सामग्री पर जाएँ

भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १५३

विकिस्रोतः तः
← अध्यायः १५२ भविष्यपुराणम्
अध्यायः १५३
वेदव्यासः
अध्यायः १५४ →

जलधेनुदानव्रतविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया ।।
देवदेवो हृषीकेशः पूजितः सर्वभावनः ।। १ ।।
जलकुंभं नरव्याघ्र स्थापयित्वा सुपूजितम् ।।
रत्नगर्भं तु तं कृत्वा ग्राम्यैर्धान्यै समन्वितम् ।। २ ।।
सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम् ।।
कुष्ठमांसीपुरोशीरवालकामलकीयुतम् ।। ३ ।।
प्रियङ्गुपत्रसहितं सितयज्ञोपवीतिनम् ।।
सोपानक्तं च सच्छत्रं दर्भविष्टरसंस्थितम् ।। ४ ।।
चतुर्भिः संयुतं रौप्यं तिलपात्रैश्चतुर्दिशम् ।।
स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखम। ।। ५ ।।
सवत्सां च प्रतिष्ठाप्य गोमयेनोपशोभिताम् ।।
स्रग्दामपुच्छीं कुर्वीत ताम्रदोहनकान्विताम् ।। ६ ।।
ततः समभ्यर्च्य विभुं वासुदेवं सनातनम् ।।
पुष्पधूपोपहारैश्च यथाविभवमात्मनः ।। ७ ।।
संकल्प्य जलधेनुं च कुंभं तमभिमंत्र्य च ।।
विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ।।
सोमशक्रार्कशक्तिर्या धेनुरूपेण सास्तु मे ।। ८ ।।
एवमामंत्र्य विधिवत्सफलां वत्सकान्विताम् ।।
भक्त्या संपूज्य गोविंदं जलशायिनमच्युतम् ।। ९ ।।
सितवस्त्रधरः शांतो वीतरागो विमत्सरः ।।
दद्याद्विप्राय राजेन्द्र प्रीत्यर्थं जलशायिनः ।। 4.153.१० ।।
शेषपर्यंकशयनः श्रीमाञ्छार्ङ्गविभूषितः ।।
जलशायी जगद्योनिः प्रीयतां मम केशवः ।। ११ ।।
इत्युच्चार्य जगन्नाथं विप्राय प्रति पाद्य ताम् ।।
तद्दिनं गोव्रतस्तिष्ठेच्छ्रद्धया परया युतः ।। १२ ।।
अनेन विधिना दत्त्वा जलधेनुं जनाधिप ।।
सर्वभोगानवाप्नोति ये दिव्या ये च मानुषाः ।। १३ ।।
शरीरारोग्यमतुलं प्रशमः सर्वकालिकः ।।
नृणां भवंति दत्तायां सर्वे कामा न संशयः ।। १४ ।।
अत्रापि श्रूयते भूप मुद्गले न महात्मना ।।
जातिस्मरेण यद्गीतमिहाभ्येत्य पुरा किल ।। १५ ।।
स मुद्गलः पुरा विप्रो यमलोकगतो मुनिः ।।
ददर्श यातनानेकाः पापकर्मकृतां नृणाम् ।। १६ ।।
दीप्ताग्नितीक्ष्णयन्त्रस्थाः क्वाथतैलमयास्तथा ।।
उष्णक्षारनदीपाता भैरवाः पुरुषर्षभ ।। १७ ।।
व्रणक्षारनिपातोथ कुम्भीपाकमहालयाः ।।
ता दृष्ट्वा यातना विप्रश्चकार परमां कृपाम् ।। १८ ।।
आह्लादं ते तदा जग्मुः पापास्तदनुकंपया ।।
तं दृष्ट्वा नारकाः केचित्स्थित्वा तदवलोकिनः ।। १९ ।।
तदवस्थं विलोक्याथ मुनिर्नारकमण्डलम् ।।
धर्मराजं स पप्रच्छ तेषां प्रशमकारणम् ।। 4.153.२० ।।
तस्मै चाचष्ट राजेन्द्र तदा वैवस्वतो यमः ।।
आह्लादहेतुमधिकं नारकाणां नरोत्तम ।। २१ ।।
दानानुभावात्सर्वेषां नारकाणां द्विजोत्तम ।।
संप्रवृतोऽयमाह्लादः कारणं तच्छृणु ष्व मे ।। २२ ।।
त्वयाभ्यर्च्य जगन्नाथं सर्वेशं जलशायिनम् ।।
जलधेनुः पुरा दत्ता विधिवद्विजपुङ्गव ।। २३ ।।
