भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १५२
← अध्यायः १५१ | भविष्यपुराणम् अध्यायः १५२ वेदव्यासः |
अध्यायः १५३ → |
धेनुदानव्रतविधिवर्णनम्
।। श्रीकृष्ण उवाच ।। ।।
अथातः संप्रवक्ष्यामि धेनूनां कल्पना नृप ।।
विशेषविधिना याश्च देयाः कामानभीप्सुभिः ।। १ ।।
कामं यद्दीयते दानं समग्रं तत्सुखावहम् ।।
असमग्रं तु दोषाय भवतीह परत्र च ।। २ ।।
तस्मान्न दक्षिणाहीनं विधानविकलं तथा ।।
देयं दानं महाराज समग्रफलकाम्यया ।। ३ ।।
अन्यथा दीयमानं तदहंकाराय केवलम् ।।
प्रत्यक्षं चार्थहानिः स्यान्न वा तत्फलदं भवेत् ।। ४ ।।
तिलधेनुं प्रवक्ष्यामि शृणु पार्थिवसत्तम ।।
वाराहेण पुरा प्रोक्तां महापातकनाशिनीम् ।। ५ ।।
यां दत्त्वा ब्रह्महा गोघ्नः पितृहा गुरुतल्पगः ।।
अगारदाही गरदः सर्वपापरतोपि वा ।। ६ ।।
महापातकयुक्तश्च संयुक्तश्चोपपातकैः ।।
मुच्यते ह्यखिलैः पापैः स्वर्गलोकं च गच्छति ।। ७ ।।
अनुलिप्ते महीपृष्ठे कृष्णाजिनसमावृते ।।
धेनुं तिलमयीं कृत्वा दर्भानास्तीर्य सर्वतः ।। ८ ।।
तिलाः श्वेतास्तिलाः कृष्णास्तिला गोमूत्रवर्णकाः ।।
तिलानां च विचित्राणां धेनुं सर्वां च कारयेत् ।।९ ।।
द्रोणस्य वत्सकं कुर्याच्चतुराढकिकां च गाम् ।।
स्वर्णशृंगीं रौप्यखुरां गन्धवर्णवतीं तथा ।। 4.152.१० ।।
कार्या शर्करया जिह्वा गुडेनास्यं च कम्बलः ।।
इक्षुपादां ताम्रपृष्ठीं शुक्तिमुक्ताफलेक्षणाम् ।। ११ ।।
प्रशस्तपत्रश्रवणां फलदंतवतीं शुभाम् ।।
स्रग्दामपुच्छां कुर्वीत नव नीतस्तनान्विताम् ।। १२ ।।
सितवस्त्रशिरालम्बां सितसर्षपरोमिकाम् ।।
फलैर्मनोहरैरन्नैर्मणिमुक्ताफलान्विताम् ।। १३ ।।
ईदृक्संस्थानसम्पन्नां कृत्वा श्रद्धासमन्वितः ।।
कांस्योपदोहनां दद्यात्पर्वकाले समागते ।। १४ ।।
या लक्ष्मीः सर्वभूतानां या वै देवेष्ववस्थिता ।।
धेनुरूपेण सा देवी मम पापं व्यपोहतु ।। १५ ।।
ततः प्रदक्षिणां कृत्वा पूजयित्वा प्रणम्य च ।।
सदक्षिणा मया तुभ्यं दत्तेत्युक्त्वा विसर्जयेत् ।। १६ ।।
अनेन विधिना दत्त्वा तिलधेनुं नराधिप ।।
सर्वपापविनिर्मुक्तो परं ब्रह्माधिगच्छति ।। १७ ।।
यश्च गृह्णाति विधिवद्दीयमानां प्रमोदते ।।
दीयमानां प्रशंसंति ये च संहृष्टमानसाः ।। १८ ।।
तेपि दोषविनिर्मुक्ता ब्रह्मलोकं व्रजंति ते ।।
प्रशांताय सुशीलाय वेदव्रतरताय च ।। १९ ।।
धेनुं तिलमयीं दत्त्वा न शोचति कृताकृते ।।
त्रिरात्रं यस्तिलाहारस्तिलधेनुप्रदो भवेत् ।। 4.152.२० ।।
एकाहमथ वा राजन्न युच्छेदन्तरात्मना ।।
दानाद्विशुद्धिः पापस्य तस्य पुण्यवतो नृप ।। २१ ।।
