भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः ०२
← अध्यायः ०१ | भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २ अध्यायः ०२ अज्ञातलेखकः |
अध्यायः ०३ → |
क्रौञ्चमानवर्णनम्
।। सूत उवाच ।।
क्रौञ्चमानं प्रवक्ष्यामि यथावेदार्थवादिनाम् ।।
संमतं सर्वतंत्रेषु गोपनीयं प्रयत्नतः ।। १ ।।
आत्मनोऽरत्निमानेन द्विगुणं परिकल्पयेत् ।।
मध्ये वृद्ध्या तु तत्सूत्रं भ्रामयेत्कीलकोपरि ।। २ ।।
चतुष्टयं न्यसेद्वृत्तं मध्यमाधमभावतः।।
कर्णिका प्रथमे वृत्ते द्वितीये त्वथ केशरम् ।। ३ ।।
तृतीये पद्मपत्राणि चतुर्थे षोडशच्छदाः ।।
शोभोपशोभे कुर्याच्च चतुरस्रे समे शुभे ।। ४ ।।
तद्दक्षिणाग्रं सुलिखेत्पार्श्वयोः पक्षकद्वयम् ।।
तत्र पद्मयुगं कुर्यान्मध्ये चांगुलमंतरम्।।५।।
शुक्लं पीतं तथा रक्तं कृष्णं लोहितसन्निभम् ।।
संख्यातं ताम्रपर्णं च श्यामलं चाष्टकं रजः ।। ६ ।।
शुक्लं तंडुलचूर्णोत्थं पीतं तु निशया स्मृतम् ।।
रक्तं तु निशया योगाच्छंखचूर्णादिभावितम् ।। ७ ।।
कृष्णं पुलकादिदग्धं रक्तं पीतास्ययोगतः ।।
कुंकुमाभं पांडुरं च रक्तश्वेतैर्विनिर्मितम् ।। ८ ।।
ताम्रवर्णं कुसुंभेन श्यामलं बिल्वपत्रजम् ।।
यवगोधूमचूर्णादियोगेन तु रजः स्मृतम् ।। ९ ।।
सर्वरेखासु विभजेच्छुक्लं मध्ये तु पीतकम् ।।
कर्णिकायां केशरेषु शुभ्रमेव निपातयेत् ।। 2.2.2.१० ।।
पूर्वादिक्रमयोगेन शुक्लादीनि प्रयोज येत् ।।
पत्रसंधौ तु विभजेद्रजः सेकांतरक्रमात् ।।११।।
ततः षोडशपत्रेषु पूर्वादिक्रमतो भवेत् ।।
शुक्लं पीतं तथा ताम्रं ततः संख्यातमेव च ।।१२।।
श्यामलं कुंकुमाभं च रक्तं शुक्लं च कृष्णकम् ।।
पीतं ताम्रं च संख्यातं श्यामं कुंकुमरक्तकम् ।। १३।।
एवं दद्याद्द्विजः पूर्वे ईशानांतं विभावयेत् ।।
क्रौंचमूर्घ्नि भवेद्रक्तं चतुरंगुलमानतः।।१४।।
तुंडभागे भवेत्पीतं ग्रीवायां शुक्लमेव च ।।
पुच्छे विंशतिपत्राणि आदौ पंच रजःक्रमात् ।।१५।।
षडंगुलेष्वंडभागे पीतेन परिकल्पयेत् ।।
ग्रीवायां शुक्लरजसा भावितायां विशेषतः ।।१६।।
तत्र पीतादिकं लेख्यं पूर्वोक्तं च यथा भवेत् ।।
शुक्लादिकं प्रदद्यानु पात्रेष्वेकैकशः पृथक् ।। १७ ।।
