भावप्रकाशसंहिता/मध्यखण्डः/द्वितीयः भागः/वातरक्ताधिकारः

विकिस्रोतः तः
← श्लेष्मव्याध्यधिकारः भावप्रकाशसंहिता/मध्यखण्डः/द्वितीयः भागः
वातरक्ताधिकारः
श्रीभावमिश्रः


अथैकोनत्रिंशो वातरक्ताधिकारः २९
लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः
क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः १
कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः
दध्यारनालसौवीरशुक्ततक्रसुरासवैः २
विरुद्धाध्यशनक्रोधदिवास्वप्नातिजागरैः
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्
स्थूलानां सुखिनाञ्चापि प्रकुप्येद्वातशोणितम् ३
हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं सविदाहाशनस्य ४
कृत्स्नं रक्तं विदहत्याशु तच्च दुष्टं शीघ्रं पादयोश्चीयते तु
तत्सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ५
स्वेदोत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेतिरुक्
सन्धिशैथिल्यमालस्यं सदनं पिडिकोद्गमः ६
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु
निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ७
कण्डूः सन्धिषु रुग्दाहो भूत्वा नश्यति चासकृत्
वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् ८
वातेऽधिकेऽधिकं तत्र शूलं स्फुरणतोदनम्
शोथस्य रौक्ष्यं कृष्णत्वं श्यावता वृद्धिहानयः ९
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः १०
रक्ते शोथोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते
स्निग्धरुक्षैः शमं नैति कण्डूक्लेदसमन्वितः ११
पित्ते विदाहः संमोहः स्वेदो मूर्च्छा मदस्तृषा
स्पर्शासहत्वं रुग्दाहः शोथः पाको भृशोष्णता १२
कफे स्तैमित्यगुरुता सुप्तिः स्निग्धत्वशीतता
कण्डूर्मन्दा च रुग्द्वन्द्वसर्वलिङ्गञ्च सङ्करे १३
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि
आखोर्विषमिव क्रुद्धं तद्देहमनुसर्पति १४
अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः
मूर्च्छा चामन्दरुक्तृष्णाज्वरमोहप्रवेपकाः १५
हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः
अङ्गुलीवक्रतास्फोटदाहमर्मग्रहार्बुदाः १६
एतैरुपद्र वैर्वर्ज्यं मोहेनैकेन चापि तत्
अकृत्स्नोपद्र वं याप्यं साध्यं स्यान्निरुपद्र वम् १७
एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम्
त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्र वाः १८
आजानु स्फुटितं यच्च प्रभिन्नं प्रस्रुतञ्च यत्
उपद्र वैश्च यज्जुष्टं प्राणमांसक्षयादिभिः
वातरक्तमसाध्यं स्याद्याप्यं संवत्सरोत्थितम् १९
वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत्
अल्पाल्पं रक्षयेद्वायुं यथादोषं यथाबलम् २०
उग्राङ्गदाहतोदेषु जलौकोभिर्विनिर्हरेत् २१
शृङ्गेण वै चिमिचिमाकण्डूरुग्वेपनान्वितम्
प्रच्छन्नेन शिराभिर्वा देशाद्देशान्तरं व्रजेत् २२
अङ्गेम्लाने तु न स्राव्यं रक्षेद्वातोत्तरञ्च यत्
गम्भीरं श्वयथुं स्तम्भं कम्पवायुं शिराऽमयान्
ग्लानिमन्यांश्च वातोत्थान्कुर्याद्वायुरसृक्क्षयात् २३
खञ्जादीन् वातरोगांश्च मृत्युञ्चानवशेषितम्
कुर्यात्तस्मात्प्रमाणेन स्निग्धाद्र क्तं विनिर्हरेत् २४
रुक्षैर्वा मृदुभिः शस्तमसकृद्वस्तिकर्म च
नहि वस्तिसमं किञ्चिद्वातरक्तचिकित्सितम् २५
बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनैः
विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत् २६
दिवास्वप्नं ससन्तापं व्यायामं मैथुनं तथा
कटूष्णगुर्वभिष्यन्दि लवणाम्लौ च वर्जयेत् २७
