भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १६१
← अध्यायः १६० | भविष्यपुराणम् अध्यायः १६१ वेदव्यासः |
अध्यायः १६२ → |
कपिलादानमाहात्म्यवर्णनम्
।। युधिष्ठिर उवाच ।। ।।
कपिलादानमाहात्म्यं कथयस्व जगत्पते ।।
पुण्यं यत्सर्वदानानां सर्वपातकनाशनम् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
तत्तेऽहं संप्रवक्ष्यामि विनताश्वेन यत्पुरा ।।
कथितं कपिलादानं तच्छृणुष्व महामते ।। २ ।।
।। विनताश्व उवाच ।। ।।
अतः परं महाराजोभयमुख्याः समासतः ।।
विधानं यद्वराहेण धरण्यै कथितं पुरा ।। ३ ।।
तदहं संप्रवक्ष्यामि नवपुण्यफलं च यत् ।।
।। धरण्युवाच ।। ।।
यत्त्वया कपिला नाम पूर्वमुत्पाविता प्रभो ।। ४ ।।
होमधेनुः सदा पुण्या धेनुर्यज्ञावतारभूः ।।
सा कथं ब्राह्मणेभ्यो हि देया कस्मिन्दिनेऽपि च ।। ।। ५ ।।
कीदृशाय च विप्राय दातव्या पुण्यलक्षणा ।।
कति वा कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा ।। ६ ।।
तासां प्रयत्नाद्दानेन किं पुण्यं स्याच्च माधव ।।
एतदिच्छाम्यहं श्रोतुं विस्तरान्मधुसूदन ।। ७ ।।
।। वराह उवाच ।। ।।
शृणुष्व भद्रे तत्त्वेन पवित्रं पापनाशनम् ।।
कृत्वा यत्सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ८ ।।
कपिला अग्निहोत्रार्थं यज्ञार्थे च वरानने ।।
उद्धृत्य सर्वतेजांसि ब्रह्मणा निर्मिता पुरा ।। ९ ।।
पवित्राणां पवित्रं च मङ्गलानां च मंगलम् ।।
पुण्यानां परमं पुण्यं कपिला च वरानने ।। 4.161.१० ।।
तपसस्तप एवाग्र्यं व्रतानामुत्तमं व्रतं ।।
दानानामुत्तमं दानं विधिना ह्येतदक्षयम् ।। ११ ।।
पृथिव्यां यानि तीर्थानि गुह्यान्यायतनानि च ।।
पवित्राणि च पुण्यानि सर्वलोके वसुन्धरे ।। १२ ।।
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः ।।
कपिलाया घृतेनेह दश क्षीरेण वा पुनः ।। १३ ।।
यजंते येऽग्निहोत्राणि अन्नैश्च विविधैः सदा ।।
पूजयन्त्यतिथींश्चैव परां भक्तिमुपागताः ।। १४ ।।
तेषां त्वादित्यवर्णैश्च विमानैर्जायते गतिः ।।
सूर्यमण्डलमध्ये च ब्रह्मणा निर्मिता पुरा ।। १५ ।।
कपिलायाः शिरो ग्रीवां सर्व तीर्थानि भामिनि ।।
पितामहनियोगाच्च निवसंति हि नित्यशः ।। १६ ।।
प्रातरुत्थाय यो मर्त्यः कपिला गलमस्तकात् ।।
च्युतं तु भक्त्या पानीयं शिरसा धारयेन्नरः ।। १७ ।।
स तेन पुण्येनोपेतस्तत्क्षणाद्गतकिल्विषः ।।
विंशद्वर्षकृतं पापं दहत्यग्निरिवेन्धनम् ।। १८ ।।
