भाषावृत्तिः/चतुर्थोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः भाषावृत्तिः
चतुर्थः पादः
पुरुषोत्तमदेव


।।चतुर्थाध्याये चतुर्थः पादः।।
तद्धितेषु ठगधिकारः
-4-4-1- प्राग् वहतेष्ठक् ।।
तद्वहति इति वक्ष्यति, ततः प्रागर्थेषु ठग् वाच्यः।
। तदाहेति माशब्दादिभ्यः ।। ठक् स्यात्। मा शब्द इत्याह माशब्दिकः। नित्यः शब्द इत्याह नैत्यशब्दिकः। प्रभतमाह प्राभूतिकः। पर्याप्तमाह--पार्याप्तिकः।
। पृच्छतौ सुस्नातादिभ्यः ।। सुस्रातं पृच्छति सौस्रातिकः। सौस्रातिको यस्य भवत्यगस्त्यः। सौखरात्रिकः।
। गच्छतौ परदारादिभ्यः ।। परदारान् गच्छति पारदारिकः। गौरुतल्पिकः।
-4-4-2- तेन दीव्यति खनति जयति जितम् ।।
अत्रार्थे ठक् स्यात्। अक्षैर्दीव्यति जयति वा आक्षिकः। हलेन दीव्यति
खनिति जयति जितं वा हालिकः। कुद्दालेन खनति कौद्दालिकः। अक्षैर्जितं द्रव्यमाक्षिकम्। मुद्गरेण जयति मौद्गरिकः।
आख्यातार्थेऽपि विहितस्तद्धितः स्वभावात् साधनप्रधानः।
-4-4-3- संस्कृतम् ।।
तेन संस्कृतम् इत्यर्थे ठक् स्यात्। दध्रा संस्कृतं दाधिकम्। उत्कर्षाधानम्उसंस्कारः।
-4-4-4- कुलत्थकोपधादण् ।।
आभ्यामण् स्यात्। कुलत्थैः संस्कृतं कौलत्थम्। तैन्तिडीकम्।
-4-4-5- तरति ।।
तेन तरति इत्यर्थे ठक् स्यात्। तृणप्लवेन तरति तार्णप्लविकः। शरप्लवेन तरति शारप्लविकः।
-4-4-6- गोपुच्छाट् ठञ्ञ् ।।
स्यात्। गोपुच्छेन तरति गौपुच्छिकः। ठक्ठञ्ञो स्वरे भेदः।
-4-4-7- नौद्व्यचष्ठन् ।।
आभ्यां ठन् स्यात्। नावा तरति नाविकः। द्व्यचः--घटिकः, घटिका स्त्री। बाहुकः। कुम्भकः।
षकारः सांहितिकः, नानुबन्धः।
-4-4-8- चरति ।।
तेन चरति इत्यर्थे ठक् स्यात्। चर गतौ भक्षणे च। शाकटिकः। दाधिकः।
-4-4-9- आकर्षात् ष्ठल् ।।
अस्माद् ष्ठल् स्यात्। आकर्षेण चरति आकर्षिकः। आकर्षिकी। आकर्षःउनिकषोपल उच्यते।
-4-4-10- पर्पादिभ्यः ष्ठन् ।।
पर्पेण चरति पर्पिकः। अश्विकः। रथिकः। षित्त्वान् ङीष्। पर्पिकी। अश्विकी। रथिकी। तदुक्तम्--
आकर्षात् पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च।
आवसथात् किशरादेः षितः षडेते ठगधिकारे ।। इति।
-4-4-11- श्वगणाट् ठञ्ञ्च ।।
श्वगणशब्दाट् ठञ्ञ् स्यात्। श्वगणेन चरति श्वागणिकः, श्वागणिकी।
चकारात् ठन्नपि--श्वगणिकः, श्वगणिका।
-4-4-12- वेतनादिभ्यो जीवति ।।