चतुरंगुलके पादे जानोरूर्ध्वे तु पीतकम् ।।
अधस्तात्तु भवेद्रक्तं तदेव चतुरंगुलम् ।।१८।।
द्व्यंगुलेन भवेच्छ्याममंगुलीष्वपि विन्यसेत् ।।
एवं पक्षद्वयेनापि लिखेच्छुक्लं विभावयेत् ।। १९ ।।
पदे शुद्धं चांगुलीषु रक्तं श्यामेन भावयेत् ।।
पूर्वपश्चिमदिग्भागे शुक्लं स्याद्वारदेशतः ।।2.2.2.२०।।
दक्षिणोत्तरतश्चैव रक्तवर्णं विनिर्दिशेत् ।।
महाक्रौंचमिदं ज्ञेयं मध्यक्रौचमिदं शृणु ।। २१ ।।
कनिष्ठं सर्वयज्ञेषु विद्यानां सप्तमुत्तमम् ।।
अथापरं प्रवक्ष्यामि सर्वतंत्रमतं क्रमात् ।। २२ ।।
रक्तपीतं रक्तपीतैः कुर्यात्पुच्छचतुष्टयम् ।।
पूर्वादिक्रमयोगे तु पत्रांते धरणीतले ।। ।।२३।।
सुलिखेन्मूलसंलग्नं बहिष्कोणचतुष्टयम् ।।
कनिष्ठेऽष्टकुलं कुर्यात्पुच्छं कुर्याच्चतुर्विधम् ।।२४।।
त्रिवृत्तं वेष्टयेत्पश्चात्सितरक्तासितैः क्रमात् ।।
दृष्टं जन्मशतोद्भूतं पापं नाशयते धुवम् ।।२५।।
पीतं वा विलिखेद्विप्रा नश्यंति सकलापदः।।
अतश्चक्रं बहिश्चक्रं क्षेत्रे च प्रतिदर्शनम् ।।२६।।
तस्य कल्पशतोद्भूतं पापं नाशयते धुवम् ।।
मयूरं वृषभं चैव सिंहं क्रौंचं च वै कपिम् ।।२७।।
प्रमादाद्वा गृहे क्षेत्रे वृक्षाग्रे चापि भो द्विजाः ।।
उत्थाय वंदनं कुर्याद्ब्रह्महत्याशतं दहेत् ।। २८ ।।
पोषणात्कीर्तिमाप्नोति दर्शनात्पापविच्युतिः ।।
दर्शनाद्वर्धते लक्ष्मीरायुर्वृद्धिश्च जायते ।। २९ ।।
मयूरो ब्रह्मणो मूर्तिर्वृषभश्च सदाशिवः।। .
सिंहे च संभवेद्दुर्गा वैष्णवो विधिरुच्यते ।।2.2.2.३०।।
क्रौंचो नारायणो देवो व्याघ्रस्त्रिपुरसुंदरी ।।
कालिका कृष्णव्याघ्रश्च लक्ष्मीश्चित्रकपोतकः ।।३१।।
स्नातः पश्यति प्रत्यह्नि ग्रहदोषो न जायते ।।
तस्मात्प्रयत्नतो भूत्वा धारयेत्पोषयेद्गृहे ।। ३२ ।।
अतः परं प्रवक्ष्यामि मंडले मंडलेष्वपि ।।
रजोद्रव्यप्रमाणं च यथोक्तं यत्नवर्जनम् ।। ३३ ।।
तंडुलोत्थं यवोत्थं वा वर्ज्यं मकररोपणम् ।।
यद्बाल्यश्रावणे जातं हिंगुलं गंधकं तथा ।।३४।।
हरितालं सुभद्रं च सदा विघ्नं विवर्जयेत् ।।
हैमंतिकोद्भवं यच्च सितपाषाणमेव च ।।३५।।
कांचन्याश्च प्रभेदं यच्छस्तं शुक्लगुणं द्विजाः ।।