कल्य उत्थाय यो मर्त्यः कुर्यात्तासां प्रदक्षिणम् ।।
प्रदक्षिणीकृता तेन पृथिवी स्याद्वसुन्धरे ।। १९ ।।
प्रदक्षिणायां चैकायां कृतायां च वसुन्धरे ।।
दशवर्षकृतं पापं नश्यते नात्र संशयः ।। 4.161.२० ।।
कपिलायास्तु मूत्रेण स्नायाद्वै यः शुचिव्रतः ।।
स गङ्गाद्येषु तीर्थेषु स्नातो भवति मानवः ।। २१ ।।
येन स्नानेन चैकेन भवमुक्तो भवेन्नरः ।।
यावज्जीवकृतात्पापात्तत्क्षणादेव मुच्यते ।। २२ ।।
गोसहस्रं च यो दद्यादेकां वा कपिलां नरः ।।
सममेतत्पुरा प्राह ब्रह्मलोके पितामहः ।। २३ ।।
यश्चैकां कपिलां हन्यान्नरो रज्जुकरो यदि ।।
गोसहस्रं हतं तेन भवतीह न संशयः ।। २४ ।।
गवां स्थितिं कल्पयेत घृतं गव्यं न दूषयेत् ।।
यावद्धि वर्द्धते गव्यं तावत्पापैस्तु पूयते ।। २५ ।।।
गवां कंडूयनं श्रेष्ठं तथा च प्रतिपालनम् ।।
तुल्यं गोघृतदानस्य भयरोगादिपालनम् ।। २६ ।।
तृणादिभक्षणार्थं च गवां दद्याद्धरादिकम् ।।
स्वर्गवासफलं दिव्यं लभते मानवोत्तमः ।। २७ ।।
दशेह कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा ।।
यो दद्याच्छ्रोत्रियस्यैव स्वर्गं गत्वा स मानवः ।। २८ ।।
विमानैर्विविधैर्दिव्यैर्दिव्यकन्याभिरर्चितः ।।
सेव्यमानस्तु गंधर्वैर्दीप्यमाना यथाग्नयः ।। २९ ।।
सुवर्णकपिला पूर्वा द्वितीया गौरपिङ्गला ।।
आशा चैव तृतीया स्यादग्निज्वाला चतुर्थिका ।। 4.161.३० ।।
पंचमी जुहुवर्णा स्यात्षष्ठी तु घृतपिङ्गला ।।
सप्तमी श्वेतपिङ्गा स्यादष्टमी क्षीरपिङ्गला ।। ३१ ।।
नवमी पाटला ज्ञेया दशमी पुष्पपिङ्गला ।।
एता दश समाख्याताः कपिलाश्च वसुंधरे ।। ३२ ।।
सर्वा ह्येता महाभागास्तारयंति न संशयः ।।
संगमेषु प्रशस्ताश्च सर्वपापप्रणाशनाः ।। ३३ ।।
एवमेतास्तु कपिलाः पापघ्न्यश्च वसुन्धरे ।।
आशा चैव तु या प्रोक्ता अग्निगर्भानलप्रभा ।।३४।।
अग्निज्वालोज्ज्वलैः शृंगैः प्रदीप्तांगारलोचना ।।
अग्निपुष्पा अग्निलोमा तथान्या चानलप्रभा ।।३५।।
तामाग्नेय्यां सदा दद्याद्ब्राह्मणायेतरैः सदा ।।
गृहीत्वा कपिलां शूद्रः कामतस्तत्पयः पिबेत् ।।३६।।
पतितश्च भवेन्नित्यं चंडालसदृशः पुमान्।।
तस्मान्न प्रतिगृह्णीयाच्छबलां गां कथंचन ।।३७।।
द्वारांते परिहर्तव्या कपिला गौर्द्विजेतरैः ।।
लोकेषु ते मृढतमाः कपिलाक्षीरभोजनाः ।।३८।।
असंभाष्याश्च पतिताः शूद्रास्ते पापकर्मिणः ।।
पिबंति यावत्कपिलां तावत्तेषां पितामहाः ।।
अमेध्यं भुञ्जतेऽतस्तां नोपजीवेद्द्विजेतरः ।। ३९ ।।