एभ्यः तेन जीवति इत्यर्थे ठक् स्यात्। वैतनिकः। वाहिकः। जालिकः। वार्त्तिकः।
-4-4-13- वस्नक्रयविक्रयाट् ठन् ।।
आभ्यां ठन् स्यात्। वस्नेन जीवति वस्रिकः। क्रयविक्रयिकः। विगृहीताच्च--क्रयिकः। विक्रयिकः।
-4-4-14- आयुधाच्छ च ।।
छः स्यात्, ठंश्च। आयुधीयः। आयुघिकः।
-4-4-15- हरत्युत्सङ्गादिभ्यः ।।
उत्सङ्गादिभ्यः तेन हरति इत्यर्थे ठक् स्यात्। उत्सङ्गेन हरति औत्सङि्गकः। औडुपिकः।
-4-4-16- भस्त्रादिभ्यः ष्ठन् ।।
स्यात्। भस्त्रया हरति भस्त्रिकः। भस्त्रिकी।
-4-4-17- विभाषा विवधवीवधात् ।।
आभ्यां ष्ठन् वा स्यात्। पक्षे ठक्। विवधेन हरति विवधिकः, विवधिकी। वीवधिकः, वीवधिकी। पक्षे ठक्--वैवधिकः।
एतौ पर्याहारे(1) वर्त्तेते। (1.) पर्याहारःउउभयतो बद्धशिक्यः स्कन्ववाह्यः काष्ठविशेषः।
-4-4-18- अण् कुटिलिकायाः ।।
अस्या अण् स्यात्। कुटिलिकया गत्या हरति कौटिलिको मृगः। कौटिलिकी वेश्या।
-4-4-19- निर्वृत्तेऽक्षद्यूतादिभ्यः ।।
एभ्यो निर्वृत्तार्थे ठक् स्यात्। अक्षद्यूतेन निर्वृत्तमाक्षद्यूतिकं वैरम्। गातागतिकं प्रेम। जाङ्घोपघातिकं कार्यम्।
-4-4-20- त्रेर्मम् नित्यम् ।।
त्र्यन्तान्नित्यं मप् स्यात्। शुद्धं त्र्यन्तं न प्रयुज्यते। पाकेन निर्वृत्तं पक्त्रिमम्। संस्कृत्रिमम्। लब्ध्रिमम्।
। भावप्रत्ययान्तादिमब् वक्तव्यः ।। कारिमः। पाकिमं फलम्। कुटि्टमा भूः। सेकिमा लता। दाहिमम्। दाहिमा। पूर्णिमा।
-4-4-21- अपमित्ययाचिताभ्यां कक्कनौ ।।
निर्वृत्तार्थे आभ्यां कक्कनौ स्याताम्। आपमित्यकं धनम्। याचितकं मण्डनम्। अपमित्य इति मेङो ल्यप्।
-4-4-22- संसृष्टे ।।
अत्र यथाविहितं स्यात्। दघ्रा संसृष्टम्उएकीभूतं दाधिकमन्नम्।
गौडिकं पयः।
-4-4-23- चूर्णादिनिः ।।
चूर्णेन संसृष्टाश्चूर्णिनोऽपूपाः।
-4-4-24- लवणाल्लुक् ।।
लवणशब्दात् संसृष्टार्थे प्रत्ययस्य लुक् स्यात्। लवणः सूपः।
-4-4-25- मुद्गादण् ।।
मुद्गेन संसृष्टा मौद्गी यवागूः।
-4-4-26- व्यञ्ञ्जनैरुपसिक्ते ।।
अत्रार्थे यथाप्राप्तं ठक् स्यात्। दध्रा उपसिक्तं दाधिकम्। सौपिकम्।
-4-4-27- आजेःसहोऽम्भसा वर्तते ।।
एभ्यः वर्त्तते इत्यर्थे ठक् स्यात्। ओजसा वर्त्तते औजसिकः। साहसिकः। आम्भसिकः।
तेन इति निवृत्तम् ।।
-4-4-28- तत्प्रत्यनुपूर्वमीपलोमकूलम् ।।