शेफालिवृत्तं निशया अतसीकुसुमानि च ।।३६।।
किंशुकस्य च पुष्पाणि शस्तं पीतं गुणं भवेत् ।।
नागजं गैरिकं चैव कुसुंभ कुसुमानि च ।।३७।।
कुशीतं गुडकं चैव मंजिष्ठां पंचरंगकम् ।।
विजयापत्रकं चैव बिल्वपत्रं तथैव च।।३८।।
पुनर्नवायाः पत्रं च केशरस्य बकस्य च।।
कृष्णपाषाणकं चैव कृष्णाभ्रं समयूथकम्।।३९।।
नागपाषाणकं चैव पुन्नागं दग्धपंचकम् ।।
शंखचूर्णं लोहविष्ठां नागविष्ठां च वर्जयेत्।।2.2.2.४०।।
कर्पूरं कुंकुमं चैव रोचनारोचनां श्रयेत् ।।
यवशालीयकैर्भिन्नं शुक्लं च कारयेत्सुधीः ।।४१।।
लाक्षां च यदि गृह्णीयात्तद्भर्जित्वा प्रदापयेत् ।।
आकाशं पृथिवीं चैव भौमं रामं तथा शनी ।।४२।।
धरणीं सदनस्थाने पञ्चधा विभजेद्बहिः ।।
पद्ममुल्लिख्य प्रथमं कर्णिकां तदनन्तरम् ।।४३।।
तर्जन्यमध्या पूर्वोत्थं विभजेद्वा समाहितः ।।
तर्जन्यंगुष्ठयोगैर्वा तृणमारभ्य यद्भवेत् ।। ४४ ।।
तृणमारभ्य सामान्ये शक्तो वा मध्यमादितः ।।
राक्षसादिप्रतिष्ठायां ग्रहपक्षेऽग्निमादितः ।। ४५ ।।
अंगुल्यग्रे च विभजेत्सर्वकामार्थसिद्धये ।।
प्रतिष्ठायां ग्रहमखे काम्येषु परिवर्जयेत् ।। ४६ ।।
सुभद्रं मण्डलं वक्ष्ये शुभदं शुभमादिशेत् ।।
अतः सुभद्रमुद्दिष्टं स्वर्गमोक्षप्रदायकम् ।। ४७ ।।
सार्धहस्तेन मानेन कुर्यान्मंण्डलमुत्तमम् ।।
चतुर्विशांगुलैः पूर्णं सर्वत्र हस्तमादिशेत् ।। ४८ ।।
कर्तुर्मध्यसहस्रस्य मध्यमा मध्यपर्वणि ।।
मध्यमा दीर्घमानेन मानांगुलमिति स्मृतम् ।। ४९ ।।
रेखाद्वयांतरं यच्च मूलरेखां न चाश्रयेत् ।।
वद्धांगुष्ठनखद्वंद्वं मानांगुलमथापि वा ।।2.2.2.५०।।
मध्ये निबध्य शंकुं च मुष्टिबाहुप्रमाणतः ।।
त्रिवृत्तं कारयेन्मध्ये ज्येष्ठोत्तरकनीयसम् ।। ५१ ।।
प्रकल्प्य कर्णिकादीनि मध्ये चाष्टदलं लिखेत् ।।
बहिश्चार्कदलं कुर्याद्वर्णानां क्रमकेण तु ।।५२।।
पंचमं श्वेतवर्णेन बहिः कुर्यात्त्रिवेष्टनम् ।।
सितपीतारुणं कुर्यात्पश्चाद्वेदांगुलांतरे ।। ५३ ।।
वेष्टयेच्छुक्लवर्णेन मध्ये कल्पलतां लिखेत् ।।
सुभद्रं मण्डलात्पूर्वं सर्वतोभद्रकं शृणु ।। ।। ५४ ।।
सर्वकार्येषु यज्ञेषु सर्वकल्याणमाप्नुयात् ।।
