भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १९६

विकिस्रोतः तः
← अध्यायः १९५ भविष्यपुराणम्
अध्यायः १९६
वेदव्यासः
अध्यायः १९७ →

लवणपर्वतदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथातः संप्रवक्ष्यामि लवणाचलमुत्तमम् ।।
यत्प्रदानान्नरो लोकमाप्नोति शिवसंयुतम् ।।१।।
उत्तमः षोडशद्रोणः कर्तब्यो लवणाचलः ।।
मध्यमः स्यात्तदर्धेन तदर्द्धेनाधमः स्मृतः ।।२।।
वित्तहीनो यथाशक्त्या द्रोणादर्धं तु कारयेत् ।।
चतुर्थांशेन विषयान्पर्वतान्कारयेत्पृथक् ।।३।।
विधानं पूर्ववत्कुर्याद्ब्रह्मादीनां च सर्वदा ।।
तद्वद्धेमतरून्सर्वांल्लोकपालनिवेशनम् ।।४।।
शिरांसि कामदेवादींस्तद्वत्तत्र निवेशयेत् ।।
कुर्याज्जागरमत्रापि दानमंत्रान्निबोध मे ।।५।।
सौभाग्यरससंभूतो यतोऽयं लवणोरसः ।।
दानात्मकत्वेन च मां पाहि पापान्नगोत्तम ।। ६ ।।
तस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना ।।
प्रियं च शिवयोर्नित्यं तस्माक्छांतिप्रदो भव ।।७।।
विष्णुदेह समुद्भूतं यस्मादारोग्यवर्धनम् ।।
यस्मात्पर्वतरूपेण पाहि संसारसागरात् ।। ८ ।।
अनेन विधिना यस्तु दद्याल्लवणपर्वतम् ।।
उमालोके वसेत्कल्पं ततो याति परां गतिम् ।। ९ ।।
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।
पुत्रपौत्रैः परिवृतो जीवेच्च शरदां शतम् ।। 4.196.१० ।।
कुर्वंति ये लवण पर्वतसंप्रदानं संप्राप्नुवंति दिवि ते सुमहद्विमानम् ।।
तत्राप्सरोगणसुरासुरसेव्यमानास्तिष्ठंति हृष्टमनसो दिवि वृद्धमानाः ।। ११ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे लवणपर्वतदानविधिवर्णनं नाम षण्णवत्युत्तरशततमोऽध्यायः ।। १९६ ।।