भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
इति श्रुत्वा स वैतालो राजानमिदमब्रवीत् ।।
काचिद्भोगावती नाम्ना नगरी परमाद्भुता ।।१।।
रूपवर्मा च नृपतिस्तत्र राज्यं करोति वै ।।
चूडामणिरिति ख्यातः शुको बुद्धिविशारदः ।।२।।
तस्य भूपस्य गेहे च निवसनञ्च्छुभपंजरे ।।
कदाचिद्रूपवर्मा च त्रिंशदब्द उरूर्जितः ।। ३ ।।
पप्रच्छ मम योग्या वै शुक काचिद्वरांगना ।।
चेदस्ति तर्हि मे ब्रूहि श्रुत्वा तं चाब्रवीच्छुकः ।। ४ ।।
मगधेश्वरभूपस्य कन्या चन्द्रवती शुभा ।।
तव योग्या हि भो राजन्सांप्रतं तां गृहाण वै ।। ५ ।।
इति श्रुत्वा स नृपतिर्गणेशं द्विजसत्तमम् ।।
प्रेषयित्वा ददौ द्रव्यं यथोद्वाह्या तथा कुरु ।। ६ ।।
गणेशोपि गतस्तूर्णं देशे मागधके शुभे ।।
महादेवं च संपूज्य चकार स्तवनं मुदा ।। ७ ।।
नमः शिवाय शांताय सर्वाभीष्टप्रदायिने ।।
भवाय शंकरायैव रुद्राय सततं नमः ।। ८ ।।
मृडायानंदरूपाय सर्वदुःखहराय च ।। ९ ।।
इत्युक्तवति विप्रे च तदा चन्द्रवती शुभा ।।
कामातुराब्रवीच्चैनां नाम्ना मदनमञ्जरीम् ।। 3.2.4.१० ।।
मम योग्यश्च पुरुषः कश्चिदस्ति महीतले ।।
साह भो रूपवर्मा च योग्यो भोगापुरीपतिः ।। ११ ।।
इति श्रुत्वा तु सा देवी दुर्गां वाञ्छितदायिनीम् ।।
तुष्टाव मनसा सुभ्रूर्यया जातमिदं जगत् ।। १२ ।।
नमोनमो जगन्मातर्मम कार्यप्रदायिनि ।।
त्रिलिंगजननी त्वं वै वर्णमूर्तिः सनातनी ।।१३।।
त्वं स्वाहा त्वं स्वधा संध्या नमस्तस्यै नमोनमः ।।
नृपतिं रूपवर्माणं मत्पतिं कुरु भोः शिवे।।१४।।
इति स्तुत्या प्रसन्नाभूज्जगदंबा जगन्मयी।।
पितरं मगधेशं च मोहयित्वा च मातरम् ।।१५।।
विवाहं कारयामास मासान्ते सिद्धरूपिणी ।।
रूपवर्मा चंद्रवती बुभुजाते परं सुखम् ।।१६।।
एकस्मिन्दिवसे राजन्मेनां मदनमंजरीम्।।
नृपः प्राह विवाहं त्वं सुशुकेन कुरुष्व भोः ।। ।।१७।।
मेनका प्राह भो राजन्विवाहाश्चेदृशो मताः ।।
उत्तमाधममध्याश्च पुरुषास्त्रिविधाः स्मृताः।।१८।।
तथैव त्रिविधा नारी यथा योग्यो वरो भवेत्।।
उत्तमा यो भवेन्नारी योग्याया चाधमाय वै ।।१९।।
शृणु तत्कारणं राजन्मया दृष्टं यथाऽभवत् ।।
इलापुरे वसत्येको वैश्यो लक्षपतिर्धनी।। 3.2.4.२० ।।
अनपत्यो देवयाजी तस्य पत्नी पतिव्रता ।।
बहुयत्नेन तनयस्तस्य जातो महाधमः ।। २१ ।।
द्यूतक्रीडापरो नित्यं सुरापाने रतस्सदा ।।
वेश्यागामी महाधूर्तो नित्यं मांसाशनः खलः ।। २२ ।।
तस्य धर्मं च पितरौ समालोक्य वनं गतौ ।।