तदिति द्वितीयासमर्थात् प्रत्यनुपूर्वादीपादेः वर्त्तते इत्यर्थे ठक् स्यात्। प्रतीपं वर्त्तते प्रातीपिकः। आन्वीपिकः। प्रातिलोमिकः। तां प्रातिकूलिकीं मत्वा इति भटि्टः। आनुकूलिकतया हि नराणाम्।
इह प्रतीपादयः क्रियाविशेषणानि। क्रियायाश्च साध्यत्वेन तद्विशेषणानामपि साध्यत्वात् कर्मणि द्वितीया। क्रियायाश्चासत्त्वभूतत्वात् सामान्यलिङ्गेन विना विशेषणस्य निर्देष्टुमशक्यत्वान्नपुंसकलिङ्गतेति न्यायः।
तत् इति वर्त्तते यावत् तस्य र्धम्यम् (4.4.47)।
-4-4-29- परिमुखञ्ञ्च ।।
परिमुखं वर्त्तते पारिमुखिकः सेवकः। चकारात् पारिपार्श्विकः।
-4-4-30- प्रयच्छति गर्ह्यम् ।।
अत्रार्थे ठक् स्यात्। द्विगुणार्थं द्रव्यं द्विगुणम्, अल्पकालत्वाच्च गर्ह्यं
निन्द्यम्। तत् प्रयच्छति द्वैगुणिकः। त्रैगुणिको धनी।
। ठकि वृद्धेर्वृधुषिभावश्च ।। वृद्धिं गर्ह्यां प्रयच्छति वार्धुषिकः।
-4-4-31- कुसीददशैकादशात् ष्ठन्ष्टचौ ।।
आभ्यामेतौ स्याताम्। कुसीदं गर्ह्यं प्रयच्छति कुसीदिकः। एकादशार्थान् दश प्रयच्छति दशैकादशिकी।
-4-4-32- उञ्ञ्छति ।।
अत्रार्थे ठक् स्यात् शाकानुञ्ञ्छति शाकिकः। बादरिकः।
-4-4-33- रक्षति ।।
अत्रार्थे ठक् स्यात्। समाजं रक्षति सामाजिकः। सान्निवेशिकः।
-4-4-34- शब्ददर्दुरं करोति ।।
आभ्यां करोत्यर्थे ठक् स्यात्। शाब्दिकः पटहः, छात्रो वा।
दार्दुरिकः कुलालः।
-4-4-35- पक्षिमत्स्यमृगान् हन्ति ।।
एभ्यो हन्त्यर्थे ठक् स्यात्। स्वरूपस्य तत्पर्यायाणां तद्विशेषणानाञ्ञ्च ग्रहणम्। पाक्षिकः। शाकुनिकः। मायूरिकः। मात्स्यिकः। मैनिकः। माद्गुरिकः। शाकुलिकः। प्रौष्ठिकः। मार्गिकः। हारिणिकः। शौकरिकः।
-4-4-36- परिपन्थञ्ञ्च तिष्ठति ।।
परिपन्थशब्दोऽव्ययीभावः, अतएव निपातनात् साधुः, तत् तिष्ठति चकाराद्धन्ति वा पारिपन्थिकश्चौरः।
-4-4-37- माथोत्तरपदपदव्यनुपदं धावति ।।
एभ्यो धावत्यर्थे ठक् स्यात्। माथःउपन्थाः, तदुत्तरपदात्--दण्डमाथं धावति दाण्डमाथिकः। पदवी--पादविकः। अनुपदम्--आनुपदिकः।
-4-4-38- आक्रन्दाट् ठञ्ञ्च ।।
अस्माट् ठञ्ञ्च स्यात्, ठक् च। आक्रन्दिकः।
-4-4-39- पदोत्तरपदं गृह्णाति ।।
पदान्ताद् गृह्णात्यर्थे ठक् स्यात्। पूर्वपदं गृह्णाति पौर्वपदिकः।
औत्तरपदिकः। प्रातिपदिकम्।
-4-4-40- प्रतिकण्ठार्थललामञ्ञ्च ।।
एभ्यष्ठक् स्यात्। प्रतिकण्ठं गृह्णाति प्रातिकण्ठिको वल्लभः। आर्थिकः। लालामिकः।
