सामग्री पर जाएँ

भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १९९

विकिस्रोतः तः
← अध्यायः १९८ भविष्यपुराणम्
अध्यायः १९९
वेदव्यासः
अध्यायः २०० →

तिलाचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अतः परं प्रवक्ष्यामि तिलशैलं विधानतः ।।
यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम् ।। १ ।।
तिलाः पवित्रमतुलं पवित्राणां च पावनम् ।।
विष्णुदेहसमुद्भूतास्तस्मादुत्तमतां गताः ।। २ ।।
मधुकैटभनामानावास्तां दितिसुतौ पुरा ।।
मधुना सह तत्राभूद्युद्धं विष्णोरनारतम् ।। ३ ।।
सहस्रं किल वर्षाणां न व्यजीवत दानवः ।।
तत्र स्वेदो महानासीत्क्रुद्धस्याथ गदाभृतः ।। ४ ।।
पतितश्च धरापृष्ठे कणशो लवशस्तथा ।।
समुत्तस्थुस्तिला माषाः कुशाश्च कुरुनंदन ।। ५ ।।
हतश्च हरिणा युद्धे स मधुर्बलिनां वरः ।।
मेदसा तस्य वसुधा रंजिता सकला तदा ।। ६ ।।
मेदिनीति ततः संज्ञामवापाचल धारिणी ।।
हतेऽथ दैत्यप्रवरे देवास्तोषं परं ययुः ।। ७ ।।
स्तुतिभिश्च परं स्तुत्वा ऊचुस्त्रिदशपुंगवम् ।।
।। देवा ऊचुः ।। ।।
त्वया धृतं जगद्देव त्वया सृष्टं तथैव च ।। ८ ।।
त्वयीश लीयते सर्वं त्वयैव मधुसूदन ।।
तस्मात्त्वदंगतो जातास्तिलाः संतु जगद्धिताः ।। ९ ।।
पालयंतु च देवेश हव्यकव्यानि सर्वदा ।।
दैवे पित्र्ये च सततं नियोज्यास्तत्परैर्नरैः ।। 4.199.१० ।।
नहि दैत्याः पिशाचा वा विप्रं कुर्वंति भारत ।।
तिला यत्रोपयुज्यंते एतच्छीघ्रं विधीयताम् ।। ११ ।।
श्रुत्वा सुराणां तद्वाक्यं विष्णुस्तानिदमब्रवीत् ।।
तिला भवन्तु रक्षार्थं त्रयाणां जगतामपि ।। १२ ।।
शुक्लपक्षे तु देवानां संप्रदद्यात्तिलोदकम् ।।
कृष्णपक्षे पितॄणां च स्नात्वा श्रद्धासमन्वितः ।। १३ ।।
तिलैः सप्ताष्टभिर्वापि समर्पितजलांजलिः ।।
तस्य देवाः सपितरस्तृप्ता यच्छंति शोभनम् ।। १४ ।।
श्वकाकोपहतं यच्च पतितादिभिरेव च ।।
तिलैरभ्युक्षितं सर्वं पवित्रं स्यान्न संशयः ।। १५ ।।
एतैर्मृतैस्तिलैर्यस्तु कृत्वा पर्वतमुत्तमम् ।।
प्रदद्याद्द्विजमुख्याय दानं तस्याक्षयं भवेत् ।। १६ ।।
उत्तमो दशभिर्द्रोणैर्मध्यमः पंचभिर्मतः ।।
त्रिभिः कनिष्ठो राजेन्द्र तिलशैलः प्रकीर्तितः ।। १७ ।।
पूर्ववच्चापरं सर्वं विष्कंभपर्वतादिकम् ।।
दानमन्नं प्रवक्ष्यामि यथावन्नृपसत्तम ।। १८ ।।
यस्मान्मधुवधे विष्णोर्देहस्वेदसमुद्भवाः ।।
तिलाः कुशाश्च माषाश्च तस्माच्छं नो भवत्विह ।। १९ ।।
हव्ये कव्ये च यस्माच्च तिलैरेवाभिमंत्रणम् ।।
भवादुद्धर शैलेंद्र तिलाचल नमोऽस्तु ते ।। 4.199.२० ।।
इत्यामंत्र्य च यो दद्यात्तिलाचलमनुत्तमम् ।।
स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम् ।। २१ ।।
दीर्घायुष्ट्वमवाप्नोति इह लोके परत्र च ।।
पितृभिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत् ।। २२ ।।
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।
नारी वा तस्य पत्नी स्याद्रूपसौभाग्यसंयुता ।। २३ ।।
दक्षा कुलोद्भवा चैव पुत्रपौत्रसमन्विता ।।
विधानमिदमाकर्ण्य विधिना श्रद्धयान्वितः ।। २४ ।।
कपिलादानपुण्यस्य समं फलमवाप्नुयात् ।। २५ ।।
दानं तिलाचलसमं यदि चान्यदस्ति तद्भूत शास्त्रनिचयं प्रविचार्य बुद्ध्या ।।
यैर्वर्जिता पितृक्रिया न च होमकर्म तेषां प्रदानमिह किं न करोति शर्म ।। २६ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिलाचलदानविधिवर्णनं नामैकोनद्विशततमोऽध्यायः ।। १९९ ।।