भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १५८

विकिस्रोतः तः
← अध्यायः १५७ भविष्यपुराणम्
अध्यायः १५८
वेदव्यासः
अध्यायः १५९ →

उभयमुखीगोदानव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
प्रसूयमाना दातव्या धेनुर्ब्राह्मणपुङ्गवे ।।
विधिना केन धर्मज्ञं दाने तस्याश्च किं फलम् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
प्रसूयमानातिपुण्यैः प्राप्यते गौर्नृपोत्तम ।।
प्राप्नुवंति नराः केचित्पुण्यसंभारविस्तराः ।।२ ।।
यावत्पादौ योनिगतौ शिरश्चैव प्रदृश्यते ।।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुंचति ।। ३ ।।
गौर्यावद्द्विमुखी चैव यदा भवति भारत ।।
तदासौ पृथिवी ज्ञेया सशैलवनकानना ।। ४ ।।
दत्त्वोभयमुखीं राजन्यत्पुण्यं प्राप्यते नृभिः ।।
न तद्वर्णयितुं याति मुखेनैकेन केनचित् ।। ५ ।।
किमिष्टैर्बहुभिर्यज्ञैर्दानैर्दत्तैश्च सत्तम ।।
प्रसूयमानां गामेकां देहि किं बहुना तव ।। ६ ।।
एकैव पाति नरकात्सुखमेकैव कारयेत्।।
एकापि द्विमुखी दत्ता गौर्गौर्भवति भारत ।। ७ ।।
स्वर्णशृंगीं रौप्यखुरां मुक्तालाङ्गूलभूषिताम् ।।
कांस्योपदोहनां राजन्नलंकृत्य द्विजोत्तमे ।।
प्रसूयमानां गां दत्त्वा महत्पुण्यफलं लभेत् ।। ८ ।।
यावंति धेनुरोमाणि वत्सस्यापि नराधिप ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।। ९ ।।
पितॄन्पितामहांश्चैव तथैव प्रपितामहान् ।।
समुद्धरत्यसंदिग्धं नरकाद्भूरिदक्षिणः ।। 4.158.१० ।।
घृतक्षीरवहा नद्यो दधिपायसकर्दमाः ।।
तत्र ते यांति यत्रास्ति द्रुमश्चेप्सितकामदः ।। ११ ।।
यो ददाति सुवर्णेन बहुना सह भाविनीम् ।।
गोलोकः सुलभस्तस्य ब्रह्मलोकश्च पार्थिव ।। १२ ।।
न देया दुर्बला राजन्धेनुर्नैवाल्पदक्षिणा ।।
काम्योऽयं विधिरुद्दिष्टः फलदो विधिना कृतः ।। १३ ।।
स्त्रियश्च त चंद्रसमानवक्त्राः प्रतप्तजांबूनदतुल्यवर्णाः ।।
महानितंबास्तनुवृत्तमध्याः सेवंत्यजस्रं नलिनाभनेत्राः ।। १४ ।।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद उभयमुखीगोदानव्रतविधिवर्णनं नामाष्टपंचाशदुत्तरशततमोऽध्यायः ।। १५८ ।।