-4-4-41- धर्म चरति ।।
धार्मिकः।
। अधर्माच्चेति वकृतव्यम् ।। आधर्मिकः।
-4-4-42- प्रतिपथमेति ठंश्च ।।
प्रतिपथादेतीत्यर्थे ठन्-ठकौ स्याताम्। प्रतिपथिकः। प्रातिपथिकः।
-4-4-43- समवायान् समवैति ।।
पर्यायग्रहणमत्र। समूहवाचिभ्योऽत्रार्थे ठक् स्यात्। सामवायिकः। सामुदायिकः। सामूहिकः। सामूहिकः।
-4-4-44- परिषदो ण्यः ।।
स्यात्। परिषदं समवैति पारिषद्यः।
-4-4-45- सेनाया वा ।।
ण्यः स्याद्वा। सेनां समवैति सैन्यः।
पक्षे ठक्--सैनिकः।
-4-4-46- संज्ञायां ललाटकुक्कुट्यौ पश्यति ।।
संज्ञा चेत् ललाटकुक्कुटीभ्यां पश्यत्यर्थे ठक् स्यात्। अर्थनियमश्चात्र
संज्ञा, न रूढिः। य एव ललाटमात्रं दूरात् पश्यति, न तु कार्ये व्याप्रियते स लालाटिकः, सेवकादिः। य एवाविक्षिप्तदृष्टिः कुक्कुटीपादपतनयोग्यमल्पदेशं पश्यन् याति स कौक्कुटिकः, तपस्व्यादिः।
-4-4-47- तस्य र्धम्यम् ।।
अत्रार्थे ठक् स्यात्। र्धम्यम्उन्याय्यम्, आचार इत्यर्थः। शुल्कस्य र्धम्य शौल्किकम्। आपणिकम्।
-4-4-48- अण् महिष्यादिभ्यः ।।
महिष्या र्धम्यं माहिषम् मूल्यम्। पौरोहितम्। प्राजापतम्।
-4-4-49- ऋतोऽञ्ञ् ।।
ऋदन्तादञ्ञ् स्यात्। होतुर्र्धम्यं हौत्रम्। औद्गात्रम्।
। नृनराभ्याञ्ञ्च ।। नुः, नरस्य र्धम्य नारम्। नारी। जातिशब्दोऽयमित्यागमः।
। विशसितुरिड्लोपश्च ।। वैशस्त्रम्।
। विभाजयितुर्णिलोपश्च ।। वैभाजित्रम्।
-4-4-50- अवक्रयः ।।
तस्यावक्रयः इत्यर्थे ठक् स्यात्। शुल्कस्यावक्रयःउपारिभाषिकं मूल्यं शौल्लिकः पिण्डः। आपणिकः।
-4-4-51- तदस्य पण्यम् ।।
अत्रार्थे ठक् स्यात्। मोदकाः पण्यमस्य मौदकिकः। आपूपिकः।
-4-4-52- लवणाट् ठञ्ञ् ।।
लवणं पण्यमस्य लावणिकः।
-4-4-53-किशरादिभ्यः ष्ठन्।।
-4-4-54- शलालुनोऽन्यतरस्याम् ।।
किशरादेर्गन्धद्रव्यवाचकात ष्ठन् स्यात्। तदस्य पण्यम्, किशरिकः। किशरिकी। शलालुकः। पक्षे ठक्--शालालुकः।
पण्यम् इति निवृत्तम्।
तदस्य इति वर्त्तते यावत् तदस्मै दीयते (4.4.66)।
-4-4-55- शिल्पम् ।।
अत्र ठक् स्यात्। मृदङ्गवादनं शिल्पमस्य मार्दङि्गकः। पाणविकः।
-4-4-56- मडडुकझर्झरादणन्यतरस्याम् ।।
आभ्यामण् वा स्यात्। तदस्य शिल्पम्। माड्डुकः। झार्झरः। पक्षे--माड्डुकिकः। झार्झरिकः।
-4-4-57- प्रहरणम् ।।
अत्र ठक् स्यात्। असिः प्रहरणमस्य आसिकः। प्रासिकः। धानुष्कः। चाक्रिकः। पाशिकः।