पुराणा यवगोधूमा नीवाराः शालिषष्टिकाः
भोजनार्थे रसार्थे तु विष्किराः प्रतुदा हिताः २८
आढक्यश्चणका मुद्गा मसूराः सकुलत्थकाः
यूषार्थे बहुसर्पिष्काः प्रशस्ता वातशोणिते २९
सुनिषण्णकवेत्राग्रकाकमाचीशतावरी
वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ३०
घृतमांसरसैर्भृष्टं शाकसात्म्याय दापयेत् ३१
सर्पिस्तैलवसामज्जपानाभ्यञ्जनवस्तिमिः
सुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत्
हितो गोधूमचूर्णश्च च्छागक्षीरघृताप्लुतः ३२
लेपस्तद्वत्तिला भृष्टाः पिष्टाः पयसि निर्वृताः
क्षारपिष्टातसीलेपो वर्द्धमानफलेन वा ३३
उभे शताह्वे मधुकं बलां चै प्रियालकं चापि कसेरुकं च
वृत्तं विदारीञ्च सितोपलाञ्चै कुर्यात्प्रदेहं पवने सरक्ते ३४
रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च
घृतञ्च सिद्धं मधुशेषयुक्तं रक्तानिलार्त्तिं प्रणुदेत्प्रदेहः ३५
वासागुडूचीचतुरङ्गुलानामेरण्डतैलेन पिबेत्कषायम्
क्रमेण सर्वाङ्गजमप्यशेषं जयेदसृग्वातभवं विकारम् ३६
दशमूलीशृतं क्षीरं सद्यः शूलनिवारणम्
परिषेकोऽनिलप्राये तद्वत्कोष्णेन सर्पिषा ३७
पटोलकटुकाभीरुत्रिफलाऽमृतसाधितम्
क्वाथं पीत्वा जयेज्जन्तुः सदाहं वातशोणितम् ३८
त्रिवृद्विदारीक्षुरकक्वाथो वातास्रनाशनः
अमृता कफवातघ्नी कफमेदोविशोषिणी ३९
वातरक्तप्रशमनी कण्डूवीसर्पनाशिनी ४०
गुडूच्याः स्वरसं कल्कं चूर्णं वा क्वाथमेव च
प्रभूतकालमासेव्य मुच्यते वातशोणितात् ४१
अमृता नागर धान्यक कर्षत्रितयेन पाचनं सिद्धम्
जयति सरक्तं वातं सामं कुष्ठान्यशेषाणि ४२
वत्सादन्युद्भवः क्वाथः पीतो गुग्गुलुमिश्रितः
समीरणसमायुक्तं शोणितं सम्प्रणाशयेत् ४३
तिस्रोऽथ वा पञ्च गुडेन पथ्या जग्ध्वा पिबेच्छिन्नरुहाकषायम्
तद्वातरक्तं शमयत्युदीर्णमाजानुभिन्नं च्युतमप्यवश्यम् ४४
गुग्गुल्वमृतवल्लीभिर्द्राक्षा लुङ्गरसेन वा
त्रिफलाया रसैर्युक्ता गुटिकाः कोलसम्मिताः ४५
भक्षयेन्मधुनालोड्य शृणु कुर्वन्ति यत्फलम्
पादस्फोटं महाघोरं स्फुटत्सर्वाङ्गसञ्चयम्
तत्सर्वं नाशयत्याशु साध्यञ्चैव सशोणितम् ४६
माहिषं नवनीतं तु बलिना परिमिश्रितम्
गोमूत्रमिश्रितं कृत्वा क्षीरेण लवणेन च ४७
तदेकत्र समालोड्य वह्निना भावयेच्छनैः
गात्रमुद्वर्त्तयेत्तेन देहस्फुटनशान्तये ४८
इति गुग्गुलवटिका
घृतेन वातं सगुडा विबन्धं पित्तं सिताढ्या मधुना कफञ्च
वातासृगुग्रं रुबुतैलमिश्रा शुण्ठ्यामवातं शमयेद् गुडूची ४९
सिंहास्यपञ्चमूलीच्छिन्नरुहैरण्डगोक्षुरक्वाथः
एरण्डतैलरामठसैन्धवचूर्णान्वितः पीतः ५०
प्रशमयति वातरक्तं तथामवातं कटीशूलम्
मूत्रपुरीषविबन्धं ब्रध्नविकारं सुदुर्वारम् ५१
गन्धर्वहस्तवृषगोक्षुरकामृतानां
मूलं बलेक्षुरकयोश्च पचेत्तु धीमान्
वातासृगाशु विनिहन्ति चिरप्ररुढ
माजानुगं स्फुटितमूर्ध्वगतन्तु धीमान् ५२
कफपित्तप्रशमनं कण्डूवीसर्पनाशनम्
वातरक्तप्रशमनं हृद्यं गुडघृतं स्मृतम् ५३
पिप्पलीवर्द्धमानं वा सेव्यं पथ्या गुडेन वा ५४
कोकिलाक्षामृताक्वाथे पिबेत्कृष्णां यथाबलम्
पथ्यभोजी त्रिसप्ताहान्मुच्यते वातशोणितात् ५५
मधुकाद् द्विगुणं तैलं तैलादाजं पयो भवेत्
तद्यथाऽग्निबलं पेयं वातरक्तरुजाऽपहम् ५६
अगस्ति पुष्पचूर्णेन माहिषं जनयेद्दधि
तदुत्थनवनीतेन देहजं स्फुटनं जयेत् ५७
नवकार्षिकक्वाथः
त्रिफलानिम्बमञ्जिष्ठा वचा कटुकरोहिणी
वत्सादनी दारुनिशा कषायो नवकार्षिकः
वातरक्तं तथा कुष्ठं पामानं रक्तमण्डलम् ५८
कण्डूकपालिकाकुष्ठं पानादेवापकर्षति
पञ्चरक्तिकमाषेण कषायो नवकार्षिकः ५९
किञ्चैवं साधिते क्वाथे योग्या मात्रा प्रदीयते