मंडलं सर्वतोभद्रं सर्वयज्ञेषु पुष्टिदम् ।। ५५ ।।
साधकानां हितार्थाय ईश्वरेणैव भाषितम् ।।
चतुर्विंशत्यंगुलेन हस्तः प्रथमतो भवेत् ।। ५६ ।।
कोणे सूत्रद्वयं दद्यान्मध्ये सूत्रद्वयं पुनः ।।
ततो मत्स्यान्विरचयेत्कर्णे सूत्राणि साधकः ।।५७।।
चतुः सूत्रं पातयेच्च पूर्वापरविभागतः ।।
पुनर्दद्याच्चतुःसूत्रं कर्णसूत्रं पुनर्ददेत् ।। ५८ ।।
शतद्वयपदं यावत्षट्पंचाशाधिकं तथा ।।
पातयेच्च तथा सूत्रमेवं सप्तदशं भवेत् ।। ५९ ।।
ऊर्ध्वपंक्त्या पदयुगं चाद्ये पदचतुष्टयम् ।।
द्वारपार्श्वे भवेद्यावद्दंतपंक्त्या पदत्रयम् ।। 2.2.2.६० ।।
रेखां सर्वत्र शुक्लेन रचयेद्यज्ञियोत्तमः ।।
पङ्कजं शुक्लवर्णेन वैष्णवो यागकर्मणि ।। ६१ ।।
शक्तियोगे भवेद्रक्तं शैवे पीतं विनिर्दिशेत् ।।
प्रतिष्ठासु च सर्वासु शुक्लमेव प्रशस्यते ।। ६२ ।।
पीतेन कर्णिका कार्या चतुर्भागेन मानतः ।।
शुभं चकोरावस्थाने तापयित्वा विचक्षणः ।। ६३ ।।
कर्णिकामूलमारभ्य रेखाः षोडश कल्पयेत् ।।
रेखामूले भवेच्छुक्लं मध्ये रक्तं निपातयेत् ।। ६४ ।।
अग्रे पीतं भवेदेवं कृत्वा पंकजवेष्टनम् ।।
शुभ्रवर्णेन तद्दद्यात्पीतवर्णेन सर्वतः ।। ६५ ।।
मध्ये रक्तं भवेत्तच्च एवं षोडशकल्पयेत् ।।
कोणेषु रक्तं दद्याच्च पद्मं क्षेत्रेषु निर्दिशेत् ।। ६६ ।।
शुक्लेन पीठगात्राणि पीठकोणे पदत्रये ।।
पीतवर्णेन रचयेद्द्विधा पंक्तिद्वये तथा ।। ६७ ।।
शुद्धेन रचयेत्पादौ पुनः पीतादिवर्णकैः।।
चित्रं सुशोभनं कार्यं तत्र कल्पलतां न्यसेत् ।। ।।६८।।
मानं कल्पलतायास्तु द्व्यङ्गुलं परिकीर्तितम् ।।
द्वेद्वे शस्तं च भ्रमणं शंखावर्तक्रमात्त्रयम् ।।६९।।
ग्रंथौग्रंथौ पुष्पफले नानावर्णेन भावयेत् ।।
नानापशुगणैर्युक्तं नानापक्षिगणैर्युतम् ।। 2.2.2.७० ।।
वैष्णवे गारुडं शस्तं शैवे कीशवृषं लिखेत् ।।
शाक्ते व्याघ्रं तथैशे च शरभं हरिमालिखेत् ।।७१।।
शोभां पीतेन रचयेदुपशोभां च पीतकैः ।।
कोणेषु कृष्णवर्णेन बहिः स्याद्वेष्टनत्रयम् ।। ७२ ।।
शुक्लपीतारुणैः कार्यं मण्डलं स्यान्मनोरमम् ।।
सर्वतोभद्रमपरं सर्वसिद्धिप्रदायकम् ।। ७३ ।।
सर्वज्ञानमयं शुद्धं धर्मकामार्थदायकम् ।।
