भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः ०३
मूल्यकथनवर्णनम्
।। सूत उवाच ।। ।।
न कुर्याद्दक्षिणाहीनं मानहीनं न कारयेत् ।।
अमानेन हतो यज्ञस्तस्मान्मानं प्रशस्यते ।। १ ।।
यस्य यज्ञस्य यन्मानं तत्तु तेनैव योजयेत् ।।
अमानेन कृते सर्वे व्रजेयुर्नरकं पुनः ।। २ ।।
आचार्यहोतृब्रह्माणो विधिज्ञः सहकर्तृकः ।।
यस्य यज्ञे पापकश्च जातिहीनः प्रवेशयेत् ।। ३ ।।
अशीतिभिर्वराटैश्च पण इत्यभिधीयते ।।
तैस्तु षोडशभिर्ज्ञेयं पुराणं सप्तभिस्तु तैः ।। ४ ।।
राजतैश्चाष्टभिः स्वर्णं यज्ञादौ दक्षिणा स्मृता ।।
महारामे द्विसौवर्णं कूपे स्वर्णार्धमेव च ।। ५ ।।
तुलस्यामलकीयागे सुवर्णैकं प्रचक्षते ।।
यकृल्लोके च सौवर्णं लक्षे स्वर्णं चतुष्टयम् ।। ६ ।।
नवमे कोटिहोमे च देवतानां च स्थापने ।।
प्रासादस्य समुत्सर्गे अष्टादश सुवर्णकाः ।। ७ ।।
तडागे पुष्करिण्यां च अर्धार्धं परि कीर्तितम् ।।
महादाने च दीक्षायां वृषोत्सर्गे च सत्तमाः ।। ८ ।।
जीवतश्च वृषोत्सर्गे गयाश्राद्धे तथैव च ।।
अवित्तसाध्यमानेन यज्ञं कुर्यात्कलौयुगे ।। ९ ।।
दंपत्योश्च वृषोत्सर्गे मानमेकमुदाहृतम् ।।
बहुभिः कियमाणोपि याग एको महोत्तमैः ।। 2.2.3.१० ।।
राज्ञः करग्रहे चैव दीक्षायां दान कर्मणि ।।
अशीतिरत्तिकं स्वर्णं श्रवणे भारतस्य च ।। ११ ।।
ग्रहयागे प्रतिष्ठायां सुवर्णशतरत्तिकः ।।
लक्षहोमे चायुते च कोट्यामेव विधीयते ।। ।। १२ ।।
देवानां ब्राह्मणानां च दानं यस्य प्रकल्पितम् ।।
तस्यैव देयं तद्दानं सांगोपांगं सदक्षिणम् ।। १३ ।।
नानास्य किञ्चिद्दातव्यं संगभंगो भवेद्यतः ।।
गृही तु कृत्वा यद्दानं तदा तस्य ऋणी भवेत् ।। १४ ।।
यज्ञेषु होमे यद्द्रव्यं काष्ठमाज्यादिकं च यत् ।।
तन्नायकस्य पूजायां द्रव्यमाहुर्विनिर्मितम् ।। १५ ।।
अनादिदेवतार्चायां पूजास्नानादिकर्मणि ।।
यस्यार्हणादिकं द्रव्यं तस्य देवस्य तद्भवेत् ।। १६ ।।
प्रत्यक्षं दक्षिणां दद्याद्यज्ञदानव्रतादिके ।।
अदक्षिणं नैव कार्यं प्रकुर्याद्भूरिदक्षिणम् ।। १७ ।।
अतो दत्तं पुरा दत्तं दातव्यं चैव संप्रति ।।
परस्वोदारबुद्धीनां सा सा हि दक्षिणा भवेत् ।। १८ ।।
दत्तानि विधिवत्पुंसां देवदानानि यानि हि ।।
दासीदासगवादीनि मनसा यानि कर्हि चित् ।। १९ ।।
दातव्यान्यपि तान्येव कारयेत्परिवर्त्तनम् ।।
एकस्यानेकदानं च ददेत्कश्चित्पृथक्पृथक् ।। 2.2.3.२० ।।