कर्षादौ तु पलं यावद्दद्यात्षोडशिकं जलम् ६०
ततस्तु कुडवं यावदष्टादशगुणं जलम्
चतुर्गुणमतश्चोर्ध्वं यावत्प्रस्थादिकं भवेत् ६१
विरेचनैर्घृतक्षीरपानैः सेकैः सवस्तिभिः
लेपनं शाल्मलीकल्कमविक्षीरेण संयुतम् ६२
रक्तोत्तरं क्षीरघृतं मधुकोशीरवारिभिः
सेचनं चात्र कर्त्तव्यमविक्षीरैः क्षणं क्षणम् ६३
सहस्रशतधौतेन घृतेन रुधिरोत्तरे
लेपनं सुष्ठु शीतेन घृतसर्जरसेन वा ६४
शीतैर्निर्वापणैश्चापि रक्तपित्तोत्तरं जयेत्
सरागे सरुजे दाहे रक्तं विस्राव्य लेपयेत् ६५
तिलाः प्रियालं मधुकं बिसमूलं च वेतसम्
सघृतं पयसा पिष्टं प्रलेपो दाहरोगनुत् ६६
पित्तोत्तरे तुकाश्मर्यद्रा क्षाऽरग्वधचन्दनैः ६७
मधुकक्षीरकाकोलीयुक्तैः क्वाथं सुशीतलम्
शर्करामधुसंयुक्तं वातरक्ते पिबेन्नरः ६८
धारोष्णं मूत्रसंयुक्तं क्षीरं दोषानुलोमनम्
पिबेद्वा सत्रिवृच्चूर्णं पित्तरक्तावृतानिले ६९
क्षीरेणैरण्डतैलं वा प्रयोगेण पिबेन्नरः
बहुदोषे विरेकार्थं जीर्णे क्षीरौदनाशनः ७०
पटोलं त्रिफला भीरु गुडूची कटुरोहिणी
क्वाथः पित्ताधिके शस्तः शर्करामधुसंयुतः ७१
तिक्तस्य सर्पिषःपानं बहुशश्च विरेचनम्
वमनं मृदुनाऽत्यर्थं स्नेहसेको विलङ्घनम् ७२
कोष्णाः सेकाश्च शस्यन्ते वारतक्ते कफोत्तरे
तैलमूत्रसुराशुक्तैः परिषेकाः सदा हिताः ७३
गौरसर्षपकल्केन प्रदेहो वा रुजापहः ७४
सवरुणशिग्रोः कल्को धान्याम्लेनानिलार्त्तिजिल्लेपात्
भवति न वेति विकल्पो न विधेयः सिद्धयोगेऽस्मिन् ७५
कल्कः श्लेष्मोत्तरे लेपो वाजिगन्धातिलोद्भवः
लेपः सर्षपनिम्बार्क हिंस्राक्षारतिलैर्हितः ७६
श्रेष्ठः शक्तुघृतक्षारकपित्थत्वग्भिरेव च
मसूरशिग्रोस्तद्बीजं हितं धान्याम्लसंयुतम्
मुहूर्त्ताल्लिप्तमम्लैश्च सिञ्चैद्वातकफोत्तरे ७७
मुस्तामलकनिशाभिः क्वथितं तोयं समाक्षिकं पेयम्
जयति सदागतिरक्तं सकफं वा सततयोगेन ७८
हरिद्रा मृतकक्वाथं मधुना मधुरीकृतम्
पिबेद्वा त्रिफलाक्वाथं वातरक्ते कफाधिके ७९
हरीतकीं वा तक्रेण पाययेदुदकेन वा
गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम्
प्रलेपःशूलनुद्वातरक्ते वातकफोत्तरे ८०
अमृताकटुकायष्टी शुण्ठीकल्कं समाक्षिकम् ८१
गोमूत्रपीतं जयति सकफं वातशोणितम्
धात्रीहरिद्रा मुस्तानां कषायं वा समाक्षिकम् ८२
लाङ्गल्यास्त्वमृतातुल्यं कन्दमुद्धृत्य यत्नतः
योजयेत्त्रिफलालौहरजस्त्रिकटुकैः समैः ८३
गुग्गुल्वमृतवल्लीभिर्द्राक्षालुङ्गरसेन वा
त्रिफलाया रसैर्युक्ता गुटिकाः कोलसम्मिताः ८४
भक्षयेन्मधुनालोड्य शृणु कुर्वन्ति यत्फलम्
पादस्फुटितं दुर्भग्नं जानुप्राप्तं च यद्भवेत् ८५
यच्च देहोद्गतं रक्तं यच्चासाध्यं प्रकीर्त्तितम्
घ्नन्त्येता भक्ष्यमाणस्य प्रबलं वातशोणितम् ८६
बलामतिबलां मेदामात्मगुप्तां शतावरीम्
काकोलद्यं क्षीरकाकोलद्यं रास्नां मृद्वीं च पेषयेत् ८७
घृतं चतुर्गुणं क्षीरं तैः सिद्धं वातरक्तनुत्
हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम् ८८
बलास्थिरा नागबला गुडूची शतावरी कल्क कषायसिद्धम्
तैलं विदध्यादनुवासनेषुतद्वातरक्तं शमयत्युदीर्णम् ८९
त्रायन्तिका चामलकी द्विकाकोली शतावरी
कसेरुका कषायेण कल्कैरेभिः पचेद् घृतम् ९०
उभे परुषके द्रा क्षा काश्मर्यः ससुरद्रुमाः
पृथग्विदार्याः स्वरसं तथा क्षीरं चतुर्गुणम् ९१
एतदायोजितं सर्पिः पारूषकमिति स्मृतम्
वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे ९२
शतावरीकल्कगर्भं रसे तस्याश्चतुर्गुणे
क्षीरतुल्यं घृतं सिद्धं वातशोणितनाशनम् ९३
ॠषभक्षीरकाकोलीक्षीरिकाजीवकैः समैः