-4-4-58- परश्वधाट् ठञ्ञ् च ।।
परश्वधाट् ठञ्ञ्ठकौ स्याताम् पारश्वधिकः। स्वरे भेदः।
-4-4-59- शक्तियष्ट्योरीकक् ।।
आभ्यामीकक् स्यात्। शक्तिः प्रहरणमस्य शाक्तीकः। याष्टीकः, याष्टिकी।
-4-4-60- अस्ति-नास्ति-दिष्टं मतिः ।।
अत्रार्थे ठक् स्यात्। अस्ति मतिरस्य आस्तिकः। नास्तिकः। दैष्टिकः।
अस्ति-नास्तीति शब्दौ तिङन्तावित्येके। तिङन्तप्रतिरूपकौ निपातावित्यन्ये।
-4-4-61- शीलम् ।।
अत्रार्थे ठक् स्यात् परुषवचनं शीलमस्य पारुषिकः। आक्रोशिकः। कारुणिकः
-4-4-62- छत्रादिभ्यो णः ।।
छादनं छत्रं शीलमस्य छात्रः। शैक्षः। तापसः। चुरा-चौरः।
-4-4-63- कर्माध्ययने वृत्तम् ।।
अत्रार्थे ठक् स्यात्। एकमन्यदध्यनेऽपपाठलक्षणं कर्म वृत्तमस्य ऐकान्यिकः। द्वैयन्यिकः। तद्धितार्थ इति समासः। एकेरूपिकः ऐकग्रन्थिकः।
-4-4-64- बह्वच्पूर्पपदाट् ठच् ।।
बह्वच्पूर्वाट् ठच् स्यात् पूर्वार्थे। द्वादशान्यिकः। त्रयोदशग्रन्थिकः।
-4-4-65- हितं भक्षाः ।।
अत्रार्थे ठक् स्यात्। अपूपा हितमस्मै आपूपिकः। औदनिकः। मौदकिकः। हितयोगे चतुर्थी।
-4-4-66- तदस्मै दीयते नियुक्तम् ।।
अत्रार्थे ठक् स्यात्। नियुक्तम्उकल्पितमग्रभोजनमस्मै दीयते आग्रभोजनिकः। प्राथमकल्पिकः।
-4-4-67- श्राणामांसौदनाट् टिठन् ।।
आभ्यां पूर्वार्थ एव टिठन् स्यात्। इकार उच्चारणार्थः। श्राणिकः। मांसौदनिकः।
विगृहीताच्च--मांसिकः। औदनिकः। मांसिकी।
-4-4-68- भक्तादणन्यतरस्याम् ।।
वा स्यात्। भक्तमस्मै दीयते भाक्तः। भाक्तिको वा।
-4-4-69- तत्र नियुक्तः ।।
अत्रार्थे ठक् स्यात्। द्वारे नियुक्तो दौवारिकः। शौल्किकः।
तत्र इति वर्त्तते यावत् तद्वहति (4.4.76)।
-4-4-70- अगारान्ताट् ठन् ।।
देवागारे नियुक्तो देवागारिकः। भाण्डगारिकः।
केवलाट् ठगेव--आगारिकः।
-4-4-71- अध्यायिन्यदेशकालात् ।।
अदेशकालाच्चाध्याययिन्यर्थे ठक् स्यात्। श्मशानेऽधीते श्माशानिकः। चातुष्प्थिकः। अकालात्--चातुर्दशिकः। आष्टमिकः।
शास्त्रनिषिद्धौ देशकालौ प्रकृती।
-4-4-72- कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ।।
एभ्यो व्यवहरत्यर्थे ठक् स्यात्। वंशकठिने व्यवहरति वांशकठि निकः। प्रास्तारिकः। सांस्थानिकः।
-4-4-73-निकटे वसति ।।
निकटाद् वसत्यर्थे ठक् स्यात्। नैकटिको भिक्षुः।
-4-4-74- आवसथात् ष्टल् ।।
