भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १९५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९४ भविष्यपुराणम्
अध्यायः १९५
वेदव्यासः
अध्यायः १९६ →

धान्यपर्वतदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।।
भगवञ्छ्रोतुमिच्छामि दानमाहात्म्यमुत्तमम् ।।
यदक्षयं परे लोके देवर्षिगणपूजितम् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
रुद्रेण यत्पुरा प्रोक्तं नारदाय महात्मने ।।
मत्स्येन मनवे तद्वत्तच्छुणुष्व कुरूद्वह ।। २ ।।
मेरोः प्रदानं वक्ष्यामि दशधा पुनरेव ते ।।
यत्प्रदातोत्तराँल्लोकान्प्राप्नोति सुरपूजितान्।। ३ ।।
पुराणेषु च वेदेषु यज्ञेष्वध्ययनेषु च ।।
न तत्फलमधीतेषु कृतेष्विह यदश्नुते ।। ४ ।।
तस्माद्विधानं वक्ष्यामि पर्वतानामनुक्रमात् ।।
प्रथमो धान्यशैलः स्यद्द्वितीयो लवणाचलः ।। ५ ।।
गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः ।।
पञ्चमस्तिलशैलः स्यात्षष्ठः कार्पासपर्वतः ।। ६ ।।
सप्तमो घृतशैलश्च रसशैलस्तथाष्टमः ।।
राजतो नवमस्तद्वद्दशमः शर्कराचलः ।। ।। ७ ।।
वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः ।।
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।। ८ ।।
शुक्लपक्षे तृतीयायामुपरागे शशिक्षये ।।
विवाहोत्सवयज्ञे वा द्वादश्यामथ वा पुनः ।। ९ ।।
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा प्रधानतः ।।
धान्यशैलादयो देया यथाशास्त्रं विजानता ।। 4.195.१० ।।
तीर्थे वायतने वापि गोष्ठे वा संगमेऽपि वा ।।
मंडपं कारयेद्भक्त्या चतुरस्रमुदङ्मुखम् ।। ११ ।।
प्रागुदक्प्रवणं तत्र प्राङ्मुखं वा विधानतः ।।
गोमयेनानुलिप्तायां भूमावास्तीर्य वा कुशान् ।। १२ ।।
तन्मध्ये पर्वतं कुर्याद्विष्कम्भपर्वतान्वितम् ।।
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः ।। १३ ।।
मध्यमः पंचशतिकः कनिष्ठः स्यात्त्रिभिः शतैः ।। १४ ।।
मेरुर्महाव्रीहिमयस्तु मध्यसुवर्णवृक्षत्रयसंयुतः स्यात् ।।
संपूर्णमुक्ताफलवज्रयुक्तो याम्ये नु गोमेदकपुष्परागैः ।।१५।।
यः स्याच्च गारुत्मतनीलरत्नैः सौम्येन वैडूर्यसरोजरागैः ।।
श्रीखंडखण्डैरभितः प्रवाल लतान्वितः शुद्धशिलातलः स्यात् ।।१६।।
ब्रह्माथ विष्णुर्भगवान्पुरारिर्दिवाकरोऽप्यत्र हिरण्मयः स्यात् ।।
तथैकदेशोद्धतकन्धरस्तु घृतोदकप्रस्रवणाश्च दिक्षु ।। १७ ।।
शुक्लांबरोऽन्यश्च सुराचलः स्यात्पूर्वेण कृष्णानि च दक्षिणेन ।।
वासांसि पश्चादथ केसराणि रक्तानि चैवोत्तरतो दलानि ।। १८ ।।
रौप्या महेंद्रप्रमुखास्तथाष्टौ संस्थापयेल्लोकपतीन्क्रमेण ।।
नानाफलाली च समंततः स्यान्मनोरमामाल्यविलेपनाद्या ।। १९ ।।
वितानकञ्चोपरि पञ्चवर्णमम्लानपुष्पाभरणं सितं वा ।।
इत्थं निवेश्यामरशैलमप्युन्मनास्तु विष्कम्भगणान्क्रमेण ।। 4.195.२० ।।
तुरीयभागेन चतुर्दिशं च संस्थापयेत्पुष्पविलेपनाद्यान् ।।
पूर्वेण मन्दरमनेकफलोपयुक्तं यत्रोल्लसत्कनकभद्रकदंबचिह्नम् ।। २१ ।।
कामेन कांचनमयेन विराजमानमाकारयेत्कुसुमवस्त्रविलेपनाढ्यम् ।।
क्षीरारुणोदसरसाथ तथा वनेन रौप्येण शक्तिघटितेन विराजमानम् ।।२२।।
याम्येन गंधमदनोत्र निवेशनीयो गोधूमसंचयमयः कलधौतजो वा ।।
हैमेन पक्षिपतिना धृतमानसेन तेनाद्यमेव सकलं किलसंयुतः स्यात् ।। २३ ।।
पश्चात्तिलाचलमनेकसुगन्ध पुष्पसौवर्णपिप्पलहिरण्ययहंसयुक्तम् ।।
