भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १५७

विकिस्रोतः तः
← अध्यायः १५६ भविष्यपुराणम्
अध्यायः १५७
वेदव्यासः
अध्यायः १५८ →

रत्नधेनुदानव्रतविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथातः संप्रवक्ष्यामि दानमन्यत्सुदुर्ल्लभम् ।।
रत्नधेन्विति विख्यातं गोलोकफलदं नृणाम् ।। १ ।।
पुण्यं दिनमथासाद्य गोमयेनोपलेपनम् ।।
कृत्वा भूमौ महाराज तत्र धेनुं प्रकल्पयेत् ।। २ ।।
धेनुं रत्नमयीं कुर्यात्तत्तत्संकल्पपूर्विकाम् ।।
स्थापयेत्पद्मरागाणामेकाशीतिं मुखे बुधः ।। ३ ।।
पुष्परागशतं धेनोः पादयोः परिकल्पयेत् ।।
ललाटे हेमतिलकं मुक्ताफलशतं दृशोः ।। ४ ।।
भ्रूयुगे विद्रुमशतं शुक्ती कर्णद्वये स्मृते ।।
काञ्चनानि च शृङ्गाणि शिरोवज्रशतात्मकम् ।। ५ ।।
ग्रीवायां नेत्रपुटके गोमेदकशतं तथा ।।
इन्द्रनीलशतं पृष्ठे वैदूर्यशत पार्श्वके ।। ६ ।।
स्फाटिकैरुदरं कार्यं सौगन्धिकशतं कटौ ।।
खुरा हेममया कार्याः पुच्छं मुक्तावलीमयम् ।। ७ ।।
सूर्यकान्तेन्दुकान्तौ च घ्राणे कर्पूरचन्दनैः ।।
कुंकुमेन च रोमाणि रौप्यं नाभिं च कारयेत् ।। ८ ।।
गारुत्मतशतं तद्वदपाने परिकल्पयेत् ।।
तथान्यानि च रत्नानि स्थापयेत्सर्वसंधिषु ।। ९ ।।
कुर्याच्छर्करया जिह्वां गोमयं च गुडात्मकम् ।।
गोमूत्रमाज्येन तथा दधिदुग्धस्वरूपतः ।। 4.157.१० ।।
पुच्छाग्रे चामरं दद्यात्स्तनयोस्ताम्रदोहनम् ।।
कारयेदेवमेवं तु चतुर्थांशेन वत्सकम् ।। ११ ।।
नानाफलानि पार्श्वेषु कृत्वा पूजां प्रयत्नतः ।।
गुडधेनुवदावाह्य इदं चोदाहरेत्ततः ।। १२ ।।
त्वां सर्वदेवगणवासमिति स्तुवंति रुद्रेन्द्रचन्द्रकमलासनवासुदेवाः ।।
तस्मात्समस्तभुवनत्रयदेहयुक्ता मां पाहि देवि भवसागर मग्नमासु ।। १३ ।।
एवमामन्त्र्य तां धेनुं विप्राय प्रतिपादयेत् ।।
संपूज्य वस्त्राभरणैर्विधिज्ञं वेदपारगम् ।। १४ ।।
ततश्च दक्षिणां दत्त्वा प्रणिपत्य क्षमापयेत् ।।
एवं यः कुरुते पार्थ तस्य पुण्यफलं शृणु ।। १५ ।।
कल्पकोटिशतं साग्रं शिवलोके सुखं वसेत् ।।
ततः काले बहुतिथे राजराजो भवेदिह ।। १६ ।।
सर्वकामसमृद्धश्च शत्रुपक्षक्षयंकरः ।। १७ ।।
इति सकलविधिज्ञो रत्नधेनुप्रदानं वितरति स विमानं प्राप्य देदीप्यमानम् ।।
सकल कलुषमुक्तो बंधुभिः पुत्रपौत्रैः स हि मदनसरूपः स्थानमभ्येति शंभोः ।। १८ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रत्नधेनुदानव्रतविधिवर्णनं नाम सप्तपंचाशदुत्तरशततमोऽध्यायः ।। १५७ ।।