भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०६४

विकिस्रोतः तः
Jump to navigation Jump to search

आशादशमीवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
पार्थ पार्थिववृन्दानां मुखपङ्कजसद्रवे ।।
शृणुष्वावहितो वच्मि तवाशादशमीव्रतम् ।। ।। १।।
नलनामाभवत्पूर्वं निषधेषु महीपते ।।
स भ्रात्रा निर्जितो राज्ये पुष्करेणेति नः श्रुतम् ।। २ ।।
अक्षैर्द्यूतेन राजेन्द्र निर्ययौ भार्यया सह ।।
वनं प्रतिभयं शून्यं झिल्लीकगणनादितम् ।। ३ ।।
स गत्वा प्रत्यहोरात्रं जलमात्रेण वर्तयन् ।।
ददर्श वनमध्यस्थाञ्छकुनीन्कांचनच्छवीन् ।। ४ ।।
ग्रहीतुमिच्छंस्तान्राजन्समाच्छाद्य स्ववाससा ।।
खमापेतुः खगास्तूर्णं गृहीत्वा वसनं शुभम् ।।५।।
आससाद समाः काश्चिद्धृतवासाः सुदुःखितः।।
दमयंतीं समाप्राप्य निद्रयापहृतां तदा ।।
दुःखादुत्सृज्य गतवान्भाग्यतः प्राग्धनेश्वरम् ।। ५ ।।
गते तु नैषधे भैमी प्रबुद्धै वाञ्चितानना।।
अपश्यंती नलं वीरं वीर भीमसुता वने ।।
इतश्चेतश्च बभ्राम हाहेति रुदती मुहुः ।। ७ ।।
दुःखशोकसमाक्रांता नलदर्शनलालसा ।।
आससाद दिने कैश्चित्सा चैद्यपुरमंजसा ।। ८ ।।
उन्मत्तवत्परिवृता शिशुभिः कौतुकाकुलैः ।।
सा दृष्टा चेदिराजस्य जनन्या जनवेष्टिता ।।९।।
चन्द्रलेखेव पतिता भूमौ भासितदिङ्मुखा ।।
आरोप्य सा स्वभवनं पृष्टा का त्वं वरानने ।। 4.64.१० ।।
उवाच भैमी सव्रीडं सैरंध्रीं मां निबोधताम् ।।
न धावयेयं चरणौ नोच्छिष्टं भक्षयाम्यहम् ।। ११ ।।
यदि प्रार्थयते कश्चिद्दंड्यस्ते सांप्रतं भवेत् ।।
प्रतिज्ञयानया देवि तिष्ठेयं तव वेश्मनि ।।
एवमस्त्वनवद्यांगि राज माताप्युवाच ताम् ।। १२ ।।
एवंविधा तद्भवने कंचित्कालमनिंदिता ।।
उवास वसनार्द्धेन प्रवृत्तांते किल द्विजः ।।
आनयामास मुदितो दमयंतीं गृहं पितुः ।। १३ ।।
मात्रा पित्रा समायुक्ता सुतैर्भ्रातृभिरेव च ।।
दमयंती तथाप्यास्ते दुःखं नैषधवर्जिता ।। १४ ।।
प्रोवाच विमनाहूय व्रतं दानमथापि वा ।।
कथयध्वं यथा मे स्यादिष्टेन सह संगमः ।। १५ ।।
तत्रेतिहासकुशलो विप्रः प्रोवाच बुद्धिमान् ।।
भद्रे त्वमाशादशमीं कुरुष्वेप्सितसिद्धिदाम् ।। १६ ।।
चकार सर्वं तन्वंगी यत्पुराणविदा तदा ।।
ख्यातमाख्यानविदुषा दमनेन पुरोधसा ।। १७ ।।
व्रतस्यास्य प्रभावेण दमयंत्या नरोत्तम ।।
संजातः सुखदोऽत्यर्थं भर्त्त्रा सह समागमः ।। १८ ।।
।। युधिष्ठिर उवाच ।। ।।
कथमाशादशम्येषा गोविन्द क्रियते कदा ।।
सर्वमेतत्समाचक्ष्व मां सर्वज्ञोसि यादव ।। १९ ।।
।। श्रीकृष्ण उवाच ।। ।।
राज्याशया राजपुत्रः कृष्यर्थं तु कृषीवलः ।।
भार्यार्थं तु वणिक्पुत्रः पुत्रार्थे गुर्विणी तथा ।। 4.64.२० ।।
धर्मार्थकामसंसिद्धयै लोककन्या वरार्थिनी ।।
यष्टुकामो द्विजवरो रोगी रोगापनुत्तये ।। २१ ।।
चिरप्रवासिते कांते कालेन धृतिपंडिता ।।
एतेष्वन्येषु कर्तव्यमाशाव्रतमिदं सदा ।। २२ ।।
यदा यस्य भवेदार्तं कार्यते हि तदा व्रतम् ।।