तासां घृतं च क्षीरं वा नवनीतमथापि वा ।।
उपजीवंति ये शूद्रास्ते प्रयांति यमालयम् ।।4.161.४०।।
कपिलाजीविनः शूद्राः सर्वे गच्छंति रौरवम् ।।
रौरवे भुञ्जते दुःखं वर्षकोटि शतोषिताः ।।४१।।
ततो विमुक्ताः कालेन जायंते श्वानयोनिषु ।।
श्वानयोनेर्विमुक्तास्ते विष्ठायां कृमियोनिगाः ।।४२।।
विष्ठास्वेव च पापिष्ठा दुर्गंधेषु च नित्यशः।।
भूयोऽपि जायमानास्ते तत्रोत्तारो न विद्यते ।।४३।।
ब्राह्मणश्चैव यो देवि कुर्यात्तेषां प्रतिग्रहम् ।।
ततः प्रभृत्यमेध्यायां पितरस्तस्य शेरते ।। ४४ ।।
तं विप्रं नानुभाषेत न चाप्येकासने विशेत् ।।
स नित्यं वर्जनीयो वै दूरात्तु ब्राह्मणाधमः ।।४५।।
यस्तेन सह भाषेत प्रायश्चित्ती भवे द्द्विजः ।।
एकस्य गोप्रदानस्य सहस्रांशो न पूर्यते ।।४६।।
किमन्यैर्बहुभिर्दानैः कोटिसंख्यातविस्तरैः।।४७।।
श्रोत्रियाय दरिद्राय सुवृत्तायाहिताग्नये ।।
दत्त्वैकां कपिलां धेनुं सर्वपापैः प्रमुच्यते ।।४८।।
मासे प्रसविनीं धेनुं दानार्थी प्रतिपालयेत् ।।
आत्मार्थे न प्रपाल्या हि सदा नरकभीरुभिः ।।४९।।।
कपिलाऽर्धप्रसूता च दातव्या हि द्विजन्मने ।।
जायमानस्य वत्सस्य मुखं योन्यां प्रदृश्यते ।। 4.161.५० ।।
तावत्सा पृथिवी ज्ञेया यावद्गर्भं न मुंचति ।। ।। ५१ ।।
धेनोर्यावंति रोमाणि सवत्साया वसुन्धरे ।।
भूम्यां तु पांसवो यावद्यावन्नक्षत्रतारकाः ।। ५२ ।।
तावद्वर्षसहस्राणि ब्रह्मेशादिभिरर्चितः ।।
ब्रह्मलोके निवसति यश्चैककपिलाप्रदः ।। ५३ ।।
सुवर्णशृङ्गीं यः कृत्वा खुरै रौप्यैः समर्चिताम् ।।
ब्राह्मणस्य करे दत्त्वा सुवर्णं रौप्यमेव च ।। ५४ ।।
कपिलायास्तदा पुत्रं ब्राह्मणस्य करे न्यसेत् ।।
उदकं च करे दत्त्वा वाचयेत स्वशक्तितः ।। ५५ ।।
सुवर्णैस्तु चतुर्भिश्च त्रिभिर्द्वाभ्यामथापि वा ।।
एकहीना न दातव्या यदीच्छेच्छुभमात्मनः ।। ५६ ।।
स समुद्रवनोपेता सशैलवनकानना ।।
रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः ।। ५७ ।।
पृथिवीदानतुल्येन दानेनैतेन वै नरः ।।
तारितो याति पितृभिर्वैष्णवं यत्पदं परम् ।। ५८ ।।
ब्रह्मस्वहरणो गोघ्नो भ्रूणहा ब्रह्मघातकः ।।
पापकृच्चोभयमुखीं दद्यात्सत्कनकान्विताम् ।।
तद्दिनं च पयोभोजी संयतश्चातिवाहयेत् ।। ५९ ।।
गोमयेनोपलिप्याथ मण्डलं विधिपूर्वकम् ।।
स्वशाखोक्तेन मंत्रेण होमयेत्तु विचक्षणः ।। 4.161.६० ।।
व्याहृत्या होमयेत्पूर्वं पंचवारुणकं तथा ।।
इरावती धेनुमती देवस्य त्वेति वा पुनः ।। ६१ ।।