नरं नारायणं ध्यात्वा परमं पदमापतुः ।। २३ ।।
मदपालस्तु तनयः कृत्वा सर्वधनव्ययम् ।।
अन्यदेशे च वृत्त्यर्थं जगाम धनवर्जितः ।।२४।।
प्राप्तश्चंद्रपुरे रम्ये यत्र हेमपतिः स्थितः।।
वृत्तांतं कथयामास वैश्यं हेमपतिं हि सः ।। २५ ।।
देवयाजी सुतोऽहं वै स्वल्पं वै धनमाहृतम् ।।
देशान्तरे विक्रयार्थे सिन्धुमार्गेण प्राप्तवान् ।। २६ ।।
महावायु प्रभावेन द्रव्यं तन्मग्नमंभसि ।।
तल्लज्जया न यास्येऽहं पितरं प्रति मारिष ।। २७ ।।
इति श्रुत्वा हेमपतिः स्वपत्नीं काममंजरीम् ।।
वचः प्राह प्रसन्नात्मा संयोगो विधिना कृतः ।। २८ ।।
चंद्रकांतिं सुतां दास्ये तद्वराय त्वदाज्ञया ।।
संमंत्र्य दंपती राजन्ददौ कन्यां विधानतः ।। २९ ।।
स्वगृहे वासयामास मदपालं सुतापतिम् ।।
मासमेकमुषित्वा तं श्वशुरं प्राह नम्रधीः ।। 3.2.4.३० ।।
आज्ञां देहि धनाध्यक्ष स्वगेहं यामि मा चिरम् ।।
इति श्रुत्वा हेमपतिः स्वसुतां स्वर्णभूषिताम् ।।३१।।
चंद्रकांतिं सदासीं च तस्मै दत्त्वा गृहं ययौ ।।
नरान्विसृज्य दुष्टात्मा शिबिकावाहकान्नृप ।।। ।। ३२ ।।
दासीं हत्वा तदा पत्नीं विसृज्य धनवर्जिताम् ।।
एकाकी प्राप्तवान्गेहं मदपालो महाधमः ।। ३३ ।।
वर्षांतरे च तत्स्वर्णं व्ययं कृत्वा कुमार्गके ।।
बुभुक्षितः पुनः शोकं चकार बहुधा नृप ।। ३४ ।।
पुनश्च श्वशुरस्यैव गृहे संप्राप्तवान्खलः ।।
चंद्रकांतिस्तु तं दृष्ट्वा स्वपतिं प्राह नम्रधीः ।। ३५ ।।
मया निवेदितं पित्रे धनं चौरैश्च लुंठितम् ।।
अतस्त्वं त्यज संतापं चिरं वस गृहे मम ।। ३६ ।।
तथेत्युक्त्वा महाधूर्त उवास कतिचिद्दिनम् ।।
ज्ञात्वा विमोहिता पत्नीमर्द्धरात्रे तमोवृते ।। ३७ ।।
हत्वा तां स ययौ गेहं गृहीत्वा बहुभूषणम् ।।
अयोग्योयमतो राजन्विवाहः शुकमेनयोः ।। ३८ ।।
इति श्रुत्वा शुकः प्राह भूपतिं करुणानिधिम् ।।
विवाहं न करिष्यामि नार्य्या चाधमया सह ।। ३९ ।।
अधमा मेनका नारी श्यामांगा च कुरूपिणी ।।
उत्तमोऽहं शुको राजन्पुरुषश्च हरेत्तनुम् ।। 3.2.4.४० ।।
शृणु तत्कारणं भूप मया दृष्टं महोत्तमम् ।।
नगरे कांचनपुरे वणिक्छंखपतिः श्रुतः ।। ४१ ।।
तस्य पुत्रस्तु मेधावी सिन्धुगुप्तो गुणी धनी ।।
प्रभावती प्रिया तस्य श्रीदत्तस्तत्सुतः स्मृतः ।। ४२ ।।
विवाहमकरोत्तस्य जयश्रीपत्तने शुभे ।।
सोमदत्तस्य सुतया जयलक्ष्म्या समन्वितम् ।। ४३ ।।
श्रीदत्तस्तु गतो देशं वाणिज्यार्थं कुरुस्थलम् ।।