सिद्धं त्वार्षभकं सर्पिः सक्षीरं वातरक्तनुत् ९४
गुडूचीक्वाथकल्काभ्यां सपयस्कं घृतं शृतम्
हन्ति वातं तथारक्तं कुष्ठं जयति दुस्तरम् ९५
क्षीरं स्नेहसमं दद्याच्चतुर्भिश्च चतुर्गुणम्
एकद्वित्रिद्र वद्र व्यैः कुर्यात्स्नेहाच्चतुर्गुणम् ९६
अमृतायाः कषायेण कल्केन च महौषधात्
मृद्वग्निना घृतं सिद्धं वातरक्तहरं परम् ९७
आमवाताढ्यवातादीन्कृमिकुष्ठव्रणानपि
अर्शांसि गुल्मांश्च तथा नाशयेदाशु योजितम् ९८
अमृतास्वरसविपक्वं सर्पिस्तत्कल्कसाधितं पीतम्
अपहरति वातरक्तमुत्तानं चावगाढं च ९९
अमृतायाः पलशतं जलद्रो णावशेषितम्
घृतप्रस्थं विपक्तव्यं कल्कादष्टौ पलानि च १००
चतुर्गुणेन पयसा वातासृक्कुष्ठनाशनम्
कामलापाण्डुरोगघ्नं प्लीहकासज्वरापहम् १०१
अमृता मधुकं द्रा क्षा त्रिफला नागरं बला
वासारग्वधवृश्चीरदेवदारुत्रिकण्टकम् १०२
कटुका रोहिणी कृष्णा काश्मर्यस्य फलानि च
रास्नाक्षुरकगन्धर्ववृद्धदारघनोत्पलैः १०३
कल्कैरेभिः समैः कृत्वा सर्पिः प्रस्थं विपाचयेत्
धात्रीरसः समो देयो वारित्रिगुणसंयुतः १०४
सम्यक्सिद्धं च विज्ञाय भोज्ये पाने च शस्यते
बहुदोषोत्थितं वातरक्तेन सह मूर्च्छितम् १०५
उत्तानं चापि गम्भीरं त्रिकजङ्घोरुजानुकम्
क्रोष्टुशीर्षे महामूले आमवाते सुदारुणे १०६
दाहरोगोपसृष्टस्य वेदनां चातिदुस्तराम्
मूत्रकृच्छ्रमुदावर्त्तं प्रमेहं विषमज्वरान् १०७
एतान्सर्वान्निहन्त्याशु वातपित्तकफोत्थितान्
सर्वकालोपयोगेन वर्णायुर्बलबर्द्धनम्
अश्विभ्यां निर्मितं श्रेष्ठं घृतमेतदनुत्तमम् १०८
गुडूचीस्वरसे सर्पिर्जीवनीयैश्च साधितम्
कल्कैश्चतुर्गुणैः क्षीरैः सिद्धं वाप्यस्रवातनुत् १०९
अमृतायाः शतं प्राप्य जलद्रो णे विपाचयेत्
चतुर्भागावशिष्टन्तु घृतप्रस्थं विपाचयेत् ११०
क्षीरं चतुर्गुणं तत्र दापयेन्मतिमान् भिषक्
कल्कञ्चात्र प्रवक्ष्यामि यथावदनुपूर्वशः १११
काकोली क्षीरकाकोली जीवकर्षभकौ च यत्
शतावरी पयस्या च मधुकं नीलमुत्पलम् ११२
अश्वकन्दस्य मूलानि स्थिरां वा कटुरोहिणीम्
ऋद्धिं वृद्धिं तथा मेदे श्वदंष्ट्रां बृहतीद्वयम्११३
गुडूचीं पिप्पलद्यं रास्नां वासकं चापि संहरेत्
तदेकस्थं समैर्भागैः पाचयेन्मृदुनाग्निना ११४
पानाभ्यञ्जननस्येषु परिषेके च दापयेत्
वातरक्तं सशोषाढ्यं सदाहं क्रोष्टुशीर्षकम् ११५
खञ्जोरुस्तम्भवातञ्च वातरक्तं सुदारुणम्
बहूदितं वातकृच्छ्रं गृध्रसीं वातकण्टकम् ११६
नाशयेद्योजितं सर्पिर्धन्वन्तरिवचो यथा ११७
क्वाथेन शतपुष्पायाः कुष्ठस्य मधुकस्य च
एकैकं साधयेत्तैलं वातरक्तरुजापह्रम् ११८
सारिवारिष्टकूष्माण्डपोतकीभस्मजाम्बुना
गुडूचीगव्यदुग्धाभ्यां कर्मरङ्गरसेन च ११९
विपचेत्तिलजं तैलं दत्वैतानि भिषग्वरः
काकोल्यौ जीवकं मेदे शताह्वाक्षीरिणीयुतैः १२०
जिङ्गीसिक्थामृतानन्तासर्जसैन्धवचन्दनैः
हन्याद्वातास्रजं घोरं स्फुटितं गलितं तथा १२१
चर्मदलाख्यं पामादींस्त्वग्दोषञ्च विपादिकाम्
कुष्ठान्यर्शांसि वीसर्प व्रणशोथं भगन्दरम् १२२
न सोस्ति वातरक्तस्य विकारो योभिवर्द्धितः
यं न हन्यात्प्रसह्यैतत्पिण्डतैलं महत्स्मृतम् १२३
सारिवासर्जमञ्जिष्ठायष्टीसिक्थैः पयोन्वितैः
तैलं पक्वं प्रयोक्तव्यं पिण्डाख्यं वातशोणिते १२४
सारिवासर्जयष्ट्याह्वमधुसिक्थैः पयोन्वितैः
सिद्धमेरण्डजं तैलं वातरक्तरुजापहम्
अपूतमथितस्यास्य पिण्डतैलस्य योगतः १२५
पद्मकेशरयष्ट्याह्वफेनिलैः पद्मकोत्पलैः
पृथक्पञ्चपलैर्दत्तं बलाकिंशुकचन्दनैः १२६
जले शृतं पचेत्तैलं प्रस्थं सौवीरसम्मितम्
लोध्रकाकोलिकोशीरजीवकर्षभकेशरैः १२७
मदयन्तिलतापत्रपद्मकेशरपद्मकैः
प्रपौण्डरीककालीयमेदामांसीप्रियङ्गुभिः १२८