तस्मात्वज्जन्मनोऽतीते तृतीये द्विज जन्मनि ।।
तस्य दानस्य ते व्युष्टिरियमाह्लाददायिनी ।। २४ ।।
ये त्वां पश्यंति शृण्वंति ये च ध्यायंति मानवाः ।।
शृणोषि यांश्च विप्रेन्द्र यांश्च ध्यायसि पश्यसि ।।२५।।
निवृत्तिः परमा तेषां सर्वाह्लादप्रदायिनी ।।
सद्यो भवति माऽत्र त्वं द्विजाते कुरु विस्मयम् ।। २६ ।।
आह्लादहेतुजननं नास्ति विप्रेन्द्र तादृशम् ।।
जलधेनुर्यथा नृणां जन्मान्येकोनविंशतिम् ।।२७।।
न दोषो न ज्वरो नार्तिर्न क्लमो द्विज जायते ।।
अपि जन्मसहस्रेऽपि जलधेनुप्रदायिनाम् ।। २८ ।।
स त्वं गच्छ गृहीत्वार्धमस्मतो द्विजसत्तम ।।
येषां समाश्रयः कृष्णे न नियम्या हि ते मया ।। २९ ।।
कृष्णस्तु पूजितो यैस्तु ये कृष्णार्थमुपोषिताः ।।
यैश्च नित्यं स्मृतः कृष्णो न ते मद्विषयोपगाः ।। 4.153.३० ।।
नमः कृष्णाच्युतानंत वासुदेवेत्युदीरितम् ।।
यैर्भा वभावितैर्विप्र न ते मद्विषयोपगाः ।।३१।।
दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति ।।
श्रद्धापुरःसरैर्विप्र न ते मद्विषयोपगाः ।। ३२ ।।
स एव नाथः सर्वस्य तन्नियोगकरा वयम् ।।
जनसंयमनश्चाहमस्मत्संयमनो हरिः ।। ३३ ।।
इत्थं निशम्य वचनं यमस्य वदतोऽखिलम् ।।
ऊचुस्ते नारकाः सर्वे वह्निशस्त्रार्कभीरवः ।।३४।।
नमः कृष्णाय हरये विष्णवे जिष्णवे नमः ।।
हृषीकेशाय केशाय जगद्धात्रेऽच्युताय च ।। ३५ ।।
नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।।
जनार्दनाय श्रीशाय श्रीभर्त्रे पीतवाससे ।। ३६ ।।
गोविंदाय नमो नित्यं नमश्चोदधिशायिने ।।
नमः कमलनेत्राय नृसिंहाय निनादिने ।। ३७ ।।
शार्ङ्गिणे शितखड्गाय शंखचक्रगदाभृते ।।
नमो वामनरूपाय क्रांतलोकत्रयाय च ।। ३८ ।।
वराहरूपाय तथा नमो यज्ञाङ्गधारिणे ।।
व्याप्ताशेषदिगंतायानंताय परमात्मने ।।३९।।
वासुदेव नमस्तुभ्यं नमः कैटभसूदिने ।।
केशवाय नमो राम नमस्तेस्तु महीधर ।।4.153.४०।।
नमोऽस्तु वासुदेवाय ह्येवमुच्चारिते च तैः ।।
शस्त्राणि कुंठतां जग्मुरनलश्चापि शीतताम् ।। ४१ ।।
समभज्यंत वस्त्राणि समुत्पेतुरयोमुखाः ।।
संशुष्का क्षारसरितः पतितः शाल्मलिद्रुमः ।। ४२ ।।
प्रकाशस्तमसो जज्ञे नरकाद्भानुभिः सह ।।
ववौ च युंजन्पवनोऽप्यसिपत्रवने ततः ।। ४३ ।।
निरुत्साहा जडधियो बभूवुर्यमकिंकराः ।।
जाता गङ्गाम्बुवाहिन्यः पूयशौणितनिम्नगाः ।।४४।।
दिव्यः सुगंधि पवनो मनःप्रीतिकरस्तथा ।।
वेणुवीणास्वनयुताः शब्दाश्चासन्मनोरमाः ।। ४५ ।।
तं तादृशमथालक्ष्य तदा वैवस्वतो यमः ।।
क्षीणपापत्रयांस्तांस्तु पाद्यार्घ्यैः समपूजयत् ।। ४६ ।।
पूजयित्वा च तानाह कृष्णाय स कृतांजलिः ।।
समाहितमतिर्भूत्वा धर्मराजो नरेश्वर ।। ४७ ।।
विष्णो देव जगद्धातर्जनार्दन जगत्पते ।।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमोनमः ।। ४८ ।।
अच्युतायाप्रमेयाय मायावामनरूपिणे ।।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ।। ४९ ।।