स्योना पृथिवि मंत्रेण गौर्वत्ससहिता नवा ।।
निकामफलदा धेनुः सा स्यात्सुरभिनंदिनी ।। ६२ ।।
या ते सरस्वती देवी विष्णुना च तथा मही ।।
गौरी विष्णुपदं चोक्त्वा शांतिकर्मणि वाचयेत् ।। ६३ ।।
यावद्वत्सस्यद्वौ पादौ शिरश्चैव प्रदृश्यते ।।
तावद्वै पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ।।
तस्मिन्काले प्रदातव्या ब्राह्मणाय वसुंधरे ।। ६४ ।।
सुवर्णशृंगीं रौप्यखुरां कास्यदोहां सताम्रकाम् ।।
सवस्त्रघंटाभरणां गंधपुष्पैरलंकृताम् ।।
वस्त्राक्षतैः समभ्यर्च्य ब्राह्मणाय समर्पयेत् ६५ ।।
सुवर्णस्य सहस्रेण तदर्धेनापि भामिनि ।।
तस्याप्यर्धेन शक्त्याऽथ तस्याप्यर्द्धेन वा पुनः ।। ।। ६६ ।।
यथा शक्त्या प्रदातव्या वित्तशाठ्यविवर्जितैः ।।
करे दत्त्वा सुवर्णं च अथवा रूप्यमेव च ।।
गृहाणेमां महाधेनुं भव भ्राता ममाशु वै ।।
सर्वपापक्षयं कृत्वा सदा स्वस्तिकरो भव ।।६८।।
इरावती धेनुमती जाह्नवी तदनन्तरम् ।।
प्रतिदास्यामि ते धेनुं कुटुम्बार्थे विशेषतः ।।६९।।
भवतात्स्वस्ति मे नित्यं सुखं चानुत्तमं तथा ।।
दत्ता तु पृथिवी देवी त्वयेयं प्रतिगृह्यताम् ।।4.161.७०।।
कोऽदादिति च वै मंत्रो जपितव्यो द्विजेन च ।।।
विसृज्य ब्राह्मणं सोऽपि तां धेनुं स्वगृहं नयेत् ।। ७१ ।।
एवं प्रसूयमानां गां यो ददाति वसुन्धरे ।।
सा समुद्रवनोपेता सशैलवनकानना ।।
रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः ।। ७२ ।।
प्रतप्तजांबूनदतुल्यवर्णां महानितंबां तनुवृत्तमध्याम् ।।
अर्द्धप्रसूतां द्विमुखीं सुशीलां सेवन्त्यजस्रं कपिलां हि देवाः ।। ७३ ।।
प्रातरुत्थाय यो भक्त्या धेनुकल्पं नरो भुवि ।।
जितेन्द्रियः शुचिर्भूत्वा पठेद्भक्त्या समन्वितः ।। ७४ ।।
त्रिकालं पठते यस्तु पापं वर्षशतोद्भवम् ।।
नश्यत्येकक्षणादेव वायुना पांसवो यथा ।। ७५ ।।
श्राद्धकाले पठेद्यस्तु इदं पावनमुत्तमम् ।।
तस्यान्नं संस्कृतं तद्वै पितरोऽश्नंति धीमतः ।। ७६ ।।
अमावास्यां च यो विद्वान्द्विजानामग्रतः पठेत् ।।
पितरस्तस्य तुष्यंति वर्षाणां शतमेव च ।। ७७ ।।
यश्चैतत्छृणुयात्पुण्यं तद्गतेनांतरात्मना ।।
संवत्सरकृतात्पापात्तत्क्षणादेव मुच्यते ।। ७८।।
इदं रहस्यं राजेन्द्र वराहमुखनिर्गतम्।।
धरण्यै कथितं पूर्वं सर्वपापप्रणाशनम् ।। ७९ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कपिलादानमाहात्म्यवर्णनं नामैकषष्ट्युत्तरशततमोऽध्यायः ।। १६१ ।।