आवसथे वसति आवसथिकः। आवसथिकी।
-4-4-75- प्राग्धिताद् यत् ।।
तस्मै हितम् (5.1.5) इत्यतः प्रागर्थेषु यद् वेदितव्यः।
-4-4-76- तद्वहति रथयुगप्रासङ्गम् ।।
तद्वहतीत्यर्थे रथादेर्यत् स्यात्। द्वौ रथौ वहति तद्धितार्थे द्विगुसमासः। द्विरथ्यः। त्रिरथ्यः।
केवलात्तु रथाद् यतोऽसिद्धिरिति स्मृतिः। युग्यः । प्रासङ्यः।
-4-4-77- धुरो यड्ढकौ ।।
स्याताम्। धुरं वहति धुर्यः। धौरेयः।
-4-4-78- खः सर्वधुरात् ।।
स्यात्। सर्वधुरां वहति सर्वधुरीणः।
योगविभागादुत्तरधुरीण-दक्षिणधुरीणौ चेत्येके। धुरीणश्चेत्यन्ये।
-4-4-79- एकधुराल्कुक् च ।।
एकधुरात् खस्य लुक् स्यात्, श्रवणञ्ञ्च। एकधुरः। एकधुरीणः।
-4-4-80- शकटादण् ।।
शकटं वहिति शाकटः। द्वैशकटः।
-4-4-81- हलसीराट्ठक् ।।
हालिकः। द्वेहलिकः। सैरिकः। द्वैसीरिकः। त्रैसीरिकः।
-4-4-82- संज्ञायां जन्याः ।।
नाम्रि जन्याः स्युः। जनीम्उवधूं वहन्ति जन्याःउजामातुर्वयस्याः।
-4-4-83- विध्यत्यधनुषा ।।
तद् विध्यति इत्यर्थे कर्मणो यत् स्यात्, न चेद् धनुः करणं भवति। पादौ विध्यति पद्यः पाषाणः। ःढ़द्य;रव्याः कण्टकाः।
नेह--चौरं विध्यति धानुष्कः।
-4-4-84- धनगणं लब्धा ।।
आभ्याम् लब्धा इत्यर्थे यत् स्यात्। धनं लब्धा धन्यो बालकः। गण्यो मृगः। लब्धा इति तृन्।
-4-4-85- अन्नाण्णः।
अन्नं लब्धा आन्नश्छात्रः ।।
-4-4-86- वशं गतः ।।
वशाद् गतः इत्यर्थे यत् स्यात्। वश्यः सर्वो जनः स्त्रीणाम्।,
-4-4-87- पदमस्मिन् दृश्यम् ।।
द्रष्टुं शक्यात् पदादधिकरणे यत् स्यात्। पदं दृश्यमस्मिन् पद्यः कर्दमः। पद्यः पन्थाः।
-4-4-88- मूलमस्याबर्हि ।।
अत्रार्थे यत् स्यात्। मूलमेषामाबर्हि, कोमलत्वाद् ग्रहणमात्रेणोत्पटति, मूल्या मुद्गाः। बुह उद्यमे।
-4-4-89- संज्ञायां धेनुष्या ।।
इय नाम्नि निपात्यते। धेनुष्या गौर्महिषी वा यावद् या दुग्धबन्धके स्थिता।
-4-4-90- गृहपतिना संयुक्ते ञ्ञ्यः ।।
गृहपतिशब्दान्नाम्रि ञ्ञ्यः स्यात्। गार्हपत्योऽग्रिभेदः।
-4-4-91- नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्नानाम्यसमसमितसम्मितेषु ।।
नावाद्यष्टकात् तार्यादौ यत् स्यात्। नावां तार्य नाव्यम्। नाव्यं पयः केचिदतारिषुर्भुजैः। वयसा तुल्यो वयस्यः। धर्मेण प्राप्यो र्धम्यो भोगः। विषेण वध्यो विष्यः शत्रुः। मूलेन अनाम्यम्उअनभिभवनीयं मूल्यं क्षेत्रम्।