कुङ्कुमैर्द्विगुणैः कर्षैर्मञ्जिष्ठायाः पलेन च
महापद्ममिदं तैलं वातासृग्ज्वरनाशनम् १२९
पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम् १३०
स्यात्पिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः
खुड्डाकपद्मकमिदं तैलं वातास्रपित्तनुत् १३१
तुलां पचेज्जलद्रो णे गुडूच्याः पादशेषितम्
क्षीरद्रो णन्तु ताभ्यां च पचेत्तैलाढकं शनैः १३२
कल्कैर्मधुकमञ्जिष्ठाजीवनीयगणोत्थितैः
कुष्ठैलाऽगुरुमृद्वीका मांसी व्याघ्रनखं नखी १३३
हरेणुः श्रावणी व्योषं शताह्वा शृङ्गिसारिवे
त्वक्पत्रागुरुविक्रान्ताः स्थिरा तामलकी तथा १३४
नतकेशरह्रीबेरं पद्मकोत्पलचन्दनम्
सिद्धं कर्षसमैर्भागैः पानाभ्यङ्गानुवासनैः १३५
सेव्यं वातास्रजान्हन्ति स्रोतोधात्वन्तराश्रितान्
धन्यं पुंसवनं स्त्रीणां गर्भदं वातपित्तनुत् १३६
स्वेदकण्डूरुजाऽयामशिरः कम्पामयार्दितान्
हन्याद् ब्रणकृतान्दोषान्गुडूचीतैलमुत्तमम् १३७
गुडूची मधुकं ह्रस्वपञ्चमूलं पुनर्नवाम्
रास्नामेरण्डमूलञ्च जीवनीयानि लाभतः १३८
पलानां शतिकैर्भागैर्बलापञ्चशतं भवेत्
कोलं बिल्वं यवान्माषान् कुलत्थांश्चाढकोन्मितान् १३९
काश्मर्याणाञ्च शुष्काणां द्रो णं द्रो णशतेऽम्भसः
साधयेज्जर्जरं पूतं चतुर्द्रोणञ्च शेषयेत् १४०
तैलद्रो णं पचेत्तेन दत्वा पञ्चगुणं पयः
पिष्ट्वा त्रिपलिकञ्चैव चन्दनोशीरकेशरम् १४१
पत्रैलाऽगुरुकुष्ठानि तगरं मधुयष्टिकाम्
मञ्जिष्ठाऽद्धपलञ्चैव तत्सिद्धं सर्वयौगिकम् १४२
वातरक्ते क्षते क्षीणे भारार्त्ते क्षीणरेतसि
वेपनोत्क्षिप्तभग्नानां सर्वैकाङ्गजरोगिणाम् १४३
योनिदोषमपस्मारमुन्मादं विषमज्वरम्
हन्यात्पुंसवनञ्चैव तैलाग्र्यममृताह्वयम् १४४
मृणालोत्पलशालूक सारिवोदीच्यकेशरैः
चन्दनद्वयभूनिम्ब पद्मबीजकसेरुकैः १४५
पटोलकटुकानन्ता गुन्द्रा पर्पटवासकैः
पिष्ट्वा तैलं घृतं पक्वं तृणमूलरसेन वा १४६
क्षीरद्विगुणसंयुक्तं वस्तिकर्मसु योजितम्
नस्याभ्यञ्जनपानैर्वा हन्यात्पित्तगदानिदम् १४७
कनकशिखरिमानक्षारसंसिद्धतोये कुसुमलवणयुक्तैः सर्जनिर्यासचूर्णैः
विधिशृततिलतैलं कल्कयुक्तं निहन्ति प्रचुर तरमिदानीमिन्द्र लुप्तास्रवातम् १४८
शुद्धां पचेन्नागबलातुलान्तु जलार्मणे पादकषायसिद्धम्
विस्राव्य तैलाढकमत्र देयमजापयस्तैलविमिश्रितन्तु १४९
नतं सयष्टीमधुकञ्चकल्कं दत्वा पृथक्पञ्चपलं विपक्वम्
तद्वातरक्तं शमयत्युदीर्णं वस्तिप्रदानेन हि सप्तरात्रात्
दशाहयोगेन करोत्यरोगं पीतञ्च तैलोत्तममश्विनोक्तम् १५०
जीवकर्षभकौ मेदे ॠष्यप्रोक्ता शतावरी
मधुकं मधुपर्णी च काकोलीद्वयमेव च १५१
मुद्गमाषाख्यपर्णी च दशमूलं पुनर्नवा
बलाऽमृता विदारी च साश्वगन्धाऽश्मभेदकौ १५२
कुर्यात्कल्कं कषायञ्च ताभ्यां तैलं घृतं पचेत्
लाभतश्च वसामज्जामांसं प्रतुदविष्किरात् १५३
चतुर्गुणेन पयसा संसिद्धं वातशोणितम्
सर्वदेहाश्रितान्हन्ति व्याधीन्घोरांश्च वातजान् १५४
बलाकषायकल्काभ्यां तैलं क्षीरचतुर्गुणम्
शतपाकं भवेदेतद्वातासृग्वातपित्तनुत् १५५
धन्यं पुंसवनञ्चैव नराणां शुक्रवर्द्धनम्
रेतोयोनिविकारघ्नमेतद्वातविकारनुत् १५६
मधुयष्ट्याः पलशतं कषाये पादशेषिते
तैलाढकं समक्षीरं पचेत्कल्कैः पलोन्मितैः १५७
शतपुष्पावरी मूर्वापयस्यागुरुचन्दनैः
स्थिरहंसपदीमांसी द्विमेदामधुपर्णिभिः १५८
काकोलीक्षीर काकोलीतामलक्यृद्धिपद्मकैः
जीवकर्षभजीवन्तीत्वक्पत्र नखबालकैः १५९
प्रपौण्डरीकमञ्जिष्ठा सारिवेन्दुवितुन्नकैः
वातासृक्पित्तदाहार्त्तिज्वरघ्नं बलवर्णकृत् १६०
मधुयष्ट्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे
क्षीरे साध्यं शतं वारांस्तदेव मधुकान्वितम् १६१
सिद्धं देयं त्रिदोषे स्याद्वातास्रश्वासकासनुत्
धन्यं पुंसवनञ्चैव कामलादाहनाशनम् १६२
बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्
सहस्रशतपाकं वा वातासृग्वातरोगनुत् १६३
रसायनमिदं श्रेष्ठमिन्द्रि याणां प्रसादनम्
जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम् १६४
पुनर्नवामूलशतं विशुद्धं रुवूकमूलञ्च तथा प्रयोज्य
दत्वा पलं षोडशकञ्च शुण्ठ्याः सङ्कुट्य सम्यग्विपचेद्घटेऽपाम् १६५
पलानि चाष्टावथ कौशिकस्यतेनाष्टशेषेण पुनः पचेत
एरण्डतैलं कुडवञ्च दद्याद्दत्वा त्रिवृच्चूर्णपलानि पञ्च १६६
निकुम्भचूर्णस्य पलं गुडूच्याः पलद्वयं चार्द्धपलं पलं वा
पलत्रयत्र्यूषणचित्रकाणि सिन्धूत्थभल्लातविडङ्गकानि १६७
कर्षं तथा माक्षिकधातुचूर्णं पुनर्नवायाः पलमेव चूर्णम्
चूर्णानि दत्वा ह्यवतार्य शीतं खादेन्नरः कर्षसमप्रमाणम् १६८
वातासृजं वृद्धिगदं च सप्त जयत्यवश्यं त्वथ गृध्रसीं च
जङ्घोरुपृष्ठत्रिकवस्तिजं च तथामवातं प्रबलं च हन्ति १६९
यावशूकसुरदारुसैन्धवं मुस्तकत्रुटिवचायवानिकाः
व्योषदीप्यकनिशाफलत्रिकं जीरकद्वयविडङ्गचित्रकम् १७०
कार्षिकं सुमसृणं सुयोजितं संयुतं पुरपलैश्च पञ्चभिः
शर्करां पुरसमां सुपेषयेत्तप्तसर्पिषि विनिक्षिपेत्ततः १७१
वातरक्तमुदरं भगन्दरं प्लीहयक्ष्मविषमज्वरं गरम्
श्वित्रकुष्ठमखिलव्रणानयं चित्तविभ्रमगदांश्च दारुणान् १७२
गृध्रसीं च गुदजाग्निमन्दतां हन्ति कोष्ठजनितं महागदम्
वज्रमिन्द्र सुकरादिव च्युतं गुप्तशैलकुलमुत्तमं द्रुतम् १७३
अन्नपानपरिहारवर्जितं सर्वकालसुखदं निरत्ययम्
सेव्यमानमिदमश्विनिर्मितं गुग्गुलोर्हि वटिका रसायनम् १७४
चत्वारो माषका हीने मध्यमेऽष्टौ च माषकाः
श्रेष्ठा द्वादशकाः प्रोक्ताः कोष्ठं विज्ञाय पाययेत् १७५
स्रंसनत्वाद् गुरुत्वाद्वा गुग्गुलोः करणक्रमः १७६
प्रस्थमेकं गुडूच्याश्च अर्द्धप्रस्थं च गुग्गुलोः
प्रत्येकं त्रिफलायास्तु तत्प्रमाणं विनिर्दिशेत्
सर्वमेकत्र सङ्कुट्य क्वाथयेन्नल्वणेऽम्भसि १७७
पादशेषं परिस्राव्य कषायं ग्राहयेद्भिषक्
पुनः पचेत्कषायन्तु यावत्सान्द्र त्वमागतम् १७८
दन्तीव्योषविडङ्गानि गुडूची त्रिफलात्वचः
ततश्चार्द्धपलं चूर्णं गृह्णीयाच्च प्रतिप्रति १७९
कर्षन्तु त्रिवृतायाश्च सर्वमेकत्र चूर्णयेत्
तस्मिन्सुसिद्धं विज्ञाय कवोष्णे प्रक्षिपेद् बुधः १८०
ततश्चाग्निबलं मत्वा खादेत्कर्षप्रमाणतः
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् १८१
दुष्टव्रणं प्रमेहांश्च आमवातं भगन्दरम्
नाड्याढ्यवातं श्वयथुं सर्वानेतान्व्यपोहति १८२
त्रिप्रस्थममृतायाश्च प्रस्थमेकन्तु गुग्गुलोः
प्रत्येकं त्रिफलाप्रस्थं वर्षाभूप्रस्थमेव च १८३
सर्वमेकत्र सङ्कुट्य साधयेन्नल्वणेऽम्भसि
पुनः पचेत्पादशेषं यावत्सान्द्र त्वमागतम् १८४
दन्तीचित्रकमूलानां कणाविश्व फलत्रिकम्
गुडुचीत्वग्विडङ्गानां प्रत्येकार्धपलं मतम् १८५
त्रिवृताकर्षमेकन्तु सर्वमेकत्र चूर्णयेत्
सिद्धे चोष्णे क्षिपेत्तत्र अमृतागुग्गुलुं परम् १८६
अतो यथाबलं खादेदम्लपित्ती विशेषतः
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् १८७
दुष्टव्रणं प्रमेहांश्च आमवातं भगन्दरम्
नाड्याढ्यवातं श्वयथुं हन्यात्सर्वामयांस्तथा १८८
अश्विभ्यां निर्मिताश्चायममृताऽख्यो हि गुग्गुलुः १८९
गुडरामठशुण्ठीनां मांसकूष्माण्डयोरपि
गुडूच्या गुग्गुलोश्चैव प्रस्थः षोडशभिः पलैः १९०
स्निग्धः काञ्चनसङ्कांशः पक्वजम्बूफलोपमः
नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः १९१