नमस्ते वासुदेवाय धीमते पुण्यकीर्तये ।।
प्रणामं ये च कुर्वंति तेषामपि नमो नमः ।। 4.153.५० ।।
तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।। ५१ ।।
एवं स्तुत्वा हृषीकेशं धर्मराजस्य पश्यतः ।।
विमानवरमारुह्य नारकास्त्रिदिवं ययुः ।। ५२ ।।
मुद्गलोऽपि महाबुद्धिर्दृष्ट्वैतदखिलं नृप ।।
जातिस्मरो भवद्विप्रः कण्वगोत्रे महामुनिः ।।५३।।
संस्मृत्य यमवाक्यानि विष्णोर्माहात्म्यमेव च।।
जलधेनोस्तु माहात्म्यं संस्मृत्येदमगायत।।५४।।
अहो सुदुस्तरा विष्णोर्मायेयमतिगह्वरी ।।
यया मोहितचित्तस्तु न वेत्ति परमेश्वरम् ।।५५।।
जीवो गच्छति कीटत्वं यूकामत्कुणयोनिताम्।।
तस्माद्द्रुमलतादीनां योनिं तस्माच्च पक्षिणाम् ।। ५६ ।।
ततश्च पशुतां प्राप्य नरत्वमभिवांछति ।।
ततो मनुष्यतां प्राप्य नरो योनिं कृतात्मनाम् ।।
तां प्राप्य च श्रियं परां नरो मायाविमोहितः ।।५७।।
दुस्तरापि सुसाध्या सा माया कृष्णस्य मोहिनी ।।
विद्यते सा मनोन्यस्ता मुधैव मधुसूदने ।।५८।।
अवाप्यैवं च गार्हस्थ्यमवाप्यैवं च तत्परम् ।।
छिनत्ति वैष्णवीं मायां केशवार्पितमानसः ।। ५९ ।।
अविरोधेन विषयान्भुञ्जन्विष्णुं समाश्रयेत् ।।।
भुक्त्वा नरस्तरत्येनां विष्णोर्मायां सुदुस्तराम् ।। 4.153.६० ।।
ईदृग्बहुफला भक्तिः सर्वधातरि केशवे ।।
मायया तस्य देवस्य तां न कुर्वंति मोहिताः ।। ।। ६१ ।।
मुधैवोक्तं सुधापानं मुधा तद्धि विचेष्टितम् ।।
मुधैव जन्म तन्नष्टं यत्र नाराधितो हरिः ।। ६२ ।।
आराधितो हि यः पुंसामैहिकामुष्मिकं फलम् ।।
ददाति भगवान्देवः कस्तं न प्रतिपूजयेत् ।। ६३ ।।
संवत्सरास्तथा मासा विफला दिवसाश्च ते ।।
नराणां विषयांधानां यैस्तु नाराधितो हरिः ।। ६४ ।।
यो न वित्तर्द्धिविभवैर्न वासोभिर्न भूषणैः ।।
तुष्यते हृदयेनैव कस्तमीशं न पूजयेत् ।। ६५ ।।
जलधेनोस्तु माहात्म्यं निशम्येदृग्विधं नराः।।
नात्र यच्छंति तेषां वै विवेकः कुत्र तिष्ठति ।। ६६ ।।
कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि ।।
स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः ।। ६७ ।।
संप्राप्य च न यैर्विष्णुस्तोषितो जलधेनुना ।।
ते जना भ्रष्टजन्मानो वंचितास्तस्य मायया ।। ६८ ।।
ऊर्ध्वबाहुर्विरौम्येष दृष्टलोकद्वयोऽस्मि भोः ।।
आराधयध्वं गोविन्दं जलधेनुं प्रयच्छत ।। ६९ ।।
दुःसहो नारको वह्निरविषह्या च यातना ।।
ज्ञातं मयैतदालंब्य कृष्णं भवति निश्चलः ।। 4.153.७० ।।
आदेशिको देशिको हि यममार्गे सुदुस्तरे ।।
विचिन्त्य तत्सत्यमेतन्मनः कृष्णे निवेश्यताम् ।। ७१ ।।
इष्टेन किं क्रतुशतेन सुदुष्करेण क्लेशाधिकेन सुकृतैर्नियमैर्व्रतैश्च ।।
दत्ता द्विजाय पितृराजगृहं गतस्य ह्येकाऽपि गौर्जलमयी सुखमातनोति ।।७२।।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे जलधेनुदानव्रतविधिवर्णनंनाम त्रिपंचाशदुत्तरशततमोऽध्यायः ।। १५३ ।।