भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
पुनराह स वैतालः शृणु राजन्कथामिमाम् ।।
ग्रामे धर्मपुरं रम्ये नानाजननिषेविते ।। १ ।।
तत्राभवन्महीपालो धर्मशीलो महोत्तमः ।।
लज्जादेवी च महिषी तस्य भूपस्य भूपते ।। २ ।।
अंधको नाम तन्मंत्री न्यायशास्त्रविशारदः ।।
कियता चैव कालेन देवीमंदिरमुत्तमम् ।। ३ ।।
धर्मशीलेन रचितं तत्र दुर्गा प्रतिष्ठिता ।।
अपत्यार्थे भूपतिना कृतस्तत्र महोत्सवः ।। ४ ।।
अर्द्धरात्रे महागौरी नृपं प्राह वृणीष्व भोः ।।
श्रुत्वामृतमयं वाक्यं धर्मशीलो नृपोत्तमः ।।
स्तुतिं चकार नम्रात्मा येन दुर्गा प्रसीदति ।। ५ ।।
।। धर्मशील उवाच ।। ।।
एका तु प्रकृतिर्नित्या सर्ववर्णस्वरूपिणी ।। ६ ।।
सा त्वं भगवती साक्षात्त्वया सर्वमिदं ततम् ।।
त्वदाज्ञया सुरश्रेष्ठो रचित्वा लोकमुत्तमम् ।।७।।
महालक्ष्म्या त्वया सार्द्धं बुभुजे निर्मलं सुखम् ।।
त्वद्भक्त्या भगवान्विष्णुस्त्रैलोक्यं ब्रह्म निर्मितम् ।। ८ ।।
पालयंश्च महालक्ष्म्या त्वया सार्द्धं सनातनि ।।
त्वद्बलेन महादेवि त्रैलोक्यं विष्णुपालितम् ।। ९ ।।
महाकाल्या त्वया सार्द्धं भस्म कृत्वा विराजते ।।
सर्वे देवास्तथा दैत्याः पितरो मनुजाः खगाः ।।3.2.6.१ ०।।
त्वल्लीलया च ते जाता जगन्मातर्नमोस्तु ते ।।
इत्युक्तवंतं नृपतिं वागुवा चाशरीरिणी।। ११।।
महाबलो महावीर्यस्तनयस्ते भविष्यति ।।
तव स्तुत्या प्रसन्नाहं दास्यामि विविधं फलम्।।१२।।
इति श्रुत्वा स नृपतिः स्वगेहं प्राप्य निर्भयः ।।
राज्ञ्यै निवेदयामास देवीवचनमुत्तमम्।।१३।।
ततः प्रभृति राजेन्द्र मूर्तौ जाता स्वयं किल।।
एकस्मिन्दिवसे राजन्रजकः कलिभोजनः।।१४।।
काशीदासेन सहितो ग्रामं धर्मपुरं गतः ।।
तत्र दृष्ट्वा शुभां कन्यां कामांगीं नाम विश्रुताम् ।। १५ ।।
पित्रान्वितां राजमार्गे गच्छंती श्रमपीडिताम् ।।
मुमोह कामवेगेन रजकः कलिभोजनः ।। १६ ।।
कामांधश्चंडिकां प्राह जगन्मातः सनातनि ।।
यदि मे भविता सुभ्रूस्तर्हि दास्यामि ते शिरः ।। १७ ।।
जातियोग्या ममैवास्ति रजकस्य सुता शुभा ।।
इति श्रुत्वा तु सा देवी वचनं रजकस्य वै ।। १८ ।।
मोहयित्वा च पितरं तस्याः पाणिग्रहः कृतः ।।
स सुतां कामिनीं प्राप्य प्रसन्नात्मा गृहं ययौ ।। १९ ।।
भुक्त्वा स विविधं भोगं तया सार्द्धं सुखप्रदम् ।।
वर्षांतरे शिरो देव्यै गत्वा शीघ्रं समार्पयत् ।। 3.2.6.२० ।।
काशिदासस्तु तच्छ्रुत्वा स्नेहेन त्वरितोऽगमत् ।।
स्वशिरो दत्तवान्देव्यै कामांगी पतिशोकतः।। २१ ।।
अर्पयित्वा शिरो देव्यै देवीरूपत्वमागता ।।
तदा प्रसन्ना सा चण्डी त्रीनुज्जीव्याब्रवीच्च तान् ।। २२ ।।
वरं वरयतामद्य यो यः कामो ह्यभीप्सितः ।।
काशिदासस्तु तां प्राह कामांगीं मां समर्पय।।२३।।
कामांगी सा तु तां प्राह स्वपतिं मां समर्पय।।
कलिभोजन एवासौ देवीं प्राह प्रसन्नधीः।।२४।।
मित्रांगं सुन्दरं मह्यं देहि मातर्नमोनमः ।।
तेषां वाचस्तदा श्रुत्वा सा दुर्गा मौनमास्थिता ।।
यथाकामं दत्तवती वरं दारसुरूपिणी ।। ।। २५ ।।
।। सूत उवाच ।। ।।
इत्युक्त्वा स तु वैतालो नृपं प्राह विहस्य भोः ।। २६ ।।
किं कृतं च तया देव्या तेषामर्थे वदस्व मे ।।
इत्युक्तः स तु भूपालो वैतालमिदमब्रवीत् ।। २७ ।।
कपालमुत्तमं देहे तया च्छिन्नं द्वयोस्तदा ।।
विपरीतं कृतं मात्रा वरं स्वंस्वं समाप्नुयुः ।। २८ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये षष्ठोऽध्यायः ।। ६ ।।

तुलनीय - वेतालपञ्चविंशति