शुष्को दुर्गन्धिकश्चैव वर्णान्यत्वमुपागतः
पुराणः स तु विज्ञेयो न स देयस्तु रोगिणे १९२
कृमिरिपुदहनव्योष त्रिफलाऽमरदारुचव्यभूनिम्बाः
मागधिमूलं मुस्तं शटीवचाधातुमाक्षिकञ्चैव
लवणक्षारनिशायुक्कुस्तुम्बुरुगजकणाः सहातिविषाः १९३
कर्षांशिकान्येव समानि कुर्यात्पलाष्टकं चाश्मजतु प्रदद्यात्
निष्पत्रशुद्धस्य पुरस्य धीमान्पलद्वयं लौहरजस्तथैव १९४
सिताचतुष्कं पलमत्र वांश्या निकुम्भकुम्भत्रिसुगन्धियुक्तम्
पृथक्पलं चूर्णमथावपेच्च चन्द्र्रप्रभेयं गुटिका विधेया १९५
ज्वरातिसारग्रहणीविकारांश्चार्शांसि निर्णाशयते षडेव
भगन्दरान्कामलपाण्डुरोगान्विनष्टवह्नेः कुरुते च दीप्तिम् १९६
हन्त्यामयान्पित्तकफानिलोत्थान्नाडीगते मर्मगते व्रणे च
क्षतक्षये गृध्रसियक्ष्मरोगे मेहे गजाख्ये प्रबले प्रयोज्य १९७
शुक्रक्षये चाश्मरिमूत्रकृच्छ्रे शुक्रप्रवाहेऽप्युदरामये च
शम्भुं समभ्यर्च्य कृतप्रसादं प्राप्ता गुटी चन्द्र मसा प्रशस्ता १९८
न पानभोज्ये परिहारवादो न शीतवातातपमैथुनेषु
भक्तस्य पूर्वं सततं प्रयोज्या तक्रानुपानाऽप्यथ मस्तुपाना १९९
अजारसो जाङ्गलजो रसो वा परोऽथ वा शीतजलानुपानम् २००
शुक्रदोषान्निहन्त्यष्टौ प्रमेहांश्चापि विंशतिम्
वलीपलितनिर्मुक्तो वृद्धोऽपि तरुणायते २०१
गिरिजतुगुग्गुलुलौहान्येकीकृत्याथ भावयेद् बहुशः
क्वाथैस्तद्व्याधिहरैस्तदनु च चूर्णीकृतं मिलितम्
कृमिरिप्वादिकचूर्णैर्गिरिजतुसमधान्यपटोलयूषेण २०२
वरमहिषलोचनोदरसन्निभवर्णस्य गुग्गुलोः प्रस्थम्
प्रक्षिप्य तोयराशौ त्रिफलाञ्च यथोक्तपरिमाणम् २०३
द्वात्रिंशच्छिन्नरुहापलानि देयानि यत्नेन
विपचेत्तदप्रमत्तो दर्व्या सङ्घट्टयेन्मुहुर्यावत् २०४
अर्द्धक्षयितं तोयं जातं ज्वलनस्य सम्पर्कात्
अवतार्य वस्त्रपूतं पुनरपि संसाधयेदयः पात्रे २०५
सान्द्री भूते तस्मिन्नवतार्य हिमोपलप्रख्ये
त्रिफलाचूर्णार्द्धपलं त्रिकटोश्चूर्णं षडक्षपरिमाणम् २०६
कृमिरिपुचूर्णार्द्धपलं कर्षं कर्षं त्रिवृद्दन्त्योः
पलमेकन्तु गुडूच्या दत्वा सञ्चूर्ण्य यत्नेन २०७
उपयुज्य चानुपानं यूषं क्षीरं सुगन्धि सलिलञ्च
इच्छाऽहारविहारी भेषजमुपयुज्य सर्वकालमिदम् २०८
तनुरोधी वातशोणितमेकद्वित्र्युल्बणं चिरोत्थमपि
भग्नस्रुतपरिशुष्कं स्फुटितं दीर्णमाजानु यच्चापि २०९
व्रणकासकुष्ठगुल्मश्वयथुं गरपाण्डुमेहांश्च नाशयत्याशु
मन्दाग्निञ्च विबन्धं प्रमेहपिडकाश्च नाशयत्याशु २१०
सततं निषेव्यमाणः कालवशाद्धन्ति सर्वगदान्
अभिभूय जरादोषं करोति कैशोरकं रूपम् २११
प्रत्येकं त्रिफलाप्रस्थो जलञ्चाढकमाढकम्
गुडवद् गुग्गुलोः पाकः सन्धेयस्तु विशेषतः २१२
त्रिफलाऽतिविषादारुदार्वीमुस्तापरुषकैः
खदिरासननक्ताह्वगुडूचीनृपपादपैः २१३
भूनिम्बनिम्बकटुकाकलिङ्गकुलकैः समैः
क्वाथं कृत्वा ततः पूतं शृतमष्टगुणेऽम्भसि २१४
गुडूच्यास्तत्र सुकृतं चूर्णमर्द्धं तु वारिणि
क्षिप्त्वा सुनूतने भाण्डे वासयेद्र जनीगतम्
सोमोपेतेन पूतेन कौशिकं परिभावयेत्
षड्गुडेन तु सप्ताहं शिलाजतुसमन्वितम् २१६
शुक्तस्य तु पलान्यष्टौ समावाप्य विचक्षणः
ताप्यचूर्णं पलञ्चैकं द्वे पले मधुसर्पिषोः २१७
एकीकृत्य समं सर्वं लिह्यात्तु त्रिफलाऽम्बुना
तनुना मुद्गयूषेण जाङ्गलानां रसेन वा २१८
जीर्णेऽजीर्णे तु भुञ्जीत पुराणं शालिषष्टिकम् २१९
यथारोगं यथासात्म्यं रसैर्यूषैश्च संस्कृतैः
त्रिसप्ताहप्रयोगेण वातरक्तं सुदारुणम् २२०
निहन्ति वीर्यतः क्षिप्रं कुष्ठरोगान्व्रणानपि
छिन्नं भिन्नञ्च सन्धत्ते त्रिफलाऽख्यो हि गुग्गुलुः २२१
पलत्रयं कषायस्य त्रिफलायाः सुचूर्णितम्
