभ्यः परिमाणे ।।
सुवर्णवाचिभ्यः परिमाणे विकारेऽण स्यात्। हाटकस्य विकारो निष्को हाटकः। जारूपं कार्षापणम्।
परिमाणे किम् ? हाटकमयी यष्टिः।
-4-3-154- प्राणिरजतादिभ्योऽञ्ञ् ।।
प्राणिभ्यो रजतादेश्च मयड्बाधकोऽञ्ञ् स्यात्। कापोतम्। मायूरम्। श्यैनम्। राजतम्। दारवं पात्रादि। सैसम्। लौहम्। औडम्बरम। पुरीं द्रक्ष्यथ काञ्ञ्चनीम्। काञ्ञ्नी वासयष्टिः।
-4-3-155- ञ्ञितश्च तत्प्रत्ययात् ।।
विकारावयवयोर्यो ञ्ञित्प्रत्ययस्तदन्तात् पुनस्तयोरञ्ञ् स्यात्। मयटो बाध। दैवदारवस्य विकारोऽवयवो वा दैवदारवो यूपः। दाधित्थम्। पालाशम्। शामीलस्य विकारः शामीलः।
ञ्ञितः किम् ? अण्णन्तात्--बैल्वमयम्।
-4-3-156- क्रीतवत् परिमाणात् ।।
संख्यात्रयत्र परिमाणं गृह्यते, न रूढिमात्रम्। परिमाणवाचिनीविकारे क्रीतार्थवत् प्रत्ययो वाच्यः। यथा-निष्केण क्रीतो नैष्किक तथा निष्कस्य विकारोऽपि नैष्किकः। शत्यः। शतिकः।
लुक् च क्रीतवत्--द्विसहस्रः। द्विसाहस्रः।
-4-3-157- उष्ट्राद् वुञ्ञ् ।।
स्यात्। उष्ट्रस्य विकारोऽवयवो वा औष्ट्रकः।
-4-3-158- उमोर्णयोर्वा ।।
आभ्यां वुञ्ञ् वा स्यात्। औमकम्, औमं वा। और्णकम्, और्ण वा।
-4-3-159- एण्या ढण् ।।
स्यात्। ऐणेयं मांसम्। ऐणेयी जङ्घा।
एणादञ्ञेव--ऐणम्।
-4-3-160- गोपयसोर्यत् ।।
आभ्यां यत् स्यात्। गव्यम्। पयस्यम्।
-4-3-161- द्रोश्च ।।
द्रोर्यत् स्यात्। द्रव्यम्।
-4-3-162- माने वयः ।।
द्रोर्माने वयः स्यात्। द्रुवयं मानम्।
-4-3-163- फले लुक् ।।
विकारावयवयोरुक्तस्य फले लुक् स्यात्। बदर्या विकारोऽवयवो वा फलं बदरम्। वकुलम्। कदलम्। आमलकम्। कुवलम्। लुक् तद्वितलुकि इति ङीषो लुक्।
-4-3-164- प्लक्षादिभ्योऽण् ।।
प्लक्षादेः फले वाच्येऽण् स्यात्। लुको बाधा। प्लाक्षम्। नैयग्रोधम्। काकुभम्। बार्हतम्। आश्वत्थम्।
-4-3-165- जम्ब्वा वा ।।
जम्बुशब्दात् फलेऽण् वा स्यात्। जाम्बवं फलम्।
पक्षे--ओरञ्ञ्, फले लुक् जम्बु फलम्।
-4-3-166- लुप् च ।।
जम्बाः फलेऽणो वा लुप् स्यात्। लुग्लुपोर्युक्तवद्भावकृतो विशेषः। जम्बूः फलम्। जम्बूः फलानि।
लुकि तु--जम्बूनि फलानि। अभिधेयस्यैव लिङ्गसंख्ये।
। फलपाकशुषाञ्ञ्च ।। यवादीनां प्रत्ययस्य लुप् स्यात्। यवानां फलानि यवाः। तिलाः। मुद्गाः। व्रीहयः। गोधूमाः।
। पुष्पलमूलषु बहुलम् । विकारावयवयोः प्रत्ययस्य लुप् स्यात्। मल्लिकायाः पुष्पं मल्लिका। करवीरम्। जाती। क्रमुकस्यफलं क्रमुकः। विदार्या मूलं विदारी। बाहुल्यान्नेह--पाटलम्। आशोकं पुष्पम्। बैल्वानि फलानि।
-4-3-167- हरीतक्यादिभ्यश्च ।।
हरीतक्यादेः फले लुप् स्यात्। लुको बाधा। हरीतक्याः फलं हरीतकी। हरीतक्यः फलानि। कोषातकी। द्राक्षा। शेफालिका। कण्टकारिका।
-4-3-168- कंसीयपरशव्ययोर्यञ्ञञ्ञौ लुक् च ।।
प्राक् क्रीताच्छः कंसीयः। उगवादिभ्यो यत् परशव्यः। ताभ्यां
यञ्ञञ्ञौ स्याताम्, लुक् च छयतोः। कंसीयस्य विकारः कांस्यः। परशव्यस्य विकारः पारशवः।
विकारावयवौ प्राग्दीव्यतीयाश्च पूर्णाः ।।
इति महाहोपाध्यायश्रीपुरुषोत्तमदेवकृतायां भाषावृत्तौ
चतुर्थाध्यायस्य तृतीयः पादः
।।समाप्तश्च युष्मत्पादः ।।