भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः ०१ भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४
अध्यायः ०२
अज्ञातलेखकः
अध्यायः ०३ →

।। सूत उवाच ।। ।।
वयहानिर्महीपालो मध्यदेशे स्वकं पदम् ।।
गृहीत्वा ब्रह्मरचितमजमेरमवासयत् ।। १ ।।
अजस्य ब्रह्मणो मा च लक्ष्मीस्तत्र रमा गता ।।
तया च नगरं रम्यमजमेरमजं स्मृतम् ।। २ ।।
दशवर्षं कृतं राज्यं तोमरस्तत्सुतोऽभवत् ।।
पार्थिवैः पूजयामास वर्षमात्रं महेश्वरम् ।। ३ ।।
इंद्रप्रस्थं ददौ तस्मै प्रसन्नो नगरं शिवः ।।
तदन्वये च ये जातास्तोमराः क्षत्रियाः स्मृताः ।। ४ ।।
तोमरावरजश्चैव चयहानिसुतः शुभः ।।
नाम्ना सामलदेवश्च प्रश्रितोऽभून्महीतले ।। ५ ।।
सप्तवर्षं कृतं राज्यं महादेवस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यमजयश्च ततो भवत् ।। ६ ।।
पितुस्तुल्यं कृतं राज्यं वीरसिंहस्ततोऽभवत् ।।
शतार्द्धाब्दं कृतं राज्यं ततो बिंदुसुरोऽभवत् ।। ७ ।।
पितुरर्द्धं कृतं राज्यं मध्यदेशे महात्मना ।।
तस्माच्च मिथुनं जातं वीरा वीरविहात्तकः ।। ८ ।।
विक्रमाय ददौ वीरां पिता वेदविधानतः ।।
स्वपुत्राय स्वकं राज्यं मध्यदेशान्तरं मुदा ।। ९ ।।
पितुस्तुल्यं कृतं राज्यं माणिक्यस्तत्सुतोभवत् ।।
शतार्द्धाब्दं कृतं राज्यं महासिंहस्ततोऽभवत् ।। 3.4.2.१० ।।
पितुस्तुल्यं कृतं राज्यं चंद्रगुप्तस्ततोऽभवत्।।
पितुर्द्धं कृतं राज्यं तत्सुतश्च प्रतापवान् ।। ११ ।।
पितुस्तुल्यं कृतं राज्यं मोहनस्तत्सुतोऽभवत् ।।
त्रिंशदब्दं कृतं राज्यं श्वेतरायस्ततोऽभवत् ।।१२।।
पितुस्तुल्यं कृतं राज्यं नागवाहस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं लोहधारऽस्ततोभवत् ।। ।। १३ ।।
पितुस्तुल्यं कृतं राज्यं वीरसिंहस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं विबुधस्तत्सुतोऽभवत् ।। १४ ।।
शतार्द्धाब्दं कृतं राज्यं चंद्रराय स्ततोभवत् ।।
पितुस्तुल्यं कृतं राज्यं ततो हरिहरोऽभवत् ।।१५।।
पितुस्तुल्यं कृतं राज्यं वसंतस्तस्य चात्मजः ।।
पितुस्तुल्यं कृतं राज्यं बलांग स्तनयोऽभवत् ।। १६ ।।
पितुस्तुल्यं कृतं राज्यं प्रमथस्तत्सुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यमंगरायस्ततोऽभवत् ।। १७ ।।
पितुस्तुल्यं कृतं राज्यं विशालस्तस्य चात्मजः ।।
पितुस्तुल्यं कृतं राज्यं शार्ङ्गदेवस्ततोऽभवत् ।। १८ ।।
पितुस्तुल्यं कृतं राज्यं मंत्रदेवस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं जयसिंहस्ततोऽभवत् ।।१९।।
आर्यदेशाश्च सकला जितास्तेन महात्मना ।।
तद्धनैः कारयामास यज्ञं बहुफलप्रदम् ।। 3.4.2.२० ।।
ततश्चानंद देवो हि जातः पुत्रः शुभाननः ।।
शतार्द्धाब्दं कृतं राज्यं जयसिंहेन धीमता ।। २१ ।।
तत्सुतेन पितुस्तुल्यं कृतं राज्यं महीतले ।।
सोमेश्वरस्तस्य सुतो महाशूरो बभूव ह ।। २२ ।।
अनंगपालस्य सुतो ज्येष्ठां वै कीर्तिमालिनीम् ।।
तामुद्वाह्य विधानेन तस्यां पुत्रानजीजनत् ।। २३ ।।
धुंधुकारश्च वै ज्येष्ठो मथुराराष्ट्रसंस्थितः ।।
मध्यः कुमाराख्यसुतः पितुः पदसमास्थितः ।।२४।।
महीराजस्तु बलवांस्तृतीयो देहलीपतिः ।।
सहोद्दीनस्य नृपतेर्वशमाप्य मृतिं गतः ।। २५ ।।
चपहानेश्च स कुलं छाययित्वा दिवं ययौ ।।
तस्य वंशे तु राजन्यास्तेषां पत्न्यः पिशाचकैः ।।२६।।
म्लेच्छैश्च भुक्तवत्यस्ता बभूबुर्वर्णसंकराः ।।
न वै आर्या न वै म्लेच्छा जट्टा जात्या च मेहनाः ।। २७ ।।
मेहना म्लेच्छजातीया जट्टा आर्यमयाः स्मृताः ।।
क्वचित्कचिच्च ये शेषाः क्षत्रियाश्चपहानिजाः ।। २८ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि कलियुगीयेतिहास समुच्चये प्रमरवंशवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।