सौगन्धिकं पलञ्चैकं कौशिकस्य पलत्रयम् २२२
कुडवं चित्रतैलस्य सर्वमादाय यत्नतः
पाचयेत्पाकविद्वैद्यः पात्रे लोहमये दृढे २२३
हन्ति वातं तथा पित्तं श्लेष्माणं खञ्जपङ्गुताम्
श्वासं सुदुर्जयं हन्ति कासं पञ्चविधं तथा
कुष्ठानिवातरक्तञ्च गुल्मशूलोदराणि च
आमवातं जयत्येतदपि वैद्यविवर्जितम् २२५
सर्वदाऽस्योपयोगेन जरापलितनाशनम्
सर्पिस्तैलरसोपेतमश्नीयाच्छालिषष्टिकम् २२६
सिंहनादइति ख्यातो रोगवारणदर्पहा
वह्नेर्दीप्तिकरं पुसां भाषितो दण्डपाणिना २२७
अत्राहुस्त्रिफलाक्वाथं पृथक् त्रिपलसम्मितम्
किञ्चिन्निर्याति चैरण्डस्नेहे पाकोऽधिके खरः २२८
अष्टौ पलान्यत्र पलङ्कषायाः प्रस्थः पृथक् शुद्धफलत्रयस्य
दत्वा पचेद् द्रो णयुगे जलस्य पादावशेषं पुनरेव वैद्यः २२९
दन्तीत्रिवृत्त्र् यूषणवारुणीनां बिडङ्गमुस्तत्रिफलाऽमृतानाम्
कटूग्रगन्धालुकमाणकानां सगन्धकानाञ्च सपारदानाम् २३०
पलार्द्धमानं प्रमितं सुचूर्णं दद्याद्विपक्वं पुनरेव तत्र
फलानि सञ्चूर्ण्य च कानकानिसहस्रसङ्ख्याकलितानि पश्चात् २३१
खादेद्धि माषद्वितयं प्रतप्तं तोयादिकं देयमतोऽनुपाने
आमानिलं सन्धिगतं सशूलं शिरोगतं जानुकटिस्थितञ्च २३२
अर्शोऽतिवृत्तिं विषमज्वरार्त्तिं प्रमेहकुष्ठानि भगन्दरञ्च
हन्यान्नराणामिति सिंहनादो मेदोमरुच्छ्लेष्मगदान्पुरोऽयम् २३३
दाहोऽत्यन्तप्रवृत्तिर्वा विकारोऽन्यो न चेद् बहुः
तत्कृतस्तुतदा तत्र तक्रभक्तं हितं भवेत्
उद्वर्त्तनं शीतजलस्नानञ्च शयनं तथा २३४
विरेकातिशयं कुर्यात्सिंहनादो यतः सुधीः
ज्ञात्वा बलं शरीरे तु दद्यादेवं न वा भिषक् २३५
तोयारनालगोक्षीरैः क्रमात्पक्वं विशुध्यति
फलं कानकसञ्ज्ञन्तु कृत्वा चूर्णं ततः क्षिपेत् २३६
पिण्डितां गुग्गुलोर्मानीं कटुतैले पलाष्टके
प्रत्येकं त्रिफलाप्रस्थं सार्द्धद्रो णे जले पचेत् २३७
पादशेषं सुपूतञ्च पुनरग्नावधिश्रयेत्
त्रिकटुत्रिफलामुस्तविडङ्गामलकानि च २३८
गुडूच्यग्नित्रिवृद्दन्ती वचासूरणमानकम्
कस्तूरीरससूतांशं प्रत्येकं शुक्तिसम्मितम् २३९
सहस्रं कानकफलं सिद्धे सञ्चूर्ण्य निक्षिपेत्
ततो माषद्वयं जग्ध्वा पिबेत्तप्तजलादिकम् २४०
अग्निञ्च कुरुते शीघ्रं वडवाऽनलसन्निभम्
मेधावृद्धिं वयोवृद्धिं बलं सुविपुलं तथा २४१
आमवातं शिरोवातं ग्रन्थिवातं भगन्दरम्
जानुजङ्घाश्रितं वातं सकटीग्रहवेदनम् २४२
अश्मरीमूत्रकृच्छ्रे च भग्ने च तिमिरोदरे
अम्लपित्तं तथा कुष्ठं प्रमेहं गुदनिर्गमम् २४३
कासं पञ्चविधं श्वासं क्षयञ्च विषमज्वरम्
प्लीहानं श्लीपदं गुल्मान्पाण्डुरोगं सकामलम् २४४
शोथान्त्रवृद्धिशूलानि गुदजानि विनाशयेत्
मेदः कफामसञ्जातरोगवारणदर्पहा २४५
सिंहनाद इति ख्यातो योगोऽयममृतोपमः
भिषग्भिर्वर्जिते रोगे भाषितो दण्डपाणिना २४६
शतावरी नागबला वृद्धदारकमुच्चटा
पुनर्नवामृता कृष्णा वाजिगन्धा त्रिकण्टकम् २४७
पृथग्दशपलान्येषां श्लक्ष्णचूर्णानि कारयेत्
तदर्धशर्करायुक्तं चूर्णं संमर्दयेद् बुधः २४८
स्थापयेत्सुदृढे भाण्डे मध्वर्द्धाढकसंयुतम्
घृतप्रस्थेन वालोड्य त्रिसुगन्धपलेन च २४९
तं खादेदिष्टभक्ष्यान्नो यथावह्निबलं नरः
वातरक्तं क्षयं कुष्ठं कार्श्यं पित्तास्रसम्भवम् २५०
वातपित्तकफोत्थांश्च रोगानन्यांश्च तत्कृतान्
हत्वा करोति पुरुषं हत्वा सर्वामयान् द्रुतम् २५१
बलीपलितनिर्मुक्तं मेधास्मृतिविभूषितम्
करोति पुरुषं धन्यं पञ्चवर्षशतायुषम् २५२
योगसारामृतो नाम लक्ष्मीकीर्त्तिविवर्द्धनः २५३
व्यायामं मैथुनं कोपमुष्णाम्ललवणं रसम्
दिवास्वप्नमभिष्यन्दि गुरु चान्यद्विवर्जयेत् २५४
इत्येकोनत्रिंशोवातरक्ताधिकारः समाप्तः २९