भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः ०१

विकिस्रोतः तः

।। श्रीगणेशाय नमः ।।

।। श्रीराधावल्लभो जयति ।।

।। वेदव्यास उवाच ।। ।।
एवं द्वापरसंध्याया अन्ते सूतेन वर्णितम् ।।
सूर्यचंद्रान्वयाख्यानं तन्मया कथितं तव ।।१।।
विशालायां पुनर्गत्वा वैतालेन विनिर्मितम् ।।
कथयिष्यति सूतस्तमितिहाससमुच्चयम् ।।२।।
तन्मया कथितं सर्वं हृषीकोत्तमपुण्यदम्।।
पुनर्विक्रमभूपेन भविष्यति समाह्वयः ।। ३ ।।
नैमिषारण्यमासाद्य श्रावयिष्यति वै कथाम्।।
पुनरुक्तानि यान्येव पुराणाष्टादशानि वै ।। ४ ।।
तानि चोपपुराणानि भविष्यंति कलौ युगे ।।
तेषां चोपपुराणानां द्वादशाध्यायमुत्तमम् ।। ५ ।।
सारभूतश्च कथितं इतिहाससमुच्चयः ।।
यस्ते मया च कथितो हृषीकोत्तम ते मुदा ।। ६ ।।
विक्रमाख्यानकालांतेऽवतारः कलया हरेः ।।
स च शक्त्यावतारो हि राधाकृष्णस्य भूतले ।। ७ ।।
तत्कथां भगवान्सूतो नैमिषारण्यमास्थितः ।।
अष्टाशीतिसहस्राणि श्रावयिष्यति वै मुनीम् ।। ८ ।।
यत्तन्मया च कथितं हषीकोत्तम ते मुदा ।।
पुनस्ते शौनकाद्याश्च कृत्वा स्नानादिकाः क्रियाः ।। ९ ।।
सूतपार्श्वं गमिष्यंति नैमिषारण्यवासिनः ।।
तत्पृष्टेनैव सूतेन यदुक्तं तच्छृणुष्व भोः ।। 3.4.1.१० ।।
।। ऋषय ऊचुः ।। ।।
श्रुतं कृष्णस्य चरितं भगवन्भवतोदितम् ।।
इदानीं श्रोतुमिच्छामि राज्ञां तेषां क्रमात्कुलम् ।। ।।११ ।।
चतुर्णां वह्निजातानां परं कौतूहलं हि नः ।।
स हरिस्त्रियुगी प्रोक्तः कथं जातः कलौ युगे ।। १२ ।।
।। सूत उवाच ।। ।।
कथयामि मुनिश्रेष्ठा युष्माकं प्रश्नमुत्तमम् ।।
अग्निवंशनृपाणां च चरित्रं शृणु विस्तरात् ।। १३ ।।
प्रमरश्च महीपालो दक्षिणां दिशमास्थितः ।।
अम्बया रचितां दिव्यां प्रमराय पुरीं शुभाम् ।। १४ ।।
निवासं कृतवान्राजा सामवेदपरो बली ।।
षड्वर्षाणि कृतं राज्यं तस्माज्जातो महामरः ।। १५ ।।
त्रिवर्षं च कृतं राज्यं देवापिस्तनयोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं देवदूतस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं शृणु तत्कारणं मुने ।। १६ ।।
अशोके निहते तस्मिन्बौद्धभूपे महाबले ।।
कलिर्भास्करमाराध्य तपसा ध्यानतत्परः ।। १७ ।।
पंचवर्षान्तरे सूर्यस्तस्मै च कलये मुदा ।।
शकाख्यं नाम पुरुषं ददौ तद्भक्तितोषितः ।। १८ ।।
तदा प्रसन्नः स कलिः शकाय च महात्मने ।।
तैत्तिरं नगरं प्रेम्णा ददौ हर्षितमानसः ।।१९।।
तत्र गोपान्दस्युगणान्वशीकृत्य महाबली ।।
आर्यदेशविनाशाय कृत्वोवोद्योगं पुनःपुनः ।।
हतवान्भूपतीन्बाणैस्तस्मात्ते स्वल्पजीविनः ।। 3.4.1.२० ।।
गंधर्वसेनश्च नृपो देवदूतात्मजो बली ।।
शतार्द्धाब्दं पदं कृत्वा तपसे पुनरागतः ।। २१ ।।
शिवाज्ञया च नृपतिर्विक्रमस्तनयस्ततः ।।
शतवर्षकृतं राज्यं देवभक्तस्ततोऽभवत् ।।
दशवर्षं कृतं राज्यं शकैर्दुष्टैर्लयं गतः ।। २२ ।।
शालिवाहन एवापि देवभक्तस्य चात्मजः ।।
जित्वा शकान्स षष्ट्यब्दं राज्यं कृत्वा दिवं गतः ।। २३ ।।
शालिहोत्रस्तस्य सुतो राज्यं कृत्वा शतार्द्धकम् ।।