चतुरस्रं समं कृत्वा दिग्भ्यो द्वादशधा द्विजाः ।। ७४ ।।
पातयेत्तत्र सूत्राणि कोष्ठानां दृश्यते शतम् ।।
चतुश्चत्वारिंशदाद्यं पश्चात्षट्त्रिंशदंबुजम् ।। ७५ ।।
कोष्ठं प्रकल्पयेत्पीठं पंक्त्या चैवात्र वीथिकाम् ।।
द्वारशोभे यथापूर्वमुपशोभं च दृश्यते ।। ७६ ।।
अवशिष्टैः पदैः कुर्यात्सद्भिस्तंत्राणि मन्त्रवित् ।।
विदध्यात्पूर्ववच्छेषमेवं वा मण्डलं भवेत् ।। ७७।।
पूर्वोक्तमण्डले विद्वन्धरणीसदनं बहिः ।।
मध्ये कल्पलता कार्या बहिष्कोणेषु सत्तमाः ।। ७८ ।।
गुलालीतूर्यवर्णेन महामत्त इति स्मृतः ।।
शोभोपशोभे शोभाग्रां कुर्याद्वै मण्डलं भवेत् ।। ७९ ।।
एतद्धि सर्वतोभद्रं राशियुक्तमतः परम् ।।
शतपत्रं वज्रनाभं बिंबनाभं सहस्रकम् ।। 2.2.2.८० ।।
गजाह्वं च गजाकारं मध्ये तु समलङ्कृतम् ।।
चतुश्चन्द्रे चन्द्रबिम्बश्चन्द्रकांतमुदाहृतम् ।। ८१ ।।
बहिर्द्वादशभिः सूर्यैः सूर्याक्रांतं प्रकीर्तितम् ।।
शेखरी त्रिपुटं चैव शतपत्रं च प्रक्रमात् ।। ८२ ।।
सहस्रमेव विप्रेन्द्राः पद्मान्ते यस्य स्वस्तिकम् ।।
स्वस्तिकं तद्भवेद्विप्राः पुष्करं वज्रसंमतम् ।। ८३ ।।
चिन्तामणिं कुंकुमांशं खातं च हरिवल्लभम् ।।
पञ्चसिंहासनस्थं च पञ्चसिंहासनं विदुः ।। ८४ ।।
तद्वद्वृषासनं ज्ञेयं शिखिरूपं शिखिध्वजम् ।।
नारसिंहं पद्मगर्भं कपोतास्यं तथा भवेत् ।। ८५ ।।
गारुडं मेरुगर्भं च नीलकण्ठं नराकृतिम् ।।
शतक्रतुगजारूढं श्रीबिंबनवसूत्रकम् ।। ८६ ।।
अष्टास्रमष्टकोणाद्यं बहिः पद्मवनं कृतम् ।।
कामद्वयेन पुटितं सहस्रं पद्मवेष्टितम् ।। ८७ ।।
त्र्यस्रगर्भं पङ्कजं च त्र्यस्रं तत्परिकीर्तितम् ।।
अष्ट पत्राणि वै मेरुं सुमेरुं तद्विपर्यये ।। ८८ ।।
महामहामेरुपृष्ठं शतत्रयच्छदैर्वृतम् ।।
छिद्रव्यक्तिं प्रवक्ष्यामि यथा मानेन भो द्विजाः ।। ८९ ।।
वसु ८ दिग् १० विंशकैश्चैव २० चत्वारिंशत् ४० शतार्धकम् ५० ।।
दंडिश्रवणसंपन्न ६० माकाशं वसुसंमितम् ।। 2.2.2.९० ।।
शतविंशाधिकं चैव १२० दलानि तदनन्तरम् ।।
शुक्लरक्तं चाष्टवणैर्बिंबोष्ठं परिपूरयेत् ।। ९१ ।।
शुक्लेन पङ्कजं तत्र पश्चात्कुर्यात्त्रिवेष्टनम् ।।
शतपत्रमथो वक्ष्ये बिम्बराजेति कथ्यते ।। ९२ ।।