चान्द्रायणादभ्यधिकं कथितं तिलभक्षणम् ।।
बालत्वे चैव यत्पापं यौवने वार्द्धके तथा ।। २२ ।।
वाचा कृतं तु मनसा कर्मणा यच्च संचितम् ।।
उदकष्ठीवने चैव नग्नस्नानेन यद्भवेत् ।। २३ ।।
मुशलेनोद्यते नापि लंबिते ब्राह्मणे तथा ।।
वृषलीगमने चैव गुरुदाराभिगामिनि ।। २४ ।।
सुरापानेन यत्पापमभक्ष्यस्य च भक्षणात् ।।
तत्सर्वं विलयं याति तिलधेनुप्रदायिनाम् ।। २५ ।।
यममार्गे महाघोरे नदी वैतरणी स्मृता ।।
वालुकायाः स्थलं चैव पच्यते यत्र पापिनः ।। २६ ।।
यत्र लोहमुखाः काका यत्र श्वानो भयावहाः ।।
निकृत्य पापिनां मांसं भक्षयंति बुभुक्षिताः ।। २७ ।।
असिपत्रवनं चैव लोहकंटकशाल्मलीम् ।।
एतान्सर्वानतिक्रम्य ततो यमपुरं व्रजेत् ।। २८ ।।
विमाने कांचने दिव्ये मणिरत्नविभूषिते ।।
तत्रारुह्य नरश्रेष्ठो गच्छते परमाङ्गतिम् ।। २९ ।।
गुणहीने न दातव्या न दातव्या धनेश्वरे ।।
कुण्डे गोले च लुब्धे च न च देया कदापि सा ।। 4.152.३० ।।
एका एकस्य दातव्या मुनिभिः कथितं पुरा ।।
अरण्ये नैमिषे पार्थ नारदेन निवेदितम् ।। ३१ ।।
तत्तेहं संप्रवक्ष्यामि सम्यक्फलसहस्रदम् ।।
इदं पुण्यं पवित्रं च माङ्गल्यं कीर्तिवर्धनम् ।। ३२ ।।
विप्राणां श्रावयेच्छ्राद्धे अनन्तफलमश्नुते ।।
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ।। ३३ ।।
विभज्यमानान्येतानि दातारं पातयंत्यधः ।।
सा तु विक्रयमापन्ना दहत्यासप्तमं कुलम् ।। ३४ ।।
अस्या दानप्रभावेन विमानं सर्वकामिकम् ।।
समारुह्य नरो याति यत्र देवो हरिः स्वयम् ।। ३९ ।।
एषा चैव प्रदातव्या प्रयतेनान्तरात्मना ।।
पौर्णमास्यां च माघस्य कार्तिक्यां चैव भारत ।। ३६ ।।
चन्द्रसूर्योपरागे तु विषुवे अयने तथा ।।
षडशीतिमुखे चैव व्यतीपाते तु सर्वदा ।। ३७ ।।
वैशाख्यां मार्गशीर्ष्यां वा गजच्छायासु चैव हि ।।
एषा ते कथिता पार्थ तिलधेनुर्मयानघ ।। ३८ ।।
यावंति धेनो रोमणि गात्रेषु नृपपुङ्गव ।।
तावद्वर्षसहस्राणि तदा स्वर्गे महीयते ।। ३९ ।।
यश्च गृह्णाति विधिवद्दीयमानां च पश्यति ।।
अनुमोदयते चैव ते सर्वे स्वर्गगामिनः ।। 4.152.४० ।।
धेनुं धनाधिपतयो मगधोद्भवेन मानेन ये तिलमयीं चतुराढकेन ।।
कृत्वा यथोक्तरचनां कृतचारुवत्सां यच्छंति ते भुवि भवंति विमुक्तपापाः ।।४१।।
प्रतिगृह्णामि देवि त्वां कुटुंबभरणाय च ।।
कामं देया दयास्मभ्यं धेनो त्वं सर्वदा ह्यसि ।। ४२ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिल धेनुदानव्रतविधिवर्णनं नाम द्विपंचाशदुत्तरशततमोऽध्यायः ।। १५२ ।।