भावप्रकाशसंहिता/मध्यखण्डः/द्वितीयः भागः/श्लेष्मव्याध्यधिकारः

विकिस्रोतः तः
← पित्तव्याध्यधिकारः भावप्रकाशसंहिता/मध्यखण्डः/द्वितीयः भागः
श्लेष्मव्याध्यधिकारः
श्रीभावमिश्रः
वातरक्ताधिकारः →

अथाष्टाविंशः श्लेष्मव्याध्यधिकारः २८
गुरुमधुररसादि स्निग्धमन्दोदराग्नि
द्र वदधिदिननिद्रा शीतनिश्चेष्टितानि
प्रथमदिवसभागे भुक्तमात्रे वसन्ते
भवति हि कफरोगो रात्रिभागेपि चाद्ये १
प्रथमं मुखमाधुर्यं तथैव मुखलिप्तता
मुखप्रसेकश्च तथा निद्रा धिक्यं तथैव च २
कण्ठे घुर्घुरता चापि कटुकाङ्क्षोष्णकामिता
बुद्धिमान्द्यमचैतन्यमालस्यं तृप्तिरेव च ३
अग्निमान्द्यं मलाधिक्यं मलशौक्ल्यं तथैव च
मूत्राधिक्यं मूत्रशौक्ल्यं शुक्राधिक्यं तथैव च ४
स्तैमित्यं गौरवं शैत्यमेत एव हि विंशतिः
योगतो रूढितः प्रोक्ता मुनिभिः श्लैष्मिका गदाः ५
रुक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं
धूमोष्मानलघर्मनस्यवमनं स्वेदोपवासादिकम् ६
तृड्घाताध्वनियुद्धजागरजलक्रीडाङ्गनासेवनम्
पानाहारविहारभेषजमिदं श्लेष्मामयान् संहरेत् ७
इत्यष्टाविंशः श्लेष्मव्याध्यधिकारः समाप्तः २८