आयाति द्वादशाब्दे तु सधनो गेहमागतः ।। ४४ ।।
जयलक्ष्मीस्तु कामेन पीडिता पितृमंदिरे ।।
अमात्यतनयेनैव होमदत्तेन मोहिता ।। ४५ ।।
दूती मार्गेण तं प्राप्य व्ययं कृत्वा धनं बहु ।।
रमयामास सा नारी तेन सार्द्धं महाधमा ।। ४६ ।।
त्रिमासान्ते च तत्स्वामी श्रीदत्तः श्वशुरालये ।।
संप्राप्तः सा तु तं दृष्ट्वा महद्दुःखमुपाययौ ।। ४७ ।।
अर्धरात्रे तु तन्मात्रा प्रेषिता स्वपतिं प्रति ।।
जयलक्ष्मीश्च संप्राप्ता क्रोधेन स्फुरिताधरा।।४८।।
बहुमानेन स्वपतिस्नेहं कृत्वालयं ययौ ।।
तदा तु कुलटा सा च गता दूतीगृहं प्रति ।। ४९ ।।
शून्यालये होमदत्तो दंशितो भुजगेन वै ।।
सुष्वाप मरणं प्राप्य तदा बाला समागता ।। 3.2.4.५० ।।
वेगेन रमयामास तं जारं विषमोहितम् ।।
पिप्पलस्थः पिशाचश्च दृष्ट्वा तां जारिणीं शुभाम् ।। ५१ ।।
शवदेहं च संप्राप्य रमणीं तामरीरमत् ।।
खनित्वा दशनैर्नासां पिप्पलोपरि सोऽगमत् ।। ५२ ।।
कफल्लो नाम चौरस्तु दृष्ट्वा तत्कारणं तदा ।।
कामिन्या अनुगो भूत्वा मंदिरं तत्प्रविष्टवान् ।। ५३ ।।
तदा तु जयलक्ष्मीश्च स्वपतिं प्राप्य दुर्भगा ।।
चक्रे सा रोदनं गाढं सर्वे लोकाः प्रत स्थिरे ।। ५४ ।।
नासाहीनां सुतां दृष्ट्वा सोमदत्तो महाधनः ।।
बद्ध्वा जामातरं शीघ्रं राजांतिकमुपाययौ ।। ५५ ।।
नृपाज्ञया राजदूतास्तमुद्बंधनमादधुः ।।
तदा कफल्लः संप्राप्य सर्वं राज्ञे न्यवेदयत् ।। ५६ ।।
मत्वा तस्य वचः सत्यं जयलक्ष्मीं महाधमाम् ।।
रासभोपरि संस्थाप्य कृत्वा दुर्गतिरूपिणीम् ।। ५७ ।।
नगरात्प्रेषयामास वनं शार्दूलसेवितम् ।।
अतस्त्वं शृणु भूपाल मेना मद्योग्यिका न हि ।। ५८ ।।
इत्युक्त्वा स तु वैतालो विक्रमं प्राह नम्रधीः ।।
नारी पापाधिका वाथ पुरुषस्तद्वद्वस्व मे ।। ५९ ।।
।। विक्रम उवाच ।। ।।
ब्रह्मणोऽगुणरूपस्य मायावर्णस्व रूपिणी ।।
तमो न पुंसकं ज्ञेयं त्रिलिंगैकं तदव्ययम् ।। 3.2.4.६० ।।
अव्ययं ब्रह्मणो धाम माया लिंगस्वरूपिणी ।।
तया जातमिदं विश्वं तदंबायै नमोनमः ।। ६१ ।।
क्लीबा स्त्री सर्वदा श्रेष्ठा स्त्रियास्तु पुरुषस्तथा ।।
अव्याधिकश्च पुरुषो नारी कर्माधिका मता ।। ६२ ।।
क्लीबमज्ञानमधिकं कथितं पूर्वकोविदैः ।।
कर्मैव बन्धनं पुंसां ज्ञानं निर्बंधन स्मृतम् ।। ६३ ।।
अतः पापाधिका नारी पुरुषो हीनकिल्बिषः ।। ।। ६४ ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये चतुर्थोऽध्यायः ।। ४ ।।

तुलनीय - वेतालपंचविंशति

शुकोपरि टिप्पणी