स्वर्गलोकं ततः प्राप्तस्तत्सुतः शालिवर्द्धनः ।।२४।।
पितुस्तुल्यं कृतं राज्यं शकहन्ता ततोऽभवत्।।
पितुस्तुल्यं कृतं राज्यं सुहोत्रस्तनयोऽभवत् ।। २५ ।।
पितुस्तुल्यं कृतं राज्यं हविर्होत्रस्ततोऽभवत्।।
पितुस्तुल्यं कृतं राज्यमिंद्रपालस्ततोऽभवत् ।। २६ ।।
पुरीमिंद्रावतीं कृत्वा तत्र राज्यमकारयत् ।।
पितुस्तुल्यं कृतं राज्यं माल्यवान्नाम तत्सुतः ।।
पुरीं माल्यवतीं कृत्वा पितुस्तुल्यं कृतं पदम् ।। २७ ।।
अनावृष्टिस्ततश्चासीन्महती चतुरब्दिका ।।
ततः क्षुधातुरो राजा श्वविष्ठाधान्यगर्हितम् ।। २८ ।।
संस्कृत्य मंदिरे राजा शालग्रामाय चार्पयत् ।।
तदा प्रसन्नो भगवान्वचनं नभसेरितम् ।। २९ ।।
कृत्वा ददौ वरं तस्मै शृणु तन्मुनिसत्तम।।
कुले यावन्नृपा भाव्यास्तव भूपतिसत्तम।।
अनावृष्टिर्न भविता तावत्ते राष्ट्र उत्तमे।।3.4.1.३०।।
सुतो माल्यवतश्चासीच्छंभुदत्तो हरप्रियः।।
पितुस्तुल्यं कृतं राज्यं भौमराजस्ततोऽभवत्।।३१।।
पितुस्तुल्यं कृतं राज्यं वत्सराजस्ततोऽभवत्।।
पितुस्तुल्यं कृतं राज्यं भोजराजस्ततोऽभवत्।।३२।।
पितुस्तुल्यं कृतं राज्यं शंभुदत्तस्ततोऽभवत्।।
दशहीनं कृतं राज्यं भोजराजपितुस्समम्।।३३ ।।
शंभुदत्तस्य तनयो बिंदुपालस्ततोऽभवत् ।।
बिंदुखण्डं च राष्ट्रं वै कृत्वा स सुखितोऽभवत् ।।
तेन राज्यं पितुस्तुल्यं कृतं वेदविदा मुने ।। ३४ ।।
बिंदुपालस्य तनयो राजपालस्ततोऽभवत्।।
पितुस्तुल्यकृतं राज्यं तस्माज्जातो महीनरः ।। ३५ ।।
पितुस्तुल्यं कृतं राज्यं सोमवर्मा नृपोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं कामवर्मा सुतोऽभवत् ।। ३६ ।।
पितुस्तुल्यं कृतं राज्यं भूमिपालस्ततोऽभवत् ।।
भूसरस्तेन खनितं पुरं तत्र शुभं कृतम् ।। ३७ ।।
पितुस्तुल्यं कृतं राज्यं रंगपालस्ततोऽभवत् ।।
भूमिपालस्तु नृपतिर्जित्वा भूपाननेकशः ।। ३८ ।।
वीरसिंहस्ततो नाम्ना विख्यातोऽभून्महीतले ।।
स्वराज्ये रंगपालं स चाभिषिच्य वनं ययौ ।।
तपः कृत्वा दिवं यातो देवदेवप्रसादतः ।। ३९ ।।
कल्पसिंहस्ततो जातो रंगपालान्नृपोत्तमात् ।।
अनपत्यो हि नृपतिः पितुस्तुल्यं कृतं पदम् ।। 3.4.1.४० ।।
एकदा जाह्नवीतोये स्नानार्थं मुदितो ययौ ।।
दानं दत्त्वा द्विजातिभ्यः कल्पक्षेत्रमवाप्तवान् ।। ४१ ।।
पुण्यभूमिं समालोक्य शून्यभूतां स्थलीमपि ।।
नगरं कारयामास तत्र स्थाने मुदान्वितः ।। ४२ ।।
कलापनगरं नाम्ना प्रसिद्धमभवद्भुवि ।।
तत्र राज्यं कृतं तेन गंगासिंहस्ततोऽभवत् ।। ४३ ।।
नवत्यब्दवपुर्भूत्वा सोऽनपत्यो रणं गतः ।।
त्यक्त्वा प्राणान्कुरुक्षेत्रे स्वर्गलोकमवाप्तवान् ।।
समाप्तिमगमद्विप्र प्रमरस्य कुलं शुभम् ।। ४४ ।।
तदन्वये च ये शेषाः क्षत्रियास्तदनंतरम् ।।
तन्नारीष्वमितोविप्र बभूव वर्णसंकरः ।। ४५ ।।
वैश्यवृत्तिकराः सर्वे म्लेच्छतुल्या महीतले ।।
इति ते कथितं विप्र कुलं दक्षिणभूपतेः ।। ४६ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये प्रमरवंशवर्णनं नाम प्रथमोऽध्यायः ।। १ ।।