आकारयेद्रजतपुष्पवनेन तद्वद्वस्त्रान्वितं दधिशतोदसरस्तथाग्रे ।। २४ ।।
संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सुवप्रम् ।।
पुष्पैश्च हेमवटपादपशेषरत्नमाकारयेत्कनकधेनुविराजमानम् ।। २५ ।।
माक्षीकभद्रकरसावचयेन तद्वद्रौ प्येण भास्वररसैश्च युतं विधाय ।।
होमश्चतुर्भिरथ वेदपुराणविद्भिर्ह्येतैरनिंद्य वरिताकृतिभिर्द्विजेन्द्रैः ।। २६ ।।
पूर्वेण हस्तमुखमत्र विधाय कुंडं कार्यस्तिलैरथ घृतेन समित्कुशैश्च ।।
रात्रौ च जागरमनुद्धतगीततूर्यैरावाहनं च कथयामि शिलोच्चयानाम् ।। २७ ।।
त्वं सर्वदेवगणधामनिधे च विघ्नमस्मद्गृहेष्वमरपर्वत नाशयाशु ।।
क्षेमं विधत्स्व कुरु शांतिमनुत्तमां नः संपूजितः परमभक्तिमतः प्रदेहि ।। २८ ।।
त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः ।।
मूर्तामूर्तपरं बीजमतः पाहि सनातन ।। २९ ।।
यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मंदिरम् ।।
केशवार्कवसूनां च तस्मा च्छांतिं प्रयच्छ मे ।। 4.195.३० ।।
यस्मादशून्यममरैर्गंधर्वैश्च शिरस्तव ।।
तस्मान्मामुद्धराशेष दुःखसंसारसागरात् ।। ३१ ।।
एवमभ्यर्च्य तं मेरुं मन्दरं चापि पूजयेत् ।।
यस्माच्चैत्ररथेनाथ भद्राश्ववरिषेण च ।। ३२ ।।
शोभसे मन्दरक्षिप्रमतस्तुष्टिकरो भव ।।
यस्माच्चूडामणिर्जंबूद्वीपे त्वं गन्धमादनः ।। ३३ ।।
गन्धर्वैरप्सरोभिश्च गीयमानं यशोऽस्तु मे ।।
यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च ।। ३४ ।।
हिरण्यमयपाषाणस्तस्माच्छांतिं प्रयच्छ मे ।।
उत्तरैः कुरुभिर्यस्मात्सावित्रेण वनेन च ।। ३५ ।।
सुपार्श्व राजसे नित्यमतः श्रीरक्षयास्तु मे ।।
एवमामंत्र्य तान्सर्वान्प्रभाते विमले पुनः ।। ३६ ।।
स्नात्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमम् ।।
शेषांश्च पंच तान्दद्यादृत्विग्भ्यः क्रमशो नृप ।। ३७ ।।
गावो देयाश्चतुस्त्रिंशदथवा दश भारत।।
शक्तितः सप्त वाष्टौ वा एवं दद्यादशक्तिमान् ।। ३८ ।।
एकापि गुरवे देया कपिला सुपयस्विनी ।।
पर्वतानामशेषाणामेष एव विधिः स्मृतः ।। ३९ ।।
य एव पूजने मंत्रास्त एवोपस्करे तथा ।।
ग्रहाणां लोकपालानां ब्रह्मादीनामगैः सह ।। 4.195.४० ।।
स्वमंत्रेणैव सर्वेषु होमः शैलेषु शस्यते ।।
उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते ।। ४१ ।।
विधानं सर्वशैलानां क्रमशः शृणु भारत ।।
दानकालेषु ये मन्त्राः पर्वतेषु च यत्फलम् ।। ४२ ।।
अन्नं ब्रह्म यतः प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः ।।
अन्नाद्भवंति भूतानि जगदन्नेन वर्द्धते ।। ४३ ।।
अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः ।।
धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम ।। ४४ ।।
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम् ।।
मन्वन्तरशतं साग्रं देवलोके महीयते ।। ४५ ।।
अप्सरोगणगंधर्वैराकीर्णेन विराजता ।।
विमानेन दिवः पृष्ठे स याति ऋषिसेवितः ।। ४६ ।।
पुण्यक्षये राजराज्यमाप्नोतीह न संशयः ।। ४७ ।।
धान्याचलं कनकवृक्षविराजमानं विष्कंभपर्वतयुतं सुरसिद्धजुष्टम् ।।
यच्छंति ये सुमतयः प्रणिपत्य विप्रांस्ते प्राप्नुवंति परमेष्ठिपदाब्जयुग्मम् ।। ४८ ।। ।।
इति श्रीभविष्ये पुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे धान्यपर्वतदानविधिवर्णनं नाम पंचनवत्युत्तरशततमोऽध्यायः।। ।। १९५ ।।