शुक्लपक्षे दशम्यां तु स्नात्वा संपूज्य देवताः ।।२३।।
नक्तं तदाशाः संपूज्याः पुष्पालक्तकचन्दनैः ।।
गृहाङ्गणे लेखयित्वा यवैः पिष्टातकेन वा ।।
दत्त्वा घृताक्तं नैवेद्यं पुनः कार्यं निवेदयेत् ।।२४।।
आशाश्चाशाः सदा संतु विद्यंतां च मनोरथाः।।
भवतीनां प्रसादेन सदा कल्याणमस्त्विति ।।२५।।
एवं संपूज्य भुञ्जीत दत्त्वा विप्राय दक्षिणाम्।।
अनेन क्रमयोगेन मासिमासि समाचरेत्।।२६।।
यावन्मनोरथः पूर्णस्ततः पश्चात्समुद्यमात् ।।
मासि पूर्णे च षण्मासे वर्षे वर्षद्वये गते।।२७।।
सौवर्णाः कारयेदाशा रौप्यपिष्टातकेन वा।।
ज्ञातिबंधुजनैः सार्द्धं स्नातः सम्यगलंकृतः ।।२८।।
पूजयेन्मंत्रसंदर्भैरेभिर्ध्यात्वा गृहांगणे।।।
तव संनिहितः शक्रः सुरासुरनमस्कृतः ।।
पूर्वा चन्द्रेण सहिता ऐन्द्रीदिग्देवते नमः ।। २९ ।।
अग्नेः परिग्रहादार्ये त्वमाग्नेयीति पठ्यसे ।।
तेजोमयी परा शक्तिराग्नेयी वरदा भव ।। 4.64.३० ।।
देवराजं समासाद्य लोकः संयमयत्यसौ ।।
तेन संयमनी यासि याम्ये कामप्रदा भव ।। ३१ ।।
खड्गंसहातिविकृता नैर्ऋतिस्त्वमुपाभृता ।।
तेन नैर्ऋतनाम्नीत्वं कृतवान्मघवा सदा ।। ३२ ।।
त्वय्यास्ते भवनाधारवरुणो यादसां पतिः ।।
इष्टकामार्थसिद्ध्यर्थं वारुणिप्रभवा भव ।। ३३ ।।
अधिश्रितासि यस्मात्त्वं वायुना जगदायुना।।
वायव्ये त्वमतः शान्तिं नित्यं यच्छ नमोनमः ।। ३४ ।।
कुबेरवासतः सौम्या प्रख्याता त्वमथोत्तरा ।।
ऐशानी जगदीशेन शंभुना त्वमलंकृता ।।
अतस्त्वं शिवसान्निध्यं देवि देहि शिवे नमः ।। ३५ ।।
सर्पाष्टककुलेन त्वं सेवितासि तथाप्यधः ।।
नागांगनाभिः सहिता हिता नः सर्वदा भव ।। ३६ ।।
सप्तलोकैः परिगता सर्वदा त्वं शिवा यतः ।।
सनकाद्यैः परिवृता ब्राह्मी जिह्मानपाकुरु ।। ३७ ।।
नक्षत्राणि च सर्वाणि ग्रहास्ताराग्रहास्तथा ।।
नक्षत्रमातरो ये च भूतप्रेतविनायकाः ।।
सर्वे ममेष्टसिद्ध्यर्थे भवंतु प्रणताः सदा ।। ३८ ।।
एभिर्मंत्रैः समभ्यर्च्य पुष्पधूपादिना ततः ।।
वासोभिरभिसंस्थाप्य फलानि विनिवेदयेत्।। ३९ ।।
तत्तूर्यध्वनिघोषेण गतिमङ्गलनिःस्वनैः ।।
नृत्यतीभिर्वरस्त्रीभिस्तां रात्रिमतिवाहयेत् ।। 4.64.४० ।।
कुंकुमक्षोदतीव्रेण दानमानादिभिः सुखम् ।।
प्रभाते वेदविदुषे सर्वं तत्प्रतिपादयेत् ।। ४१ ।।
अनेन विधिना सर्वं क्षमयन्प्रणिपत्य च ।।
भुञ्जीत मित्रसहितः सुहृद्बंधुजनैरपि ।। ४२ ।।
य एवं कुरुते पार्थ दशमीव्रतमादरात् ।।
स सर्वकाममाप्नोति मनसाभीप्सितं नरः ।। ४३ ।।
स्त्रीभिर्विशेषतः कार्यं व्रतमेतद्युधिष्ठिर ।।
लघुचित्ता यतो नार्यः सदा कामपरायणाः ।। ४४ ।।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ।।
कथितं ते महाराज मया व्रतमनुत्तमम् ।। ४५ ।।
ये मानवा मनुजपुङ्गव कामकामाः संपूजयंति दशमीषु सदा दशाशाः ।।
तेषां विशेषनिहिता हृदये प्रकाममाशाः फलंत्यलमलं बहुनोदितेन ।। ४६ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आशादशमीव्रतं नाम चतुष्पष्टितमोऽध्यायः ।। ६४ ।।