स्थंडिले कुशहस्ते च पूर्ववद्वेष्टयेत्क्रमात् ।।
वसु ८ पञ्चकला १६ पञ्चविंशकं २५ तन्नपत्रकात् ।। ९३ ।।
चत्वारिंशत्ततः पश्चा ४० दष्टोत्तरशतं १०८ भवेत् ।।
शुक्लं शोणं तथा पीतं श्यामशुक्लैरनंतरम् ।। ९४ ।।
विलोमे दलसन्धीनि शाक्ते शैवे तु षट्पुरम् ।।
वेष्टयेत्पंचवर्णेन शुक्लादीनि समंततः ।। ९५ ।।
रक्तपीतैः समास्तीर्य कोणाञ्छुक्लेन पूरयेत् ।।
स्थंडिले तारहस्तेन अष्टहस्तं प्रकल्पयेत् ।। ९६ ।।
मंडलं बिंबराजस्य अष्टोत्तरदलैर्वृतम् ।।
वसुपञ्चशक्तिविंशच्चत्वारिंशच्छतार्द्धकम् ।। ९७ ।।
त्र्यृतुपत्रं सुवृत्तं स्याद्वृत्तयुक्तं सबिल्वकम् ।।
चत्वारिंशद्द्वयं चैव गगनेन समावृतम् ।। ९८ ।।
शतं विंशाधिकशतं द्विशतं विंशमुत्तमम् ।।
वेष्टनांसे च त्रिशतं प्रक्रमादथ वर्धयेत् ।। ९९ ।।
लवल्याभमथो वक्ष्ये सार्द्धहस्तप्रमाणतः ।।
नवविंशं कल्पयेत्तु चतुःसूत्राणि पातयेत् ।। 2.2.2.१०० ।।
दक्षिणोत्तरतश्चैव तद्वदेव विजानीहि ।।
पीतेन रेतपुःटिता मध्ये शुक्लं विभाव्यते ।। १०१ ।।
ग्रहपक्षेन्नपीतेन मध्ये रक्तं प्रतिष्ठितम् ।।
सर्वा रेखाश्च शुक्लेन पौष्टिके पीतमादिशेत् ।। १०२ ।।
सशांतिके न योक्तव्यं कामे रक्तं विनिर्दिशेत् ।।
मध्ये तु पङ्कजं रक्तं युग्मे सोमस्य पङ्कजम् ।। १०३ ।।
शुक्लवर्णेन तत्कुर्यात्पीतवर्णमुदस्य च ।।
ऐशान्यां चोत्तरे भागे गुरोः पीतं तु पङ्कजम् ।। १०४ ।।
पूर्वस्यां दिशि शुक्रस्य पङ्कजं शुभ्रवर्णकम् ।।
वारुणे तु शनैः कृष्णं नैर्ऋत्यां धूम्रवर्णकम् ।। १०५ ।।
राहोः प्रकल्पयेत्तच्च केतोरपि नियोजयेत् ।।
वायव्यां दिशि संयोज्य पङ्कजं विलिखेत्ततः ।। ।। १०६ ।।
विलोमे दलसन्धीनि पूरयत्सुविचक्षणः ।।
बहिः पञ्चरजैः कार्यं युवदुर्गविभूषितम् ।। १०७ ।।
पूर्वपश्चिमदिग्भागे शुक्लं स्याद्द्वारदेशतः ।।
दक्षिणोत्तरदिग्भागे रक्तमेव प्रशस्यते ।। १०८ ।।
त्रिस्थाने सममध्ये च द्वादशांगुलप्रक्रमात् ।।
द्विहस्तादावंगुलेन वर्द्धयेत्तद्विभागतः ।। ।। १०९ ।।
पञ्चाब्जमण्डलं ज्ञेयं चतुःस्वस्तिकभूषितम् ।। 2.2.2.११० ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे द्वितीयोऽध्यायः ।।२।।