मूलेन समो मूल्यः पटो जातः। सीतया समितं सीत्यम्। द्विसीत्यम्। त्रिसीत्यम्। तुलया सम्मितं तुल्यं कनकम्।
। रथसीताहलेभ्यो यद्विधौ तदन्तविधिः । ( 2.1.72 वा0 )
बहुसीत्यम्।
-4-4-92- धर्मपथ्यर्थन्यायादनपेते ।।
एभ्योऽनपेते यत् स्यात्। धर्मादनंपेतो र्धम्यो नृपः। पथ्यम्। अर्थ्यम्। न्यायम्।
-4-4-93- छन्दसो निर्मिते ।।
छन्दसोऽत्र यत् स्यात्। छन्दसा इच्छया निर्मितं छन्दस्यं जगत्।
-4-4-94- उरसोऽण् च ।।
उरसा निर्मित औरसः पुत्रः। यच्च--उरस्यः।
-4-4-95- हृदयस्य प्रियः ।।
हृदयात् प्रियः इत्यर्थे यत् स्यात्। हृद्यः। पुत्रेऽनभिधानम्।
-4-4-96- बन्धने चर्षौ ।।
ऋषौ वेदे हृदयाद् यत् स्याद् बन्धने मन्त्रे। हृदयस्य बन्धनं हृद्यो वशीकरणमन्त्रः।
-4-4-97- मतजनहलात् करणजल्पकर्षेषु ।।
मतादेः करणादौ यत् स्यात्। मतस्य करणं मत्यम्। जनस्य जल्पो जन्यः। हलस्य कर्षो हल्यः। द्विहल्यः।
-4-4-98- तत्र साधुः ।।
अत्रार्थे यत् स्यात्। सामसु साधुः सामन्यो विप्रः। ब्रह्मण्यः। कर्मण्यः। वंश्यः।
साधुरिह प्रवीणः, योग्यो वा।
-4-4-99- प्रतिजनादिभ्यः खञ्ञ् ।।
एभ्यः खञ्ञ् स्यात्। प्रतिजने साधुः प्रातिजनीनः। सांयुगीनः। सार्वजनीनः।
-4-4-100- भक्ताण्णः।।
      भक्ते साधवो भाक्तास्तण्डुलाः।
-4-4-101- परिषदो ण्यः ।।
परिषदि साधुः पारिषद्यः।
णोऽपीष्यते इति जयादित्यः। पारिषदः।
-4-4-102- कथादिभ्य ष्ठक् ।।
कथायां साधुः काथिकः। वैकथिकः। वार्त्तिकः।
-4-4-103- गुडादिभ्यष्ठञ्ञ् ।।
गुडे साधुः गौडिक इक्षुः। कौल्माषिका यवाः। सांग्रामिको भटः प्रावासिको वणिक्।
-4-4-104- पथ्यतिथिवसतिस्वपतेर्ढञ्ञ् ।।
एभ्यः साधौ ढञ्ञ् स्या। पथि साधु पाथेयम्। आतिथयम्। वासतेयम्, वासतेयी। स्वापतेयं धनम्।
-4-4-105- सभाया यः ।।
स्यात्। सभायां साधुः सभ्यः।
-4-4-106- ढश्छन्दसि ।।
छन्दःसूत्रमेकम्।
-4-4-107- समानतीर्थे वासी ।।
समानतीर्थात् तत्र वासी इत्यर्थे यः स्यातृ। सतीर्थ्याश्चैकगुरवः। तीर्थे ये इति सभावः। तीर्थम्उदर्शनम्, गुरुश्च।
-4-4-108- समानोदरे शयित ओ चोदात्तः ।।
अत्रार्थे यः स्यात्। समानोदर्यो भ्राता।
-4-4-109- सोदराद् यः ।।
अस्माद् यः स्यात्। समानोदरे शयिता सोदर्यः। विभाषोदरे इति समानस्य सभावः।
इहेदानीमापादपरिसमाप्तेश्दन्दोऽधिकारः। तत्रापि भावार्थे (1)।