वरणं च कदा कुर्यात्तन्त्रे कुर्याच्च दक्षिणाम् ।।
रत्नस्य दक्षिणा देया कांचनं समुदाहृतम् ।। २१ ।।
कांचनस्य भवेद्रौप्यं रौप्ये कांचनमुद्विशेत् ।।
भूमेर्भूमिर्दक्षिणा स्याद्वस्त्रस्य वस्त्रदक्षिणा ।। २२ ।।
पानीयस्य तु पानीयं व्रीहीणां व्रीहिदक्षिणा ।।
गजस्य दक्षिणा छागो ह्यश्वस्य मेष ईरितः ।। ।।२३।।
पशूनां च चतुष्पादा देवस्य देवदक्षिणा ।।
यज्ञो मानस्य षड्भागो द्विगुणः परिकीर्तितः ।। २४ ।।
आचार्यस्यैव भागैकं यजमानः प्रदास्यति ।।
पापकैस्तु कलत्राणां भागैकं तदनंतरम् ।। २५ ।।
पात्राणामृत्विगादीनां भागत्रयमुदाहृतम् ।।
सर्वसत्त्वस्य भागैकं स्वल्पं चेच्छिष्टगौरवात् ।।२६।ः
आचार्याद्यंशतः कश्चित्क्षीणवित्तं समाहरेत् ।।
अमूल्यं वर्गमूल्यं यद्भवेद्वै दक्षिणोत्तमा ।। २७ ।।
मानाशक्तौ तु यज्ञानां यद्देयं यज्ञसिद्धये ।।
देवता पुस्तकं रत्नं गावो धान्यं तिलास्तथा ।।२८।।
नमेरुफलपुष्पाणि देयान्येतानि सर्वतः ।।
चतुश्चक्रांकितो यस्तु सांद्रो वृत्तो जनार्दनः ।।२९।।
देवताप्रतिमाद्यं च शिरोनाभिस्तथैव च ।।
श्वेतलिंगं रत्नलिंगमिन्द्रनीलादिकं च यत् ।।2.2.3.३०।।
दक्षिणावर्तशंखं च हरिवंशस्तथा खिलः ।।
कपिलो नीलवृषभः सोमधान्यं तथैव च ।। ३१ ।।
अमूल्यान्याहुरेतानि दत्त्वानन्तफलानि च ।।
स्वर्णपादो भवेन्मूल्यं शालग्रामस्य दक्षिणा ।। ३२ ।।
क्षुद्रलिंगे स्वर्णमूल्यं पादार्धं श्रीधरेपि च ।।
अनन्तोनन्तमित्युक्तं पादार्धं बाणलिङ्गके ।। ३३ ।।
यथा पुस्तकमात्रेण स्वर्ण पादार्धमिष्यते ।।
ज्योतिषेर्धं सुवर्णस्य रजतार्धं वृषे तथा ।। ३४ ।।
हरिवंशे श्लोकशते स्वर्णमेकं प्रकीर्तितम् ।।
धर्मशास्त्रस्य साहस्रे रजतत्रयमीरितम्।। ३५ ।।
कपिलायां सुवर्णार्धं धेनुमात्रे पुराणकम् ।।
प्रायश्चित्तविधौ ज्ञेयं धेनुमात्रं पुराणकम् ।। ३६ ।।
पुराणत्रितयं चान्ये वीर्यहीने द्वयं भवेत् ।।
कृष्णे वृषे षट्पुराणं श्वेते नवपुराणकम् ।।३७।।
द्वात्रिंशच्च पुराणं स्याद्वृषे नीले तथैव च ।।
नमेरोः प्रतिचक्रे च द्वादश स्वर्णरत्तिकाः ।। ।। ३८ ।।
मूल्यं श्रीफलमात्रेऽपि पुराणत्रितयं भवेत् ।।
पङ्क्त्यापि तुर्यकं विवात्कलौ पणव्यवस्थया ।। ३९ ।।
धात्रीफलस्य प्रत्येकं भवेद्रजतमा षकम् ।।
एतान्याहुः प्रशस्तानि मूलयोगे परं विदुः ।। 2.2.3.४० ।। ।।
इति श्रीभविष्पे महापुराणे मध्यमपर्वणि द्वितीयभागे मूल्यकथने तृतीयोऽ ध्यायः ।। ३ ।।