(1.) छान्दसानि सूत्राणि--
-4-4-110. भवे च्छन्दसि ।।
-4-4-111. पाथोनदीभ्यां ड्यण् ।।
-4-4-112. वेशन्तहिमवद्भ्यामण् ।।
-4-4-113. स्रोतसो विभाषा ड्यड्यौ ।।
-4-4-114- सगर्भसयूथसनुताद् यन् ।।
स्यात्। सर्गभ्यो भ्राता। सयूथ्यो वत्सः। सनुत्यः प्रसादः।
-4-4-115. तुग्राद् घन् ।।
-4-4-116- अग्राद् यत् ।।
स्यात्। अग्रयम्।
-4-4-117- घच्छौ च ।।
स्याताम्। अग्रियम्। अग्रीयम्।
-4-4-118- समुद्राभ्राद् घः ।।
आभ्यां घः स्यात्। समुद्रियम्। अभ्रियम्।
छश्च--समुद्रीयम्। अभ्रीयम्।
-4-4-119. बर्हिषि दत्तम् ।।
-4-4-120- दूतस्य भागकर्मणी ।।
       अस्माद् यत् स्यात् । दूत्यम्।
-4-4-121 रक्षोयातूनां हननी ।।
-4-4-122. रेवतीजगतीहविष्याभ्यः प्रशस्ये ।।
-4-4-123. असुरस्य स्वम् ।।
-4-4-124. मायायामण् ।।
-4-4-125. तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ।।
-4-4-126. अश्विमानण् ।।
-4-4-127. वयस्यासु मूर्घ्नो मतुप् ।।
-4-4-128- मत्वर्थे मासतन्वोः ।।
आभ्यां यत् स्यात्। नभांसि यत्र सन्ति नभस्यो मासः। सहस्यः। तपस्यः। तेजस्या तनुः।
-4-4-129- मधोर्ञ्ञ च ।।
माधवो मासः। तथा--
। लुगकारेकाररेफाश्चेति वक्तव्यम् ।। लुक्--मधु अत्रास्ति मधुर्मासः। अकारः--इट् अत्रास्ति इषः, ःढ़द्य;र्क् अस्मिन्नस्ति ऊर्जो मासः। इकारः--शुगस्मिन्नस्ति शुचिर्मासः। रेफः--शुक्रो मासः।
-4-4-130. ओजसोऽहनि यत्खौ ।।
-4-4-131. वेशोयशआदेर्भगाद् यल् ।।
-4-4-132. ख च ।।
-4-4-133. पूर्वैः कृतमिनयौ च ।।
-4-4-134. अद्भिः संस्कृतम् ।।
-4-4-135. सहस्रेण सम्मितौ घः ।।
-4-4-136. मतौ च ।।
-4-4-137. सोममर्हति यः।
-4-4-138. मये च ।।
-4-4-139. मधोः ।।
-4-4-140. वसोः समूहे च ।।
-4-4-141- नक्षत्राद् घः ।।
नक्षत्रियम्। छश्च--नक्षत्रीयम्।
-4-4-142- सर्वदेवात् तातिल् ।।
-4-4-143- शिवशमरिष्टस्य करे ।।
एभ्यः करे तातिल् स्यात्। शिवतातिः। शन्तातिः। अरिष्टतातिः।
अमी शब्दाश्छान्दसा अपि क्वचिद् भाषायां प्रयुज्यन्त इति त्रिकाण्डे,
भागुरिनिबन्धनाद् वा अव्युत्पन्नसंज्ञाशब्दत्वाद् वा सर्वथा भाषायां साधवः।
-4-4-144- भावे च ।।
छन्दःसूत्रम्।
इति महामहोपाध्याश्रीपुरुषोत्तमदेवकृतायां भाषावृत्तौ
चतुर्थाध्यायस्य चतुर्थः पादः
।।समाप्तश्च ठक्पादः ।।